Content

Audio
सोऽधिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।

न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वत: ।।1.1.78।।

Translation

अमेयात्मा possessing boundless intellect, स: he (Hanuman), महात्मानम् highly courageous, रामम् Rama, अधिगम्य having reached, प्रदक्षिणम् circumambulation, कृत्वा having made, दृष्टा seen, सीता Sita, इति in this manner, तत्त्वत: truthfully, न्यवेदयत् informed.

Reaching Rama the great Hanuman gifted with boundless intellect circumambulated him and infact informed him that he had seen Sita.
Sanskrit Commentary by Amruta Kataka
। । श्रीः ।।

।। श्रीरामचन्द्रपरब्रह्मणे नमः ।।

श्रीमद्वाल्मीकिरामायणम्

श्रीमन्माधवयोगिविरचितया

अमृतकतकाख्यव्याख्ययायुतम्

x

बालकाण्डः

प्रथमः सर्गः

 ।। 1.1.1 ।। तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।

नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ।। 1 ।।

अमृतकतकव्याख्या

कालहस्तीशमेकाम्रनाथं वेदगिरीश्वरम् ।

स्वमनःप्राणदेहान्तस्स्थितांस्त्रीन्ब्रह्मणो भजे ।।

हैरण्यगर्भं यत्तेजः श्रीप्रजेशावतारितम् ।

चतुर्मुखचतुर्व्यूहं त्रिपदार्थं सदा भजे ।।

अम्बात्र्यष्टाक्षरोल्लासत्र्यष्टश्लोकसहस्रकम् ।

महाषोढात्मकाण्डं यत् तद्रामायणमाद्रिये ।।

असङ्गतव्याकृतिपांसुपङ्किलं

रामायणं तीर्थसमुद्धृतामृतम् ।

योगीन्द्रवाणीकतकाद्विपङ्किलं

सर्वोपकारक्षममस्तु सर्वदा ।।

भो भोः किमिदं रामायणं व्याख्येयं? उत न? यदि प्रयोजनं व्याख्येयं यदि नो, न व्याख्येयम् । प्रयोजनमप्यैहिकमामुष्मिकं वा स्यात् । न तु कृषिवाणिज्यसेवादिना धनधान्यादिवदैहिकं किञ्चित्प्रयोजनं रामायणपाठात्पश्यामः । नाप्यामुष्मिकं निरयं निस्तितीर्षुः स्वरारुक्षुर्मुमुक्षुर्वा रामायणमाम्नेयात् इति श्रुतिस्स्मृतिर्वा न ह्यस्ति, पारलौकिके चार्थे त एव प्रमाणम् ।।

अपि च विशिष्यामुष्मिकश्रेयो ऽर्थिभिरिदमनादर्तव्यं काव्यत्वात् । "काव्यालापांश्च वर्जयेत्" इति स्मृतिघण्टाघोषः । काव्यता चास्याविवादा सर्वलोकस्य ।।

अत्रोच्यते-- यत्तावदवादि-- निष्प्रयोजनत्वतो न व्याख्येयमिति-- तदपेशलम् । एकभुक्तनियमेन गृहोचितब्रह्मचर्येण श्रवणकाले(षु) वीटीचर्वणासत्संभाषणसांसारिकव्यापारान्तरपरित्यागपूर्वं गन्धपुष्पादि पूजितरामायणार्थतत्त्वविन्निजाचार्यात्समग्रश्रद्धाभक्त्युपबृह्मिततया यथाविधि रामायणश्रवणतो मन्त्रायुर्वेदवदपरोक्षमेव सुपुत्रादिप्राप्तिमहारोगविमोचनादीष्टप्राप्त्यनिष्टपरिहारयोरतिप्रसिद्धत्वात् ।।

अपि च गृहक्षेत्रादिबलारोग्यादिबाह्यान्तरार्थसिद्धिद्वादशकोचितपल्लवैः तथा द्वेषभेदादिक्रियासिद्धिद्वाशकोचितपल्लवैश्च शास्त्रसिद्धैरुपेततया अम्बाया उपासने उक्तसिद्धीनां शास्त्रसिद्धत्वात् । अपरोक्षानुभवसिद्धत्वाच्च । अम्बाविलासभूतरामायणध्यानेनापि यथोक्तार्थसिद्धेर्न्यायप्राप्तत्वाच्च । कार्यभूतप्रकृतिरपि यथाकारणं यथाबलं तमोनिवृत्त्यादिप्रयोजनकरणम् ।।

यच्चावादि रामायणस्यामुष्मिकार्थसाधकत्वे प्रमाणाभाव इति-- तदप्यसुष्ठु । "इदं पवित्रं पापघ्नं" इत्यादि "जनश्च शूद्रो ऽपि महत्वमीयात्" इत्यन्तैः श्लोकैरामुष्मिकानिष्टपरिहारेष्टप्राप्तिप्रकाशनस्य यथोचितैहिकार्थसाधकत्वस्य च सुस्पष्टमत्रैव श्रूयमाणत्वात् । तथा "शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा" इति शतकोटिप्रविस्तरब्राह्मालौकिकमूलरामायणवचनतो ब्रह्मलोकावाप्तेरतिप्रकाशत्वात् । तथा ग्रन्थान्तरे च सकलैहिकामुष्मिकफलसाधकत्वस्मरणाच्च ।।

न च स्वस्मिन् स्वयमेव प्रमाणमिति न युज्यत इति-- परमाप्तपरमर्षिप्रणीतत्वेन रामायणमात्रस्य प्रामाणिकत्वे सिद्धे स्वविषयकत्वे ऽन्यविषयकत्वे च तत्प्रतिपाद्यार्थस्य प्रमाणत्वात् । यथा सिद्धप्रामाण्यया श्रुत्या "वाचा विरूपनित्यया" "अनन्ता वै वेदाः" इत्यादिवाक्यैः प्रतिपाद्यमाने वेदनित्यत्वे भगवदहर्भेदवशात्तदुचितसन्निवेशविशेषं जानात्येव, सैव प्रमाणम् ।।

अपि चाम्बया ब्रह्मानुसन्धानवशाद्ब्रह्मलोकावाप्तिवदम्बाविलासरामायणेन ब्रह्मलीलाविलासावतारवैभावानुसन्धानेन च विभूतिसंपत्तिरपि न्यायसिद्धा । "देवो भूत्वा देवानप्येति" तथा "देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि" इत्यादेश्च । ब्रह्मावतारो भगवान्राम इति च सुस्पष्टम् । प्रक्रमे पुत्रकामेष्टिना यज्ञेन सुप्रीतेन ब्रह्मणा स्वस्यैव तेजसः स्वीयपुरुषद्वारा प्रदापितस्याविर्भावितलीलाविग्रहत्वात् । अन्ते च "रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति" इति ब्रह्मलोकप्राप्तेश्च सुस्पष्टत्वात् । भगवतों ऽशावतारत्वस्य च स्वशक्त्यं शातिघोरांशस्य शक्तित्वाविशेषप्राप्तस्य शोधनेन दिव्यशक्तितासंपादनं प्रयोजनम् । देवीघोरांशं तच्छोधनं च संप्रदायविदो विदुः ।।

ननु किमस्ति यथाधीतमन्त्रस्य शोधनमपि? किं न शृणोषि? "अभि नो वीरो अर्वति क्षमेत । प्रजायेमहि रुद्र प्रजाभिः" इति यथाधीतमन्त्रस्य ब्राह्मणेन शोधनं क्रियते । "त्वं नो वीरो अर्वति क्षमेथा इति ब्रूयान्नाभि न इति । अनभिमानुको हैष देवः प्रजा भवति । प्रजायेमहि रुद्रिय प्रजाभिः इति ब्रूयान्न रुद्रेत्येतस्यैव नाम्नः परिहृत्यै" इत्याद्यम् । एवमेव श्रीमद्रहस्योपनिषदादौ शोधनादि । प्रयोजनाय शोधनाद्युपायोप्युदेति । ततो ऽस्ति । तत्र

दशरथपुत्रप्रतिबन्धादिः प्रथमपादघोरांशकृतः । राज्यापहारवनवासादिः द्वितीयपादघोरांशकृतः । सीतापहारादिस्तृतीयपादघोरांशकृतः । किं बहुना सर्वमेव रामचरितं अस्मदादीनामम्बाक्षरार्थविद्योगिनामम्बाक्षरार्थसुप्रोतसुदर्शनं" आप्ततमशिष्याणां च । तत् स्थितं सार्थकत्वं व्याख्येयबीजम् ।।

यच्चावादि-- काव्यकृतेरनुपादेयतेति-- अत्र ब्रूमः-- उभयथा ऽस्ति काव्यशब्दः "कबृवर्णनस्तुत्योः" इत्यस्मादौणादिककिप्रत्ययजनितकविशब्दादुत्पन्नः चित्तविकृतिजनिद्वारा ऽगम्यगमनान्तमहानर्थहेतुयोषिदासवाद्यसद्विषयवर्णनासन्मनुष्यस्तुत्यादिप्रतिपादकग्रन्थसन्दर्भविशेषार्थक एकः काव्यशब्दः । अपरस्तु वारि वहतीति वलाहक इतिवत् "क्रान्तं वेत्तीति कविः" इत्यतीन्द्रियतत्त्वार्थविदः अनुग्रहाय तत्प्रवक्तारो व्यासादयः पृषोदरादिवत्साधुनानेन कविशब्देनोच्यन्ते । तस्येयं कृतिः कर्म काव्यमिति ब्राह्मणादेराकृतिगणत्वात् कर्मणि ष्यञन्तः । तस्यास्य काव्यस्य चतुर्विधपुरुषार्थसाक्षात्साधनत्वेन सर्वप्रयत्नोपसङ्ग्राह्यत्वात् रामायणस्य तथात्वस्य प्रागेव प्रतिपादितत्वात् इतरकाव्यकोट्यनभिनिवेशः ।।

एवं विशिष्टविषयप्रयोजनवदिदं किमधिकारम्? त्रैवर्णिकाधिकारम् । त्रिपदाविलासत्वात् ।।

ननु त्रैवर्णिकस्य स्वकुलदैवतब्रह्मानुसन्धानस्य स्वकुलविद्ययैव सिद्धत्वात् किमेतेन? उच्यते-- पञ्चाङ्गसन्ध्यावन्दनाद्यनुष्ठानरहितेन त्रैवर्णिकेन अम्बया ब्रह्मशक्त्यनुसन्धानं प्रातर्मध्याह्नसन्ध्ययोश्चैव तयानुसन्धानं समस्तवैश्वदेवप्राणाग्निहोत्राद्यनन्तरं पुनस्सायंसन्ध्यावन्दनपर्यन्तमम्बया ब्रह्मानुसन्धान(योगात्)म् । तत्र च काले तेषां भगवदनुसन्धानप्रयोजनं च भवति । अतिमानुषभगवद्रामचन्द्रचरितश्रवणेन प्रत्यक्षसन्तोषभक्त्यतिशयपापक्षयादिश्च भवति । अपि चाम्बानधिकृतब्राह्मणीब्रह्मकुलदाससच्छूद्राणामपि पुण्यलोकादिप्राप्तिहेतुभगवच्छ्रवणं सप्रयोजनं भवति । तदपीहाङ्गीकृतमेव "जनश्च शूद्रो ऽपि महत्त्वमीयात्" इति । एवं चतुर्णामाश्रममात्राधिकारम्, न सङ्कराधिकारम् अम्बासम्बन्धिसम्बन्धस्याप्यभावात् ।।

अथ काव्यविषयस्य रामचरितस्य काव्यस्य च प्रतिपाद्यप्रतिपादकभावस्सम्बन्धः । उक्तप्रयोजनस्य काव्यस्य च साध्यसाधनभावस्सन्बन्धः । एवं समग्रप्रवृत्त्यंशोपेतं रामायणं व्याख्येयं प्रतिष्ठितम् ।।

अथादिकविर्वाल्मीकिर्दिव्यकाव्यकृतिशक्तये कृतकाष्ठसमाधिसाधितपरमादृष्टसुप्रीतभगवन्नियोगसमुपागतं देवर्षिं नारदं दिव्यं काव्यनायकं पृच्छति स्म । पृष्टस्स यथावद्भगवन्मुखश्रुतं तद्दिव्यकाव्यविषयं प्रपञ्चश्रुतं तदीयचरितञ्चानुस्मृत्य संक्षिप्योपदिश्य अथ सरहस्यो ऽशेषो ऽस्य विस्तरः स्वतः प्रतिभात्वित्यनुगृह्य यथागतं जगाम । ततस्तदनुग्रहस्मृतित्रिपदावलम्बनेन भगवत्प्रपञ्चितं रामचरितं सरहस्यं निरवशेषमनुस्मृत्य स्वयमपि त्रिपदावलम्बनेनैव चतुर्विंशतिसाहस्र्या समग्रहीत् ।।

तस्यास्य दिव्यकाव्यस्याद्यसर्गो वाल्मीकेर्नारदस्योपदेशः । तत्र च "नापृष्टः कस्य चिद्ब्रूयात्" इति न्यायेनापेक्षितप्रश्नाक्षेपः "तपस्स्वाध्यायेत्यादि "श्रुत्वा चैतत्" इत्यन्तो ग्रन्थः । अत्र-- तपस्त्वेन श्रुतः स्वाध्यायः तपस्स्वाध्यायः । श्रूयते च तथा-- "तप एव तत्तप्यते । तपो हि स्वाध्यायः" इति । उक्तश्रुत्यर्थसिद्धस्वाध्यायस्य तपस्त्वमापस्तम्बश्च स्मरति-- "तपस्स्वाध्याय इति ब्राह्मणम् । तत्र श्रूयते "तपो हि स्वाध्यायः" इति । स्वाध्यायश्चाप्रायत्यानध्ययनकालदेशादिपरिहारादिनियमोपेततया स्वशाखाध्ययनम् । तस्मिन्निरतः तदभ्यासनिरत इति यावत् । अत्र तपश्च स्वाध्यायश्च तपस्स्वाध्यायौ तयोर्निरत इति द्वन्द्वस्तूपेक्ष्यः । गौणतपोविशिष्टैकपरपुंविशेषप्रसिद्धमुनिपुङ्गवशब्देनैव तपस्सम्पत्तिमत्तायास्सिद्धत्वात् । अन्वयेन मृदुमतिसौकर्याय व्याकुर्मः । वाग्विदां स्वरूपतो ऽर्थतश्च शब्दब्रह्मतत्त्वविदां पाणिनिपतञ्जल्यादीनाम् । निर्धारणे षष्ठी । वरं-- तदन्यूनतया तत्त्वविदमिति यावत् । मुनिशब्दो व्याकृतार्थः । मुनिपुङ्गवमिति । "सप्तमी" इति योगविभागात्समासः । "न निर्धारणे" इति निषेधात् षष्ठीसमासो ऽशक्याश्रयः । पुमांश्चासौ गौश्च पुङ्गव इति, "गोरतद्धितलुकि" इति टप् समासान्तः । व्युत्पत्तिमात्रमिदं । श्रैष्ठ्ये रूढस्तु पुङ्गवशब्दः । एवंविशिष्टं नारदं । तपस्वी गौणमुख्यतपोयुक्तः । तत्र तप इति "तपो ना ऽनशनात्परम्" इति श्रूतेः कृच्छ्रचान्द्रायणैकादश्युपवासादिलक्षणं मुख्यतपः । "मनसश्चेन्द्रियाणाञ्च ह्यैकाग्र्यं परमं तपः" इत्यादिश्रुतं गौणम् । एवंभूतो वाल्मीकिः पप्रच्छेत्यन्वयः । अत्र प्रष्टुरुक्तविशेषणेन दिव्यकाव्यविषयादिश्रवणाधिकारसम्पत्तिर्द्योतिता । वक्तुरप्युक्तविशेषणैः क्रमात्प्रतिपादनापेक्षितं सर्वज्ञत्वं वाग्मित्वं च प्रतिपादितम् । ग्रहणधारणसिद्धिहेतुशिष्यानुग्रहशक्तिमत्वं च प्रतिपादितम् ।। 1.1.1 ।। 

 ।। 1.1.2 ।। को न्वस्मिन् सांप्रतं लोके गुणवान् कश्च वीर्यवान् ।

धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ।। 2 ।।

किं पप्रच्छेत्यतः प्रश्नाभिनयः-- को न्वस्मिन्नित्यादि । नुशब्दो वितर्के । सांप्रतं संप्रतिपर्यायं स्वरादित्वादव्ययं । वर्तमानकाले ऽस्मिन् लोके भूलक्षणे को नु गुणवान्? भूमप्रशंसादौ मतुप् । सहजनित्यानन्द(नित्य)कल्याणगुणवान् को नु दिव्यः पुरुषः? अस्यैव प्रपञ्चः कश्च वीर्यवानित्यादि । दिव्यास्त्रबलादिजः शक्तिविशेषो वीर्यम् । वीर्यवदिदमौषधमित्यादौ शक्तिविशेषे सुप्रसिद्धो वीर्यशब्दः । सकृद्व्याकृतश्शब्दः पुनर्न व्याख्यायते ग्रन्थगौरवात् । अतस्तत्र सा व्याकृतिर्हृदि धार्या । धर्मज्ञश्च श्रौतस्मार्तसकलधर्मरहस्यज्ञश्च । बह्वीमप्यपकृतिमुपेक्ष्य एकामप्युपकृतिं बह्वीयसीं मन्यत इति कृतज्ञः । सत्यवाक्यः यथाश्रुतदृष्टार्थवक्ता । दृढव्रतः आपद्यपि धर्माय परिगृहीतव्रतविशेषशैथिल्यरहितः ।। 1.1.2 ।। 

 ।। 1.1.3 ।। चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।

विद्वान् कः समर्थश्च कश्चैकप्रियदर्शनः ।। 3 ।।

"अर्तिलू" इत्यादिना इत्रप्रत्ययान्तो वृत्तसंपत्तिवाची चरित्रशब्दः । तस्माद्वायसादिवत्स्वार्थिको ऽण् । तेन को युक्तः? सर्वभूतेषु सर्वप्राणिषु । "यतश्च निर्धारणम्" इति सप्तमी । कः प्राणी पुमान् हितः-- सर्वस्मै हितः । ऐहिकामुष्मिकहितावहः । तथात्वं च भगवत एव समस्ति यतो रावणस्यापि परलोकहितमवाक्षीत् । कश्चिदिह सर्वप्राणिष्वपि हितकरणशील इति हितशब्दयोगमावृत्तसर्वभूतशब्दस्याह-- तदसत्-- हितयोगे चतुर्थ्या भाव्यत्वात् । को विद्वान् आत्मानात्मसकलपदार्थतत्त्वज्ञः । "विदेश्शतुर्वसुः" । सामर्थ्यं-- लौकिकव्यवहारे प्रजारञ्जनादौ चातुर्यं, तद्वान् । अतिकामसौन्दर्यतो नित्यसौमुख्यतश्च एकरूपतया प्रियं दर्शनं यस्य स तथा । एकं प्रति प्रियं दर्शनं यस्यासौ एकप्रियदर्शन इति कश्चित् । तेनानेन किं प्राशस्त्यं प्रतिपादितं स्वदासादिकमेकं मुक्त्वा सर्वाप्रियत्वस्य प्रतिपादनात् ।। 1.1.3 ।। 

 ।। 1.1.4 ।। आत्मवान् को जितक्रोधो द्युतिमान् को ऽनसूयकः ।

कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।। 4 ।।

आत्मवान् वशी जितान्तःकरणः । क्रोधः त्रिविधजिघांसा । जितक्रोधः त्रिविधजिघांसा विहितापि व्यर्थहिंसाप्रसङ्गरहित इति यावत् । द्युतिः सर्वलोकदिदृक्षाजननी देहसौन्दर्यकान्तिविशेषलहरी तद्वान् । अनसूयकः विद्यौन्नत्यादिपरौन्नत्यासहनमसूया, तद्रहित इति यावत् । असु उपतापे इत्यस्मात्कण्वादियगन्तात् ण्वुलि अनसूयक इति । संयुगे यथाप्राप्तयुद्धकाले जातरोषस्य कस्य रोषद्दोवा अपि इन्द्रादयो ऽपि बिभ्यति । अभ्यस्तत्वाददादेशः । अविषयानस्मानपि भगवत्क्रोधस्संहरिष्यतीति भयं प्राप्नुवन्तीत्यर्थः । एवं पाङ्क्ते मार्गे स्थिते-- कस्येति षष्ठी ऋषिवचनत्वादित्याह कश्चित् ।। 1.1.4 ।। 

 ।। 1.1.5 ।। एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।

महर्षे त्वं समर्थो ऽसि ज्ञातुमेवंविधं नरम् ।। 5 ।।

उक्तगुणजातसामान्यनिर्देशापेक्षया एतदिति नपुंसकम् । यदेतदुपन्यस्तं तदेतद्दिव्यपुरुषगुणजातं त्वेतादृशस्यास्तीति श्रोतुमहमिच्छामि । उक्तगुणसामग्र्या एकत्रातिदुर्लभत्वात्तादृशविशेषजिज्ञासायां मे परं-- सर्वस्मादपि कौतूहलान्तरादुत्कटं कौतूहलं वर्तते एवं पाङ्क्ते एवमितिपाठः सम्यगिति कश्चित् । ननु कथं त्वत्पृष्टस्सर्वो मया शक्यप्रत्युत्तर इत्यतो महर्ष इत्यादि । हे महर्षे अपरोक्षातीन्द्रियाशेषार्थ इदं हेतुगर्भविशेषणम् । हि यस्मात् त्वमेवंविधं यथोक्तकल्याणगुणाकरं नरं दिव्यपुरुषं ज्ञातुं समर्थो ऽसि सर्वलोकप्रसिद्धसामर्थ्यो ऽसि तस्मात्त्वत्त एव श्रोतुमिच्छामीति पूर्वेणान्वयः ।। 1.1.5 ।। 

 ।। 1.1.6 ।। श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।

श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ।। 6 ।।

श्रुत्वेति ।। त्रिलोकज्ञः भूर्भुवः स्वर्लोकलक्षणांस्त्रीन् लोकान् तत्रत्यवृत्तान्तांश्च जानातीति तथा । एवमत्र समाहारद्विगुत्वाभावान्न ङीप् । नारदो वाल्मीकेः एतत् यथोक्तरूपं वचः श्रुत्वा श्रूयतामिति चामन्त्र्य सम्बोध्य स्वरहस्यस्य चिरप्रतिपिपादयिषितस्य प्रतिपादनलाभेन प्रहृष्टो भूत्वा वक्ष्यमाणलक्षणं वाक्यमब्रवीत् । अत्र कूजन्तमित्यादिपुराणपाठीयान् श्लोकानपि व्याकुर्वन् तत्र वाल्मीकिशब्दो ऽपत्यार्थे ऽपि साधुः, गहादिपाठादित्याह । तदेतद्गहादिपाठस्य वाल्मीकिशब्दो ऽपि छप्रत्ययप्रकृतिरित्येतावन्मात्रसमर्थत्वेन तदीयव्युत्पत्तिविशेषे औदासीन्यात् । कथं तर्हि तस्य साधुता? बाह्वादीञन्तत्वादेव । कथं बाह्वादिपाठस्य न? कारान्तता उपपद्यते? इञन्तत्वात् । क्वचित् "अत इञ्" अपवादापवादार्थत्वात् । सुमित्रादौ प्रत्ययान्तरबाधनार्थत्वात् । गणत्वेन क्वचिदनपत्यार्थे ऽपीञन्तत्वाच्च । यद्वा ऽयमप्यपत्यार्थेञन्तः । कथं? वल्मीकगर्भान्निर्गतत्वोपाधिना वल्मीकापत्यत्वस्य गोणीपुत्रः कलशीसुत इत्यादिवत्सुवचत्वात् । यद्वा वल्मीको नाम कश्चिदृषिः तस्यापत्यमिति वा । यद्वा दाडिमादिवदव्युत्पन्नः केवलसञ्ज्ञाशब्दः । यद्वा दैवगत्या किञ्चिदवयवव्युत्पत्तेश्च सत्वात्पङ्कजादिवद्योगरूढो वा ।। 1.1.6 ।। 

 ।। 1.1.7 ।। बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।

मुने वक्ष्याम्यहं बुध्वा तैर्युक्तः श्रूयतां नरः ।। 7 ।।

त्वया ये बहवो गुणाः कीर्तिताः, त एते प्राकृतपुरुषमात्रे दुर्लभा एव । अथ च अथापि हे मुने यस्तैर्युक्तः तं बुध्वा स्मृत्वा ऽहं वक्ष्यामि । तादृशो नरः श्रूयताम् । प्राप्तकाले लोट् । तस्य श्रवणं ते प्राप्तकालमित्यर्थः ।। 1.1.7 ।। 

 ।। 1.1.8 ।। इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।

नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ।। 8 ।।

इक्ष्वाकुवंशात्प्रभवः आविर्भावो यस्य स तथा । रामो नाम राम इति प्रसिद्धः जनैश्च तथा श्रुतो ऽस्ति कश्चित् । तस्मिन्नेवैकत्र सर्वे त्वत्पृष्टा गुणा इति शेषः । त एते गुणाः त्वदपृष्टानेकगुणाश्च, अनन्तकल्याणालयत्वं रामस्य द्योतयितुं प्रतिपाद्यन्ते-- नियतेत्यादि । नियतात्मा निगृहीतान्तःकरणः । वीर्यादिकं व्याकृतम् । आपत्सम्पदोरविकृतिश्चित्तस्य धृतिः तद्वान् । वशी जिताशेषबहिःकरणः ।। 1.1.8 ।। 

 ।। 1.1.9 ।। बुद्धिमान् नीतिमान् वाग्मी श्रीमान् शत्रुनिबर्हणः ।

विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ।। 9 ।।

बुद्धिः तत्त्वज्ञानसाधनं सत्त्वप्रधानमन्तःकरणम् । सर्वत्रात्र प्रशंसादौ यथायोगं मतुप् । बुद्धेः प्राशस्त्यं सकृद्गृहीताविस्मरणावापोद्वापादिशक्तिमत्त्वम् । नीतिः कामन्दकादिप्रसिद्धराजनीतिः । वाग्मी "वाचो ग्मिनिः" प्रशस्तवाक् । त्रिलोकशेखरीभूतनिजशासन इति यावत् । श्रीमान् शोभैश्वर्योभयप्रकारनिस्तुलाधिकश्रीयुक्तः । शत्रुनिबर्हणः शत्रूणां बाह्यान्तराणां यथाकालं यथोचितं निबर्हणः । "कृत्यलुटो बहुलम्" इति कर्तरि ल्युट् । धातूनामनेकार्थत्वान्निपूर्वो ब्रूहिर्हिंसार्थः । विपुलांस इत्यादिना सामुद्रिकं लक्षणं कथ्यते । इदमपृष्टगुणकथनम् । विपुलः विशालः उत्कृष्टः उन्नतः असः भुजशिरो यस्य स तथा । "स्कन्धो भुजशिरों ऽसौ ऽस्त्री" इति निघण्टुः । तदुन्नतत्वं सुलक्षणम् । तथा ऽ ऽह वररुचिः--

"कक्षः कुक्षिश्च वक्षश्च घ्राणः स्कन्धो ललाटिका ।

सर्वभूतेषु निर्दिष्टा उन्नतास्तु सुखप्रदाः ।।"

इति । महाबाहुः । "आन्महत" इत्यात्वम् । तत् ब्रह्मत्वलक्षणम् । तथा हि--

"शिरो ललाटश्रवणे ग्रीवा वक्षश्च हृत्तथा ।

उदरं पाणिपादौ च पृष्ठं दश बृहत्सुखम् ।।"

इति ब्राह्मे । कम्बुवद्रेखात्रयविशिष्टा ग्रीवा यस्य स तथा । कम्बुः शङ्खः । हनुः कपोलोपरिभागः । तस्य महत्त्वं मांसलत्वम् । तच्च लक्षणम्-- "पूर्णमांसलहनुस्तु भूमिपः" इति संहितायाम् ।। 1.1.9 ।। 

 ।। 1.1.10 ।। महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।

आजानुबाहुस्सुशिरास्सुललाटस्सुविक्रमः ।। 10 ।।

महत् विशालं उरः यस्य स तथा । "उरः प्रभृतीनि" इति नित्यः कप् । "उरश्शिरो ललाटश्च" इत्यारभ्य "विशालास्ते सुखप्रदाः" इति शास्त्रम् । महेष्वासः महान् इष्वासः घनुरस्य । अस्यतेः करणे घञ् । गूढे मांसलत्वान्मग्ने जत्रुणी वक्षांससन्धिगतास्थिनी यस्य स तथा । अरीन् पापान्तरायादिलक्षणान्निजभक्तानां दमयतीति अरिन्दमः । "सञ्ज्ञायां भृतृ৷৷." इत्यादिना दमेः खच् । अरिन्दम इति राज्ञो ऽन्वर्थसञ्ज्ञा । शत्रुञ्जयो हस्तीत्यादिवत् । आजानुबाहुः जानुपर्यन्तदीर्घबाहुः । "दीर्घभ्रूबाहुमुष्कश्च चिरञ्जीवी धनी नरः" इति ब्राह्मे । शिरसस्सुष्ठुत्वं समवृत्तत्वम् । तच्च लक्षणम् ।

"समवृत्तशिराश्चैव छत्राकारशिरास्तथा ।

एकछत्रां महीं भुङ्क्ते दीर्घमायुश्च विन्दति ।।"

इति नारदः । सुललाटः ललाटस्य रेखाविशेषवत्वं सौष्ठवम् । तच्च लक्षणम्--

"ललाटे यस्य दृश्यन्ते चतुस्त्रिद्व्येकरेखकाः ।

शतद्वयं शत षष्टिस्तस्यायुर्विंशतिस्तथा" । ।

इति कात्यायनः । विक्रमः पदविक्षेपः तस्य सौष्ठवं गम्भीरत्वम् । तच्च लक्षणं--

"स्वरो गतिश्च नाभिश्च गम्भीरः स प्रशस्यते" इति ब्राह्मे ।। 1.1.10 ।। 

 ।। 1.1.11 ।। समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।

पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ।। 11 ।।

समः नातिदीर्घो नातिह्रस्वः । "षण्णवत्यङ्गुलोत्सेधो यः पुमान् स दिवौकसाम्" इति ब्राह्मे । अंश इति शेषः । समानि अन्यूनानधिकपरिमाणानि विभक्तानि पृथक्कृतानि अंगानि यस्य स तथा । कानि पुनस्तानि?

"भ्रुवौ नासापुटे नेत्रे कर्णावोष्ठौ च चूचुकौ ।

कूर्परौ मणिबन्धौ च जानुनी वृषणे कटी ।

करौ पादौ स्फिजौ यस्य समौ ज्ञेयस्स भूपतिः"

इत्युक्तानि । स्निग्धवर्णः स्निग्धश्यामलवर्ण इति यावत् । तत्फलं "स्निग्धेन्द्रनीलवर्णस्तु भोगं विन्दति फुष्कलम्" इति । प्रतापः स्मृतिमात्रतः अरिहृदयविदारणक्षमं पौरुषम् । "प्रतापौ पौरुषातपौ" इति निघण्टुः । पीनवक्षाः मांसलसमोन्नतवक्षाः । तादृशवक्षस्त्वस्य सुलक्षणत्वं प्रागेवोक्तम् । "प्यायः पी" "ओदितश्च" इति निष्ठानत्वम् । विशालाक्षः विस्तृतायताक्षः । "बहुव्रीहौ सक्थ्यक्ष्णोः" इति वच् । "नासिका चक्षुषी कर्णौ प्रजानू यस्य चायताः" इति लक्षणशास्त्रम् । लक्ष्मीवान् सीतारूपलक्ष्मीशक्तिमान् । मोपघत्वाद्वत्वम् । एवमुक्तनित्यशुभानि सामुद्रिकशास्त्रोक्तानि लक्षणानि यस्य स तथा ।। 1.1.11 ।। 

 ।। 1.1.12 ।। धर्मज्ञस्सत्यसन्धश्च प्रजानां च हिते रतः ।

यशस्वी ज्ञानसंपन्नः शुचिर्वश्यस्समाधिमान् ।। 12 ।।

धर्मज्ञकृतज्ञौ व्याकृतौ । सत्याः अमोघाः सन्धाः-- "सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम" इत्येवामादिरूपिण्यः प्रतिज्ञाः यस्य स तथा । प्रजानामित्यादि गतार्थम् । यशस्वी रावणवधादाचन्द्रतारकानस्तमितदिव्ययशस्सम्पन्नः । असन्ततत्वादिनिः । ज्ञानसंपन्नः विशिष्य ब्रह्मानन्यताज्ञानपरिपूर्णः । तथा हि विशिष्य ब्रह्मदर्शनमूलं वचनं जटायुषं प्रति "मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्" इति । येभ्य उत्तमा न विद्यन्ते ते अनुत्तमाः ब्रह्मलोका इति यावत् । तथा च श्रुतिः "अथ यदतः परो दिवो ज्योतिर्दीप्यते सर्वतः पृष्ठेष्वनुत्तमेषु" इति । ननु कथं "आत्मानं मानुषं मन्ये रामं दशरथात्मजम्" इति रामवचनम्? ब्रह्मज्ञानवत्वे का द्रुष्टिः । मानुषदेहोपाधिवशात् यदा रजस्तमस उद्रेकस्तदा ऽसमाधिदशायां निजतत्वविस्मरणं स्यात् स्वप्ननिद्रयोरिव । तथा हि गीयते-- " न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः" इति । एवं सति उक्तकादाचित्कमानुषभावस्य अभावप्रतिपादनवृथाक्लेशः कस्यचित्केवलं श्राद्धः । तच्चासत्-- सीताविरहजप्रलापादीनां सर्वथैवामानुषभावे ऽतिदुर्घटत्वात् । यथोक्तब्रह्मज्ञानसंभवाय त्रीणि विशेषणानि-- शुचिरित्यादीनि । प्रातस्स्नानादिपूर्वकगायत्रीजपादिना रेचकपूरकाभ्यासादिना प्रत्याहारजनितरागद्वेषहानेन च नित्यशुद्धस्थूलसूक्ष्मान्तरपरिकरत्रयः । वश्यः-- वशंगत इति यावत् । अकृतकानन्यतायोगेन ब्रह्मतावशं गतः । समाधिमान्-- यथेच्छं साकारनिराकारनिजब्रह्मतत्त्वसमाधिमान् । समा एकीभूता या परेण ब्रह्मणा चित्तस्य आधिः धारणं समाधिः । निवातनिश्चलदीपवच्चित्तस्य लक्ष्याचलस्थितिरिति यावत् । अत्र वश्य इति आश्रितपरतन्त्र इति समाधिमान् प्रतिज्ञावान् इति चाह कश्चित् । तदसत् । सत्यसन्ध इति प्रतिज्ञावत्वस्य गतत्वाच्च । आश्रितपारतन्त्रस्यानुग्राहकत्वमात्रतात्पर्यतः पारतन्त्र्यस्य मिथ्यात्वाच्च ।। 1.1.12 ।। 

 ।। 1.1.13 ।। प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।

रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता । ।

प्रजापतिसमः । यद्यपि प्रजापतिसमविष्णुभूमिविराट्प्रधानब्रह्मावतारो रामो भगवान् प्रजापतिर्ब्रह्मैव-- अथापि मानुषवैराजलोकदेहावतारोपाधितस्तदुपाधिसंसर्गजानां धर्माणां सीतामूलमोहशोकादीनां "इमौ तौ मुनिशार्दूल किङ्करौ समुपस्थितौ" इत्यादिपारतन्त्र्यादीनां आदेहपातमुपाधिप्रयुक्ताशेषनिजनित्यकर्मणां च क्रियतां अब्रह्मधर्माणामसमाधिकालेष्वनुवर्तनादस्त्येव चोभयोर्भेदः । अथापि भार्गवलोकप्रतिबन्धजटायुलोकप्रदानविभीषणशाश्वतराज्यप्रदानहनूमदाकल्पनित्यत्वभाविकार्यब्रह्मत्वदानसमुद्रसेतुबन्धनस्वावतारानुयायिस्वभूमविग्रहसर्वदेवावतार (पूर्व) सर्वसेव्यत्वसशरीरसपरिकरब्रह्मलोकनिर्याणान्तानां वयमस्मद्देहानामिव स्वकभूमाविग्रहब्रह्माण्डयात्रादिस्वतन्त्रब्रह्मैकसाध्यानां भूयसां ब्रह्मधर्माणां रामोपाधावपि लोकस्य ब्रह्मावतारताप्रत्यायनायाविर्भावितत्वाद्वा ब्रह्मसमत्वम् । नैवं धर्माः कृष्णाद्यवतारे ऽपि । स तु प्रजापतिविष्णुप्रधानः । तथैव तेनैव भगवतोपदिष्टम्-- "महर्षयस्सप्त पूर्वे चत्वारः" इत्यादिना गीतायाम् । श्रीमान् एवमादीनां भगवत्कल्याणगुणानामादरातिशयजपौनःपुन्यकीर्तनमभ्युदयहेतुतो ऽलङ्काराय न दोषगन्धाय । अतः परं व्याकृतपदमतिस्पष्टं पाङ्क्तान्वयश्च न दोषगन्धाय । अतः परं व्याकृतपदमतिस्पष्टं पाङ्क्तान्वयश्च त्यज्यते । धाता योगरूढ्या । तथा हि-- "रामाय रामभद्राय रामचन्द्राय वेधसे' इति (च) ब्रह्मत्वादिदानीमौपाधिरामविग्रहेणापि पितेव सर्वप्रजाधारणाच्च । रिपुनिषूदन इति । "नन्द्यादिभ्यो ण्यन्तेभ्यस्सञ्ज्ञायाम्" इति वचनात् एवमादौ वा सञ्ज्ञायाम् । तथा हि रिपुं निषूदयतीति रिपुनिषूदन इत्यण्यन्तात्कर्तरि नन्द्यादिल्योरयोगात् "कृत्यलुटो बहुलम्" इत्येव सर्वतो ल्युट् द्रष्टव्यम् । सुषामादित्वात् इह षत्वम् । जीवा ऊर्ध्वस्रोतोलक्षणाः-- तेषां लोकः समूहः-- तस्य अन्नपानादिदानचोराद्युपद्रवत्राणादितः स्थूलदेहरक्षिता । धर्मः श्रौतस्मार्तरूपः । तस्य जीवलोकस्य यो नित्यप्राप्तो वर्णाश्रमधर्मः तस्य तत्तन्मर्यादापालनद्वारा रक्षिता ।। 1.1.13 ।। 

 ।। 1.1.14 ।। रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।

वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ।। 14 ।।

न केवलं तस्य अपि तु स्वस्य-- स्वीयस्य "अध्ययनमध्यापनं यज्ञो याजनं दानं प्रतिग्रहणं दायाद्यं सिलोञ्छः । (आप. धर्मसू.2.20.4) अन्यच्चापरिगृहीतम् (5) । एतान्येवं क्षत्रियस्याध्यापनयाजनप्रतिग्रहणानीति परिहाप्य दण्डयुद्धादिकानि (6)" इत्युपदिष्टस्वधर्मस्य च रक्षिता सादरं सदानुष्ठाता । अपि च स्वजनस्य बन्धुजनस्य स्वभक्तजनस्य च विशिष्य रक्षिता । तथा हि "राजवंशान् शतगुणान् स्थापयिष्यति राघवः" इति, तथा "सकृदेव प्रपन्नाय" इत्यादिकं च । वेदानां चतुर्णां छन्दःकल्पव्याकरणज्योतिषनिरुक्तशीक्षालक्षणवेदाङ्गानां च पाठतो ऽर्थतश्च तत्त्वज्ञः परमार्थस्वरूपज्ञः । धनुर्वेदः धनुषो हस्तमुष्टिस्थितिविशेषाकर्षणविमोकादिदिव्यास्त्रादिप्रतिपादकं शास्त्रं तस्य च वेदत्वमुक्तार्थशासनोपचारात् । अत एवान्यत्रापि आयुर्वेदादीनि सव्याख्यानि शास्त्राणि स्मृतयश्च सूत्राण्यपि तत्त्वार्थशास्त्रेणोपचाराच्छास्त्राणि ।। 1.1.14 ।। 

 ।। 1.1.15 ।। सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।

सर्वलोकप्रियस्साधुरदीनात्मा विचक्षणः ।। 15 ।।

सर्वमूलशब्दशासनाद्व्याकरणं च महाशास्त्रं, तथैव कामन्दकादीन्यपि शास्त्रशब्दकानि, सर्वेषामेषामर्थतत्त्वज्ञः । पाठस्य नातिप्रयोजनत्वादर्थविशेषणम् । स्मृतिमान् उक्ताधीतवेदशास्त्रविस्मरणरहितः । प्रतिभानवान् व्यवहारकाले श्रुतस्याश्रुतस्य चोचितार्थस्य द्राक्प्रतिभासः प्रतिभा प्रतिभानं तद्वान् । सर्वलोकप्रियः स्वद्रष्टृस्मर्तृसर्वलोकानामिहामुत्र हितावहः । सर्वलोकानां प्रियं यस्मादित्यन्यपदार्थो बहुव्रीहिर्वा । साधुः मृदुमधुरशुभस्वभावः । इदं पूर्वोक्तविशेषणसाधकं विशेषणम् । यद्येवं साधुद्विजवद्दीनस्वभावस्यादित्यत्रोक्तम् अदीनात्मेति ।

"शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।

दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ।।" (गी. 1843)

इति सहजासाधारणक्षात्रभावेनातिधीरमहाप्रभुस्वभाव एव भवति । अत्र अपकारिष्वपि साधुत्वात्साधुरित्यादिकमसंगतमेवमादौ कश्चिज्जल्पति । तदसंगतमिति सन्तस्समवेदिषीरन् । तदतःपरमतिविरलं तादृशकश्मलप्रजल्पः प्रकाश्यते । विचक्षणः यथोचितं लौकिकालौकिकसर्वार्थकृतिकुशलः ।। 1.1.15 ।। 

 ।। 1.1.16 ।। सर्वदा ऽभिगतस्सद्भिस्समुद्र इव सिन्धुभिः ।

आर्यस्सर्वसमश्चैव सदैव प्रियदर्शनः ।। 16 ।।

होमदेवपूजासभाधिष्ठानादिकालेषु, कामन्दकादिना, (राज्ञा) विमुक्तेषु सर्वेष्वपि तत्तत्कालोचितैस्सद्भिः पुरोहितविद्वन्मन्त्रिप्रधानादिभिश्च "यथा राजा तथा प्रजाः" इति न्यायेन सात्विकस्वभावैः, समुद्रस्तत्तत्प्रदेशे तत्तत्सिन्धुभिरिवाभिगतः सेवितः । आर्यः सार्वभौमत्वादेव सर्वपूज्यः । सर्वसमः सर्वेष्वपि कर्मायत्तद्वन्द्वमात्रेषु सुखदुःखादिषु हर्षविषादरहितः । शत्रुमित्रोदासीनेषु वैषम्यरहित इत्यन्यः । किमयं रामः परिव्राट्? येन तथा स्यात् ।। 1.1.16 ।। 

 ।। 1.1.17 ।। स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।

समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ।। 17 ।।

स रामः एवं क्षत्रियमात्रसामान्यप्राप्तैः सर्वैर्गुणैरुपेतः । चकाराद्वक्ष्यमाणराज्याभिषेकार्हक्षत्रियगुणैश्चोपेतः । कोसलस्यापत्यं स्त्री कौसल्या । "वृद्धेत् कोसल৷৷." इति ञ्यङ् । "यङश्चाप्" । तस्या आनन्दं सुतत्वाद्वर्धयतीति कौसल्यानन्दवर्धनः । एतेन महाकुलप्रसूतप्रधानमहिषीसुतत्वरूपस्य साक्षादभिषेकापेक्षितधर्मस्य सत्त्वं भगवति दर्शितम् । वक्ष्यमाणास्तु सर्वे ऽभिषिषिक्षिते सर्वथा ऽपेक्षितधर्मत्वे स्पष्टाः । गाम्भीर्यं-- अगाधाशयत्वं तत्र समुद्रतुल्यः । संयुगे सर्वसेनापलायने ऽपि स्वयमचलतयावस्थानं धैर्यम् । राजप्रधानं इष्टवियोगादावनतिक्षुभितचित्तत्वं सर्वासाधारणं धैर्यम् । तत्रोभयत्र हिमवत्तुल्यः । अत्र रामस्य सीतावियोगे शोकात् प्रलापदोषमाशंक्य तदभावं समर्थयति कश्चित् । एवमादिरसङ्गतः प्रत्यक्षवचनविरुद्धो भाक्तः प्रलापः पृष्ठीकार्य इति प्रोगेवोक्तम् । उपाधिगतधर्माणां तु संसर्गस्य यावद्देहपातमवर्ज्यत्वात् । अपि तु परमात्मकुलपरमकल्याणगुणपरमपतिव्रताया मातुः सीताया वियोगे यदि शोकं प्रलापं च न कुर्यात् तदा शुभाशुभोचितव्यवहाररहितपिशाचतुल्य एव रामः स्यात् । अतस्तत्कालशोकादिकमुक्तं पुरुषोचितमेवेति नायं दोषः ।। 1.1.17 ।। 

 ।। 1.1.18 ।। विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।

कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ।। 18 ।।

वीर्यं व्याकृतम् तत्र विष्णुना तुल्यः । अनुग्रहप्रधानो विराड्विष्णुः, स्वप्रधानो विराट् प्रजापतिः । प्रजापतिरेव विष्णुः विष्णुरेव प्रजापतिः भेदव्यवहारस्तूपाधिमात्रात् । अयमर्थः श्रीमद्ब्रह्मसिद्धान्तप्रकरणे बहुग्रन्थविस्तृत इति नेह शक्यप्रपञ्चनः । यद्यप्ययमेव रामो विष्णुः प्रजापतिः । तथापि मानुषोपाधिभेदात् सादृश्यम् । एवं सर्वत्र द्रष्टव्यम् । सोमवत् प्रियदर्शनः-- सभायां प्रजाव्यवहारनिरीक्षणकाले । कालाग्निसदृशः क्रोधे युद्धादिकाले । शक्यप्रतिक्रियापकारसहिष्णुता क्षमा, तया अन्वितत्वे पृथिवीतुल्यः । पृथिवी हि माता सर्वस्रोतसामनन्यगतिकत्वात् तत्प्राप्ताघं क्षमते ।। 1.1.18 ।। 

 ।। 1.1.19 ।। धनदेन समस्त्यागे सत्ये धर्म इवापरः ।

धनत्यागे यज्ञदानादिरूपधर्मार्थवित्तव्ययविषये अपेक्षितधनसंपत्तौ धनदेन नवनिधीशेन समः । अस्मिन्नेवांशे अयं दृष्टान्तः न तु त्यागांशे । स तु यक्षगणैः सर्वतः सर्वेषामपि निधीनपहृत्य नित्यं निजनिधीनेव केवलं पूरयति । धनदव्यवहारस्तु भगवदाज्ञया भगवदवयववस्वदितिदशगणेभ्यो यावद्भगवदाज्ञं ददाति । नान्येभ्यः काचमात्रमपि । सत्यं व्याकृतम्, तत्रापरो धर्म इव । धर्मस्य मूर्त्यन्तरमिवेति यावत् ।। 1.1.19 ।। 

 ।। 1.1.20 ।। तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् ।। 19 ।।

ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् ।

प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ।। 20 ।।

यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ।

"तमेवंगुणसंपन्नम्" इत्यारभ्यायोध्याकाण्डीयः सङ्क्षेपः । अतः प्रागुक्तश्लोकैरेव यथाकथञ्चित् बालकाण्डीयो ऽर्थः भगवदवतारादिः सूचितो वेदितव्यः । तत्र इक्ष्वाकुवंशप्रभव इत्यनेन विश्वामित्रानुग्रहजदिव्यास्त्रसंपत्त्यादिः ताटकावधयज्ञशत्रुनिबर्हणान्तो व्यापारः सूचितः । अथ "विपुलांसः" इत्यादि "लक्ष्मीवान्" इत्यन्ते यौवनदशावर्तिसीतापरिणयादिसङ्क्षेपः । सत्यपराक्रम इत्यनेन सत्यलोकवर्तिसत्याख्यलोकेशश्रीहिरण्यगर्भभावेन स्वीयेन भार्गवलोकप्रतिबन्धान्तव्यापारः सङ्क्षिप्तो वेदितव्यः । अथ एवंगुणसंपन्नम् प्रागुक्तनित्यासाधारणकल्याणगुणसंपन्नम् पश्चादुक्तरीत्या श्रेष्ठगुणैः यौवराज्यसार्वभौमपदाभिषेकार्हविशिष्टगुणैश्च युक्तम् सत्यपराक्रमं सत्यपरिपालनबलात् प्रवर्तमानः सत्यः अमोघः पराक्रमः परेषां शत्रूणां आक्रमः अभिभवः यस्य स तथा । प्रकृतीनां मन्त्रिपुरोहिताद्यष्टादशप्रकृतीनां, हितैः इहामुत्रहितावहैः कर्मभिर्युक्तं श्रेष्ठं सुतं तं रामं प्रकृतिप्रियकाम्यया प्रागुक्तप्रकृतीनां मन्त्रिपुरोहिताद्यष्टादशानां प्रियं कर्तुमिच्छया । यद्यपि आत्मन इच्छायां काम्यजपि क्कचित्, अथापि "छन्दसि परेच्छायामपि काम्यज्वक्तव्यः" इति वचनात् आर्षस्यापि छन्दोवद्भावात् काम्यच् । ततः "अ प्रत्ययात्" इत्यकारे स्त्रीप्रत्यये टेर्लोपे टाप् । युवा चासौ राजा च युवराजः, तस्य भावः कर्म वा, ब्राह्मणादित्वात् ष्यञ्, यौवराज्यं तेन संयोक्तुं महीपतिः दशरथः, प्रीत्या यौवराज्यपदार्हपुत्रानुभवजनितानन्देन ऐच्छत् । सश्वेतच्छत्रे भद्रासने पितरि स्थिते तदतिरिक्तसर्वव्यापारे अभिषेकपूर्वकमधिकृतो युवराजः ।। 1.1.20 ।। 

 ।। 1.1.21 ।। तस्याभिषेकसंभारान् दृष्ट्वा भार्या ऽथ कैकयी ।। 21 ।।

पूर्वं दत्तवरा देवी वरमेनमयाचत ।

अथ तस्य रामस्य, यौवराज्याभिषेकापेक्षितान् संभारान्-- "औदुम्बरी आसन्दी, तस्यैव प्रादेशमात्राः पादाः स्युः" इत्यादितः तथा "दधिमधुसर्पिरातपवर्ष्या आपः" इत्यन्ततः बह्वृचब्राह्मणेनोपदिश्यमानान् संभृतान्, दृष्ट्वा मन्थरावाक्यात् अवगत्य राज्ञः कनीयसी भार्या, पूर्वं विभक्तिप्रतिरूपकमव्ययम् । "कालाध्वनोः" इति तृतीयेति कश्चित् । न हि इह अत्यन्तसंयोगं मासमधीत इतिवत् पश्यामः । पूर्वं-- पूर्वस्मिन् इन्द्रसहायार्थप्रवृत्तदशरथयुद्धकाले दशरथोपरि प्रयुक्तां आसुरीं मायां धवलाङ्गमुनिदत्तविद्यया निवारयन्त्यै कैकेय्यै तुष्टेन दशरथेन, दत्तवरा-- दत्तौ वरौ यस्यै सा तथा, देवी कृताभिषेका कैकयी-- केकयस्य अपत्यं स्त्री, "क्षत्रियसमानशब्दात् जनपदात् तस्य राजन्यपत्यवत्' इत्यञि जनपदे लुप् । "केकयमित्रयु' इत्यादिना यादेरियादेशे गुणे चादिवृद्धौ "टिढ्ढाणञ्৷৷." इत्यादिना ङीपि "यस्य--" इति लोपे कैकेयीति भवति । अत्र "अपि माषं मषं कुर्यात् छन्दोभङ्गं न कारयेत्" इति न्यायेन कैकयी इति प्रयोगः । एनं वक्ष्यमाणलक्षणं वरं-- पूर्वदत्तं प्राप्तकालत्वादयाचत दशरथं, द्विकर्मकत्वात् याचेः ।। 1.1.21 ।। 

 ।। 1.1.22 ।। विवासनं च रामस्य भरतस्याभिषेचनम् ।। 22 ।।

किं तत् वरद्वयमित्यतः-- विवासनमित्यादि । निजराज्यात् रामस्य उद्वासनं तत्र भरतस्य अभिषेचनं च अयाचत ।। 1.1.22 ।। 

 ।। 1.1.23 ।। स सत्यवचनाद्राजा धर्मपाशेन संयतः ।

विवासयामास सुतं रामं दशरथः प्रियम् ।। 23 ।।

सत्यवचनात् सत्यप्रतिज्ञत्वादेव हेतोः सत्यमयेन धर्मपाशेन संयतः-- बद्धस्सन् दशरथः प्रियं सुतमपि विवासयामास ।। 1.1.23 ।। 

 ।। 1.1.24 ।। स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।

पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ।। 24 ।।

वीरत्वं-- एकेन अनेकैरपराङ्मुखतया धैर्यममुक्त्वा शोभामुखतया योद्धृत्वं वीरत्वम् । स रामः पितुः प्रतिज्ञां स्वविवासनेन सत्यतयानुपालयन् । "लक्षणहेत्वोः" इति हेतौ शतृपत्ययः । तत एव हेतोर्वनं जगाम । न केवलं स्वेच्छया, अपि तु पितृवचनकृतनिर्देशात्-- आज्ञातः । अपि च कैकेय्या मातुश्च प्रियकारणात्-- प्रियसिद्धिनिमित्तमपीत्यर्थः । एतेन मातापितृसन्तोषणमेव सर्वात्मना पुत्रस्य परमो धर्म इति सर्वजगतां भगवता रामेणोपदिष्टं भवति ।। 1.1.24 ।। 

 ।। 1.1.25 ।। तं व्रजन्तं प्रियो भ्राता लक्ष्मणो ऽनुजगाम ह ।

स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः ।। 25 ।।

भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शनयन् ।

व्रजन्तं भ्रातरं प्रियः-- अर्श आद्यच् । रामे सुहृत्प्रीतिमान् भ्राता रामस्य स्वयं दयितः विनयसंपन्नः सुमित्रानन्दवर्धनो लक्ष्मणो भ्राता च, सौभ्रात्रं-- "हायनान्तयुवादिभ्यो ऽण्" इत्यण् । सुभ्रातृभावं अनुदर्शयन्, स्नेहात् भ्रातृस्नेहादेव जगाम न पित्रादिनिर्देशात् ।। 1.1.25 ।। 

 ।। 1.1.26,27 ।। रामस्य दयिता भार्या नित्यं प्राणसमा हिता ।। 26 ।।

जनकस्य कुले जाता देवमायेव निर्मिता ।

सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ।। 27 ।।

सीताप्यनुगता रामं शशिनं रोहिणी यथा ।

अथ रामस्य दयिता इष्टा, भार्या, न केवलमिष्टामात्रं-- अपि तु प्राणसमा । निरतिशयप्रेमास्पदा नित्यं हितकारिणी च । जनकस्य निमिपुत्रस्य कुले अन्वये जाता । यद्यप्ययोनिजा सीता, अथापि जनककुलजस्य सीरध्वजस्य देवयजनलांगलपद्धतावाविर्भूतत्वादेवंवादः । कथमेवं प्रादुर्भाव इत्यतो देवमायेव अचिन्त्योदयस्थितितया देवैरेव स्वकार्यसिद्धिकाङ्क्षिभिराविर्भाविता । यथा देव्या उदयस्तथा तल्लयोप्यचिन्त्यः । तथा भर्तृवियुक्तया बहुकालं स्थितिश्चाचिन्त्यहेतुका । यद्वा इवशब्द एवार्थः । सा देवेन भगवता स्रष्ट्रा देवकार्याय निर्मिता देवमायैव । "दैवी ह्येषा गुणमयी मम माया" (गी.714) इति गीता । भगवतो ऽनाद्यनन्ता सहजा शक्तिरेव, न केवलं या काचित् द्वौपद्यादिवदयोनिजा स्त्रीति मातुस्त्वात्यन्तिकस्वकुलकथनम् । तिलोत्तमादिवद्देवमायेव स्थितेत्यन्यः । एवमर्थे निर्मितापदं व्यर्थम् । पुंलक्षणै रामवत् सर्वस्त्रीलक्षणसम्पन्ना । पुरुषेषु रामवन्नारीणामुत्तमा वधूः स्त्री सीता-- "सीता लाङ्गलपद्धतिः" तदुत्थत्वात्सीता । शशिनं रोहिणी यथा राममनुगता ।। 1.1.26,27 ।। 

 ।। 1.1.28,29 ।। पौरैरनुगतो दूरं पित्रा दशरथेन च ।। 28 ।।

शृङ्गबेरपुरे सूतं गङ्गाकूले व्यसर्जयत् ।

गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ।। 29 ।।

गुहेन सहितो रामो लक्ष्मणेन च सीतया ।

अथ रामः पौरैः पित्रा दशरथेन च दूरमनुगतः गङ्गाकूले वर्तमानं निषादाधिपतिं प्रियं-- इष्टं गुहमासाद्य-- गृहादिभिः सहितो रामः आगङ्गं रथेनागतरामविसर्जनार्थमागतं सूतं गङ्गाकूले व्यसर्जयत् ।। 1.1.28,29 ।। 

 ।। 1.1.30,31 ।। ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ।। 30 ।।

चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।

रम्यमावसथं कृत्वा रममाणा वने त्रयः ।। 31 ।।

देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम् ।

अथ ते सीतारामलक्ष्मणा वनेन पुरोवर्तिवनप्राप्तिद्वारेण वनं-- अपरं वनं गत्वा वनमिति जात्या बहूदका नदीश्च तीर्त्वा "श्र्युकः किति" इतीण्निषेधः । अनु पश्चात् चित्रकूटं प्राप्य भरद्वाजस्य शासनात् तत्र रम्यमावसथं पर्णशालां कृत्वा तत्र रममाणाः देवगन्धर्वसङ्काशाः ते त्रय वने सुखं न्यवसन् ।। 1.1.30,31 ।। 

 ।। 1.1.32 ।। चित्रकूटं गते रामे पुत्रशोकातुरस्तदा ।। 32 ।।

राजा दशरथः स्वर्गं जगाम विलपन् सुतम् ।

चित्रेत्यादि ।। रामे चित्रकूटं गते सति तदा पुत्रशोकातुरो दशरथो राजा सुतं स्मृत्वा विलपन् परिदेवनं कुर्वन्नेव तद्दुःखवशात्स्वर्गं जगाम ।। 1.1.32 ।। 

 ।। 1.1.33 ।। गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ।। 33 ।।

नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।

तस्मिन् दशरथे गते मृते भरतस्तु वसिष्ठप्रमुखैर्द्विजैस्त्रैवर्णिकैस्सह मन्त्रिवृद्धैः राज्याय नियुज्यमानो महाबलः-- राज्यं कर्तुं समर्थो ऽपि सौभ्रात्राद्राज्यं नैच्छत् । राज्यायेति "तुमर्थाच्च" इत्यादिना चतुर्थी ।। 1.1.33 ।। 

 ।। 1.1.34 ।। स जगाम वनं वीरो रामपादप्रसादकः ।। 34 ।।

वीरो व्याकृतः । स भरतो रामपादप्रसादकः "तुमुण्वुलौ क्रियायां क्रियार्थायाम्" इति ण्वुल् । पादशब्दः पूज्यवाची । पूज्यं रामं प्रसादयितुं जगाम ।। 1.1.34 ।। 

 ।। 1.1.35 ।। गत्वा तु स महात्मानं रामं सत्यपराक्रमम् ।

अयाचत् भ्रातरं राममार्यभावपुरस्कृतः ।। 35 ।।

स भरतो महात्मानं-- सत्यप्रतिज्ञत्वाद्यनेकधर्मैर्महान् वैभववान् आत्मा यस्य तं सत्यपराक्रमं भ्रातरं रामं गत्वा-- आर्यभावपुरस्कृतः-- विनीतवेषपुरस्कृतस्सन् "आर्यो हृद्यो विनीतश्च" इति निघण्टुः । तं रामं राज्याय प्रतिनिवर्तितुमयाचत् । याचिर्द्विकर्मकः ।। 1.1.35 ।। 

 ।। 1.1.36 ।। त्वमेव राजा धर्मज्ञ इति रामं वचो ऽब्रवीत् ।

ननु कथं मे प्रतिनिवृत्तिः । पितृमातृदत्तराज्यं त्वमेव किलार्हसीत्यत्राह-- त्वमेव राजेति ।। ननु कथमेवमवधारणमित्यत्राह-- धर्मज्ञ इति । ज्येष्ठे श्रेष्ठगुणैर्युक्ते कनीयान् राज्यं नार्हतीत्यनादिप्रवाहसिद्धिं धर्मं त्वमेव जानासि । अतः प्रतिनिवर्तितव्यमेव इति न्यायमार्गोपेतं वचो रामं प्रत्यब्रवीत् ।।

रामो ऽपि परमोदारः सुमुखस्सुमहायशाः ।। 36 ।।

न चैच्छत्पितुरादेशाद्रामो राज्यं महाबलः ।

न च राज्यमैच्छत्तदा ।। वनवासक्षोदक्षममहत्तरसहजकायबलवान्रामो ऽपि राज्यं नैच्छत् । कुत इत्यतो हेतुचतुष्टयं-- परमोदार इत्यादि । स्वसुखानादरेणाविगीतस्वसुखसाधनस्य परस्मै त्यागस्त्वौदार्यम् । एवं परमोदारत्वाद्राज्यसुखं बालो भरत एव भुङ्क्तामित्युपैक्षिष्ट । सुमुखः । भगवतो रामस्य राज्ये वने वा पादसंवाहनादिसकलबाह्यशुश्रूषायै लक्ष्मण एव । ऐहिकसकलसुखभोगाय राज्ये वने वा ऽविशेषेण लोकमाता सीतैव । राज्ये तु प्रजाकार्यनिरीक्षणदुःखमभ्यधिकम् । वने तु तदभावः योगजसन्तोषश्चाधिकः । अतो राज्याद्वनमेव नः परमं सुखं दैवगत्या लब्धमिति धिया राज्यादपि वने ऽम्लानाभ्यधिकमुखप्रसादयुक्तः । अत उपेक्षिष्ट । सुमहायशाः-- मुहुः प्राप्तमपि राज्यं पितुः परलोकहेतुसत्यपरिपालनाय रामो न स्वीकरोतीति सुमहति यशस्यपेक्षा यस्य स तथा । अत उदासि । अथ परमो हेतुः-- पितुरादेशादिति । पितुः-- चतुर्दशसमा वनवासनियोगस्य परिपालनाद्धेतोः नैच्छत् ।। 1.1.36 ।। 

 ।। 1.1.37 ।। पादुके चास्य राज्याय न्यासं दत्त्वा पुनःपुनः ।। 37 ।।

निवर्तयामास ततो भरतं भरताग्रजः ।।

यद्येवं राज्यनाशप्रसङ्गः तत्रोच्यते पादुक इत्यादि । चो हेतौ । दत्त्वेति । दाञ् धातोरनेकार्थत्वात् कृतौ । एवं प्रतिनिवृत्तिं याचमानस्यास्य भरतस्य राज्याय राज्यरक्षणसिद्धये इमे अहल्यादौ दृष्टशक्तिकाचिन्त्यवैभवभगवत्पादस्पृष्टे पादुके एवालं, अतस्तयोर्न्यासं समर्पणं राज्यरक्षार्थं कृत्वा तत एव हेतोर्भरताग्रजो रामश्चतुर्दशसमानन्तरमेव वा सर्वथा प्रतिनिवर्तितव्यमिति तामेव च प्रतिनिवृत्तिं पुनः पुनर्याचमानं भरतं तदभ्युगमेन च निवर्तयामास । कश्चित्तु राज्याय राज्यं कर्तुं पादुके न्यासं दत्त्वेत्ययूयुजत् । अनेन न्यासो निक्षेपो यथा तथा दत्त्वेति वक्तव्यत्वतो न्यासस्य क्रियाविशेषत्वेन क्रियान्तर्भावात् पादुकयोरेव ददाति कर्मत्वात् तेनेदमर्थाभिप्रायस्य स्पष्टत्वात् सर्वथा चतुर्थ्या भाव्यत्वेन षष्ठ्योगः । न च न्यासमिति पदेन स्वत्वनिवृत्त्यभावात् संप्रदानाभाव इति ऋणं यज्ञदत्ताय दत्त्वेत्यादौ चतुर्थ्यभावप्रसङ्गात् । अपि च राज्याय पादुके दत्त्वेत्येतावतैव तदपेक्षितार्थसिद्धेर्न्यास इति पदं सर्वथा व्यर्थम् । न्यासतया स्वत्वनिवृत्तिमकृत्वैव दानं च पादुकयो रामस्यावश्यकं किल । यतः प्रत्यावृत्त्यनन्तरं सार्वभौमस्य ते दुर्लभे एवमादिदुर्योजनकठिनस्थले इदमेवास्य व्याख्यानं, त्यागो वा । तथा ऽग्रे ऽपि द्रष्टव्यम् ।। 1.1.37 ।। 

 ।। 1.1.38 ।। स काममनवाप्यैव रामपादावुपस्पृशन् ।। 38 ।।

नन्दिग्रामे ऽकरोद्राज्यं रामागमनकाङ्क्षया ।

स भरत इदानीं रामप्रतिनिवृत्तिरूपं काममनवाप्यैव रामपादावुपस्पृशन् नमस्कुर्वन् पश्चान्नमस्कृत्य प्रतिनिवृत्तो नन्दिग्रामे स्थित्वा रामः प्रतिज्ञातसमयानन्तरं राज्यायागमिष्यतीति रामागमनगतया ऽ ऽकाङ्क्षया पादुकां पुरस्कृत्य राज्यमकरोत् राज्यरक्षां कृतवान् ।। 1.1.38 ।। 

 ।। 1.1.39,40 ।। गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ।। 39 ।।

रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।

तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ।। 40 ।।

गत इत्यादि । श्रीमत्त्वादिविशिष्टो रामस्तु अत्यासत्त्या नागरस्य मन्त्रिवृद्धादिपौरजनस्य सौभ्रात्रादिदिदृक्षया पुनर्भरतस्य च तत्र चित्रकूटे आगमनं तत्संभावनां आलक्ष्य पर्यालोच्य तेषां प्रतिनिवर्तनप्रयासाद्वरमितो ऽपि किञ्चिद्दूरदेशगमनमिति सञ्चिन्त्य दण्डकारण्यानां रक्षश्चोरादिभूयिष्ठत्वात् एकाग्रः-- सज्जो भूत्वा दण्डकान् दण्डो नाम राजा तस्य निवासो जनपदः । "तस्य निवासः" इत्यणो "जनपदे लुप्" इति प्राग्दीव्यतीयाणो लुपि दण्डः । जनपदस्तु शुक्रशापेन वनतां प्राप्तः, अतः कुत्सायां कन् । अवान्तरबहुवचनत्वाद्दण्डकानिति । प्रविवेश ह । हेत्यैतिह्ये प्रसिद्धौ ।। 1.1.39,40 ।। 

 ।। 1.1.41 ।। प्रविश्य तु महारण्यं रामो राजीवलोचनः ।

विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ।। 41 ।।

प्रविश्येति ।। महच्च तदरण्यं च महारण्यम् । राजीवं पद्मम् । शरभङ्गाद्या ऋषयः । चापीत्यादि निपातमुच्चयः पद्यपूरकः क्वचित्क्वचित् । इहापि पद्यपूरकः ।। 1.1.41 ।। 

 ।। 1.1.42 ।। सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।

अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ।। 42 ।।

खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ।

इध्मवाहननामा ऽगस्त्यभ्राता । दिव्यं धनुरादिकं कार्याय प्रतिगृहाणेत्येवंरूपादगस्त्यवचनात् । ऐन्द्रं-- इन्द्रादगस्त्य आगतं शरासनम् । इदमिहानुसन्धेयम्-- पूर्वं भार्गवं जित्वा ततः प्राप्तं यद्वैष्णवं धनुर्भगवता वरुणे न्यस्तम्, तदिन्द्रेण वरुणादाहृत्यागस्त्ये स्थापितं रामाय दातुम् । तथा खड्गादिकं च द्रष्टव्यम् । किमर्थमेवं कल्पना? उच्यते-- आरण्ये अगस्त्येनोच्यते--

"इदं दिव्यं महच्चापं हेमरत्नविभूषितम् ।

वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ।।

अमोघः सूर्यसङ्काशो ब्रह्मदत्तश्शरोत्तमः ।

दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ ।।

तद्धनुस्तौ च तूणीरौ शरं खड्गं च मानद ।

जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ।।"

इति स्वेन दीयमानधनुषो ऽगस्त्येन वैष्णवत्वप्रतिपादनात् । तूणी चेति चकारेण धनुषो ऽपि महेन्द्रदत्तत्वप्रतिपादनं तत्र । यद्वा इन्द्रः परमेश्वरो विष्णुः तस्येदमैन्द्रम् । अनुरूपायुधलाभात्परमप्रीतः । अक्षयाः सायका ययोस्तौ तथा ।। 1.1.42 ।। 

 ।। 1.1.43 ।। वसतस्तस्य रामस्य वने वनचरैस्सह ।। 43 ।।

ऋषयो ऽभ्यागमन् सर्वे वधायासुररक्षसाम् ।

वनचरैः वानप्रस्थमुनिभिस्सह तस्मिन् वने वसतस्तस्य रामस्यान्तिकं असुररक्षसां असुराः कबन्धादयः, रक्षांसि खरादयः तेषां वधाय वधं प्रार्थयितुं "क्रियार्थोपपदस्य--" इत्यादिना चतुर्थी । सर्वे ऋषयो वनान्तरवर्तिनश्चाभ्यागमन् ।। .1.1.43 ।। 

 ।। 1.1.44 ।। स तेषां प्रतिशुश्राव राक्षसानां तदा वने ।। 44 ।।

स रामस्तदा तस्मिन् वने तेषां राक्षसानां वधं तेभ्यः सर्वेभ्य ऋषिभ्यः प्रतिशुश्राव प्राप्तकालं असुररक्षांसि सर्वथा संहरिष्ये, नोपेक्षे इति प्रतिज्ञातवानित्यर्थः ।। 1.1.44 ।। 

 ।। 1.1.45 ।। प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् ।

ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ।। 45 ।।

एवं ऋषीणामुच्यमानविशेषणानामपेक्षितः रक्षसां वधश्च संयति यथाप्राप्तकाले करिष्यामीति अचिन्त्यामितनिजशक्तिवैभवाद्रामेण प्रतिज्ञातः ।। 1.1.45 ।। 

 ।। 1.1.46 ।। तेन तत्रैव वसता जनस्थाननिवासिनी ।

विरूपिता शूर्पणखा राक्षसी कामरूपिणी ।। 46 ।।

तेन तत्रैव दण्डकारण्यदक्षिणप्रदेशवर्तिपञ्चवट्याश्रम इत्यर्थः । जनस्थानं नाम रावणसामाजिकबलनिवासदेशः । विरूपिता तत्करोतीति ण्यन्तान्निष्ठा । यद्वा तारकादेशकृतिगणत्वादितच् । नासिकाछेदनेनेति शेषः । शूर्पणखा "नखमुखात्सञ्ज्ञायाम्" इति ङीब्निषेधः । "पूर्वपदात्सञ्ज्ञायां--" इति णत्वम् । कामः-- इच्छा । स्वाभीष्टरूपग्रहशक्तिमती ।। 1.1.46 ।। 

 ।। 1.1.47 ।। ततश्शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।

खरं त्रिशिरसं चैव दूषणं नाम राक्षसम् ।। 47 ।।

निजघान रणे रामस्तेषां चैव पदानुगान् ।

सर्वराक्षसानिति ।। जनस्थाननिवासिन इति शेषः । पदमनुगच्छन्तीति पदानुगाः । "अन्यत्रापि--" इति वचनाड्डुः टिलोपः ।। 1.1.47 ।। 

 ।। 1.1.48 ।। वने तस्मिन्निवसता जनस्थाननिवासिनाम् ।। 48 ।।

रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।

निवसतेति । रामेणेति शेषः । चतुर्दशसहस्रसङ्ख्याकानि रक्षसां सैन्यानीति शेषः ।। 1.1.48 ।। 

 ।। 1.1.49,50 ।। ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ।। 49 ।।

सहायं वरयामास मारीचं नाम राक्षसम् ।

वार्यमाणस्सुबहुशो मारीचेन स रावणः ।। 50 ।।

न विरोधो बलवता क्षमो रावण तेन ते ।

ज्ञातिवधमिति ।। रावणादयः खरादयश्च द्वैमातुरः विश्रवसः पुत्राः । अतो ज्ञातयो रावणस्य खरादयः । रावणशब्दश्च विश्रवः प्रकृतिकः । कथम्? विश्रवसः अपत्यमित्यर्थे "विश्रवणरवण" इत्यसन्नियोगे विश्रवणरवणयोरादेशयोर्विधानात् । मूर्छितः व्याक्षिप्तचित्तस्सन् । हे रावण ते बलवता तेन रामेण विरोधो न क्षमः न युक्तः, न हितः च परदारहरणस्य परमानर्थत्वात्, बलवद्विरोधस्य खरादेरिव निजनाशान्तत्वाच्चेत्येवं सुबहुशो मारीचेन द्वित्रिःपञ्चसप्तवारं वार्यमाणो ऽपि स ज्ञातिवधक्रोधमूर्छितो रावणो मारीचं नाम प्रसिद्धं राक्षसं सीतापहारे सहायं वरयामास । वृञ् श्नौ, श्नायां वृङ्, णौ वृञ् वरण इति स्वार्थेण्यन्तो ऽपि धातुरस्ति । तथापि नास्माण्णिच् । अपि तु वरशब्दात् "तत्करोति" इति णिच् ।। 1.1.49,50 ।। 

 ।। 1.1.51 ।। अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ।। 51 ।।

जगाम सहमारीचस्तस्याश्रमपदं तदा ।

अथोक्तप्रकारं तद्वाक्यं मारीचवाक्यं तु कालचोदितः हेतुगर्भं विशेषणम् विधिचोदितत्वाद्रावणो ऽनादृत्य सहमारीचः "वोपसर्जनस्य" इति विकल्पात् सहशब्दस्य सत्वाभावः । तदा तस्य रामस्य आश्रमपदं जगाम ।। 1.1.51 ।। 

 ।। 1.1.52 ।। तेन मायाविना दूरमपवाह्य नृपात्मजौ ।। 52 ।।

जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ।

मायाविना तेन मारीचेन । "अस्माया--" इत्यादिना विनिः । नृपात्मजौ दूरमपवाह्य-- वहेर्ण्यन्तात् ल्यप्-- अपसरणं कारयित्वा । गृध्रं हत्वेति । पक्षापहारेण कण्ठगतप्राणं कृत्वेति यावत् ।। 1.1.52 ।। 

 ।। 1.1.53 ।। गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ।। 53 ।।

राघवश्शोकसन्तप्तो विललापाकुलेन्द्रियः ।

निहतं निहतप्रायम् । श्रुत्वेति । गृध्रमुखादिति शेषः । विललाप पर्यदेवयत् । आकुलानि उत्कटरजस्तमोविजृम्भितशोकपरवशानि इन्द्रियाणि यस्य स तथा ।। 1.1.53 ।। 

 ।। 1.1.54,55 ।। ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ।। 54 ।।

मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह ।

कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ।। 55 ।।

तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ।

तेनैव शोकेनेति । निवृत्तिहेतुमप्राप्तेनाभिभूयमान एव सन् । मार्गमाण इति । मार्गयमाणः । (संस्कारे वा) णौ मार्ग अन्वेषण इति । "णेर्विकल्पितत्वान्मार्गमाण इति । रूपेण विकृतमिति । "प्रकृत्यादिभ्य उपसङ्ख्यानम्" इति तृतीया । निहत्य ददाह च । ततस्स कबन्धः स्वर्गं गतः ।। 1.1.55 ।। 

 ।। 1.1.56 ।। स चास्य कथयामास शबरीं धर्मचारिणीम् ।। 56 ।।

श्रमणीं धर्मनिपुणामभिगच्छेति राघवम् ।

गच्छन् स कबन्धः अस्य रामस्योपचिकीर्षया शबरीं उच्यमानविशेषणां अभिगच्छेति राघवं कथयामासेति योजना । श्रमणीं तापसीं "श्रमु तपसि खेदे च" । अस्मात्कर्तरि ल्युट् । टित्वात् ङीप् । सर्वतो ऽस्माभिरुचित एक एव पाठो निश्चयाय लिख्यते ।। 1.1.56 ।। 

 ।। 1.1.57,58,59 ।। सो ऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ।। 57 ।।

शबर्या पूजितस्सम्यग्रामो दशरथात्मजः ।

पंपातीरे हनुमता सङ्गतो वानरेण ह ।। 58 ।।

हनुमद्वनाच्चैव सुग्रीवेण समागतः ।

सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ।। 59 ।।

आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः ।

हनुमद्वचनादिति । ह्रस्वान्तश्शब्दः क्वचित् । छन्दोवत् दीर्घश्च द्रष्टव्यः । सुग्रीवो युष्मत्सङ्गतिमभिकाङ्क्षत इत्यादिरूपं हनूमद्वचनं । सुग्रीवाय चेति । सङ्गतायेति शेषः । शंसदिति । "बहुलं छन्दस्यमाङ्योगे ऽपि" इत्यडभावः । महाबल इति । सुग्रीवेण स्वपुरुषार्थसाधकमहाबलत्वेनावगत इत्यर्थः । किमशंसदित्यतः आदित इत्यादि । तत् प्रसिद्धं वृत्तं स्वीयं यथा येन प्रकारेण प्रसिद्धं तथैव तदादितः निजजन्मारभ्याशंसत् । सीताया वृत्तमपि विशिष्य रावणापहारान्तमशंसत् ।। 1.1.57,58,59 ।। 

 ।। 1.1.60 ।। सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ।। 60 ।।

चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ।

वानरः सुग्रीवो ऽपि तत्सर्वं च श्रुत्वा स्वसमानदुःखमहाबलसम्बन्धलाभात् सुप्रीतस्सन् रामेणाग्निसाक्षिकमेव अग्निस्साक्षी साक्षादनुभविता यस्य तत्तथा । ततः "शेषाद्विभाषा" इति कप् । पृषोदरादित्वात्साक्षिशब्दस्साधुः । सख्यं चकार ।। 1.1.60 ।। 

 ।। 1.1.61 ।। ततो वानरराजेन वैरानुकथनं प्रति ।। 61 ।।

रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ।

प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ।। 62 ।।

ततो वैरानुकथनं वालिनस्तव च वैरे किं कारणमिति रामकृतमनुकथनं अनुप्रश्नं प्रति यत् प्रत्युत्तरमावेदितव्यं तत्सर्वं दुःखितेन रामवद्दारापहारान्तकष्टैस्सञ्जातदुःखेन सुग्रीवेण प्रणयाद्रामायावेदितं तदा । एवं तद्वृत्तान्तश्रवणानन्तरकाले रामेण वालिवधं च प्रति उद्दिश्य प्रतिज्ञातं अवश्यं हनिष्ये वालिनमिति ।। 1.1.62 ।। 

 ।। 1.1.63 ।। वालिनश्च बलं तत्र कथयामास वानरः ।

सुग्रीवश्शङ्कितश्चासीन्नित्यं वीर्येण राघवे ।। 63 ।।

तत्र ऋश्यमूकपर्वते वालिनो बलं च कक्षीकृतरावणतया पुरा सूर्योदयादरुणोदयानन्तरं चतुस्समुद्रलङ्घनादिरूपं कथयामास । अपि च सुग्रीवो नित्यं वीर्येण वालिना तुल्यो न वेति शंकितश्चासीत् । मतिबुद्धिसूत्रे चकारेण शंकिताद्याः कर्तरि क्तान्ताः सङ्गृहीताः ।। 1.1.63 ।। 

 ।। 1.1.64 ।। राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।

दर्शयामास सुग्रीवो महापर्वतसन्निभम् ।। 64 ।।

अपि च राघवप्रत्ययार्थं राघवस्य वालिमहाबलज्ञापनार्थं उत्तमं बलप्रत्यायनोत्तमसाधनं महापर्वतसन्निभं दुन्दुभेः कायं दर्शयामास । यस्य काय इदानीमेतादृशस्तादृशो दुन्दुभिश्च वालिना हत इति वालिबलप्रख्यापनं भवति ।। 1.1.64 ।। 

 ।। 1.1.65 ।। उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।

पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ।। 65 ।।

कुत्स्मिदुत्स्मिरपि स्वार्थे णिः । महाबाहुः महाबलो रामः अस्थि प्रेक्ष्योत्स्मयित्वा उत्स्मितं ईषत्स्मयं कृत्वा तत् पादाङ्गुष्ठेन चिक्षेप । क्षिप्तं च तत् दशयोजनपरिमितदूरं संपूर्णं अनुपचारेण दशयोजनादन्यूनतया क्षिप्तमभूत् ।। 1.1.65 ।। 

 ।। 1.1.66 ।। बिभेद च पुनस्सालान् सप्तैकेन महेषुणा ।

गिरिं रसातलं चैव जनयन् प्रत्ययं तदा ।। 66 ।।

पुनश्च प्रत्ययं जनयन् । हेतौ शता । तदा तदर्थं एकेनैव महेषुणा सकृत्प्रयोगेणैव च सप्तसालान् सालवृक्षान् ततः पुरोवृत्तिगिरिं रसातलं षष्ठमधोलोकञ्च बिभेद । पाताले रसातलो नामाधोलोकभेदः । अतलवितलसुतलतलातलमहातलरसातलपाताला इति सप्ताधोलोकाः ।। 1.1.66 ।। 

 ।। 1.1.67 ।। ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः ।

किष्किन्धां रामसहितो जगाम च गुहां तदा ।। 67 ।।

ततः अनन्तरं भगवदतिरिक्तेन येन केन चिदपि दुष्करेण तेन कर्मणा विश्वस्तः प्राप्तविस्रंभः । इडभावश्छान्दसः । प्रीतमनाश्च महाकपिः किष्किन्धाख्यां गुहां रामसहितो जगाम । पारस्करप्रभृतिषु "किष्किन्धा गुहा" इति वचनात् षत्वम् ।। 1.1.67 ।। 

 ।। 1.1.68 ।। ततो ऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।

तेन नादेन महता निर्जगाम हरीश्वरः ।। 68 ।।

ततः अगर्जत् इति पदम् । हरीश्वरो वाली ।। 1.1.68 ।। 

 ।। 1.1.69 ।। अनुमान्य तदा तारां सुग्रीवेण समागतः ।

निजघान च तत्रैनं शरेणैकेन राघवः ।। 69 ।।

तदा ऽङ्गदमुखादवगतसुग्रीवरामसहायं, अत एव संयुगनिर्गमनं वारयन्तीं तारां स्वस्त्रियं "मया ऽकृतापकारो रामो मह्यं नापकरिष्यति" इति वचनेनानुमान्य अनुमतिं करोति, तामनुमानयति । मानयतेः क्त्वाया ल्यप् । "गतिबुद्धि" इत्यादिना तारायाः कर्मत्वम् । कृतानुमतिकां कृत्वेत्यर्थः । सुग्रीवेण वाली युद्धाय समागतो ऽभवत् । तत्र संयुगे एनं "वालिनं जहि काकुत्स्थ मया बद्धो ऽयमञ्जलिः" इत्येवंरूपात्सुग्रीववचनात् राघव एकेनैव शरेण निजघान । अत्र सुग्रीववचनस्य हननप्रयोजकत्वकथनमनपकारिवालिवधस्यायुक्तत्वे ऽपि मित्रापकारित्वेन हननमिति द्योतनायानुवादरूपम् ।। 1.1.69 ।। 

 ।। 1.1.70 ।। ततस्सुग्रीववचनात् हत्वा वालिनमाहवे ।

सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ।। 70 ।।

तत इत्यादि । एवं सुग्रीववचनादाहवे वालिनं हत्वा राघवः सुग्रीवमेव तस्य वालिनो राज्ये प्रत्यपादयत् प्रतिष्ठापितवान् ।। 1.1.70 ।। 

 ।। 1.1.71 ।। स च सर्वान् समानीय वानरान् वानरर्षभः ।

दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ।। 71 ।।

स च दिशः सर्वा दिशः प्रति, दिदृक्षुः अन्वेषिषुरिति यावत् ।। 1.1.71 ।। 

 ।। 1.1.72 ।। ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली ।

शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ।। 72 ।।

संपातेः गृध्रस्येति योजना । पुप्लुवे । प्लुगतौ लिट् । प्लुतवान् उल्लङ्घितवानिति यावत् ।। 1.1.72 ।। 

 ।। 1.1.73 ।। तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।

ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ।। 73 ।।

रावणपालितां लङ्कापुरीमासाद्य, "आङः षदेः गतौ णौ च" इति स्वार्थणिच्चास्ति सदिः । तत्र लङ्कायां । अशोकवनिकां अशोकवनं प्रमदावनं, तस्मादज्ञाते सञ्ज्ञायां वा कन् । "प्रत्ययस्थात्" इतीत्वम्, तां ध्यायन्तीं रामविषयकध्यानारूढां सीतां ददर्श ।। 1.1.73 ।। 

 ।। 1.1.74 ।। निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च ।

समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ।। 74 ।।

अभिज्ञानं अङ्गुलीयकरूपं । प्रवृत्तिं स्ववियोगानन्तरजरामसुग्रीवसख्यादिसर्ववृत्तान्तम् । त्रैकालिकसर्वव्यापाराः राघवस्य त्वत्प्रत्यापत्त्येकप्रवृत्तय इति तत्वकथनेन वैदेहीं समाश्वास्य । तोरणं अशोकवनिकागतप्रासादबहिर्द्वारसन्निवेशं अशोकवनं च मर्दयामास ।। 1.1.74 ।। 

 ।। 1.1.75 ।। पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।

शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ।। 75 ।।

सेनाग्रगाः सेनापतयः पिङ्गलनेत्रप्रमुखाः । मन्त्रिसुताः जम्बुमाल्यादयः । अक्षो रावणकुमारः । ग्रहणं इन्द्रजित्प्रयुक्तब्रह्मास्त्रकृतबन्धनम् ।। 1.1.75 ।। 

 ।। 1.1.76 ।। अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् ।

मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ।। 76 ।।

"मदस्त्रस्यामोघतस्तेन बन्धनमात्रं, चतुःपञ्चघटिकानन्तरं विमोक्षश्च भवतु" इति भगवतो ब्रह्मणो वरदानानुग्रहात् चतुःपञ्चघटिकानन्तरं ब्रह्मास्त्रेणोन्मुक्तमात्मानं स्वं ज्ञात्वा यदृच्छया कार्यान्तरप्रसङ्गेन रावणदर्शनापेक्षया यन्त्रिणः बध्वा नेतृ़न् तान् राक्षसान् प्रति वीरः हन्तुं समर्थो ऽपि मर्षयन् क्षमां कुर्वन् ।। 1.1.76 ।। 

 ।। 1.1.77 ।। ततो दग्ध्वा पुरीं लङ्कां ऋते सीतां तु मैथिलीम् ।

रामाय प्रियमाख्यातुं पुनरायान् महाकपिः ।। 77 ।।

ततः रावणदर्शनादिव्यापारानन्तरं मैथिलीं सीतामृतेः तदवस्थानप्रदेशं विना "अन्यारात्" इति पञ्चम्यभाव आर्षः । रामाय प्रियं सीतादर्शनरूपं आख्यातुं पुनः रामान्तिकं महाकपिरायात् ।। 1.1.77 ।। 

 ।। 1.1.78 ।। सो ऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।

न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ।। 78 ।।

सो ऽभिगम्य । "वा ल्यपि" इत्यनुनासिकलोपाभावः । महात्मानं रामं प्रति प्रदक्षिणं प्रगतो दक्षिणं प्रदक्षिणाख्योपचारं कृत्वा अमेयात्मा अपरिच्छेद्यबलबुध्यादिवैभवः सः, दृष्टा सीतेति तत्त्वतः सार्वविभक्तिकस्तसिः । तत्त्वं न्यवेदयदित्यर्थः । अत्र दर्शनपदप्रथमप्रयोगः हनुमदुक्तिचातुरी । प्रथमतो दिदृक्षितार्थपदग्रहेणादर्शनविषयकसन्देहोदयो मा भूदिति ।। 1.1.78 ।। 

 ।। 1.1.79 ।। ततस्सुग्रीवसहितो गत्वा तीरं महोदधेः ।

समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ।। 79 ।।

क्षोभयामासेति । लङ्कागमनमार्गप्रदानौदासीन्यादिति शेषः ।। 1.1.79 ।। 

 ।। 1.1.80 ।। दर्शयामास चात्मानं समुद्रस्सरितां पतिः ।

समुद्रवचनाच्चैव नलं सेतुमकारयत् ।। 80 ।।

दर्शयामासेति । शरक्षोभित इति शेषः । समुद्रेति । नलं सेतुमकारयदिति । नलेन सेतुं कृतवानित्यर्थः । "हृक्रोरन्यतरस्याम्" इत्यणौ कर्तुः प्रयोज्यस्य कर्मत्वम् ।। 1.1.80 ।। 

 ।। 1.1.81 ।। तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।

रामः सीतामनुप्राप्य परां व्रीलामुपागमत् ।। 81 ।।

तेनेति । सेतुनेति यावत् । अनुप्राप्य प्रत्यापद्य । परां व्रीलां रक्षोगृहे वत्सरोषितां पुनर्गृहीतवानिति लोकापवादशङ्काजनितां । तथा कथमप्युषितामहमुभयकुलशुद्धो लोकविख्यातकीर्तिवैभवो गृह्णामीति स्वत एव परां व्रीलाम् ।। 1.1.81 ।। 

 ।। 1.1.82 ।। तामुवाच ततो रामः परुषं जनसंसदि ।

अमृष्यमाणा सा सीता विवेश ज्वलनं सती ।। 82 ।।

ततः अनन्तरं रामः जनसंसदि तां सीतां प्रति परुषं रूक्षविगर्हितं मर्मस्पृग्वचनान्युवाच । लोकस्य नास्यां रामस्य कामादिदोषतः पुनर्जिघृक्षास्तीति प्रत्यायनार्थम् । अथ उक्तरूपवचनान्यमृष्यमाणा सती सा सीता ज्वलनं विवेश । सतीति पातिव्रत्यबलान्निजेच्छयाग्निप्रादुर्भावनशक्तिमत्वद्योतनाय । वस्तुतो लक्ष्मणप्रादुर्भावितो ज्वलनः ।। 1.1.82 ।। 

 ।। 1.1.83 ।। ततो ऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम् ।

बभौ रामः संप्रहृष्टः पूजितस्सर्वदैवतैः ।। 83 ।।

ततो जनसंसद्येव "विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव" इत्येवंरूपादग्निवचनात्स्वयं च विगतकल्मषां ज्ञात्वा लोकस्य च तथात्वं प्रत्याय्य संप्रहृष्टः सर्वदैवतैश्च पूजितो बभौ । एवमेव पाङ्क्तः क्रमपाठः । एवं स्थिते "सदेवर्षि" इत्यर्धानन्तरं "बभौ रामः" इत्यर्धं लेखकदोषादुपरि लिखितमिति कश्चित् ।। 1.1.83 ।। 

 ।। 1.1.84 ।। कर्मणा तेन महता त्रैलोक्यं सचराचरम् ।

सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ।। 84 ।।

महता तेन रावणवधान्तेन कर्मणा सचराचरं चराचरप्रजासहितं चरप्रजाः तिर्यगूर्ध्वस्रोतसः । अचरप्रजाः अर्वाक्स्रोतसः । सदेवर्षिगणं देवगणाः इन्द्रादयः । ऋषिगणाः विश्वामित्रादयः । त्रय एव लोकास्त्रैलोक्यम् । चतुवर्णादित्वात् स्वार्थे ष्यञ् । अत ऊर्ध्वं तिर्यगर्वाक्स्रोतसोरपि वाद ऊर्ध्वस्रोतश्शेषत्वात् । सचराचरं स्वस्वशेषतिर्यगर्वाक्स्रोतोयुक्तं त्रैलोक्यं त्रिलोकवर्त्यशेषमूर्ध्वस्रोतोमात्रं विशिष्य सदेवर्षिगणं तन्महात्मनो राघवस्य तेन कर्मणा निजैहिकामुष्मिकार्थहेतुतपोयज्ञादिप्रवृत्तिप्रत्यूहनिवर्तकेन तुष्टमभवदिति । अत्र सदेवर्षिगणमिति विशिष्य वचनं रावणस्य मर्त्योपेक्षकत्वात् देवर्षिगणयोरेव साक्षादरातिबुध्या नित्योपद्रवकरणात् रावणवधाद्विशिष्य हर्षः । एवं लक्षणाश्रयेण व्याख्या रावणपीडातन्निवृत्तिपरज्ञानप्रसक्तिरहितार्वाक्तिर्यक्स्रोतसो रावणवधमूलसन्तोषासम्भवात्, रावणवधाद्यज्ञादिप्रवृत्त्या ऽस्माकं वृष्ट्यादिर्भाविष्यतीति स्मरणजसन्तोषो दूरापास्तः । "अथेतरेषां पशूनामशनायापिपासे एवाभिविज्ञानं न विज्ञातं वदन्ति न विदुः श्वस्तनं न लोकालोकौ त एतावन्तो भवन्ति यथाप्रज्ञं हि संभवाः" इति श्रुतेः ।। 1.1.84 ।। 

 ।। 1.1.85 ।। अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् ।

कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ।। 85 ।।

लङ्कायामिति । लङ्काराज्यपद इत्यर्थः । तदा विभीषणाभिषेकानन्तरकाले । रावणवधसीताबन्दीविमोकानन्तरमपि प्राक्प्रतिज्ञातविभीषणाभिषेकलक्षणकिञ्चित्कृत्यस्यानिर्वर्तितत्वात्तस्य च निर्वृत्तौ सर्वात्मना कृतकृत्यत्वम् । अत एव विगतचिकीर्षितकृतिविषयकचिन्तातापः प्रमुमोद मुदहर्षे व्यत्ययात्परस्मैपदम् ।। 1.1.85 ।। 

 ।। 1.1.86 ।। देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् ।

अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ।। 86 ।।

"सुप्तोन्मिषितवदुत्तिष्ठन्तु वानराः" इत्येवं रूपं वरं देवताभ्यः प्राप्य । सुहृदः .सुग्रीवविभीषणादयः ।। 1.1.86 ।। 

 ।। 1.1.87 ।। भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ।

भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत् ।। 87 ।।

भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयदिति । --"चतुर्दशे हि संपूर्णे वर्षे ऽहनि रघूत्तम । न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम्" इति भरतेन प्रतिज्ञातत्वात्, भरद्वाजाश्रमे चतुर्दशसमासमाप्त्यनन्तरं एकद्विदिनविलम्बस्य प्राप्तत्वात् स्वागमनप्रबोधनाय हनुमद्विसर्जनम् ।। 1.1.87 ।। 

 ।। 1.1.88 ।। पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।

पुष्पकं तत्समारूह्य नन्दिग्रामं ययौ तदा ।। 88 ।।

पुनरित्यादि । भरद्वाजाश्रमे पुष्पकादवतीर्णत्वात् पुनश्च तत्पुष्पकं समारुह्य पुनश्चाख्यायिकाः-- उपलब्धार्थविषयिणी कथा आख्यायिका । भरद्वाजाश्रमावरोहात्पूर्वमिव सीतायै जल्पन्-- "जल्पव्यक्तायां वाचि" व्यक्तमालपन् । सुग्रीवसहित इति विभीषणादेरुपलक्षणम् ।। 1.1.88 ।। 

 ।। 1.1.89 ।। नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितो ऽनघः ।

रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ।। 89 ।।

नन्दिग्रामे भरतेन सह स्वस्यापि व्रतप्रयुक्तां जटां हित्वा-- "जहातेश्च क्त्वि" इति हिभावः त्यक्त्वा सर्वैर्भातृभिस्सह प्राप्तविसृष्टं राज्यं पुनरवाप्तवान् । अत्रेदमनुसन्धेयम्-- रामस्य राज्यप्राप्त्यनन्तरकाले वाल्मीकेः "को नु" इत्यादिकस्य जिज्ञासितदिव्यकाव्यनायकस्य, अर्थात् काव्यविषयस्य तच्चरितस्य च प्रश्नः । अन्यथा नारदेन तच्चरितोक्तेरपृष्टोत्तरत्वप्रसङ्गात् । तथापृष्टश्च नारदः तादृशं काव्यनायकं "इक्ष्वाकुवंशप्रभवः" इत्यादिनोपदिश्य "तेमवं गुणसंपन्नम्" इत्यादिना "राज्यं पुनरवाप्तवान्" इत्यन्तेन वृत्तं तदीयचरितं चोपदिदेश ।। 1.1.89 ।। 

 ।। 1.1.90 ।। प्रहृष्टमुदितो लोकस्तुष्टः पुष्टस्सुधार्मिकः ।

निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ।। 90 ।।

अतःपरमुत्तरकाव्यविषयं भविष्यत्त्वेनोपदिशति-- प्रहृष्टेत्यादि । प्रहृष्टः प्रातिस्विकपुत्रपश्वादिसम्पत्त्या मुदितः साधारणेन क्षामक्षोभराहित्यजेन मोदेन । लोकः सर्वाः प्रजाः । बहुप्रदाद्भगवतो यावदपेक्षितसांसारिकार्थलाभात्तुष्टः, अत एव पुष्टः दारिद्र्यकार्श्यरहितः । आमयः मनःपीडा, रोगः देहीयो व्याधिः । दुर्भिक्षेण चोरादिजेन

च भयेन विवर्जितः । भिक्षाया व्यृद्धिः दुर्भिक्षं, व्यृद्ध्यर्थे ऽव्ययीभावः भविष्यतीति शेषः ।। 1.1.90 ।। 

 ।। 1.1.91 ।। न पुत्रमरणं केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् ।

नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ।। 91 ।।

पुत्रमरणं न द्रक्ष्यन्तीति । पितृषु स्वेषु जीवत्स्विति शेषः । अविधवा इति । अतितीव्रवैराग्येण भर्त्रनुगमनेन, धवाङ्गभूतसत्पुत्रवत्वेन वेति शेषः ।। 1.1.91 ।। 

 ।। 1.1.92,93 ।। न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः ।

न वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा ।। 92 ।।

न चापि क्षुद्भयं तत्र न तस्करभयं तथा ।

नगराणि च राष्ट्राणि धनधान्ययुतानि च ।। 93 ।।

क्षुद्भयमिति । क्षुदुपशमोपायाभावजमित्यर्थः ।। 1.1.93 ।। 

नित्यं प्रमुदितास्सर्वे यथा कृतयुगे तथा ।

कृतयुगे अधर्मासम्बन्धः स्वाभाविक इति तत्र नित्यं प्रजाप्रमोदः । त्रेतायामधर्मस्य पादांशतस्सम्बन्धप्रसङ्गे रामलक्ष्मणवैभवात् तदनाक्रमात् नित्यप्रमोदत्वम् ।।

 ।। 1.1.94 ।। अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ।। 94 ।।

एवं रामस्य राज्यपरिपालनवैभवचरितमुपदिश्य भविष्यद्रामस्य वृत्तान्त उपदिश्यते-- अश्वमेधेत्यादि । अश्वमेधशतैरिष्ट्वेति । तेषां निष्कामतया ऽनुष्ठानात् ब्रह्मलोकहेतुत्वम् । क्त्वाप्रत्ययात्कार्यकारणभावश्चावसितः । यद्यपि ब्रह्मैव भगवान् रामः स्वस्वलोकप्राप्तौ न किञ्चित्साधनमपेक्षते अथापि मानुषोपाधिप्रयुक्तावर्ज्यसप्ताघशमनद्वारा ब्रह्मलोकोपयोगः । यथा ब्राह्मणस्यानुपचरितब्रह्ममुक्तेः स्वनित्यब्रह्मलोके ब्रह्मविद्यानुष्ठानोपयोगः৷৷৷৷ ।। 1.1.94 ।। 

 ।। 1.1.95 ।। गावां कोट्ययुतं दत्वा ब्रह्मलोकं प्रयास्यति ।

असङ्ख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशाः ।। 95 ।।

असङ्ख्येयं धनं दत्वा ब्रह्मलोकं प्रयास्यतीति पूर्वेण सम्बन्धः ।। 1.1.95 ।। 

 ।। 1.1.96 ।। राजवंशान् शतगुणान् स्थापयिष्यति राघवः ।

चातुर्वर्ण्यं च लोके ऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ।। 96 ।।

कामरूपकन्याकुब्जादि तत्तद्राज्यपदस्थान् राजवंशान् शतगुणान् अनेकगुणवृद्धिमतः स्थापयिष्यति । शाश्वततत्तद्राज्यप्रदानेनेति शेषः । चत्वारो वर्णाश्चातुर्वर्ण्यं, स्वार्थे ष्यञ् । नियोक्ष्यतीति । शङ्कितस्वधर्मभ्रंशमपीति शेषः ।। 1.1.96 ।। 

 ।। 1.1.97 ।। दशवर्षसहस्राणि दशवर्षशतानि च ।

रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ।। 97 ।।

ब्रह्मलोकं प्रयास्यतीत्युक्तं तत्कियत्कालानन्तरमित्यपेक्षायां दशवर्षेत्यादि । उपासित्वेति । राज्यपरिपालनमेव नित्यप्राप्तं योगबुध्या ऽनुष्ठायेत्यर्थः । तथा हि गीयते-- "स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः" इति, "स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः" । इति च । ब्रह्मलोकं गमिष्यतीति । एवं भगवतो रामस्य ब्रह्मत्वं रामतुल्ययज्ञदानादिनिजनित्यकर्मोपेतयोगिमात्रप्राप्यत्वं ब्रह्मलोकस्यैव सर्वलोकोत्तमत्वं श्रुतिसिद्धं चोपदिष्टं वेदितव्यम् । इह केचिदतिशब्दब्राह्मणाः अविदितकुलदेवताः अनाकुलितकुललोकाः अनुपासितकुलविद्याः अनाश्रितकुलदेशिकाः अखिलवेदशास्त्रनिरतिशयश्रुतब्रह्मतल्लोकप्राशस्त्याः धृष्टधूपपिशाचवत् श्रुततदुत्कर्षामर्षोत्थिता ब्रह्मलोकशब्दयोरन्यथानयने अतिमहत्प्रयतन्ते । कथम्? ब्रह्मेति विष्णुश्शिवो वा तस्य लोको ब्रह्मलोकः । स च भूर्भुवःस्वरादिसर्वलोकोपरिवर्तिसत्यब्रह्मलोकादपि परः इति तथा ब्रह्मैव लोको ब्रह्मलोक इत्यादि । भगवानेव तेभ्यः प्रतिवक्ति-- "तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ।।" इत्यीदि "ततो यान्त्यधमां गतिम्" --इत्यन्तेन । अस्माभिस्तु तेषामस्मदन्तेवास्यनुग्रहाय यद्वक्तव्यं तदाकरे प्रपञ्चितमिति नेह बहुग्रन्थसाध्यतस्सुप्रतिपादनम् । बत नारद एषामदुःखाय विष्णुपदं न प्रायुङ्क्त, नावेदीद्वा? लोकपदं प्रयाणपदं च द्वितीयार्धे व्यक्तं प्रायुङ्क्त ।। 1.1.97 ।। 

 ।। 1.1.98 ।। इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।

यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ।। 98 ।।

अथ नारदः स्वोपदिष्टसङ्क्षेपपाठफलं प्रवृत्यङ्गमुपदिशति-- इदमित्यादि ।। पूयते ऽनेनेति पवित्रम् । "कर्तरि चर्षिदेवतयोः" इति यथासङ्ख्यं करणे कर्तरि इत्रः । ऋषिः वेदः । वेदतुल्यञ्चेदम् । तथोक्तं वेदैश्च सम्मितमिति । तुल्यमिति यावत् ।। 1.1.98 ।। 

 ।। 1.1.99 ।। एतदाख्यानमायुष्यं पठन् रामायणं नरः ।

सपुत्रपौत्रस्सगणः प्रेत्य स्वर्गे महीयते ।। 99 ।।

अनर्थनिवृत्तिवदर्थावाप्तिरप्युपदिश्यते-- एतदित्यादि । आयुः प्रयोजनमस्य आयुष्यं, स्वर्गादिभ्यो यद्वक्तव्यम् । यद्वा निमित्ताधिकोर? "गोद्व्यचो ऽसङ्ख्या"-- इत्यादिना यत् । आयुष्यं वर्चस्यं इत्यादि स्वरितत्वदर्शनात् कश्चन यत् प्रत्यय एवेह मृग्यः । तत्र संयोगरूपे निमित्ते उत्पातरूपे वा निमित्ते अयं यत्प्रत्ययः । अत्र चायुरादिफलमेव कर्त्रा संयुज्यत इति समस्ति । इह च संयोगरूपनिमित्तम् । आख्यानं आख्यायिका, उपलब्धार्थम् । रामायणमिति । अयगतौ भावे ल्युट्, अयनं चरितम् । रामस्यायनं रामायणं, "पूर्वपदात्सञ्ज्ञायां" इति णत्वम् । पठन्निति हेतौ शता । अत एव हेतोः सपुत्रेत्यादिफलम् । गणः दासीदासादिगणः । सपुत्रपौत्रस्सगणः इह ऐहिकान् भोगान् भुक्त्वा प्रेत्य मृत्वा स्वर्गे पुण्यलोके महीयते । महधातुः पूजार्थः । स्वर्गिभिस्सत्कृतो मोदत इत्यर्थः ।। अथात्र रामायणमित्यनेन विस्तृतसङ्क्षेपाविशेषेणोपदेशे तु सर्वपापेति सर्वशब्दासङ्कोचेन प्रेत्य सपुत्रपौत्रः स्वर्गे महीयत इति विना ऽध्याहारं यथावस्थितपदान्वयेन ब्रह्मलोकावाप्तिफलकत्वमेव रामायणस्योपदिश्यत इति युज्यते । ब्रह्मावतारश्च राम इत्यवादिष्ट च न्यायेन । अतस्तच्चरितानुसन्धातुः स्वर्गलोकावाप्तिर्न्यायसिद्धा । असङ्कोचोपचारेण सर्वपापविमोकश्च ब्रह्मलोकासाधारणधर्मः । तथाविमोकस्य "तत्सुकृतदुष्कृते धूनुते" इति श्रुतेः ब्राह्मालौकिकविरजावगाहैकसाध्यत्वात् । अन्यत्र कुत्रापि कालकृतिमूलपुण्यातिवाहाविलयात् । प्रेत्य सपुत्रादिकतया महीयमानत्वस्य ब्रह्मलोकातिरिक्तलोके ऽसम्भवाच्च । तत्र तु "यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति । तेन पितृलोकेन सम्पन्नो महीयते" इत्यादिना छान्दोग्येन प्राप्तब्रह्मलोकमुक्तस्य सत्यसङ्कल्पत्वस्तदिच्छया तत्तत्पितृपुत्रादिसमुत्थानस्य घण्टाघोषत्वात् । ब्रह्मलोकश्च परनाकपरस्वर्गादितः सर्वोपनिषत्प्रसिद्धः । उक्तविशेषणबलात् परस्वर्गग्रहश्च । अयमेवास्मदभिप्रेतो ऽर्थः ।। 1.1.99 ।। 

 ।। 1.1.100 ।। पठन् द्विजो वागृषभत्वमीयात्

स्यात्क्षत्रियो भूमिपतित्वमीयात् ।

वणिग्जनः पण्यफलत्वमीयात्

जनश्च शूद्रो ऽपि महत्वमीयात् ।। 100 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे प्रथमः सर्गः ।।

एवं चतुर्वर्णसाधारणं फलमुपदिश्य तत्तत्प्रातिस्विकफलोपदेशः पठन्नित्यादि ।। हेतौ शता । रामायणमिति शेषः । द्विजः मुख्यो द्विजः । वागृषभत्वमीयादिति । शब्दब्रह्मपारगो भवतीति यावत् । यदि रामायणं पठन् क्षत्रियः स्यात् तदा ऽसौ भूमिपतित्वमीयात् । "इण्" आशिषि लिङ् । "अकृत्सार्वधातुके" इति दीर्घः । ईङ् गतावित्यस्मादिति कश्चित् । स त्वात्मनेपदी । पण्यैः क्रयद्रव्यैः साध्यं मूलात् द्विगुणत्रिगुणवृद्ध्यादिरूपं फलं यस्य, तस्य भावस्तत्वम् । शूद्रजनः द्विजदासो ऽपि तदितरसर्वप्रजाभ्यो महत्वं श्रैष्ठ्यं ईयात् देहान्तरे स्वोपरिवर्णप्राप्तिलक्षणं महत्वमीयात् ।। 1.1.100 ।। 



Sanskrit Commentary by Govindaraja
।। ।।।। श्रीमद्वाल्मीकीयरामायणम् ।।।। बालकाण्डः ।।।। श्रीसीतालक्ष्मणहनुमत्समेतश्रीरामचन्द्रपरब्रह्मणे नमः ।। ।। श्लोकसहितव्याख्यानम् ।।

श्रीमते रामानुजाय नमः ।। आचार्यं शठकोपदेशिकमथ प्राचार्यपारम्परीं श्रीमल्लक्ष्मणयोगिवर्य्ययमुनावास्तव्यनाथादिकान् । वाल्मीकिं सह नारदेन मुनिना वाग्देवतावल्लभं सीतालक्ष्मणवायुसूनुसहितं श्रीरामचन्द्रं भजे ।। 1 ।।

श्रीमत्यञ्जनभूधरस्य शिखरे श्रीमारुतेः सन्निधावग्रे वेङ्कटनायकस्य सदनद्वारे यतिक्ष्माभृतः । नानादेशसमागतैर्बुधगणै रामायणव्याक्रियां विस्तीर्णां रचयेति सादरमहं स्वप्ने ऽस्मि सञ्चोदितः ।। 2 ।।

क्वाहं मन्दमतिर्गभीरहृदयं रामायणं तत्क्व च व्याख्याने ऽस्य परिभ्रमन्नहमहो हासास्पदं धीमताम् । को भारो ऽत्र मम स्वयं कुलगुरुः कोदण्डपाणिः कृपाकूपारो रचयत्यदः सपदि मज्जिह्वाग्रसिंहासनः ।। 3 ।।

वैयर्थ्यं पुनरुक्ततामनुचितारम्भं विरोधं मिथो ऽसाधुत्वं च पदप्रबन्धरचनावाक्येषु निःशेषयन् । स्वारस्यं च पदे पदे प्रकटयन् रामायणस्य स्वयं व्याख्यामेष तनोति सज्जनमुदे गोविन्दराजाह्वयः ।। 4 ।।

पूर्वाचार्य्यकृतप्रबन्धजलधेस्तात्पर्यरत्नावलीर्ग्राहं ग्राहमहं शठारिगुरुणा सन्दर्शितेनाध्वना । अन्यव्याकृतिजातरूपशकलैरायोज्य सज्जीकृतैः श्रीरामायणभूषणं विरचये पश्यन्तु निर्मत्सराः ।। 5 ।।

सुस्पष्टमष्टादशकृत्य एत्य श्रीशैलपूर्णाद्यतिशेखरो ऽयम् । शुश्राव रामायणसम्प्रदायं वक्ष्ये तमाचार्यपरम्परात्तम् ।। 6 ।।

क्वचित् पदार्थं क्वचिदन्वयार्थं क्वचित्पदच्छेदसमर्थनानि । क्वचित्क्वचिद्गाढनिगूढभावं वक्ष्ये यथापेक्षमवेक्षणीयम् ।। 7 ।।

अवतारिका श्रियःपतिरवाप्तसमस्तकामः समस्तकल्याणगुणात्मकः सर्वेश्वरः "वैकुण्ठे तु परे लोके श्रिया सार्द्धं जगत्पतिः । आस्ते विष्णुरचिन्त्यात्मा भक्तैर्भागवतैः सह ।।" इत्युक्तरीत्या श्रीवैकुण्ठाख्ये दिव्यलोके श्रीमहामणिमण्डपे श्रीभूमिनीलाभिः सह रत्नसिंहासनमध्यासीनो नित्यैर्मुक्तैश्च निरन्तरपरिचर्यमाणचरणनलिनोऽपि तद्वदेव स्वचरणयुगलपरिचरणार्हानपि तद्धीनान् प्रलये प्रकृतिविलीनान् मधूच्छिष्टमग्नहेमकणसदृक्षान् क्षीणज्ञानान् जीवानवलोक्य "एवं संसृतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिः। जीवे दुःखाकुले विष्णोः कृपा काप्युपजायते ।।" इत्युक्तरीत्या दयमानमनाः "विचित्रा देहसम्पत्तिरीश्वराय निवेदितुम् । पूर्वमेव कृता ब्रह्मन् हस्तपादादिसंयुता ।।" इत्युक्तप्रकारेण महदादिसृष्टिक्रमेण तेषां स्वचरणकमलसमाश्रयणोचितानि करणकलेवराणि दत्त्वा नदीतरणाय दत्तैः प्लवैर्नदीरयानुसारेण सागरमवगाहमानेष्विव तेषु तैर्विषयान्तरप्रवणेषु तेषां सदसद्विवेचनाय 'शासनाच्छास्त्रम्' इत्युक्तरीत्या स्वशासनरूपं वेदाख्यं शास्त्रं प्रवर्त्यापि तस्मिन्नप्रतिपत्तिविप्रतिपत्त्यन्यथाप्रतिपत्तिभिस्तैरनादृते स्वशासनातिलङ्घिनं जनपदं स्वयमेव साधयितुमभियियासुरिव वसुधाधिपतिः स्वाचारमुखेन तान् शिक्षयितुं रामादिरूपेण चतुर्द्धावतितीर्षुरन्तराऽमरगणैः सद्रुहिणैरभ्यर्थितः स्वाराधकस्य दशरथस्य मनोरथमपि पूरयितुं

चतुर्द्धावततार । तत्र रामरूपेणावतीर्य रावणं निहत्य पितृवचनपरिपालनादिसामान्य धर्ममन्वतिष्ठत्, लक्ष्मणरूपेण रावणिं निरस्य भगवच्छेषत्वरूपं विशेषधर्मम्, भरतरूपेण गन्धर्वान्निर्वास्य भगवत्पारतन्त्र्यरूपम्, शत्रुघ्नरूपेण लवणासुरं ध्वंसयित्वा भागवतशेषत्वम् । तानिमान् धर्मान् तानीमानि चापदानानि तत्कालमात्रपर्यवसितानि भविष्यन्तीति मन्वानः सर्वलोकहितपरः पितामहो भगवान् ब्रह्मा रामचरित्रपवित्रितं शतकोटिप्रविस्तरं प्रबन्धं निर्माय तं नारदादीनध्याप्य भूलोके ऽपि सन्ततराममन्त्रानुसन्धानसन्धुक्षितहृदयवाल्मीकिमुखेन सङ्ग्रहेण प्रवर्त्तयितुं नारदं प्रेषयामास । तदुक्तं मात्स्ये "वाल्मीकिना च यत्प्रोक्तं रामोपाख्यानमुत्तमम् । ब्रह्मणा चोदितं तच्च शतकोटिप्रविस्तरम् । आहृत्य नारदेनैव वाल्मीकाय निवेदितम् ।।" इति। वाल्मीकिरपि निखिलवेदान्तविदितपरतत्त्वनिर्दिधारयिषया यदृच्छयोपगतं नारदं पृष्ट्वावगतपरतत्त्वस्वरूपः तदनु प्रसन्नेन विधिना दत्तसकलसाक्षात्कारप्रबन्धनिर्माणशक्तिर्वेदोपबृंहणमारभमाणः तस्यार्थप्रधानसुहृत्सम्मितेतिहासतां व्यङ्ग्यप्रधानकान्तासम्मितकाव्यतां च पुरस्कुर्वन् "काव्यालापांश्च वर्जयेत्" इति निषेधस्यासत्काव्यविषयतां च निर्धारयन् स्वग्रन्थे प्रेक्षावतां प्रवृत्त्यर्थं तदङ्गानि दर्शयति प्रथमतश्चतुःसर्ग्या। तत्र प्रथमसर्गेण विषयप्रयोजने दर्शयति। तत्र च "तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया" इति वेदान्तरहस्यस्य प्रश्नपूर्वकं ज्ञेयत्वविधानात् "नापृष्टः कस्यचिद्ब्रूयात्" इत्यपृष्टोत्तरस्य प्रत्यादिष्टत्वाच्च प्रश्नमाविष्करोत्यादितः पञ्चश्लोक्या ।।



तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।

नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ।। 1.1.1 ।।

अथ प्रारिप्सितस्य ग्रन्थस्य निष्प्रत्यूहपरिपूरणाय प्रचयगमनाय च गुरुनमस्कारं देवतानमस्कारं च विदधाति तपस्स्वाध्यायेति । तत्र "आचार्याद्ध्येव विद्या विदिता साधिष्ठं प्रापत्" "आचार्यवान् पुरुषो वेद" इत्यादिश्रुत्या सदाचार्योपदेशस्यैवातिशयावहत्वात्स्वगुरोराचार्यलक्षणपूर्तिं दर्शयति द्वितीयान्तपदैः । तत्र वेदसम्पन्नत्वमाह तपःस्वाध्यायनिरतमिति । तपश्च स्वाध्यायश्च तपःस्वाध्यायौ "अल्पाच्तरम्" इति तपःशब्दस्य पूर्वनिपातः । तपः चान्द्रायणादि, स्वाध्यायो वेदः । "स्वाध्यायो वेदतपसोः" इति वैजयन्ती । तयोर्निरतं निरन्तरासक्तम् । आवश्यकत्वादेतदुभयमुक्तम् । तदाह मनुः "तपो विद्या च विप्रस्य निःश्रेयसकरं परम् । तपसा कल्मषं हन्ति विद्यया ज्ञानमश्नुते" इति । यद्वा तपो ज्ञानम् । "तप आलोचने" इत्यस्माद्धातोरसुन्प्रत्ययः । श्रुतिश्चात्र भवति "यस्य ज्ञानमयं तपः" इति । योग इति यावत् । स्वाध्यायो वेदः तयोर्निरतम् । "स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमावसेत् । स्वाध्याययोगसम्पत्त्या गमिष्यति परां गतिम् ।।" इत्युक्तप्रकारेण सक्तमित्यर्थः। यद्वा तपो वेदः, "तपो हि स्वाध्यायः" इति श्रुतेः। स्वाध्यायो जपः। "स्वाध्यायो वेदजपयोः" इत्युक्तेः। तत्र निरतम्। "स्वाध्यायान्मा प्रमदः। वेदमेव जपेन्नित्यम्" इत्युक्तरीत्या सक्तमित्यर्थः। यद्वा तपो ब्रह्म "ब्रह्मैतदुपास्वैतत्तपः" इति श्रुतेः। तपःप्रधानः स्वाध्यायस्तपःस्वाध्यायः। शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। वेदान्त इति यावत्, तत्र निरतम्। "स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्" इत्युक्तरीत्याध्ययनादिपरमित्यर्थः। यद्वा तपो व्याकरणम्। तथोक्तं वाक्यपदीये "आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः। प्रथमं छन्दसामङ्गमाहुर्व्याकरणं बुधाः ।।" इति, तदितरेषामङ्गानामुपलक्षणम् । तत्सहितः स्वाध्यायः तपःस्वाध्यायः तत्र निरतम्, साङ्गवेदाध्यायिनमित्यर्थः । यद्वा तपः स्वं यस्यासौ तपःस्वः, अध्यायो वेदः "इङ् अध्ययने" इत्यस्माद्धातोः "अध्यायन्याय " इत्यादिना निपातनात् । अत एव "स्वाध्यायो ऽध्येतव्यः" इत्यत्र स्वस्य

अध्यायः स्वाध्यायः, स्वशाखेत्याचार्यैर्व्याख्यातम् । तत्र निरतो ऽध्यायनिरतः । तपःस्वश्चासावध्यायनिरतश्च तपःस्वाध्यायनिरतः इति कर्मधारयः, तम् । यद्वा तपो ब्रह्म, तद्रूपः

स्वाध्यायः तपःस्वाध्यायः तस्मिन् निरतम्, सामगानलोलमित्यर्थः । "वेदानां सामवेदो ऽस्मि" इति भगवता गीतत्वात् । एवं वेदाध्ययनमुक्तम् ।।

अथ "यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ।।" इति केवलाध्ययनस्य निन्दितत्वात्तदर्थज्ञत्वमाह वाग्विदां वरमिति। वाग् वेदः। "अनादिनिधना ह्येषा वागुत्सृष्टा स्वयम्भुवा" इति वाक्शब्दस्य वेदे प्रयोगात्। तां विदन्ति जानन्तीति वाग्विदः वेदार्थज्ञाः तेषां मध्ये परं श्रेष्ठम्। निर्द्धारणे षष्ठी। यद्वा वाक् व्याकरणम्। "यश्च व्याकुरुते वाचम्। वाग्योगविद्दुष्यति चापशब्दैः" इत्यादौ व्याकरणपर्यायत्वेन शिष्टैर्व्यवहृतत्वात्। एतदङ्गान्तराणामुपलक्षणम्, षडङ्गविदामग्रेसरमित्यर्थः। एतेन वेदार्थाभिज्ञत्वमर्थसिद्धम्। यद्वा वाग्विदः यावद्विवक्षितार्थप्रतिपादनक्षमशब्दप्रयोगविदः, तेषां वरम्। पूर्वं वेदाध्ययनमुक्तम्, अत्र तदध्यापनम्। यद्वा गोबलीवर्दन्यायेन वाचः वेदव्यतिरिक्तानि शास्त्राणि, तद्विदां वरम्। अनेन चतुर्दशविद्यास्थानवेदित्वमुक्तम्। यद्वा भूमविद्योपक्रमे नारदेनात्मनः सर्वविद्याभिज्ञत्वमुक्तम्। "ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिः वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यामेतद्भगवोऽध्येमि" इति। तदिदमुच्यते वाग्विदां वरमिति। यद्वा वाक् सरस्वती "गीर्वाग्वाणी सरस्वती" इति वचनात्। तया विद्यन्ते लभ्यन्त इति वाग्विदः सरस्वतीपुत्रा मरीच्यादयः। "विद्लृ लाभे" इत्यस्माद्धातोः कर्मणि क्विप्। भगवद्भक्ततया तेषां वरम्। अनेनाभिजात्यमुक्तम्। तपःस्वाध्यायनिरतमित्यनेन विद्योक्ता। समाहितत्वमाह मुनिपुङ्गवमिति। तेन "अभिजनविद्यासमुदेतं समाहितं संस्कर्त्तारमीप्सेत्" इत्यापस्तम्बोक्तमाचार्यलक्षणं ज्ञापितम्। मुनयो मननशीलाः। "मनेरुच्च" इति इन् प्रत्ययः। पुमांश्चासौ गौश्चेति पुंगवः "गोरतद्धितलुकि" इति समासान्तष्टच् प्रत्ययः। श्रेष्ठ

इत्यर्थः । "बुधे च पुङ्गवः श्रेष्ठे वृषभे भिषजां वरे ।" इति विश्वः । मुनिषु पुङ्गवो मुनिपुङ्गवः । "सप्तमी" इति योगविभागात् नागोत्तमादिवत्समासः, तम् । तपःस्वाध्यायनिरतमित्यनेन वेदार्थस्य श्रवणमुक्तम् । वाग्विदां वरमित्यनेन मननम् । मुनिपुङ्गवमित्यनेन निदिध्यासनम् । यद्वा "तस्माद्ब्राह्मणः पाण्डित्यन्निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः" इत्युक्तक्रमेण त्रिभिरेतैः पदैः पाण्डित्यबाल्यमौनान्युक्तानि । नरस्य सम्बन्धि नारम् "नराच्चेति वक्तव्यम्" इत्यण्, अज्ञानमित्यर्थः । तत् द्यति खण्डयतीति नारदः । "दो अवखण्डने" इत्यस्माद्धातोः "आदेच उपदेशे ऽशिति" इत्यात्वे सति "आतो ऽनुपसर्गे कः" इति कप्रत्ययः । अज्ञाननिवर्त्तक इत्यर्थः । उक्तं च नारदीये "गायन्नारायणकथां सदा पापभयापहाम् । नारदो नाशयन्नेति नृणामज्ञानजं तमः ।।" इति। यद्वा नारं ज्ञानं तद्ददातीति नारदः। यद्वा नरति सद्गतिं प्रापयतीति नरः परमात्मा। "नृ़ नये" इत्यस्माद्धातोः पचाद्यच्। तदुक्तं भारते "नरतीति नरः प्रोक्तः प्ररमात्मा सनातनः" इति। स एव नारः। तं ददात्युपदिशतीति नारदः, तम्। एवमाचार्यलक्षणपूर्तिमुक्त्वा अधिकारित्वसम्पूर्तिप्रदर्शनाय शिष्यलक्षणमाह तपस्वीत्यादिना। तपोऽस्यास्तीति तपस्वी। "तपःसहस्राभ्यां विनीनी" इति मत्वर्थीयो विनिप्रत्ययः। भूमादयो मत्वर्थाः। तदुक्तम् "भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने। संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ।।" इति । प्रशस्ततपस्क इत्यर्थः । तेन "तपसा ब्रह्म विजिज्ञासस्व स तपो ऽतप्यत स तपस्तप्त्वा आनन्दो ब्रह्मेति व्यजानात्" इति श्रुतं ब्रह्मज्ञानसाधनं तप उक्तम् । यद्वा तपो वेदो व्याकरणं ज्ञानं च, तद्वान् । तपःशब्दानां तन्त्रावृत्त्येकशेषाद्यन्यतमेन अर्थस्मरणे

सति एकपदोपात्तकृतिकालादीनामिव अन्वयबोधः सुलभः । तथा च अधीतसाङ्गसशिरस्कवेदो ऽधिगताल्पास्थिरफलकेवलकर्मज्ञान इत्युक्तम् । निर्वेदश्च तपः । "तपस्वी

तापसे शोच्ये" इति वैजयन्ती । तेन सञ्जातमोक्षाभिलाष इत्युक्तम्, तादृश एव हि ब्रह्मज्ञानाधिकारी । तपस्वीत्यनेन शमदमादिसम्पत्तिरपि सिद्धा । यद्वा तपो न्यासः । "तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः" इति श्रुतेः । न्यासः शरणागतिः प्रणिपातरूपा, एवं 'तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया' इत्याद्युक्तानि प्रणिपातपुरःसराणि दर्शितानि । वल्मीकस्यापत्यं वाल्मीकिः । "अत इञ्" इतीञ्प्रत्ययः । नन्वसौ कथं वल्मीकापत्यम्, यतो ऽयं भृगुपुत्र एव प्रतीयते । तथा च श्रीविष्णुपुराणे "ऋक्षो ऽभूद्भार्गवस्तस्माद्वाल्मीकिर्यो ऽभिधीयते" इति । अत्रापि उत्तरकाण्डे वक्ष्यति "भार्गवेणेति संस्कृतौ । भार्गवेण तपस्विना" इति च । अन्यत्र च प्रचेतो ऽपत्यत्वमभिधीयते "चक्रे प्रचेतसः पुत्रस्तं ब्रह्माप्यन्वमन्यत" इति । "वेदः प्राचेतसादासीत्" इति च प्रसिद्धम् । अतः कथमस्य वल्मीकापत्यत्वम् ? उच्यते निश्चलतरतपोविशेषेणास्य वल्मीकावृतौ जातायां प्रचेतसा वरुणेन कृतनिरन्तरवर्षेण प्रादुर्भावो ऽभूदिति भृगुपुत्रस्यैवास्य प्रचेतसो ऽपत्यत्वं वल्मीकापत्यत्वं च सङ्गच्छते । ननु कथं तत्प्रभवत्वमात्रेण तदपत्यत्वम् ? मैवम्, 'गोणीपुत्रः कलशीसुतः' इत्यादिव्यवहारस्य तत्प्रभवे ऽपि बहुलमुपलब्धेः । उक्तं च ब्रह्मवैवर्त्ते "अथाब्रवीन्महातेजा ब्रह्मा लोकपितामहः । वल्मीकप्रभवो यस्मात्तस्माद्वाल्मीकिरित्यसौ ।।" इति। मास्त्वपत्यार्थत्वम्, तथापि वाल्मीकिशब्दस्साधुरेव, गर्हादिषु पठितत्वात्। यद्वा भृगुवंश्यः कश्चित् प्रचेता नाम तस्यायं पुत्रः ऋक्षो नाम। 'चक्रे प्रचेतसः पुत्रः' इति पुत्रत्वाभिधानात्। भार्गवभृगुनन्दनशब्दौ रामे राघवरघुनन्दनशब्दवदुन्नेयौ। वाल्मीकिशब्दः पुत्रत्वोपचारात्। अत एव क्वचित् 'वाल्मीकेन महर्षिण' इति सम्बन्धमात्रेऽण् प्रयुज्यते। सत्स्वपि नामान्तरेषु वाल्मीकिशब्देनाभिधानं ज्ञानाङ्गशमदमाद्युपेतत्वस्फोरणाय। परिपप्रच्छ परि विशेषेण पृष्टवान्। को न्वस्मिन्नित्यादिवक्ष्यमाणमिति शेषः। तप इति भिन्नं पदं वा ब्रह्मवाचि। नारदं ब्रह्म परिपप्रच्छेत्यर्थः। अतो न द्विकर्मकत्वहानिः। उक्तं हि वृत्तिकृता "दुह्याच्पच्दण्ड्रुधिप्रच्छिचिञ्ब्रूशासुजिमथ्मुषाम्।" इत्यादिना प्रच्छेर्द्विकर्मकत्वम्। परिपप्रच्छेति परोक्षे लिट्। प्रश्नस्य परोक्षत्वं विवक्षितभगवद्गुणानुसन्धानकृतवैचित्यात्, 'सुप्तोऽहं किल विललाप' इतिवत्। विभक्तिप्रतिरूपकमव्ययं वा। स्वविनयव्यञ्जनाय प्रथमपुरुषनिर्देशो वा। "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति" इतिवत्। स्वस्मिन्नन्यत्वमारोप्य परोक्षनिर्देशो वा। अनेन "परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्। तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय। येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्" इत्याथर्वणिकी श्रुतिर्गुरूपसदनविषयोपबृंह्यते। तथाहि तपस्वीत्यनेन "परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्" इत्यस्यार्थोऽदर्शि। अधीतसाङ्गसशिरस्कवेदोऽधिगताल्पास्थिरफलकेवलकर्मज्ञानतया सञ्जातमोक्षाभिलाषो हि तपस्विशब्दार्थो वर्णितः। वाल्मीकिरित्यनेन "सम्यक् प्रशान्तचित्ताय शमान्विताय" इत्यस्यार्थो दर्शितः। स्वाध्यायनिरतमित्यनेन श्रीत्रियपदार्थ उक्तः। "श्रोत्रियँश्छन्दोऽधीते" इति श्रोत्रियशब्दार्थप्रकाशनात्। वाग्विदां वरमित्यनेन विद्वच्छब्दार्थः। मुनिपुङ्गवमित्यनेन ब्रह्मनिष्ठशब्दार्थः। नारदशब्दने गुरुशब्दार्थः। "गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः। अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते" इति तन्निरुक्तिः। परिपप्रच्छेत्यनेन "तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्" इत्येतदुपपादितम्। "विधिवदुपसन्नः पप्रच्छ" इति श्रुतेः। अत्र ब्रह्मवाचितपःशब्दप्रयोगेण देवतानमस्काररूपं मङ्गलमाचरितम्। तथोक्तम् "अ इति भगवतो नारायणस्य प्रथमाभिधानमभिदधता किन्नाम मङ्गलं न कृतम्" इति। "देवतावाचकाः शब्दा

ये च भद्रादिवाचकाः । ते सर्वे मङ्गलार्थाः स्युर्लिपितो गणतो ऽपि च ।।" इति। निरन्तरनिरतिशयानन्दरूपं तपो ज्ञानरूपं ब्रह्म स्वाध्यायं सुष्ठु ध्यात्वेति वा देवतानमस्कारः।

गुरुनमस्कारश्च कृतो भवति । कथम् ? तपःसु निरतं नारदमाध्याय परिपप्रच्छेति । यद्वा परि पूजयित्वेत्यर्थः । "परिः समन्ततोभाव व्याप्तिदोषकथासु च । भाषाश्लेषे पूजने च वर्जने वचने शुभे ।।" इति वचनात्। नारदं सम्पूज्य पप्रच्छेत्यर्थः। "पराशरं मुनिवरं कृतपौर्वाह्णिकक्रियम्। मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च ।।" इतिवत् ।। अस्य श्रीरामायणस्य गायत्र्यक्षरसङ्ख्यानुसारेण चतुर्विंशतिसहस्रग्रन्थसङ्ख्यया प्रवृत्तत्वात् प्रथम सहस्रोपक्रमे तकारः प्रयोक्तव्य इति सत्स्वपि ब्रह्मवाचकेषु शब्दान्तरेषु तपःशब्दस्यैव प्रयोगः । प्रबन्धादौ तकारप्रयोगश्चावश्यकः । तस्य वक्तुर्वाचकस्य च सौख्यकरत्वात् । तथोक्तम् "वस्तुलाभकरो णस्तु तकारः सौख्यदायकः" इति । साहित्यचूडामणौ तु "तकारो विघ्ननाशकः" इत्युक्तम् । किञ्च तकारस्य जलं भूतं बृहस्पतिर्देवता । अतः शुभावहो ऽनेन प्रबन्धारम्भः । अत एवोक्तं चमत्कारचन्द्रिकायाम् "वर्णानामुद्भवः पश्चाद्व्यक्तिः सङ्ख्या ततः परम् । भूतबीजविचारश्च ततो वर्णग्रहा अपि ।।" इत्यारभ्य "एतत्सर्वमविज्ञाय यदि पद्यं वदेत्कविः। केतकारूढकपिवत् भवेत्कण्टकपीडितः ।।" इति । "कारणात्पञ्चभूतानामुद्भूता मातृका यतः । अतो भूतात्मका वर्णाः पञ्चपञ्च विभागतः । वाय्वग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् । पञ्च ह्रस्वाः पञ्च दीर्घा बिन्द्वन्ताः सन्धयस्तथा । तत्र स्वरेशः सूर्यो ऽयं कवर्गेशस्तु लोहितः । चवर्गप्रभवः काव्यष्टवर्गाद्बुधसम्भवः । तवर्गोत्थः सुरगुरुः पवर्गोत्थः शनैश्चरः । यवर्गजो ऽयं शीतांशुरिति सप्तग्रहाः क्रमात् ।।" इति। अत्र तपःस्वा इति यगणः, आदिलघुत्वात्। तदुक्तम् "आदिमध्यावसानेषु यरता यान्ति लाघवम्। भजसा गौरवं यान्ति मनौ तु गुरुलाघवम् ।।" इति । यगणप्रयोगश्चार्थकर इत्युक्तं चमत्कारचन्द्रिकायाम् "करोत्यर्थानादिलघुर्यगणो वायुदैवतः" इति । ननु तपस्तापः सुतरामाधिः स्वाधिस्तयोराये निरतमिति ग्रन्थारम्भे अश्लीलवचनमनुचितम् । तदुक्तम् "अश्लीलं यदमाङ्गल्यं जुगुप्साव्रीडभीकरम्" इति । मैवम्, प्रसिद्धिविशेषेण तपोवेदयोरेव प्रथमतरं बुद्ध्यारोहेणाश्लीलत्वप्रसङ्गाभावात् । यथा भगिनीलिङ्गादिप्रयोगेषु । अत्र सर्वत्र प्रायेण पथ्यावक्त्रं वृत्तम् । तदुक्तं वृत्तरत्नाकरे "युजोर्जेन सरिद्भर्त्तुः पथ्यावक्त्रं प्रकीर्त्तितम्" इति । वृत्तविशेषास्तु तत्र तत्र वक्ष्यन्ते । अत्र वृत्त्यनुप्रासः शब्दालङ्कारः, तकारादीनामावृत्तेः । तदुक्तं काव्यप्रकाशे "वर्णसाम्यमनुप्रासः" इति । विशेषणानां साभिप्रायत्वात् परिकरोनामार्थालङ्कारः । उक्तमलङ्कारसर्वस्वे "विशेषणानां साभिप्रायत्वे परिकरः" इति । तपःस्वाध्यायनिरतत्वादीनां गुरूपसत्तिहेतुज्ञानानुष्ठानप्रतिपादकत्वात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः । "हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमलंकृतिः" इति लक्षणात् । अत्र वाल्मीकिनारदयोः स्वरूपकथनेन शिष्याचार्य्याभ्यामेवं भवितव्यमिति द्योतनात् वाक्यगतवस्तुना वस्तुध्वनिः ।। 1.1.1 ।।



को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।

धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ।। 1.1.2 ।।

कथं परिपप्रच्छेत्याकाङ्क्षायां प्रश्नप्रकारं दर्शयति को न्वित्यादिश्लोकत्रयेण । "नुः पृच्छायां विकल्पे च" इत्युमरः । अस्मिन् लोके भूलोके साम्प्रतमस्मिन् काले "अस्मिन्काले ऽधुनेदानीं सम्प्रत्येतर्हि साम्प्रतम्" इति बाणः । लोकान्तरे विष्णोर्विदितत्वात् । अत्रैव कालान्तरे नृसिंहादेः प्रसिद्धत्वाच्च तद्व्यावृत्त्यर्थमेवमुक्तम् । गुणा अस्य सन्तीति गुणवान् । भूमादयो मत्वर्थाः । अस्मिन् लोके अस्मिन् काले को वा सकलकल्याणगुणसम्पन्न इत्यर्थः । एवं सामान्येन गुणसमुदायं पृष्ट्वा विशिष्य

तत्तद्गुणाश्रयं पृच्छति कश्च वीर्यवान् इत्यादिना । यद्वा गुण्यते आवर्त्यते पुनःपुनराश्रितैरनुसन्धीयत इति गुणः सौशील्यम् । "गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु" इति विश्वः । सुशीलं हि नाम महतो मन्दैः सहनीरन्ध्रेण संश्लेषः । तस्याधिक्यं सौशील्यम्, तद्वान् । सौशील्ये गुणशब्दो ऽभियुक्तैः प्रयुक्तः । "वशी वदान्यो गुणवानृजुः शुचिः" इति । को वा सौशील्यवानित्यर्थः । सर्वत्र प्रश्ने तु नु इति किंशब्दो ऽपि यत्र न प्रयुक्तस्तत्रानुषञ्जनीयः । एकेनैव किंशब्देनोपपत्तावप्यादरातिशयात् पुनःपुनस्तत्प्रयोगः । "प्रदानवदेव तदुक्तम्" इति न्यायेन प्रतिगुणं गुण्यावृत्त्यभिप्रायेण वा लोके गुणसम्बन्धाद्गुण्यतिशयः । इह तु गुणिसम्बन्धाद्गुणातिशय इति द्योतनाय गुणिनः प्रथमं निर्देशः "गुणास्सत्यज्ञान " इत्युक्तेः । कश्च वीर्य्यवान् । चकार उक्तसमुच्चये । सत्स्वपि विकारहेतुष्वविकृतत्वं वीर्यम् 'औषधं वीर्यवत्' इत्यादौ तथा दर्शनात्, तद्वान् । धर्मः अलौकिकश्रेयःसाधनम्, तं सामान्यरूपं विशेषरूपं च जानातीति धर्मज्ञः । चकारो ऽनुक्तसमुच्चयार्थः । परिहार्याधर्मज्ञश्चेत्यर्थः । कृतमुपकारं स्वल्पं प्रासङ्गिकमपि बहुतया जानातीति कृतज्ञः । अपकारास्मरणं चशब्दार्थः । वक्ष्यति "न स्मरत्यपकाराणां शतमप्यात्मवत्तया । कथञ्चिदुपकारेण कृतेनैकेन तुष्यति ।।" इति। सत्यं कृच्छ्रेष्वप्यनृतशून्यं वाक्यं वचनं यस्य सः सत्यवाक्यः। तथा वक्ष्यति "अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन" इति। दृढव्रतः निश्चलसङ्कल्पः। "अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्। न हि प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ।।" इति ।। 1.1.2 ।।



चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।

विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ।। 1.1.3 ।।

चरित्रमाचारः तदेव चारित्रम् । वायसराक्षसादिवत्स्वार्थे ऽण्प्रत्ययः । तेन युक्तः, सर्वदाप्यनुल्लङ्घितकुलाचार इत्यर्थः । सर्वभूतेषु सर्वप्राणिषु विषये । "भूतं क्ष्मादौ च जन्तौ च न स्त्रियां गुणसत्त्वयोः" इति बाणः । हितः हितकरः । हितशब्दात् "तत्करोति" इति णिच्, पचाद्यच्, णिलोपे पूर्वरूपे च रूपम् । भूतशब्देन स्वपरतारतम्याभाव उक्तः । सर्वशब्देन सापराधेष्वपि हितकरत्वमुक्तम् । वेत्तीति विद्वान् सर्वशास्त्रज्ञः । "विदेः शतुर्वसुः" । समर्थः सर्वकार्यधुरन्धरः । प्रियं दर्शनं यस्यासौ प्रियदर्शनः, एकश्चासौ प्रियदर्शनश्च एकप्रियदर्शनः । अयमिव नान्यो लोके प्रियदर्शनो ऽस्तीत्यर्थः । यद्वा एकप्रियदर्शनः एकरूपप्रियदर्शनः । लोके हि कस्यचिद्दर्शनं कदाचित्प्रियं भवति कदाचिदप्रियं च भवति । "तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम्" इति वचनात् । अयं तु न तथा, किन्तु "क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः" इत्युक्तरीत्या सदानुभवे ऽप्यपूर्ववद्विस्मयमादधान इत्यर्थः । तथैवोत्तरयिष्यति सदैकप्रियदर्शन इति । "एके मुख्यान्यकेवलाः" इत्युभयत्राप्यमरः ।। 1.1.3 ।।



आत्मवान् को जितक्रोधो द्युतिमान् को ऽनसूयकः ।

कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।। 1.1.4 ।।

आत्मवानिति । आत्मवान् धैर्यवान् । "आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि" इत्यमरः । अप्रकम्प्यधैर्य इत्यर्थः । जितक्रोधः विधेयकोपः दण्डार्हेष्वेवाहितकोप इत्यर्थः । "क्रोधमाहारयत्तीव्रम्" इति हि वक्ष्यति । द्युतिमान् कान्तिमान् "रूपसंहननं लक्ष्मीं सौकुमार्य्यं सुवेषताम् । ददृशुर्विस्मिताकारा रामस्य वनवासिनः ।।" इति हि वक्ष्यति।

गुणेषु दोषाविष्करणमसूया । "असूया तु दोषारोपो गुणेष्वपि" इत्यमरः । अविद्यमानासूया

यस्यासावनसूयकः । "शेषाद्विभाषा" इति कपि "आपो ऽन्यतरस्याम्" इति ह्रस्वः । यद्वा असूयकः असूङ्कण्ड्वादौ पठितः । तस्मात् "कण्ड्वादिभ्यो यक्" इति यक्प्रत्ययः । "अकृत्सार्वधातुकयोः" इति दीर्घः । ततो "निन्दहिंस " इत्यादिना वुञ् । स न भवतीत्यनसूयकः । कस्येति । देवाश्चेति चकारेणासुरादयः समुच्चीयन्ते । जातरोषस्य कस्य संयुगे देवादयः सर्वे बिभ्यतीत्यन्वयः । अतो न "भीत्रार्थानां " इति किंशब्दात्पञ्चमी । शत्रुविषयः कोपो मित्राणामपि भयमावहतीत्यर्थः । यद्वा चकारो ऽप्यर्थः । अनुकूला अपि बिभ्यति, किं पुनः प्रतिकूला इत्यर्थः । यद्वा संयुगे जातरोषस्य कस्य बिभ्यतीत्येवान्वयः । शेषे षष्ठी । "सञ्ज्ञापूर्वको विधिरनित्यः" इत्यपादानसञ्ज्ञापूर्वकपञ्चम्यभावः । अत्र श्लोकत्रये समृद्धिमद्वस्तुवर्णनादुदात्तालङ्कारः ।। 1.1.4 ।।



एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।

महर्षे त्वं समर्थो ऽसि ज्ञातुमेवंविधं नरम् ।। 1.1.5 ।।

अथायं प्रश्नो विजिगीषामूलमिति नारदो मन्येतापीति मन्वानः स्वप्रश्नो जिज्ञासाहेतुक इति दर्शयन् प्रश्नमुपसंहरति एतदिति । एतत्पूर्वोक्तगुणाश्रयभूतं वस्तु अहं जिज्ञासुः न विजिगीषुः, श्रोतुं न तु क्षेप्तुमिच्छामि, न तु ब्रूहि इति निर्बध्नामि । अहं तावदिच्छामि मयि भवतः प्रसादो ऽस्ति चेद्वक्तुमर्हसीति भावः । तत्र हेतुमाह परमिति । हिर्हेतौ । "हिर्हेताववधारणे" इति बाणः । यस्मात्कारणान्मे परमुत्कृष्टं कौतूहलं विस्मयो ऽस्ति तस्मादिच्छामि । यद्वा हिः प्रसिद्धौ । मुखविकासाद्यनुभावैर्मम हर्षस्तव स्पष्ट इत्यर्थः । स्वप्रश्नोत्तरदाने देशिकालाभान्निर्विण्णः । सम्प्रति भवद्दर्शनेन सञ्जाताभिलाषो ऽस्मि, ब्रूहि मत्पृष्टमिति भावः । "आचार्यस्य ज्ञानवत्तामनुमाय शिष्येणोप(स)पत्तिः क्रियते" इति न्यायेन नारदस्य प्रष्टव्यविषयज्ञानसम्भावनामाह महर्ष इति । ऋषिः ज्ञानस्य पारं गन्ता । "ऋषी गतौ" इत्यस्माद्धातोः "इगुपधात्कित्" इतीन् । गत्यर्थो ज्ञानार्थः । महांश्चासौ ऋषिश्च महर्षिः । "आन्महतः समानाधिकरणजातीययोः" इत्यात्वम् । हेतुगर्भविशेषणम् । महर्षित्वात्त्वमेवंविधं नरं पुरुषं ज्ञातुमर्हसि । ब्रह्मणः सकाशाद्विदितसकलविशेषस्त्वं कथं मे जिज्ञासोर्न वदेरिति भावः । अत्र पूर्वार्धे काव्यलिङ्गमलङ्कारः, उत्तरवाक्यार्थस्य पूर्ववाक्यार्थहेतुत्वात् । "हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमलंकृतिः ।" इति लक्षणात् । उत्तरार्द्धे परिकर इति अनयोः संसृष्टिः । अन्ते चास्येति करणं बोध्यम् । इति परिपप्रच्छेति सम्बन्धः । नन्वयं प्रश्नो वाल्मीकेर्न सङ्गच्छते, तस्य विदितसकलरामवृत्तान्तत्वेन निश्चये संशयायोगात् । वक्ष्यति ह्ययोध्याकाण्डे "इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः । अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन् ।।" इति। कथं रामविषयमध्यवर्त्ती वाल्मीकिस्तद्गुणान्न विजानीयात्? वक्ष्यति हि "विषये ते महाराज रामव्यसनकर्शिताः। अपि वृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाः ।।" इति । कथं वा "रामो रामो राम इति प्रजानामभवन् कथाः । रामभूतं जगदभूद्रामे राज्यं प्रशासति ।।" इति पृथग्जनैरपि विदितं रामवैभवं मुनिरेष न जानीयात्, कथं चैतावन्मात्रं सत्यलोकादागतो नारदः प्रष्टुमर्हति, य एवमुत्तरयति 'रामो नाम जनैः श्रुतः' इति। तत्रोच्यते नायमापाततो भासमानः प्रश्नार्थः नाप्युत्तरार्थः। अत्र करतलामलकवद्विदितरामवृत्तान्तस्य वाल्मीकेः कुतूहलासम्भवात् "बुद्ध्वा वक्ष्यामि" इत्युत्तरवाक्यानुपपत्तेश्च। किन्तु वक्तृबोद्ध्रानुगुण्यात् वेदान्तेषु नानाविद्यासु तत्तद्गुणविशिष्टतयावगम्यमानं परं तत्त्वं किं विष्णुः, उत रुद्रादिष्वन्यतम इति प्रश्नार्थः। तदिदं वाल्मीकेर्हृदयमाकलयन् भगवान्नारदोऽपि रामत्वेनावतीर्णो विष्णुरेव वेदान्तवेद्यः पुरुषः, ब्रह्मादयः सर्वे तद्भृकुटीभटास्तत्परतन्त्राः। सद्ब्रह्मात्मादिशब्दाश्च पर्यवसानवृत्त्यावयववृत्त्या च विष्णुपरा इत्येवमाशयेन सकलवेदान्तोदितगुणजातं रामे योजयन्नुत्तरयतीति सर्वमनवद्यम् ।। 1.1.5 ।।



श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।

श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ।। 1.1.6 ।।

एवं "तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्" इत्युक्तं गुरूपसदनविधिमुपबृंहय "येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् "इत्युक्तं प्रवचनविधिमुपबृंहयति श्रुत्वेत्यादिना । तत्र "नासंवत्सरवासिने प्रब्रूयात्" इति नियमस्य ज्येष्ठपुत्रव्यतिरिक्तविषयत्वात् वाल्मीकेश्च भृगुपुत्रतया भ्रातृपुत्रत्वात् शुश्रूषानिरपेक्षं प्रीत्योपदिदेशेत्याह श्रुत्वा चेति । त्रयाणां लोकानां समाहारस्त्रिलोकम् ।

पात्रादित्वान्न ङीप् । यद्वा त्रित्वविशिष्टो लोकस्त्रिलोकः । "नवरसरुचिराम्" इत्यत्र काव्यप्रकाशे तथैव व्याख्यानात् । यद्वा त्रयो लोका यस्मिन् तत्त्रिलोकमिति ब्रह्माण्डमुच्यते, तज्जानातीति त्रिलोकज्ञः । भूर्भुवःस्वरिति त्रैलोक्यम् । यद्वा विष्णुपुराणोक्तरीत्या कृतकमकृतकं कृतकाकृतकमिति त्रयो लोकाः । महर्लोकपर्यन्ताः कृतकाः जनोलोकः कृतकाकृतकः । सत्यलोको ऽकृतक इति । यद्वा लोका जनाः "लोकस्तु भुवने जने" इत्यमरः । बद्धनित्यमुक्तास्त्रयो लोकाः । नारदः ब्रह्मपुत्रतया तज्ज्ञानार्हः । एतत्पूर्वोक्तरीत्या व्यङ्ग्यार्थगर्भं वाल्मीकेः स्वाभिमतस्य पुत्रस्य वचः परिपूर्णार्थं वाक्यं श्रुत्वा निशम्य । चकारेण तदूहित्वा चेत्यर्थः । प्रहृष्टः स्वेनोपदिदिक्षितस्यैव पृष्टत्वेन सन्तुष्टः शतकोटिप्रविस्तररामायणे स्वावगतस्यैवानेन पृष्टत्वात् रामगुणस्मरणामृतपानलाभादपूर्वशिष्यलाभाद्वा "सोहं मन्त्रविदेवास्मि नात्मवित्" इत्युक्तरीत्या सनत्कुमारं प्रति स्वस्योपसर्पणस्मारकत्वाद्वाप्रहृष्टः सन् । कर्त्तरि क्तः । रामगुणानुसन्धानजनितं निजवैचित्र्यं व्याजेन परिहर्तुं श्रूयतामित्यामन्त्र्याभिमुखीकृत्य वाक्यमुत्तररूपमब्रवीत् व्यक्तमुक्तवान् ।। 1.1.6 ।।



बहवो दुर्ल्लभाश्चैव ये त्वया कीर्त्तिता गुणाः ।

मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ।। 1.1.7 ।।

वक्ष्यमाणस्यासदुत्तरत्वपरिहारायात्मनो वाल्मीकेराशयाभिज्ञत्वमाह बहव इति । बहवो विपुलाः, अनेकगुणविततिमूलभूता इत्यर्थः । अनेनापृष्टानामपि वक्ष्यमाणानां गुणानां निदानमुपदर्शितम् यद्वा बहवः अपरिच्छिन्ना इत्यर्थः । श्रूयते हि अपरिच्छिन्नत्वं गुणानाम् "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन" इति । अत्रानन्दस्यैकस्यापरिच्छिन्नत्वोक्तिरितरेषामप्यपरिच्छिन्नत्व प्रदर्शनार्था । उक्तं हि यामुनाचार्यैः "उपर्युपर्यब्जभुवो ऽपि पूरुषान्" इत्यादिना । दुर्लभाः परमपुरुषादन्यत्रासम्भाविताः, अन्येषां "न ब्रह्मा नेशानः" इत्यादिना असम्भाव्यत्वादिवचनादिति भावः । अनेन प्रश्नस्य देवताविशेषनिर्द्धारणपरत्वमात्मनावगतमिति व्यञ्जितम् । चकार उक्तसमुच्चयार्थः अनुक्तसमुच्चयार्थो वा । तेन स्वाभाविकानवधिकातिशयासङ्ख्येयकल्याणरूपा इत्युक्तम् । एवकार इतरत्र सर्वात्मना असम्भावितत्वमभिव्यनक्ति । य इति वेदान्तप्रसिद्धिरुच्यते । गुणाः वीर्यादयः कीर्तिता इत्यनेन गुणानां प्रश्नकाले ऽपि भोग्यतातिशयः सूच्यते । तैर्युक्तः, न तु कल्पित इति निर्गुणवादनिरासः । नरः पुरुषः । "पुरुषाः पूरुषा नराः" इति निघण्टुः । "य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते" "पुरुषः पुण्डरीकाक्षः" इति श्रुतिस्मृत्यनुगतः पुरुषशब्दो ऽनेन प्रत्यभिज्ञाप्यते । श्रूयतां न तु यथाकथञ्चित्परिकल्प्यताम् । शृण्वित्यनभिधानात् विनयोक्तिरियम् । तात्कालिकं किञ्चित्प्रकल्प्यत इति भ्रमं वारयति अहं बुद्ध्वा वक्ष्यामीति । मत्पितुर्ब्रह्मणः सकाशात् शतकोटिप्रविस्तररामायणमुखेन

विदित्वा वक्ष्यामि । अनेन सम्प्रदायाभिज्ञत्वमात्मनो दर्शितम् । यद्वा, रामगुणानुसन्धानवैचित्र्येन न मे किञ्चित्प्रतिभाति, क्षणात् बुद्ध्वा वक्ष्यामीत्यर्थः । अतो मध्ये वाक्यान्तरमलङ्काराय । अन्यथा वाक्यगर्भितमिति काव्यदोषः स्यात् । अहं वक्ष्यामि अहम्भूत्वा वक्ष्यामि, नेदानीं नारदो ऽस्मि, रामगुणश्रवणशिथिलत्वात् । रामगुणमग्नो ऽयं नदीप्रवाहमग्न इव अवलम्बनयष्टिमपेक्षते हे मुन इति । यद्वा, प्रश्नकाले समवधानविशेषमालक्ष्य श्लाघते मुन इति । अथ क्षणात्सन्धुक्षितो नारदो वाक्यशेषं पूरयति तैरिति । नर इत्यनेन परतत्त्वनिर्द्धारणं प्रश्नफलितार्थं द्योतयति । बुद्ध्वा इत्यनेन श्रुतिस्थतत्तच्छब्दार्थो विवृतः ।। 1.1.7 ।।



इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।

नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ।। 1.1.8 ।।

अथ वेदान्तोदितगुणानां रामे प्रदर्शनमुखेन रामत्वेनावतीर्णो विष्णुरेव वेदान्तवेद्यं परं तत्त्वमिति दर्शयति इक्ष्वाकुवंशप्रभव इत्यादिना सर्गशेषेण । तत्र वेदान्तोदितगुणगणानां निधी रामत्वेनावतीर्णो विष्णुरेवेति महावाक्यार्थः । इक्ष्वाकुवंशेत्यारभ्य सत्ये धर्म इवापर इत्यन्ता सार्धैकादशश्लोक्येकान्वया । इक्ष्वाकुर्नाम वैवस्वतमनोर्ज्येष्ठः पुत्रः, तस्य वंशः पुत्रपौत्रादिपरम्परा । प्रभवत्यस्मादिति प्रभवः प्रादुर्भावस्थानम् । इक्ष्वाकुवंशः प्रभवो यस्य सः इक्ष्वाकुवंशप्रभवः । जनकादिमहाकुलेषु विद्यमानेषु कुतो ऽत्रैव भगवानवतीर्ण इत्यपेक्षायामिक्ष्वाकुपदं प्रयुक्तम् । इक्ष्वाकुर्हि चिरं हरिमाराध्य तन्मूर्त्तिविशेषं श्रीरङ्गनाथमलभतेति पौराणिकी गाथा । अतस्तत्पक्षपातेन तद्वंशे ऽवतीर्ण इति सूचयितुमिक्ष्वाकुपदम् । वंशेत्यनेन गुणवान् क इति पृष्टं सौशील्यमुक्तम् । रमयति सर्वान् गुणैरिति रामः । "रामो रमयतां वरः" इत्यार्षनिर्वचनबलात् कर्तर्य्यपि कारके घञ् वर्ण्यते । यद्वा रमन्ते ऽस्मिन् सर्वे जना गुणैरिति रामः । "अकर्त्तरि च कारके सञ्ज्ञायाम्" इति घञ् । तथा चागस्त्यसंहितायामुक्तम् "रमन्ते योगिनो ऽनन्ते सत्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ।।" इति नामेति प्रसिद्धौ। चित्रकूटवासिना त्वया विदितो हीत्यर्थः। न केवलं भवता, पामरैरपि विदित इत्याह जनैः श्रुत इति। श्रुतः अवधृतः। "श्रुतं शास्त्रावधृतयोः" इत्यमरः। ताटकाताटकेयवधविश्वामित्राध्वरत्राणाहल्याशापविमोक्षहरधनुर्भङ्गपरशुरामनिग्रहसप्ततालवेधवालिवधसिन्धुबन्धमूलबलनिबर्हणादिभिरवधारितनारायणभाव इत्यर्थः। य एवम्भूतः स एव नियतात्मा स एव महावीर्य्य इत्येवं प्रतिपदं वक्ष्यमाणं तत्पदमनुषज्यते। रामरूपेणावतीर्णो विष्णुरेव वेदान्तोदिततत्तद्गुणक इति सर्वत्र तात्पर्यार्थः। आदौ स्वरूपनिरूपकधर्म्मानाह नियतात्मेत्यादिना। नियतात्मा नियतस्वभावः, निर्विकार इति यावत्। "नास्य जरयैतज्जीर्यते न वधेनास्य हन्यते अपहतपाप्मा विजरो विमृत्युर्विशोको विजियत्सोऽपिपासः" इत्यादिश्रुतेः। महावीर्यः अचिन्त्यविविधविचित्रशक्तिकः। "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" इति श्रुतेः। द्युतिमान् स्वाभाविकप्रकाशवान्। स्वयम्प्रकाशः ज्ञानस्वरूप इति यावत्। "विज्ञानघन एव प्रज्ञानघनः" इति श्रुतेः। धृतिमान् निरतिशयानन्दः। "धृतिस्तु तुष्टिः सन्तोषः" इति वैजयन्ती। "आनन्दो ब्रह्म" इति श्रुतेः। सर्वं जगद्वशेऽस्यास्तीति वशी, सर्वस्वामीत्यर्थः। "सर्वस्य वशी सर्वस्येशानः" इति श्रुतेः ।। 1.1.8 ।।



बुद्धिमान्नीतिमान् वाग्ग्मी श्रीमान् शत्रुनिबर्हणः ।

विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ।। 1.1.9 ।।

अथ सृष्ट्युपयोगिगुणानाह बुद्धिमानित्यादिना । बुद्धिमान् सर्वज्ञः । "यः सर्वज्ञः सर्ववित्" इति श्रुतेः । नीतिमान् मर्यादावान् । श्रुतिरत्र "धाता यथापूर्वमकल्पयत् । एष सेतुर्विधरण एषां लोकानामसम्भेदाय" इति । शोभना वागस्यास्तीति वाग्ग्मी । "वाचो ग्मिनिः" इति ग्मिनिप्रत्ययः । कुत्वे जश्त्वे च कृते गकारलाभात् पुनर्गकार उक्तिशोभनत्वज्ञापनायेति न्यासकारः । सर्ववेदप्रवर्त्तक इत्यर्थः । "यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै" इति श्रुतिः । श्रीमान् समृद्धोभयविभूत्यैश्वर्यः । "श्रीः कान्तिसम्पदोर्लक्ष्म्याम्" इति बाणः । "सर्वमिदमभ्यात्तः" इति श्रुतिः । शत्रून् तद्विरोधिनो निबर्हयति नाशयतीति शत्रुनिबर्हणः । "बर्ह हिंसायाम्" इत्यस्माद्धातोः कर्त्तरि ल्युट् । "एष भूतपतिरेष भूतपालः" इति श्रुतेः । अथ "य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेशः आप्रणखात्सर्व एव सुवर्णस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी । तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद " इत्यन्तरादित्यविद्योदितं सर्वाङ्गसुन्दरविग्रहं दर्शयति विपुलांस इत्यादिना सार्द्धश्लोकद्वयेन । विपुलांसः उन्नतस्कन्धः । उन्नतस्कन्धत्वं च महापुरुषलक्षणमिति सामुद्रिकोक्तम् "कक्षः कुक्षिश्च वक्षश्च घ्राणः स्कन्धो ललाटिका । सर्वभूतेषु निर्द्दिष्टा उन्नतास्तु सुखप्रदाः ।।" इति। महाबाहुः वृत्तपीवरबाहुः। आयतत्वं तु वक्ष्यति आजानुबाहुरिति। "आजानुलम्बिनौ बाहू वृत्तपीनौ महीश्वरः" इति सामुद्रिकलक्षणम्। कम्बुग्रीवः शङ्खतुल्यकण्ठः। इन्दुमुखीतिवत् शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। "कम्बुग्रीवश्च नृपतिर्लम्बकर्णोऽतिभूषणः" इति लक्षणम्। "रेखात्रयान्विता ग्रीवा कम्बुग्रीवेति कथ्यते" इति हलायुधः। महत्यौ हनू यस्यासौ महाहनुः। "स्त्रियाः पुंवत्" इत्यादिना पुंवद्भावः। हनुः कपोलोपरिभागः। "अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परो हनुः" इत्यमरः। "मांसलौ तु हनू यस्य भवतस्त्वीषदुन्नतौ। स नरो मृष्टमश्नाति यावदायुः सुखान्वितः ।।" इति लक्षणम् ।। 1.1.9 ।।



महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।

आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ।। 1.1.10 ।।

महोरस्क इति । महद्विशालमुरो यस्यासौ महोरस्कः । "उरःप्रभतिभ्यः कप्" इति कप् । लक्षणं तु "स्थिरं विशालं कठिनमुन्नतं मांसलं समम् । वक्षोयस्य महीपालस्तत्समो वा भवेन्नरः ।।" इति। मांसलत्वं तु वक्ष्यति पीनवक्षा इति। महान् इष्वासो धनुर्यस्यासौ महेष्वासः। अनेन तदुचितसंहननविशेषो लक्ष्यते, अतो न प्रक्रमविरोधः। गूढे मांसलत्वेनाप्रकाशे जत्रुणी असंद्वयसन्धिगतास्थिनी यस्यासौ गूढजत्रुः। "स्कन्धो भुजशिरोऽसोऽस्त्री सन्धी तस्यैव जत्रुणी" इत्यमरः। "विषमैर्जत्रुभिर्निःस्वा अतिसूक्ष्मैश्च मानवाः। उन्नतैर्भोगिनो निम्नैर्निःस्वाः पीनैर्नराधिपाः ।।" इति लक्षणम् । अरीन् दमयति निवर्त्तयतीत्यरिन्दमः । "सञ्ज्ञायां भृतृ़वृजिधारिसहितपिदमः" इति खच् । असञ्ज्ञायामप्यार्षः । अरिशब्देन पाप्मा विवक्षितः, अपहतपाप्मेत्यर्थः । अनेनायं विग्रहपरिग्रहो न कर्ममूलः, किन्त्वनुग्रहमूलः, "इच्छागृहीताभिमतोरुदेहः" इति स्मृतेः । अतः न प्रक्रमभङ्गः । जानु ऊरुपर्व, तत्पर्यन्तं विलम्बिबाहुराजानुबाहुः । सुष्ठु समं वृत्तं छत्राकारं शिरो यस्यासौ सुशिराः । "समवृत्तशिराश्चैव छत्राकारशिरास्तथा । एकछत्रां महीं भुङ्क्ते दीर्घमायुश्च जीवति ।।" इति लक्षणम्। सुललाटः। ललाटसौष्ठवं प्रोक्तम् "अर्धचन्द्रनिभं तुङ्गं ललाटं यस्य स प्रभुः" इति। शोभनः विक्रमः पदविक्षेपो यस्यासौ सुविक्रमः, शोभनत्वं च गजादितुल्यत्वम्। तथोक्तं जगद्वल्लभायाम् "सिंहर्षभगजव्याघ्रगतयो मनुजा मुने। सर्वत्र सुखमेधन्ते सर्वत्र जयिनः सदा ।।" इति ।। 1.1.10 ।।



समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।

पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ।। 1.1.11 ।।

समः नातिदीर्घो नातिह्रस्वः । तथात्वं च तत्रैवोक्तम् "षण्णवत्यङ्गुलोच्छ्रायः सार्वभौमो भवेन्नृपः" इति । समानि अन्यूनाधिकपरिमाणानि विभक्तानि अश्लिष्टानि अङ्गानि करचरणाद्यवयवा यस्य स समविभक्ताङ्गः । तानि चोक्तानि सामुद्रिकैः "भ्रुवौ नासापुटे नेत्रे कर्णावोष्ठौ च चूचुकौ । कूर्परौ मणिबन्धौ च जानुनी वृषणौ कटी । करौ पादौ स्फिजौ यस्य समौ ज्ञेयः स भूपतिः ।।" इति। स्निग्धः स्नेहयुक्तो वर्णो यस्य सः स्निग्धवर्णः। तत्रोक्तं वररुचिना "नेत्रस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम्। त्वचः स्नेहेन शय्या च पादस्नेहेन वाहनम्" इति। प्रतापवान् तेजस्वी, समुदायशोभासम्पन्न इत्यर्थः। पीनवक्षा मांसलवक्षाः। विशाले पद्मपत्रायते अक्षिणी यस्य सः विशालाक्षः। "बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्" इति षच्। अत्र सामुद्रिकम् "रक्तान्तैः पद्मपत्राभैर्लोचनैः सुखभोगिनः" इति। लक्ष्मीवान् अवयवशोभायुक्तः। शुभलक्षणः अनुक्तसकललक्षणसम्पन्नः ।। 1.1.11 ।।



धर्म्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः ।

यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ।

प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।। 1.1.12 ।।

एवमाश्रितानुभाव्यदिव्यमङ्गलविग्रहशालित्वमुक्त्वा आश्रितरक्षणोपयोगिगुणानाह धर्मज्ञ इत्यादिना स्वजनस्य च रक्षितेत्यन्तेन । धर्मं शरणागतरक्षणरूपं जानातीति धर्म्मज्ञः । वक्ष्यति "मित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चन । दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम् ।।" इति। सत्या सन्धा प्रतिज्ञा यस्य स सत्यसन्धः। "प्रतिज्ञाने वधौ सन्धा" इति वैजयन्ती। "अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्। नहि प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ।।" इति । प्रजानां प्राणिनां हिते हितकरणे रतः तत्परः । यशस्वी आश्रितरक्षणैककीर्त्तिः । "तस्य नाम महद्यशः" इति श्रुतेः । ज्ञानसम्पन्नः "यः सर्वज्ञः सर्ववित्" इत्युक्तरीत्या स्वरूपतः स्वभावतश्च सर्वविषयज्ञानशीलः । शुचिः पावनः परिशुद्धो वा, ऋजुरिति यावत् । वश्यः वशङ्गतः । "वशं गतः" इति निपातनाद्यत् । आश्रितपरतन्त्र इत्यर्थः । समाधिमान् समाधिः आश्रितरक्षणचिन्ता, तद्वान् । प्रजापतिसमः "मध्ये विरिञ्चिगिरिशं प्रथमावतारः" इत्युक्तरीत्या जगद्रक्षणाय प्रजापतितुल्यतयावतीर्णः । श्रीमान् पुरुषकारभूतया लक्ष्म्या अविनाभूतः । धाता पोषकः । "डुधाञ् धारणपोषणयोः" इति धातोस्तृच् । रिपून् शत्रून् निषूदयति निरस्यतीति रिपुनिषूदनः । "सूददीपदीक्षश्च" इति प्रतिषेधस्यानित्यत्वात् "अनुदात्तेतश्च हलादेः" इति युच्, नन्द्यादिपाठाद्वा ल्युः । सुषामादित्वात् षत्वम् । आश्रितविरोधिनिरसनशील इत्यर्थः ।। 1.1.12 ।।



रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।

रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।। 1.1.13 ।।

अथावतारैकान्तान् गुणानाह रक्षितेति । लोके सार्वभौमः स्वकीयजनरक्षण एव यतते, अयं तु न तथा, किन्तु सर्वस्य प्राणिजातस्य रक्षिता । ताच्छील्ये तृच् । शेषे षष्ठी । ननु यदि सर्वेषां रक्षिता तर्हि दुष्कृतिनमपि सुखिनमापादयेदित्यत्राह धर्मस्य परिरक्षितेति । आचरणप्रचारणाभ्यां सर्वधर्मस्य व्यवस्थापयिता । उच्छास्त्रप्रवर्त्तिनो ऽपि चिकित्सकन्यायेन अनघ(अलङ्घ)यितेत्यर्थः । स्वस्य स्वकीयस्य शरणागतरक्षणरूपस्य धर्मस्य विशेषधर्मस्य विशिष्यरक्षिता । यद्वा, धर्मस्य तत्तद्वर्णाश्रमधर्मस्य नित्यं समन्ततो रक्षिता । लोके सर्वधर्मप्रवर्त्तको ऽपि "धर्मोपदेशसमये जनाः सर्वे ऽपि पण्डिताः ।

तदनुष्ठानसमये मुनयो ऽपि न पण्डिताः ।।" इति न्यायेन स्वधर्मानुष्ठाने स्खलति, न तथायमित्याह स्वस्य धर्मस्य रक्षिता, स्वासाधारणस्य क्षत्रियधर्मस्य रक्षितेत्यर्थः। लोके सर्वरक्षकोऽपि कश्चित्स्वजनरक्षणं कर्त्तुं न प्रगल्भते। "दास्यमैश्वर्य्यभावेन ज्ञातीनां च करोम्यहम्। अर्धभोक्ता च भोगानां वाग्दुरुक्तानि च क्षमे ।।" इति भगवताप्युक्तेः । तदपि कर्तुमीहत इत्याह स्वजनस्य च रक्षितेति । स्वजनस्य च, स्वजनस्यापीत्यर्थः । अनेन स्वजनरक्षणस्य दुर्घटत्वं सूचितम् । यद्वा, चस्त्वर्थः । स्वजनस्य शरणागतस्य विशेषेण रक्षिता । विशेषस्तु तदपराधसहिष्णुत्वम् । वक्ष्यति "मित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चन । दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम् ।।" इति। यद्वा, लोके कश्चित्सर्वान् रक्षन् स्वजनं पीडयति, असौ तु स्वजनस्यापि रक्षितेत्यर्थः। अथवा स्वावतारप्रयोजनमाह रक्षितेति। गीतं हि "परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।।" इति । स्वजनस्य स्वशेषभूतस्येति सर्वलोकविशेषणं रक्षणहेतुसम्बन्धद्योतनार्थम् । रक्षिता इष्टप्रापकः, अनेन साधुपरित्राणमुक्तम् । चशब्दो ऽन्वाचये । रक्षिता च अनिष्टनिवर्त्तकः । अनेनानुषङ्गिकदुष्कृद्विनाश उक्तः । धर्मस्य सामान्यविशेषरूपस्य स्थापनमाहेतरवाक्यद्वयेन । रक्षिता स्वस्य धर्मस्य सीतापरिणयमुखेन स्वाश्रमोचितधर्माणामनुष्ठाता । यद्वा, स्वस्य धर्मः परत्वम्, तस्य रक्षिता । हरधनुर्भङ्गपरशुरामजयादिना हि परत्वं स्थापितम् । यद्वा, धर्मो धनुः "स्वाम्यस्वभावसुकृतेष्वस्त्री धर्मं तु कार्मुके ।" इति बाणः । सदा धनुर्द्धरः । स्वजनस्य च रक्षिता स्वभूतो जनः स्वजनः ज्ञानी "ज्ञानी त्वात्मैव मे मतम्' इति गीतत्वात्, तस्य रक्षिता आत्मन इव सर्वयोगक्षेमावह इत्यर्थः ।। 1.1.13 ।।



वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ।

सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।। 1.1.14 ।।

अथास्याष्टादशविद्यास्थानाभिज्ञत्वमाह वेदेति । विदन्त्यनेन धर्मादिकमिति वेदः । करणे घञ् । स चतुर्विधः । ऋग्यजुःसामाथर्वणभेदात् । वेदस्य किञ्चित्कराणि वेदाङ्गानि तानि च षट् । तथोक्तम् "शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दसां विचितिश्चेति षडङ्गानि प्रचक्षते ।।" इति। तत्र शिक्षानाम अकारादीनां वेदवर्णानां स्थानकरणप्रयत्नस्वरादिबोधिका, यागक्रियाक्रमोपदेशः कल्पः, साधुशब्दव्याख्यानं व्याकरणम् "वर्णागमो वर्णलोपो वर्णविपर्ययः" इत्यादिना निश्चयेनोक्तं निरुक्तम्, कर्मानुष्ठानकालादिप्रतिपादकं शास्त्रं ज्यौतिषम्, छन्दसां पद्यानां शास्त्रं छन्दोविचितिः। वेदाश्च वेदाङ्गानि च वेदवेदाङ्गानि तेषां तत्त्वं तत्त्वार्थः तं जानातीति तथोक्तः। "इगुपधज्ञाप्रीकिरः कः" इति कप्रत्ययः। धनुर्वेदो नाम धनुर्हस्तमुष्टिस्थितिविशेषाकर्षणविमोक्षणदिव्यास्त्रादिप्रयोगप्रतिपादको ग्रन्थः। चकार इतरोपवेदसमुच्चयार्थः। क्षत्रियो धनुर्वेदप्रधान इति तस्य निर्द्देशः। ते चोपवेदाश्चत्वारः। तथाहि "आयुर्वेदो धनुर्वेदो वेदो गान्धर्व एव च। अर्थशास्त्रमिति प्रोक्तमुपवेदचतुष्टयम् ।।" इति । आयुर्वेदो बाहटं वैदिकधर्मानुष्ठानविरोधिरोगनिवर्त्तकौषधादिप्रतिपादकम् । गान्धर्ववेदो भरतशास्त्रं सामगानोपयोगि । अर्थशास्त्रं चाणक्यादिप्रणीतं नीतिशास्त्रं कर्मानुष्ठानेषूपयोग्यर्थसाधनम्, तेषु निष्ठितः । सर्वशास्त्रार्थतत्त्वज्ञ इति । सर्वशास्त्राणि उपात्तव्यतिरिक्तानि उपाङ्गानि गोबलीवर्दन्यायात् । "धर्मशास्त्रं पुराणं च मीमांसान्वीक्षिकी तथा । चत्वार्येतान्युपाङ्गनि शास्त्रज्ञाः सम्प्रचक्षते ।।" इति। तत्र धर्मशास्त्रं पूर्वकाण्डोपबृंहणम्, पुराणं वेदान्तोपबृंहणम्, न्यायमीमांसे सर्ववेदसाधारण्यौ तेषामर्थतत्त्वम् अर्थयाथात्म्यम्, निगूढाशयमित्यर्थः। तत् जानातीति तथा। अष्टादशविद्यास्थानतत्त्वज्ञ

इत्यर्थः । स्मृतिमान् ज्ञातार्थविषये विस्मरणलेशरहितः । प्रतिभानवान् व्यवहारकाले श्रुतस्याश्रुतस्य वा झटिति स्फुरणं प्रतिभानम्, तद्वान् ।। 1.1.14 ।।



सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ।

सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।। 1.1.15 ।।

अथ सर्वदा सदुपास्यत्वमाह सर्वेति । सर्वे लोकाः प्रिया यस्य सः सर्वलोकप्रियः, सर्वेषां लोकानां प्रियः सर्वलोकप्रियः । सर्वलोकप्रियत्वात् सद्भिरभिगन्तव्य इत्यर्थः । साधुः तत्कार्यसाधकः । उण् प्रत्ययः । यद्वा साधुः उचितः, सदभिगमनोचित इत्यर्थः । "साधुस्त्रिषूचिते सौम्ये सज्जने वार्धुषावपि" इति वैजयन्ती । अदीनात्मा अकार्प्पण्यात्मा । अतिगम्भीरप्रकृतिरिति यावत् । विचष्ट इति विचक्षणः । नन्द्यादित्वात् ल्युः "अस्युस्यनेचक्षिडः ख्याञ् नेति वाच्यम्" इति व्ख्याञादेशाभावः । विविधं वक्तीत्यर्थः । अत एव सर्वदा सदुपास्यमानत्वमाह सर्वदेति । सर्वदा अस्त्राभ्यासकालेष्वपि सद्भिः सत्पुरुषैः अभिगतः परिगतः, परिवारित इत्यर्थः । कथमिव ? समुद्रः सिन्धुभिरिव नदीभिरिव । "स्त्री नद्यां ना नदे सिन्धुर्देशभेदे ऽम्बुधौ गजे ।" इति वैजयन्ती । सर्वदाभिगतः सद्भिः खुरलीकेलिश्रमविश्रान्त एकान्ते छायामवगाहमाने रामे सन्तः सर्वे तत्तदर्थविशेषश्रवणाय परिवृत्त्य स्थिता इत्यर्थः । तथा च वक्ष्यति "ज्ञानवृद्धैर्वयोवृद्धैः शीलवृद्धैश्च सज्जनैः । कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि ।।" इति। अस्त्रयोग्योऽस्त्राभ्यासः। समुद्र इव सिन्धुभिः। एवं सदभिगमनं न रामस्याज्ञातज्ञापनाय, तस्य स्वत एव पूर्णत्वात्। किन्तु स्वेषामेवापूर्वार्थविशेषलाभाय, गत्यन्तराभावादिति भावः। सिन्धवो हि स्वसत्तालाभायैव समुद्रमभियान्ति, न तु तस्यातिशयापादनाय ।। 1.1.15 ।।



आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः ।

स च सर्वगुणोपेतः कौसल्यानन्दवर्द्धनः ।। 1.1.16 ।।

एवमभिगमनहेतुभूतं सौलभ्यादिकं विशदयति आर्य इति । आङ्पूर्वात् 'ऋ गतौ' इत्यस्माद्धातोः कर्मणि ण्यत्प्रत्ययः । अभिगन्तुमर्ह इत्यर्थः । किं सतामेव ? नेत्याह सर्वसमः, जातिगुणवृत्त्यादितारतम्यं विना सर्वेषामाश्रयणीयत्वे तुल्यः । अस्य कादाचित्कत्वं वारयत्येवकारः । चकार उक्तसमुच्चयार्थः । किञ्चिदुपदेशाभावे ऽपि सौन्दर्यादभिगन्तव्यत्वमाह सदैकप्रियदर्शन इति । सदानुभवे ऽपि नवनवतया भासमान इत्यर्थः । अथ "इषुक्षयान्निवर्त्तन्ते नान्तरिक्षक्षितिक्षयात् । मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात् ।।" इति भगवद्गुणानां वर्षायुतेनापि वर्णयितुमशक्यत्वेन सङ्ग्रहेण वदन्नुत्तरमुपसंहरति स चेति। कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या। "वृद्धेत्कोसलाजादाञ्ञ्यङ्" इति ञ्यङ्प्रत्ययः। "यङश्चाप्" इतिचाप्। तस्या आनन्दं वर्द्धयतीति कौसल्यानन्दवर्द्धनः। चशब्द एवकारार्थः। कौसल्यासुतत्वेनावतीर्णो विष्णुरेव वेदान्तोदितसकलगुणसम्पन्नः परमात्मा, न तु ब्रह्मादिष्वन्यतम इत्यर्थः। दशरथनन्दन इत्यनुक्तिः पुत्रलाभफलस्य कौसल्ययैव लाभात्। अत एव वक्ष्यति "कौसल्या लोकभर्त्तारं सुषुवे यं मनस्विनी" इति ।। 1.1.16 ।।



समुद्र इव गाम्भीर्य्ये धैर्येण हिमवानिव ।

विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।। 1.1.17 ।।

अथास्य निस्समाभ्यधिकत्वं वक्तुं लोके प्रकृष्टवस्तूनां तदेकैकगुणसाम्यमाह समुद्र

इवेत्यादिश्लोकद्वयेन । गाम्भीर्यं नाम स्वान्तर्गतपदार्थाप्रकाशकत्वम् । यथा समुद्रः स्वान्तर्गतं रत्नादिकमप्रकाशयन्नेव वर्त्तते तथायमपि स्वीयं परत्वमप्रकटयन्नेवास्त इत्यर्थः । वक्ष्यति "आत्मानं मानुषं मन्ये" इति । धैर्यं नाम शोकहेतुसद्भावे ऽपि निःशोकत्वम् । तेन हिमवानिव हिमवत्सदृशः । "गिरयो वर्षधाराभिर्हन्यमाना न विव्यथुः । अभिभूयमाना व्यसनैर्यथाधोक्षजचेतसः ।।" इति ह्युक्तम्। अत्र वस्तुतः समुद्रादेरुपमानत्वाभावेऽपि प्रतिपत्तृ़णामुपमानत्वं सम्भवतीत्येवमुक्तम्। यथा "इषुवद्गच्छति सविता" इत्यत्र। विष्णुनेति। वीर्ये विषये विष्णुना सदृशः। विष्णोरर्धत्वेन रामस्य विष्णुसादृश्यं सुवचमेव। "स उ श्रेयान् भवति जायमानः" इत्युक्तत्वेन तदंशस्यापि तत्सदृशत्वं युक्तमेव। सोमवत्प्रियदर्शनः शोकनिवृत्तिपूर्वकमाह्लादकरः ।। 1.1.17 ।।



कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ।

धनदेन समस्त्यागे सत्ये धर्म इवापरः ।। 1.1.18 ।।

क्रोधे कालाग्निसदृशः, कालाग्निक्रोधसमक्रोध इत्यर्थः । स्वविषयापराधमेव स्वयं सहते । स्वाश्रितविषयापराधकरणे तु ज्वलज्ज्वलन इव शीतलतरे ऽपि हृदये कोपमावहतीत्यर्थः । जले हि कालाग्निर्ज्वलति । क्षमया क्षमारूपसदृशधर्मेण पृथिवीसमः पृथिवीतुल्यक्षमः, स्वस्मिन्नपकारकरणे अचेतनवद्वर्त्तत इत्यर्थः । "न स्मरत्यपकाराणां शतमप्यात्मवत्तया ।" इति वक्ष्यति । त्यागे त्यागविषये धनदेन कुबेरेण समः, तद्वद्दातेत्यर्थः । कुबेरस्य त्यागित्वं " त्यागे च धनदो यथा" इत्यादिवक्ष्यमाणवचनशतसिद्धम् । न च तस्य लुब्धत्वं कुतश्चित्सिद्धम् । "त्यागे सत्यपि धनदवदाढ्यः" इति व्याख्यानं तु प्रक्रमविरुद्धम्, न ह्याढ्यत्वं कश्चिद्गुणः । तथा सति लुब्धत्वमेवास्य सिद्धं स्यात् । सत्ये सत्यवचने अपरः उत्कृष्टवस्त्वन्तररहितः धर्मः धर्मदेवतेव स्थितः, धर्मदेवतेव निरपायसत्यवचन

इत्यर्थः । सत्ये अपरो धर्म इव स्थित इति व्याख्याने प्रकृतौपम्ये विरोधः, तस्योत्प्रेक्षारूपत्वात् । क्वचिदुपमा क्वचिदुल्लेखः क्वचिदुत्प्रेक्षेति विजातीयसङ्कर इत्यप्याहुः ।। 1.1.18 ।।



तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम् ।

ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ।। 1.1.19 ।।

एंव वेदान्तोदितजगत्कारणत्वसर्वज्ञत्वसर्वशक्तित्वसर्वान्तर्यामित्वप्रमुखसमस्तकल्याणगुणाकरं ब्रह्म किं रामत्वेनावतीर्णो विष्णुः, उत ब्रह्मरुद्रादिष्वन्यतम इति वाल्मीकिना वेदोपबृंहणाय पृष्टे वेदान्तोदितगुणानां तदन्येष्वसम्भवात्तस्यैव सम्भवाच्च स एव वेदान्तोदितं परं तत्त्वमित्युपदिष्टम् । तत्र तत्र जगत्कारणप्रकरणेषु प्रयुक्ताः स्वयम्भूशिवादिशब्दाः सद्ब्रह्मादिसामान्यशब्दवदपर्यवसानवृत्त्या ऽवयववृत्त्या वा परमात्मपरा इत्यप्यर्थसिद्धम् । एवं वेदान्तसारार्थः सन्दर्शितः । ननु ब्रह्मस्वरूपमिव फलस्वरूपं तदुपायस्वरूपमपि वेदार्थत्वादुपबृंहणीयम्, तदुभयं किमिति न पृष्टं नोपदिष्टं च । मैवम् परिपप्रच्छेत्यत्र परिणा तदुभयस्वरूपमपि पृष्टमेव । उत्तरे च "प्रजानां च हिते रतः" इत्यादिनोपायत्वं "सदैकप्रियदर्शनः" इत्यादिनोपेयत्वं च तस्यैवेत्युक्तम् । ननु सिद्धस्यैव तस्योपायत्वे सर्वमुक्तिप्रसङ्ग इति चेन्न य उपायोपेयाधिकारी तस्यैव फलं दिशति नानधिकारिण इति व्यवस्थापनात् । अधिकारश्च तत्प्राप्त्यपेक्षासाधनान्तरपरित्यागश्चेत्युत्तरग्रन्थे सुव्यक्तम् । ननु वेदोपबृंहणमिदं रामायणमित्युक्तम् । धर्मो ऽपि वेदार्थः । स कथं नोपबृंहितः, किञ्च इयता ग्रन्थेन वेदान्तार्थ उपबृंहितः, किमतः परेण ग्रन्थेन ? उच्यते उक्ताननुक्तांश्च कल्याणगुणांस्तच्चरित्रनिदर्शनमुखेन प्रतिपादयितुमुत्तरग्रन्थः

पूर्वभागोपबृंहणं च रामायणपुरुषाचारमुखेन हि सामान्यधर्मो विशेषधर्मश्चोपबृंहितः । ननु तथापि कथं बालकाण्डकथा नोपदर्शिता ? मैवम् तत्र प्रदर्शनीयगुणविशेषाभावात्, न च साप्यत्यन्तमप्रदर्शिता । "इक्ष्वाकुवंशप्रभवः" इत्यवतरणम्, "महावीर्यः" इति ताटकाताटकेयादिवधः, "धनुर्वेदे च निष्ठितः" इति कौशिकाधिगतनिखिलदिव्यास्त्रवत्त्वम्, "श्रीमान्" इति वैदेहीलाभश्चेति बालकाण्डकथासूचनात् । अथायोध्याकाण्डकथां प्रस्तौति तमेवमित्यादिना । आदौ श्लोकद्वयमेकान्वयम् । दशसु दिक्षु रथो यस्य स दशरथः । अप्रतिहतरथत्वेन रामाय राज्यं दत्तम्, भीतिदत्तत्वाभावेन पुनरनादातव्यत्वमुक्तम् । महीपतिः अस्वामिदत्तत्वाभाव उच्यते । एवं दात्रदोषेण पुनरनाहरणीयत्वमुक्त्वा सम्प्रदानगुणेनाप्याह तमित्यादिना । तं प्रसिद्धम् । एवं गुणसम्पन्नं पूर्वोक्तसर्वगुणसमृद्धम्, सर्वस्य स्वामिभूतमिति यावत् । सत्यपराक्रमममोघपराक्रमम्, सर्वरक्षणशक्तमिति यावत् । ज्येष्ठं जन्मक्रमेणापि राज्यार्हम् । श्रेष्ठगुणैर्युक्तम् नीतिशास्त्रोक्तषाड्गुण्ययुक्तम्, सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः षड्गुणाः कामन्दकोक्ताः । प्रियं प्रीतिविषयम् । अनेन तात्कालिकप्रीतिदानव्यावृत्तिः । सुतं जन्मनैव राज्यार्हम् ।। 1.1.19 ।।



प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ।

यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ।। 1.1.20 ।।

प्रकृतीनां प्रजानां हितैः हितकरणैर्युक्तम्, अनेन सर्वानुकूल्यमुक्तम् । एवम्भूतं रामं प्रकृतिप्रियकाम्यया अमात्यादीनां प्रीतिकरणेच्छया । इच्छायां काम्यच्प्रत्ययः । "अप्रत्ययात्" इत्यप्रत्ययः । "अजाद्यतष्टाप्" । प्रीत्या स्वप्रीत्या च । चकारो ऽर्थसिद्धः । "गामश्वं पुरुषं जगत्" इतिवत् । मन्त्रिवृद्धैरालोचनपूर्वकं कृतत्वादप्रत्याख्येयत्वमुच्यते । "प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे । छन्दःकारणगुह्येषु जन्मामात्यादिमातृषु" इत्युभयत्र वैजयन्ती । युवा चासौ राजा च युवराजः तस्य भावः कर्म वा यौवराज्यम् । ब्राह्मणादित्वात् ष्यञ् । तेन पितरि राज्यं निर्वहत्येव सर्वनिर्वाहकत्वेनाभिषिक्तः पुत्रो युवराजः, तस्य भावेनेत्यर्थः । संयोक्तुं घटयितुमैच्छत्, तत्सम्भारान् समभरदित्यर्थः ।। 1.1.20 ।।



तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ।

पूर्वं दत्तवरा देवी वरमेनमयाचत ।।

विवासनं च रामस्य भरतस्याभिषेचनम् ।। 1.1.21 ।।

एवं पुनरादानायोग्यं रामाय राज्यप्रदानमुक्त्वा अपरिहरणीयमनन्तरभावि कैकेय्या याचनमाह तस्येति सार्द्धश्लोक एकान्वयः । अथ रामाय राज्यप्रदानेच्छानन्तरं तस्य रामस्याभिषेकः कर्मविशेषः, तस्य सम्भारानुपकरणानि । "औदुम्बर्यासन्दी तस्यै प्रादेशमात्राः पादाः स्युः" इत्यादीनि "दधिमधुसर्पिरातपवर्ष्या आपः" इत्यन्तानि ब्राह्मणोक्तानि दृष्ट्वा मन्थरामुखेन दर्शन इव ज्ञात्वा । भार्या भर्तुं योग्या, न तु स्वातन्त्र्यार्हा । पूर्वं पूर्वकाले । विभक्तिप्रतिरूपकमव्ययम् । तेन दशरथेन दत्तवरा शम्बरासुरविजयकाले सारथ्यकरणपारितोषिकतया दत्तवरा । याचनहेतुत्वेनेदमुक्तम् । (तच्छब्दस्य दशरथपरामर्शितया शम्बरासुरसमरं सूचितम् । दशसु दिक्षु अप्रतिरुद्धरथो हि सः ।) दीव्यतीति देवी । पचाद्यच् । देवडिति टित्त्वेन पाठात् ङीप् । भोगोपकरणभूतेति व्यामोहमूलोक्तिः । कैकयी केकयानां राजा केकयः । "क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत्" इत्यञ् । "जनपदे लुप्" । केकयस्यापत्यं स्त्री कैकयी । "जनपदशब्दात्क्षत्रियादञ्" इत्यपत्यार्थे ऽञ् । "टिड्ढाणञ् " इत्यादिना

ङीप् । नन्वञ्प्रत्यये "केकयमित्रयुप्रलयानां यादेरियः" इतीयादेशः किं न स्यात् ? उच्यते "जरायां जरसन्यतरस्याम्" इत्यतो ऽन्यतरस्यामित्यनुवृत्तेस्तस्य वैकल्पिकत्वात् । न चेयादेशाभाव आर्ष इति वाच्यम् । कैकेयीकैकयीति शब्दभेदप्रकाशिकायामुक्तेः । "प्राक् कैकयीतो भरतस्ततो ऽभूत्" इति भट्टिप्रयोगात् । केकयीति पाठे तु केकयान् जन्मभूमित्वेनाचष्ट इति केकयी । "तदाचष्टे" इति णिजन्तादौणादिके स्त्रियामिकारप्रत्यये टिलोपे णिलोपे च कृते "कृदिकारादक्तिनः" इति ङीषित्याहुः । "पुंयोगादाख्यायाम्" इति वा ङीष् । तत्र योगशब्देनाविशेषाज्जन्यजनकभावो ऽपि गृह्यते । केकयशब्दो मूलप्रकृतिरेवोपचारात् स्त्र्यपत्ये वर्त्तते । शार्ङ्गरवादिपाठात् ङीनिति न्यासकारः । कैकयी । एनं दशरथम् । "द्वितीयाटौस्स्वेनः" इत्यन्वादेशे एनादेशः । रामस्य विवासनं भरतस्याभिषेचनं च वरमयाचत अर्थितवती । याचिर्द्विकर्मकः ।। 1.1.21 ।।



स सत्यवचनाद्राजा धर्मपाशेन संयतः ।

विवासयामास सुतं रामं दशरथः प्रियम् ।। 1.1.22 ।।

स इति ।। राजा सर्वरञ्जकः, "राजा प्रकृतिरञ्जनात्" इति प्रयोगात् । औणादिकः कनिन्प्रत्ययः । यद्यपि "रजकरजनरजस्सूपसङ्ख्यानम्" इति वचनादत्र नलोपप्रसक्तिर्नास्ति तथापि रजस्साहचर्यादौणादिकस्य तत्र ग्रहणम् । स पूर्वं रामाय दत्तराज्यः, मन्त्रिप्रमुखैरालोचनपूर्वकं प्रतिज्ञातरामाभिषेक इत्यर्थः । दशरथः । धर्मः पाश इव धर्मपाशः । "उपमितं व्याघ्रादिभिः" इति समासः । व्याघ्रादेराकृतिगणत्वात् । तेन संयतो बद्धः सन् सत्यवचनात् स्त्रीविषयवचनसिद्धिहेतोः प्रियं सुतं विवासयामास, "रामो विग्रहवान् धर्मः" इत्युक्तरीत्या प्रथममङ्गीकृतं परमधर्मं परित्यज्यानन्तरं प्रवृत्तं स्त्रीविषयं क्षुद्रधर्ममवलम्बितवानित्यर्थः । एतेन "साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघविनाशनम् ।।" "आक्रुश्य पुत्रमघवान् यदजामिलोऽपि नारायणेति म्रियमाण उपैति मुक्तिम्" "कामाद्गोप्यो भयात्कंसः" इत्येवं यथाकथञ्चित् भगवन्नामवतां मुक्तिसिद्धौ सर्वदा रामपरायणस्य दशरथस्य कथं न मुक्तिरिति शङ्का दूरोत्सारिता। सिद्धसाधनत्यागात् काशकुशावलम्बनात् धर्मपाशप्रतिबन्धाच्च मुक्तिप्रसङ्गाभावात् तथा च मुमुक्षुणा दशरथवन्न वर्तितव्यमित्युक्तं भवति ।। 1.1.22 ।।



स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।

पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ।। 1.1.23 ।।

पितृवचनपरिपालनमवश्यं कर्त्तव्यम्, एतद्रामाचारमुखेन दर्शयति स जगामेति । स रामः वीरो ऽपि राज्यपरिपालनसमर्थो ऽपि कैकेय्याः प्रियकारणात् प्रीतिहेतुभूतात् स्त्रीपारवश्येनोक्तादपीत्यर्थः । पितुर्वचननिर्देशात्, वचनमेव निर्द्देशः आज्ञा । "आज्ञायामपि निर्देशः" इति बाणः । तस्माद्धेतोः प्रतिज्ञां कैकेयीसमक्षं कृतां प्रतिज्ञामनुपालयंश्च । "लक्षणहेत्वोः क्रियायाः" इति हेत्वर्थे शतृप्रत्ययः । वक्ष्यति "तद्ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम् । करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते" इति स्वप्रतिज्ञापालनार्थं पितृवचनपालनार्थं चेत्यर्थः । वनं दण्डकावनमुद्दिश्य जगाम ।। 1.1.23 ।।



तं व्रजन्तं प्रियो भ्राता लक्ष्मणो ऽनुजगाम ह ।

स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्द्धनः ।।

भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ।। 1.1.24 ।।

इक्ष्वाकुवंशेत्यादिना समस्तकल्याणगुणपरिपूर्णत्वोक्त्या परत्वमुक्तम् । तमेवमित्यादिना अभिषेकप्रवृत्तिनिवृत्तिकथनात् सौलभ्यमुक्तम् । अथ परत्वसौलभ्यानुगुणं समाश्रयणमाह तं व्रजन्तमिति । यद्वा अथ सिद्धसाधननिष्ठैः लक्ष्मणवत् कैङ्कर्यपरैर्भवितव्यमिति व्यञ्जयन्नाह तं व्रजन्तमिति, सार्द्धश्लोक एकान्वयः । प्रीणातीति प्रियः । रामे प्रीतिमान् । "इगुपधज्ञाप्रीकिरः कः" इति कः । अनेनानुगतिहेतुर्भक्तिरुक्ता । भ्राता "भ्राता स्वा मूर्तिरात्मनः" इति मूर्तिभूतः । विनयसम्पन्नः कैङ्कर्यहेतुविनययुक्तः । विनयः शेषत्वज्ञानं रामकैङ्कर्य्यरूपाचारो वा । "विनयो धर्मविद्यादिशिक्षाचारप्रशान्तिषु" इति वैजयन्ती । सुमित्रायाः आनन्दं वर्द्धयतीति सुमित्रानन्दवर्द्धनः, "सृष्टस्त्वं वनवासाय" "रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् । अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ।।" इति सुमित्रयैवोक्तत्वात्। दयितः रामस्येष्टतमः। "यमेवैष वृणुते तेन लभ्यः" इत्युक्तरीत्या प्रियतमत्वेन वरणीय इत्यर्थः। लक्ष्मणः कैङ्कर्यलक्ष्मीसम्पन्नो भविष्यतीति ज्ञात्वा लक्ष्मण इति वसिष्ठेन कृतनामधेयः, "स तु नागवरः श्रीमान्" "अन्तरिक्षगतः श्रीमान्" इत्युक्तेः। कैङ्कर्यलक्ष्मीवत्त्वं "लक्ष्मणो लक्ष्मीसम्पन्नः" इति वक्ष्यति। "लक्ष्म्या अच्च" इति पामादिगणसूत्रान्मत्वर्थीयो नप्रत्ययः, अकारश्चान्तादेशः। "लक्ष्मीवान् लक्ष्मणः श्रीमान्" इति पर्यायपाठश्च। सुभ्रातुर्भावः सौभ्रात्रम्। भावे अण्, अनुशतिकादित्वात् उभयपदवृद्धिः। रामं विना क्षणमपि जीवनाक्षमत्वं सुभ्रातृत्वम्। वक्ष्यति "न च सीता त्वया हीना न चाहमपि राघव। मुहूर्त्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ ।।" इति । रामस्य लक्ष्मणविरहासहत्वं सुभ्रातृत्वम् । तच्च वक्ष्यति "न च तेन विना निद्रां लभते पुरुषोत्तमः । मृष्टमन्नमुपानीतमश्नाति न हि तं विना ।।" इति। तदनुदर्शयन् सन्। यद्वा एवं सुभ्रातृभिर्वर्त्तितव्यमिति दर्शयन्निवेति गम्योत्प्रेक्षा। व्रजन्तम् एकान्ते स्वाभिमतसकलकैङ्कर्यप्रधानप्रवृत्तं भ्रातरम्। उपलक्षणमिदम्, "माता पिता च भ्राता च निवासः शरणं सुहृत्। गतिर्नारायणः" इत्युक्तसकलविधबन्धुः। वक्ष्यति "अहं तावन्महाराजे पितृत्वं नोपलक्षये। भ्राता भर्त्ता च बन्धुश्च पिता च मम राघवः ।।" इति । स्नेहात् "बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्द्धनः" इत्युक्तरामभक्तेरेव हेतोरनुजगाम । "येन येन धाता गच्छति तेन तेन सह गच्छति" इतिवदपूर्वो ऽयं कश्चिद्वृत्तिविशेष इति ऋषिर्विस्मयते हेति । "ह विस्मये विषादे च" इति बाणः । आशालेशमात्रेण स्वस्मिन्नेवाधिकप्रेमाणं भगवन्तं कुत्रचित् एकान्तस्थले स्वमनोरथानुरूपविशिष्टविषयसकलकैङ्कर्यलाभायानुसरन्नधिकार्यत्र विनिर्दिश्यते ।। 1.1.24 ।।



रामस्य दयिता भार्या नित्यं प्राणसमा हिता ।

जनकस्य कुले जाता देवमायेव निर्मिता ।। 1.1.25 ।।

अथ सीतायाः साधनदशायां पुरुषकारतया फलदशायां प्राप्यतया चान्वयात्तया नित्ययोगं दर्शयति रामस्येत्यादिश्लोकद्वयेन । रामस्याभिरामस्यापि दयिता अभिरामा नित्यं भार्या हृदि सन्ततं धार्या । बिभर्त्तेः "ऋहलोर्ण्यत्" इति ण्यत् । प्राणसमा उक्तार्थद्वये हेतुरयम् । हिता चेतनहितपरा । "मित्रमौपयिकं कर्तुम्" इत्यादि वक्ष्यति । रामहितपरा वा । वक्ष्यति "स्मारये त्वां न शिक्षये" इति । जनकस्य कुले जाता, आचारप्रधानेत्यर्थः । देवमायेव निर्मिता । अमृतमथनानन्तरमसुरमोहनार्थं निर्मिता विष्णुमायेव स्थिता । "मायया मोहयित्वा तान् विष्णुः स्त्रीरूपमास्थितः" इत्युक्तेः । यद्वा निर्मिता कृतमूर्तिः देवमाया विष्णोराश्चर्यशक्तिरिव स्थिता, अनेन सौन्दर्यस्य पराकाष्ठोक्ता । अथवा निर्मिता कृतावतारा । देवमाया देवस्य विष्णोर्लक्ष्मीः । वक्ष्यति उत्तरकाण्डे "ऋते मायां विशालाक्षीं तव

पूर्वपरिग्रहाम्" इति । इवशब्दो वाक्यालङ्कारे एवकारार्थे वा ।। 1.1.25 ।।



सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ।

सीताप्यनुगता रामं शशिनं रोहिणी यथा ।। 1.1.26 ।।

सर्वलक्षणसम्पन्ना सामुद्रिकोक्तैः सर्वैरुत्तमस्त्रीलक्षणैः सम्पन्ना । नारीणामुत्तमा पूर्वोक्तसर्वप्रकारेण सर्वस्त्रीश्रेष्ठा । पुरुषोत्तमरामानुरूपनार्युत्तमेत्यर्थः । वधूर्दशरथस्नुषा अचिरोढा वा । "अचिरोढा वधूः" इति वैजयन्ती । सीता "सीता लाङ्गलपद्धतिः" तज्जन्यत्वात्तद्व्यपदेशः । अनेनायोनिजत्वोक्तेर्दिव्यलोकवासकालिकसौन्दर्यान्यूनतोक्ता । अपिशब्दने लक्ष्मणानुगतिः समुच्चीयते । राममनुगता निरवधिकसौन्दर्याकृष्टहृदयतयानुगतवती, रोहिणी यथा । यथाशब्द इवार्थः । "यथा तथेवैवं साम्ये" इत्यमरः । रोहिणीनाम चन्द्रस्यासाधारणपत्नी । "वरिष्ठा सर्वनारीणामेषा च दिवि देवता । रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ।।" इति। न केवलं रामसौन्दर्याकृष्टानुगता, किन्तु कलङ्किनं रोहिणीव पातिव्रत्यस्वरूपप्रयुक्ता गतेत्यर्थः। अयमर्थोऽनसूयासमक्षं व्यक्तीभविष्यति ।। 1.1.26 ।।



पौरैरनुगतो दूरं पित्रा दशरथेन च ।

शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्ज्जयत् ।।

गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ।। 1.1.27 ।।

रामभक्त्यविशेषाल्लक्ष्मणसीतावत् पौराणामप्यनुवृत्तिं दर्शयति पौरैरिति । पूरे भवाः पौराः । अनेन स्त्रीबालवृद्धाविशेष उक्तः । दूरमनुगतः इत्यनेन विरहासहिष्णुत्वोक्त्या पौराणां परमा भक्तिरुक्ता । "पुनर्विश्लेषभीरुत्वं परमा भक्तिरुच्यते" इति वचनात् । पौरैरित्यनेन तद्देशवास एव रामभक्तिहेतुरित्युक्तम् । पित्रा दशरथेन च । चशब्दो ऽन्वाचये । अल्पमनुगत इत्यर्थः । आद्वारं हि तेनानुगतम् । पित्रेत्यनेन पुत्रकृतवात्सल्यादनुगत इत्युक्तम् । एवं परत्वसौलभ्ये दर्शिते । अथ वात्सल्यसौशील्ये दर्शयति शृङ्गिबेरपुर इति । धर्मौ आश्रितवात्सल्यसौशील्ये आत्मा स्वभावो यस्य सः तथा । आश्रितवात्सल्यसौशील्यस्वभावो रामः शृङ्गिबेरपुरे शृङ्गिणः कृष्णसारादयः तेषां बेराणि कृत्रिमशरीराणि । "प्रतिच्छन्दः प्रतिनिधिर्बेरं च प्रतिरूपकम्" इति वैजयन्ती । वञ्चनेन सजातीयमृगग्रहणार्थानि यस्मिन् तत् शृङ्गिबेरम् । तथात्वात् तदाख्ये पुरे गङ्गाकूले, शृङ्गिबेरपुरसन्निहितगङ्गातीर इत्यर्थः । एतेन गङ्गातीरत्वमात्रेण नोद्देश्यत्वम्, किन्तु भक्तसेवितत्वेनेत्युक्तम् । "सा काशीति न चाकशीति " इत्याद्यभियुक्तोक्तेः । निषादाः प्रतिलोमजातिविशेषाः । "निषादो मृगघाती स्यात्" इति वैजयन्ती । तेषामधिपतिरिति जात्यपकर्ष उक्तः । प्रीणातीति प्रियः तम्, स्वस्मिन् प्रीतिमन्तमित्यर्थः । गूहति गोपयति वञ्चयति परस्वमिति गुहः । इगुपधलक्षणः कप्रत्ययः । तम्, जातितो वृत्तितो गुणतः कुलतश्च हीनमपि स्वस्मिन्नानुकूल्यमात्रेणादरणीयत्वमुक्तम् । निषादाधिपतिमासाद्येत्यनेन सौशील्यमुक्तम् । महतो मन्दैस्सह नीरन्ध्रेण संश्लेषो हि सौशील्यम् । धर्मात्मेत्यनेन महत्त्वमुक्तम् । आसाद्येत्यत्राभिविधिवाचिना आङा अर्थान्नैरन्ध्र्यमुक्तम् । शृङ्गिबेरपुरे गुहमासाद्येत्यनेन दोषे ऽपि भोग्यत्वरूपं वात्सल्यमुक्तम् । सूतं सुमन्त्रम्, पारम्पर्येणानुवर्त्तमानमपि व्यसर्ज्जयत् व्यसृजत् । स्वार्थे णिच् । सद्यः प्रसूतवत्सवात्सल्यात् पूर्ववत्सं परिहरन्त्या धेनोरिव वात्सल्यातिशय उक्तः ।। 1.1.27 ।।



गुहेन सहितो रामो लक्ष्मणेन च सीतया ।। 1.1.28 ।।

स्वस्मिन्नाशालेशमात्रेण जनितं गुहविषयप्रेमातिशयं दर्शयति गुहेनेति । रामः गुहेन सहितः सन् लक्ष्मणेन सीतया च सहितः । गुहसन्धानानन्तरमेव लक्ष्मणसीताभ्यां नित्यानपायिभ्यां साहित्यमासीत् । ततः पूर्वं सिद्धमपि सदसत्प्रायमासीदित्यर्थः । यद्वा दृष्टान्तार्थं लक्ष्मणसीतासाहित्यकथनम्, तादृशसौहार्दं (स्नेहो ) गुहे ऽप्यासीदिति भावः । सहितः संहितः । "समोवाहितततयोः" इति मलोपः । सः रामः लक्ष्मणेन सीतया च सह गुहेन हितः प्रहितः गङ्गां तारित इत्यप्याहुः ।। 1.1.28 ।।



ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ।

चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।। 1.1.29 ।।

ते वनेन इति श्लोकद्वयमेकान्वयम् । ते रामादयस्त्रय इत्यनेन गुहनिवर्त्तनं द्योतितम् । वनेन वनं गत्वा वनाद्वनं गत्वा । पञ्चम्यर्थे तृतीया, हेतौ तृतीया वा । अनेन नूतनवनावलोकनकुतूहलित्वं नगरप्रवेशस्य स्वाधिकारविरुद्धत्वं च द्योत्यते । यद्वा अवनेन वनं गत्वा अन्योन्यरक्षणेन वनं गत्वेत्यर्थः । वक्ष्यति "अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु । पृष्ठतो ऽहं गमिष्यामि त्वां च सीतां च पालयन् । अन्योन्यस्येह नो रक्षा कर्त्तव्या पुरुषर्षभ ।।" इति। यद्वा अवनेन पितृवचनपरिपालनेन हेतुना वनं गत्वा, अवनेन लोकरक्षणेन हेतुना वा। रावणादिदुष्टनिबर्हणमुखेन लोकरक्षणार्थं हि तेषां वनगमनम्। यद्वा "तेवृ देवने" इति धातोर्भावे ल्युट्। तेवनेन देवनेन लीलया अनायासेनेत्यर्थः। मृगयाक्रीडनेन वा। अनयैव व्युत्पत्त्या तेवनं पादसञ्चार इति लभ्यते, सूतविसर्जनानन्तरं रथादवरुह्य पादसञ्चारेण वनं गत्वेत्यर्थः। यद्वा अवनेन सह वनं गत्वा मध्ये मध्ये स्थलप्रदेशं वनं च गत्वेत्यर्थः। वनेन जलेन सहितं वनम्, न तु मरुकान्तारमिति वार्थः। "पयः कीलालममृतं जीवनं भुवनं वनम्" इत्यमरः। बहूदकाः विपुलोदकाः अधिकोदका वा। "विपुलानेकयोर्बहुः" इति वैजयन्ती। नौतार्या इत्यर्थः। नदीः गङ्गाम् तीर्त्वा उत्तीर्य। "गङ्गा नदीनाम्" इति नदीमुख्यत्वात् निरुपपदनदीशब्देन गङ्गोच्यते। "जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्" इति बहुवचनम्, पूजायां बहुवचनं वा। "अदितिः पाशान्" इतिवदवयवबहुत्वाभिप्रायेण वा बहुवचनम्। अत्र 'अग्निहोत्रं जुहोति, यवागूं पचति' इतिवदर्थक्रमेण नदीस्तीर्त्वा वनं गत्वेति योजनीयम्। यद्वा अपूर्वकालेऽपि क्त्वाप्रत्ययः 'आस्यं व्यादाय स्वपिति' इतिवत्। यद्यपि "आस्यं व्यादाय स्वपिति संमील्य हसति इत्युपसङ्ख्यानम्" इति वार्त्तिके स्थलद्वयमेवोपात्तम् तथापि न्यासकृता "परावरयोगे च" इति पूर्वसूत्रे चकारात् सर्वत्रायं प्रयोगः सम्भवतीत्युक्तम्। यद्वा ते वनेनेत्यनेन गङ्गातरणमर्थसिद्धम्। नदीशब्दो यमुनापरः। यद्वा नदीः गङ्गायमुनामन्दाकिनीः। मन्दाकिनीनाम चित्रकूटपरिसरे परिसरन्ती स्रवन्ती। सौकर्याय युगपदुक्तम्। यद्वा पूर्वार्द्धे स रामो लक्ष्मणेन सीतया च सह गुहेन हितः प्रहितः, सीतालक्ष्मणरामाः गुहेन गङ्गां तारिता इत्यर्थः। अतः पादसञ्चारेण वनगमनमत्रोक्तम्। भरद्वाजस्य शासनात् चित्रकूटमनुप्राप्य। प्रजाभरणशीलो भरद्वाजः। इत्थं निरुक्तमृगारण्यके "एष एव बिभ्रद्वाजः प्रजा वै वाजः ता एष बिभर्त्ति यद्बिभर्त्ति तस्मात् भरद्वाज इत्याचक्षते" इति। यद्वा वाजं रेतः, वाजकरणमित्यादौ तथा प्रयोगात्। बिभ्रद्वाजं भरद्वाजः। नित्यब्रह्मचारीत्यर्थः। "भरद्वाजो ह त्रिभिरायुर्भिर्ब्रह्मचर्यमुवा(पा)स" इति श्रुतेः। तस्य शासनान्नियमनात् चित्रकूटे भवद्भिः स्थातव्यम्, तस्यायमेव मार्ग इत्येवंरूपात्। अनु सदृशम् "पश्चात्सादृश्ययोरनु" इत्यमरः। राजकुमाराणां स्वेषामुचितमित्यर्थः। "सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः। यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने ।।" इति वक्ष्यति । पश्चाद्भागे वा चित्राणि आश्चर्यावहानि कूटानि शिखराणि यस्यासौ चित्रकूटः तम् । "आश्चर्यालेख्ययोश्चित्रम्"

इत्यमरः । प्राप्य गत्वा ।। 1.1.29 ।।



रम्यमावसथं कृत्वा रममाणा वने त्रयः ।

देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम् ।। 1.1.30 ।।

रम्यं रमणीयं जलरामणीयकस्थलरामणीयकादियुक्तम् आवसथं पर्णशालारूपं गृहम् । "धिष्ण्यमोको निवसनं स्थानावसथवास्तु च" इत्यमरः । कृत्वा निर्माय । अत्र पर्णशालानिर्माणे लक्ष्मणस्य साक्षात्कर्तृत्वम् । इतरयोस्तु उचितदेशप्रदर्शनादिना प्रयोजककर्तृत्वम् । "समानकर्तृकयोः पूर्वकाले" इत्यत्र सूत्रे 'गृहैकत्ववदुद्देश्यगतत्वेन द्वित्वस्याविवक्षितत्वादनेकक्रियास्वपि क्त्वाप्रत्ययस्सम्भवति' इति न्यासकारोक्तेः क्त्वाप्रत्ययबाहुल्यम् । तत्र वने चित्रकूटोपान्तवने रममाणाः लीलारसमनुभवन्तः सन्तः सीतारामयोः पुष्पापचयसलिलक्रीडादिकं रतिः । "वैदेहि रभसे कच्चिच्चित्रकूटे मया सह । पश्यन्ती विविधान् भावान् मनोवाक्कायसंयुतान् ।" इति हि वक्ष्यति । लक्ष्मणस्य तु विशिष्टविषयकैङ्कर्यलाभजा प्रीतिः । वक्ष्यति "भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते । अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ।।" इति। त्रयो रममाणाः इत्यनेनान्दहेतुभेदेऽप्यानन्दांशे तौल्यमुच्यते "परमं साम्यमुपैति" "भोगमात्रसाम्यलिङ्गाच्च" इतिवत्। रममाणा इति वर्त्तमाननिर्द्देशेन नैरन्तर्य्यमुक्तम्। वर्त्तमानार्थकस्याप्यस्य न्यवसन्निति भूतप्रत्ययान्तविशेषणत्वम्। "धातुसम्बन्धे प्रत्ययाः" इत्यनुशासनात् अग्निष्टोमयाजी पुत्रस्ते भविता' इतिवत् सम्भवति। अत एव देवगन्धर्वसङ्काशाः सन्तः, देवगन्धर्वा मनुष्यगन्धर्वेभ्योऽधिकानन्दाः। यद्वा देवी च देवश्च देवौ लक्ष्मीनारायणौ। "पुमान्स्त्रिया" इत्येकशेषः। गानं धारयतीति गन्धर्वः। "एतत्साम गायन्नास्ते" इत्युक्तः सर्वदा सामगानपरो मुक्तः। देवौ च गन्धर्वश्च देवगन्धर्वाः तत्सदृशाः देवगन्धर्वसङ्काशाः। निभादित्वादुत्तरपदभूता एव सन्तः सदृशवचनाः। तथाहामरः "स्युरुत्तरपदे त्वमी। निभसङ्काशनीकाशप्रतीकाशोपमादयः" इति। ते त एव सन्तः साकेतवासिनः एव सन्तः सुखं न्यवसन्। वक्ष्यति "सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम्। ननन्द रामो मृगपक्षिजुष्टां जहौ च दुःखं पुरविप्रवासात् ।।" इति । यद्वा त एव सन्तः वनवासिन एव सन्तः, नागरिका अपि चिरं वनचरा इवावसन्नित्यर्थः । मुखग्लान्यादिभिस्तेषां वैदेशिकत्वगन्धो ऽपि नाज्ञायतेति भावः । सुखं यथा भवति तथा न्यवसन् । कदाचिदपि दुःखलेशो ऽपि नान्वभावीत्यर्थः । अत्र क्रियाभेदात् तच्छब्दद्वयप्रयोग इत्यप्याहुः । ते तीर्त्वा जग्मुरिति क्रियापदमध्याहृत्य केचिद्योजयन्ति । अत्र देवगन्धर्वसङ्काशा इति पदगतेनोपमालङ्कारेण किञ्चिद्वस्तु ध्वन्यते यस्तावत्स्वरूपज्ञानपूर्वकं भगवत्यनुरक्तो भवति तं भगवान् देव्या समागत्य दिव्यं विमानमारोप्यातिवाहिकगणैः सत्कार्य विरजां तीर्त्वा तिल्यकान्तारमासाद्यामानवेनानुज्ञाप्य दिव्यलोके महामणिमण्डपमुपेत्य दिव्यसिंहासनारूढः श्रिया सह मोदमानस्तद्रचितसर्वदेशसर्वकालसर्वावस्थोचितसकलविधकैङ्कर्यो ऽस्मै स्वानन्दसममानन्दं दत्त्वा तेन सह यावत्कालमास्त इति ।। 1.1.30 ।।



चित्रकूटं गते रामे पुत्रशोकातुरस्तथा ।

राजा दशरथः स्वर्गं जगाम विलपन् सुतम् ।। 1.1.31 ।।

एवं लक्ष्मणस्य भगवच्छेषत्ववृत्तिं प्रतिपाद्य भरतस्य पारतन्त्र्यवृत्तिं दर्शयति मृते तु तस्मिन्नित्यादिना । तदुपोद्घातत्वेनाह चित्रेति । रामे चित्रकूटं तथा उक्तप्रकारेण गते सति दशरथो राजा पुत्रशोकेन पुत्रादर्शनजदुःखेनातुरः पीडितः सन् सुतमुद्दिश्य हा सुतेत्येवं विलपन् प्रलापं कुर्वन्

स्वर्गं जगाम ।। 1.1.31 ।।



मृते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ।

नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।। 1.1.32 ।।

मृते त्विति । तस्मिन् दशरथे मृते सति । स्वर्गप्राप्तिरपि नश्वरत्वेनानुपादेयेति मृते इत्युक्तम् । महाबलः राज्यभरणसमर्थः अत एव भरतः । भरत इति राज्यस्य भरणादित्युक्तरीत्या भावज्ञेन वसिष्ठेन भरत इति कृतनामा वसिष्ठप्रमुखैर्द्विजैः वसिष्ठादिभिर्ब्राह्मणैः । राज्याय राज्यं कर्तुं नियुज्यमानः । "क्रियार्थोपपदस्य च कर्मणि स्थानिनः "इति चतुर्थी । राज्यं राजत्वम् । "ये चाभावकर्मणोः" इति प्रतिषेधादनो न प्रकृतिभावः । नैच्छत् नाभ्यलषत् । महाबल इत्यनेन सत्यामेव शक्तौ स्वरूपविरुद्धत्वाद्राज्यं नाङ्गीचकारेत्यवगम्यते । अत एव वक्ष्यति "राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि । विललाप सभामध्ये जगर्हे च पुरोहितम् । कथं दशरथाज्जातो भवेद्राज्यापहारकः ।।" इति ।। 1.1.32 ।।



स जगाम वनं वीरो रामपादप्रसादकः ।। 1.1.33 ।।

स जगामेत्यर्द्धमेकं वाक्यम् । वीर्येण युक्तो वीरः । वीर्यमत्र शत्रुभूतरागादिजेतृत्वम् । विषयानाकृष्टचित्त इत्यर्थः । यद्वा "एभिश्च सचिवैः सार्द्धं शिरसा याचितो मया । भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ।।" इत्युक्तरीत्या चतुरङ्गबलसहितः स भरतः रामपादप्रसादकः। पादशब्दः पूज्यवाची। "पूज्ये तु पादनामाङ्कः" इत्यमरशेषः। प्रसादकः। "तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्" इति ण्वुल्। पूज्यं रामं प्रसादयितुमित्यर्थः। यद्वा रामचरणयोः प्रसादकः, रामस्यैव प्रसाद्यत्वेऽपि पादयोः प्रसाद्यत्वोक्तिः शेषभूतव्यवहारानुसारेण। राजानं द्रष्टुमिति वक्तव्ये राजपादौ द्रष्टुमिति हि भृत्यजनो व्यवहरति। वनं जगाम प्राप, वस्तुतो रामस्य कोपाभावेऽपि भरताय राज्यं दत्तमिति बुद्धिं निवर्तयितुमित्यर्थः। "पूजिता मामिका माता दत्तं राज्यमिदं मम। तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ।।" इत्युत्तरत्रापि वक्ष्यति ।। 1.1.33 ।।



गत्वा तु सुमहात्मानं रामं सत्यपराक्रमम् ।

अयाचद्भ्रातरं राममार्यभावपुरस्कृतः ।। 1.1.34 ।।

गत्वा त्विति । अत्र स इत्यनुषज्यते । स आर्यभावपुरस्कृतः पुरस्कृतः आर्यभावः येन सः । आहिताग्न्यादित्वात् परनिपातः । यद्वा आर्यभावेन स्वस्यार्यभावेन पुरस्कृतः पूजितः । उचितमनेन क्रियत इति श्लाघित इत्यर्थः । "पूजितः स्यात्पुरस्कृतः" इति बाणः । तथाविधः सन् सुमहान् आत्मा अन्तःकरणं यस्य तम्, सुमहात्मानं स्वतः प्रसन्नहृदयमित्यर्थः । सत्यपराक्रमं सत्ये पराक्रमो ऽप्रच्युतत्वं यस्य तं रामम्, गत्वा तु प्राप्य, तु विशेषोस्ति । तस्याग्रे स्थितिरेवालम्, याचनमतिरिच्यत इति भावः । भ्रातरं राममयाचत् प्रार्थयामास, स्वाभीष्टमिति शेषः । याचेर्द्विकर्मकत्वात् स्वरितेत्त्वादुभयपदी । क्रिया भेदाद्रामशब्दस्य न पुनरुक्तता ।। 1.1.34 ।।



त्वमेव राजा धर्मज्ञ इति रामं वचो ऽब्रवीत् ।

रामो ऽपि परमोदारः सुमुखः सुमहायशाः ।

न चैच्छत्पितुरादेशाद्राज्यं रामो महाबलः ।। 1.1.35 ।।

स्वाभीष्टमेवाह त्वमेवेति । धर्मज्ञः ज्येष्ठे विद्यमाने न कनिष्ठो राज्यमर्हतीति धर्मं जानन् त्वमेव राजा नान्यः इति रामं वचो ऽब्रवीत् । "अकथितं च" इति द्विकर्मकत्वम् । ननु भरतकृता प्रपत्तिः कुतो नाफलत्, अधिकारिवैगुण्याद्वा शरण्यवैगुण्याद्वा ? नाद्यः अपेक्षातिरिक्तस्याभावात् । नान्त्यः, तस्य सर्वगुणपरिपूर्णत्वात् इत्याशङ्क्य प्रबलप्रतिबन्धकस्य प्रारब्धस्य सद्भावात् न सा फलितेत्याह रामो ऽपीति । अपिशब्दः प्रतिविशेषणमन्वेति । रामो ऽपि रमयतीति व्युत्पत्त्या स्वरूपरूपगुणैराश्रितचित्तरञ्जनस्वभावो ऽपि परमोदारो ऽपि स्वपर्यन्तापेक्षितार्थप्रदो ऽपि "य आत्मदा बलदा" इति श्रुतेः । सुमुखो ऽपि अर्थिजनलाभेन प्रसन्नमुखो ऽपि सुमहायशाः अपि "न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखाः प्रयान्ति" इति श्रीविष्णुपुराणोक्तरीत्या महाकीर्तिरपि महाबलो ऽपि आश्रितमनोरथपूरणे निपुणो ऽपि रामः पितुरादेशात् बलवत्प्रतिबन्धकान्नैच्छत् । चकारात्तदवसाने त्वैच्छदित्यर्थः । आदेशो नियोगः ।। 1.1.35 ।।



पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ।

निवर्त्तयामास ततो भरतं भरताग्रजः ।। 1.1.36 ।।

सर्वथा प्रपत्तेर्वैफल्यमनुचितमिति यावत्प्रतिबन्धकानिवृत्तिफलप्रतिनिधिं दिशति स्मेत्याह पादुके चेति । चस्त्वर्थः । किन्तु भरताग्रजः फलप्रदानोचितसम्बन्धशीलः राज्याय राज्यं कर्तुम् । "क्रियार्थोपपदस्य च कर्मणि स्थानिनः" इति चतुर्थी । अस्य भरतस्य पादुके न्यासं स्वप्रतिनिधिं दत्त्वा, रामपादुके राज्यं कुरुतः अहं तयोः परिचारक इति भावयेति दत्त्वेत्यर्थः । पुनः पुनर्भरतं तस्माद्देशान्निवर्त्तयामास । पुनःपुनरित्यनेन भरतस्य रामविरहासहिष्णुत्वं द्योत्यते । स्वार्थत्वनिवृत्तिपूर्वकपरस्वत्वापादनरूपत्वाभावात् न चतुर्थी, किन्तु सम्बन्धसामान्ये षष्ठी ।। 1.1.36 ।।



स काममनवाप्यैव रामपादावुपस्पृशन् ।

नन्दिग्रामे ऽकरोद्राज्यं रामागमनकाङ्क्षया ।। 1.1.37 ।।

अथ प्रपन्नस्य यावत्प्रारब्धनिवृत्तिशेषिणिवृत्तिं दर्शयन्नाह स काममिति । स भरतः कामं रामकैङ्कर्यमनोरथमप्राप्यैव । रामपादौ रामस्य पादुके । पादशब्दः पादुकोपलक्षकः । उपस्पृशन् प्रत्यहं सेवमानः सन् रामागमनकाङ्क्षया कदा राम आगमिष्यतीति प्रत्याशया चतुर्दशवर्षरूपप्रतिबन्धकमुत्तीर्य्य कदा रामकैङ्कर्यं लप्स्य इति मनोरथमभिवर्धयन्नित्यर्थः । रामरहिततन्निवासस्यातिदुःखावहतयायोध्यां विहाय नन्दिग्रामे नन्दिग्रामाख्ये अयोध्यासन्निहिते कुत्रचित् ग्रामे राज्यमकरोत् । त
Sanskrit Commentary by Mahesvara Tirtha
।। अथ श्रीवाल्मीकीयरामायणे बालकाण्डम् ।।

परब्रह्मात्मिकां देवीं भुक्तिमुक्तिफलप्रदाम् । प्रणम्य स्तौमि तामेव ज्ञानशक्तिं सरस्वतीम् ।। कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं शार्ङ्गाखण्डल चापमम्बुजभवोग्रेन्द्रादिबर्हीष्टदम् । चारुस्मेरमुखोल्लसज्जनकजासौदामिनीशोभितं श्रीरामाम्बुदमाश्रये ऽखिलजगत्संसारतापापहम् ।। प्रणम्य नारायणतीर्थदेशिकान् भवानलार्तामृतपूरनीरदान् । करोति रामायणतत्त्वदीपिकां महेशतीर्थाख्यमुनिर्यथामति ।। नानाटीकास्थवाक्यानि लिख्यन्ते ऽत्र यथामति । सर्वेषां ग्रन्थकर्तृणां लेखको ऽहं न कल्पकः ।। लिखितान्यत्र तैर्यानि लिख्यन्ते तान्यतो मया । ग्रन्थबाहुल्यभीत्यात्र क्वचिच्छब्दसुशोधनम् ।। निघण्टुकथनं चार्थः पदानां लिख्यते ऽधुना । सीतारामौ समुद्दिश्य विराधखररावणैः ।। उक्तानां परुषोक्तीनां वास्तवार्थो ऽत्र वर्ण्यते ।। ब्रह्मलोकप्रसिद्धं शतकोटिप्रविस्तरं रामचरितं भूलोकवर्तिनां चतुर्णां वर्णानां तापत्रयविमोचनाय सङ्क्षिप्य रचयितुमुद्युक्तः परमकारुणिको ब्रह्मा वाल्मीकिरूपेण भूमौ स्वांशेन समभवत् । तथा च स्कान्दे पार्वतीं प्रति शिववचनम् "वाल्मीकिरभवद्बह्मा वाणी वाक्तस्य रूपिणी । चकार रामचरितं पावनं चरितव्रतः ।।" इति। एवञ्च ब्रह्मांशभूतो भगवान् प्राचेतसः स्वचिकीर्षितं श्रीरामचरितं गुरुमुखाच्छ्रोतव्यमिति न्यायेन भगवत्कथोपदेशेन स्वगुरुं प्रतीक्षमाण आस्ते स्म। अथ ब्रह्मनियोगेन समागतं भगवन्तं नारदमभ्यर्च्य वाल्मीकिः कोन्वस्मिन्नित्यादि पप्रच्छ। स च देवर्षिः परमेश्वरकथाप्रश्नमुदितमनाः श्रीरामचरितं सङ्क्षिप्य वाक्यरूपेणोपदिश्य जगाम। तदनु तमसातीरमुपसृत्य चरतो व्याधविद्ध क्रौञ्चदर्शनजनितशोकस्य वाल्मीकेर्वदनान्मानिषादेति श्लोक उदभूत्। ततः स्वाश्रममागत्य तमेवानुसन्दधानः सविस्मयमास्त। अथ भगवांश्चतुर्मुख आगत्य "मच्छन्दादेव ते ब्रह्मन्" इत्यभिधाय 'रामचरितं सर्वं विदितं भवतु' इति वरं प्रदाय पद्यैरेव रामायणं कुर्वित्युपदिश्य स्वधाम जगाम। अथ चतुर्विंशत्यक्षरगायत्र्याख्यपरब्रह्मविद्याविलासभूतं रामायणं चतुर्विंशतिसहस्रैः श्लोकैश्चकार। तदिदं व्याक्रियते तपःस्वाध्यायेत्यादिः गायत्रीवर्णसहितश्लोकसङ्केतः "चतुर्विंशतिसङ्ख्याका गायत्रीवर्णसंयुताः। ये श्लोकाः सन्ति तानत्र विलिखामि यथाक्रमम्।।

श्लोके च प्रतिसाहस्रं प्रथमे प्रथमे क्रमात् । गायत्र्याक्षरमेकैकं स्थापयामास वै मुनिः ।। गायत्र्यास्त्रीणि चत्वारि द्वे द्वे त्रीण्यथ षट् क्रमात् । चत्वारि सप्तकाण्डेषु स्थापितान्यक्षराणि तु ।।" तत्र तदिति गायत्र्याः प्रथमाक्षरम् तपःस्वाध्यायेति। अत्र तपःशब्देन चित्तप्रसादहेतुभूतं व्रतनियमोपवासादि कर्मोच्यते, "यस्य ज्ञानमयं तपः" इति श्रुतेः। तपःशब्देन ब्रह्मविषयकज्ञानमुच्यते। स्वाध्यायशब्देन फलवदर्थावबोधपर्यन्ताध्ययनमुच्यते। तयोर्निरतम् एकाग्रचित्तम्, अनेन 'तप आलोचने' इति धातोरुत्पन्नेन तपःशब्देन ज्ञानपर्यायेण "सत्यं ज्ञानमनन्तं ब्रह्म" इति ब्रह्मस्मरणात् विशिष्टेष्टदेवतास्मरणरूपं मङ्गलं कृतमित्यनुसन्धेयम्। तपस्वी प्रशस्ततपाः। वल्मीकस्यापत्यं वाल्मीकिः। तदुक्तं ब्रह्मवैवर्ते "अथाब्रवीन्महातेजा ब्रह्मा लोकपितामहः। वल्मीकप्रभवो यस्मात्तस्माद्वाल्मीकिरित्यसौ।।

" इति । नारदम् नरः परमात्मा, तदुक्तम् "नरतीति नरः प्रोक्तः परमात्मा सनातनः" इति । तस्य सम्बन्धि नारम्, परमात्मविषयकं ज्ञानं ददाति उपदिशतीति नारदः । यद्वा नराणां सम्बन्धि नारम् अज्ञानम् तत् द्यति खण्डयति विज्ञानोपदेशेनेति नारदः । तथा चोक्तं नारदीये "गायन्नारायणकथां सदा पापभयापहाम् । नारदो नाशयन्नेति नृणामज्ञानजं तमः ।।" इति।।

1.1.1 ।।

को न्विति । गुणवान् अत्र गुणशब्देन दृष्टगुणव्यतिरिक्तप्रशस्ता गुणा उच्यन्ते । प्रश्नप्रतिवचने दृष्टगुणव्यतिरिक्तप्रशस्तगुणप्रतिपदनात् । येन स्वयमक्षतस्सन् परान् जयति तद्वीर्यम्, तद्वान् । धर्मज्ञः

सामान्यविशेषरूपधर्मज्ञः । कृतज्ञः येन केनचित् स्वस्मै किञ्चिदपि कृतमुपकारं बहुतया जानातीति कृतज्ञः । सत्यवाक्यः सर्वावस्थास्वपि सत्यवचनः । दृढव्रतः फलपर्यन्तं प्रारब्धव्रतापरित्यागशीलः ।। 1.1.2।।



चारित्रेणेति । चरित्रमेव चारित्रं कुलक्रमागताचारः, तेन युक्तः । सर्वभूतेषु को हित इत्यनेन सापराधेष्वपि हितकरणशील इत्युक्तं भवति । विद्वान् विदितसकलवेद्यः । समर्थः अनन्यनिर्वाह्यकार्यनिर्वहणशक्तः । कश्चैकप्रियदर्शनः एकमद्वितीयं प्रियं दर्शनं यस्य सः । प्रियस्य विषयद्वारकत्वात् असदृशावयवाभिरूप्य इत्यर्थः ।। 1.1.3।।



आत्मवानिति । आत्मवान् वशीकृतान्तःकरणः, यद्वा धृतिमान् । जितक्रोधः अत्र क्रोधशब्दः कामादीनामुपलक्षकः, जितारिषड्वर्ग इत्यर्थः । द्युतिमान् प्रशस्तकान्तिमान् । अनसूयकः गुणेषु दोषाविष्करणमसूया, तद्रहितः । कस्य संयुगे देवाश्च बिभ्यति, चकारादसुरादयश्च ।। 1.1.4।।



एतदिति । एतत् उक्तगुणकं नररूपं वस्त्वित्यर्थः ।। 1.1.5।।



श्रुत्वेति । एतत् पूर्वोक्तं प्रश्नजातम् । त्रिलोकज्ञः त्रिलोकगोचरज्ञान इत्यर्थः । आत्मन्त्र्य ऐकाग्र्यसिद्ध्यर्थमभिमुखीकृत्य, प्रहृष्टः कस्य बिभ्यति देवाश्चेति दृष्टदेवादि भीषकत्वगुणसम्पत्तेः ब्रह्मादिष्वप्रसक्तो ऽयं प्रश्नः सकलगुणविशिष्टसार्वभौमविषयक इत्यवगम्यते, तत्रापि सार्वभौममात्रे पृष्टप्रशस्तसकलगुणसम्पत्तेरसम्भवात्सकलजगद्रक्षणार्थं नृरूपेणावतीर्णे परमपुरुष एव सम्भवात् दिष्ट्या तद्गुणकीर्तनं लब्धमिति प्रहर्षः ।। 1.1.6।।



बहव इति । बुध्वा वक्ष्यामि महापुरुषं निश्चित्य वक्ष्यामि, तैर्दुर्लभगुणैर्युक्तो नरः श्रूयतामिति योजना । श्रूयतां प्राप्तकाले लोट् । तस्य श्रवणं ते प्राप्तकालमित्यर्थः ।। 1.1.7।।



उक्तप्रशस्तसमस्तगुणविशिष्टत्वेन निश्चितपरमपुरुषमुपदिशति इक्ष्वाकुवंशप्रभव इत्यादि रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति इत्यन्तेन । प्रभवत्यस्मादिति प्रभवः उत्पत्तिस्थानम् । इक्ष्वाकुवंशः प्रभवो यस्य सः तथोक्तः । रमन्ते ऽस्मिन्निति रामः, नामशब्दः प्रसिद्धौ । नियतात्मा शिक्षितमनाः । वशी जितेन्दिरयः ।। 1.1.8।।



बुद्धिमानिति । बुद्धिमान् प्रशस्तधीः । बुद्धेः प्राशस्त्यं नाम "शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ।।" इत्युक्तगुणविशिष्टत्वम्। नीतिमान् अतिशये प्राशस्त्ये वा मतुप्। वाग्ग्मी प्रशस्तवाक्। श्रीमान् सर्वातिशायिश्रीः "ऋचः सामानि यजूँषि सा हि श्रीरमृता सताम् " इत्युक्तश्रौतश्रीरत्र विवक्षिता। विपुलांसः मांसलोन्नतभुजशिरस्कः। महाहनुः पूरितकपोलोपरिभागवान्।।

1.1.9 ।।

महोरस्क इति । महद्विशालमुरो यस्य स महोरस्कः, "उरः शिरो ललाटं च" इत्युपक्रम्य "विशालास्ते सुखप्रदाः" इत्यक्तेः । गूढजत्रुः गूढे निमग्ने जत्रुणी वक्षों ऽसयोस्सन्धिगतौ अस्थिविशेषौ यस्य स तथोक्तः । अरीन् कामादीन् दमयतीत्यरिन्दमः । आजानुबाहुः जानुपर्यन्तदीर्घबाहुः । सुशिराः "सुशिरस्त्वं वृत्तशिराः" इत्यादिसामुद्रिकशास्त्रोक्तलक्षणलक्षितशिरोविशिष्टत्वम् । सुललाटः "ललाटे यस्य दृश्यन्ते चतुस्त्रिद्व्येकरेखिकाः" इत्युक्तचतूरेखासौभाग्यविशिष्टललाटत्वम् । सुविक्रमः सुष्टु विक्रमः पादविन्यासो यस्य सः । विक्रमस्य सौष्ठवं नाम गजसिंहादि गतिसदृशत्वम् ।। 1.1.10।।



सम इति । समः "षण्णवत्यङ्गुलोत्सेधो यः पुमान् स प्रकाशते" इत्युक्तरीत्या अन्यूनातिरिक्तविग्रहपरिमाणः । समविभक्ताङ्गः समानि अन्यूनातिरिक्तानि विभक्तानि पृथक्कृतानि अङ्गानि अवयवा यस्य स तथोक्तः, अनेनोभयपार्श्वस्थकक्षश्रोत्रबाह्वादीनामङ्गानामुपाङ्गानां च

समत्वमुक्तं भवति । स्निग्धवर्णः निर्णिक्तेन्द्रनीलवर्ण इत्यर्थः । प्रतापवान् श्रवणमात्रेण शत्रुहृदयविदारकत्वेन प्रशस्तपौरुषः । लक्ष्मीवान् अत्र लक्ष्मीशब्देन सर्वोत्तमावयवसौभाग्यमुच्यते । शुभलक्षणः शुभानि मङ्गलायतनानि लक्षणानि सामुद्रिकशास्त्रोक्तानि यस्य स तथोक्तः ।। 1.1.11।।



धर्मज्ञ इति । सत्यसन्धः सत्या यथार्था सन्धा प्रतिज्ञा यस्य सः । ज्ञानसम्पन्नः सर्वविषयज्ञानसम्पन्न इत्यर्थः । शुचिः बाह्याभ्यन्तरशुद्धियुक्तः । वश्यः पित्राचार्यविनीतः । प्रजापतिरिति । श्रीमान् अखण्डितैश्वर्यसम्पन्नः । धाता सकलजगद्धारणपोषणसामर्थ्ययुक्तः । रिपुनिषूदनः आश्रितजनानां ये रिपवः तेषां नाशकः ।। 1.1.12।।



रक्षिता जीवलोकस्य प्रजानामरिष्टनिरसनपूर्वकेष्टप्रापणस्य कर्तेत्यर्थः । धर्मस्य परिरक्षिता धर्मस्य परिरक्षणं नाम तत्तद्धर्मेषु वर्णाश्रमाणां नियोजनम् । रक्षिता स्वस्य धर्मस्य, अत्र धर्मशब्दः यजनाध्ययनदानपरः तत्परिपालयिता । स्वजनस्य रक्षिता स्वजनस्य आश्रितबान्धवादेः जीवलोकस्य रक्षितेत्यनेनैवाश्रितादिजनरक्षणे सिद्धेपि पुनस्तद्रक्षणकथनं विशेषतो रक्षणद्योतनार्थम् ।। 1.1.13।।



वेदवेदाङ्गतत्त्वज्ञः वेदानां चतुर्णां तदङ्गानां शिक्षादीनां पाठतो ऽर्थतश्च तत्त्वमबाधितं स्वरूपं जानातीति तथा । धनुर्वेदे च निष्ठितः अस्त्रशस्त्रादि प्रतिपादकं शास्त्रं धनुर्वेदः तस्मिन्निष्ठितः निष्णातः । सर्वशास्त्रार्थतत्त्वज्ञः साङ्ख्ययोगतर्कवैशेषिकपूर्वोत्तरमीमांसाव्याकरणानि स्मृतयश्च सर्वशास्त्राणि, सर्वेषामेषामर्थतत्त्वज्ञः । पाठस्यानतिप्रयोजनत्वादर्थविशेषणम् । स्मृतिमान् पूर्वानुभूतार्थाविस्मरणशीलः । प्रतिभानवान् "प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः" इत्युक्तप्रतिभा प्रतिबानम्, तद्वान् ।। 1.1.14।।



सर्वलोकप्रियः सर्वलोकानां प्रियः सर्वे लोकाः प्रिया यस्येति वा । साधुः अपकारिष्वपि उपकारशीलः । अदीनात्मा अतिव्यसनपरम्परायामपि अक्षुभितान्तःकरणः । विचक्षणः तत्तत्कालकर्तव्यचतुरः सर्वदेति । नदीभिः समुद्र इव सद्भिः महात्मभिः सर्वदाभिगतः सेवितः । सर्वदेत्यनेन नदीनां समुद्रसेवायामिव भक्तानां भगवत्सेवायां कालनियमो नास्तीत्युक्तं भवति । अभिगत इत्यनेन परमप्राप्यत्वमुक्तम् । समुद्र इव सिन्धुभिरित्यनेन सतां प्राप्यान्तरराहत्यं द्योत्यते । प्राप्तानां च सतां तेन ऐक्यं च प्रतीयते ।। 1.1.15।।



आर्यः पूज्यः । सर्वसमः सर्वेषु शत्रुमित्रोदासीनेषु वैषम्यरहितः । सदैव(क) प्रियदर्शनः सदैव सर्वावस्थासु मुहुर्मुहुरनुभवे ऽपि अननुभूतपूर्ववत् विस्मयनीयप्रियदर्शनः । स इति । सर्वगुणोपेतः उक्तानुक्तसकलगुणसम्पन्नः । कौसल्याया आनन्दं वर्धयतीति तथा ।। 1.1.16।।



स च सर्वगुणोपेत इति सङ्क्षेपेणोक्तानन्तगुणेषु कतिपयगुणानाह समुद्र इत्यादिश्लोकद्वयेन । गाम्भीर्ये अगाधाशयत्वे समुद्रतुल्यः । धैर्यं मनसाप्यधृष्यत्वम् । विष्णुनेति । यद्यप्ययमेव रामो विष्णुः मानुषोपाधिभेदाद्विष्णुनेति सादृश्यम् । यद्वा विष्णुना स्वेनैव वीर्ये सदृशः, उपमानान्तरराहित्यमनेनोक्तम् । सोमवत् प्रियदर्शनः चन्द्रवत्सर्वानन्दकरः ।। 1.1.17।।



कालाग्नीति । अनेन युद्धादप्यनिवार्यकोपत्वमुक्तम् । क्षमया पृथिवीसमः, अनेन सर्वापराधसहिष्णुत्वमुक्तम् । धनदेनेति । त्यागे सत्यपि धनदेन समः । अनेन अक्षीणकोशत्वं महोदारत्वञ्चोक्तम् । सत्ये धर्म इवापरः सत्ये सत्यवचने अपरो द्वितीयो धर्म इव धर्माख्या देवतेव ।। 1.1.18।।



एवं रामभद्रे सर्वगुणानभिधाय तस्मिन् तद्गुणान् प्रकटयितुं तच्चरितं वक्तुमारभते तमेवमित्यादिना । इत आरभ्य अयोध्याकाण्डग्रन्थसङ्ग्रहः क्रियते । अतः प्राक्तनश्लोकैर्बालकाण्डार्थः सूचितः । तत्र इक्ष्वाकुवंशप्रभव इति भगवदाविर्भावः सूचितः । महावीर्यः शत्रुनिबर्हण इति च

अस्त्रसम्पत्तिताटकावधादिस्सूचितः । लक्ष्मीवानिति सीतापरिणयसङ्क्षेपः । सत्यपराक्रममित्यनुवादेन भार्गवलोकप्रतिबन्धादिव्यापारस्सङ्क्षिप्तो वेदितव्यः । एवं गुणसम्पन्नम् प्रशस्तासाधारणकल्याणगुणसम्पन्नम्, श्रेष्ठगुणैः अभिषेकार्हवरिष्ठगुणैश्च युक्तम्, सत्यपराक्रमम् अमोघपराक्रमम् ।। 1.1.19।।



प्रकृतीनां प्राणिनां हितैरिहामुत्रयशस्करैः कर्मभिर्युक्तम्, ज्येष्ठं सुतं रामं प्रकृतिप्रियकाम्यया प्रकृतीनां प्रियं कर्तुमिच्छया, पितरि राज्यं कुर्वत्येव सर्वनिर्वाहकत्वेनाभिषिक्तः पुत्रो युवराजः, तस्य भावो यौवराज्यं तेन । संयोक्तुं संयोजयितुम् महीपतिः दशरथः ऐच्छदिति श्लोकद्वयमेकं वाक्यम् ।। 1.1.20।।



तस्य रामस्य अभिषेकसम्भारान् सम्भ्रियन्त इति सम्भाराः अभिषेकार्थं सम्भृतान् दध्यादिमङ्गलद्रव्यविशेषान्, दृष्ट्वा मन्थरावचनाज्ज्ञात्वा, पूर्वं पुरा दत्तौ वरौ यस्यै । इन्द्रसहायार्थं प्रवृत्तदशरथयुद्धकाले दशरथे परप्रयुक्तामासुरीं मायां धवलाङ्गाख्यमुनिदत्तविद्यया वारयन्त्यै कैकेय्यै तुष्टेन दशरथेन दत्तं वरद्वयमिति पौराणिकी प्रसिद्धिः । यद्वा पूर्वं दत्तवरा देवासुरयुद्धे दशरथस्य सारथ्यमाचरन्त्या कैकेय्या सन्तुष्टाद्दशरथाद्वरद्वयं लब्धमिति "तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया । तुष्टेन तेन दत्तौ तु द्वौ वरौ शुभदर्शने ।।" इति मन्थरावचनादवगम्यते। वरमिति जातावेकवचनम्। वरद्वयस्वरूपमाह विवासनमिति।।

1.1.21 ।।

स इति । सः दशरथः सत्यवचनाद्धेतोः धर्ममयेन पाशेन संयतः बद्धः सन् प्रियं सुतमपि विवासयामास ।। 1.1.22।।



स इति । स रामः वीरः जितेन्द्रियः, अनेकैरपराड्मुखतया योद्धा वा । कैकेय्याः प्रियकारणात् प्रीतिनिमित्तम् पितुर्वचननिर्देशात् नियोगात्, प्रतिज्ञामनुपालयन् "तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम् । करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ।।" इत्येवं कैकेय्याः सन्निधौ पितृवचनपरिपालनविषयां स्वकृतां प्रतिज्ञां परिपालयन् वनं जगाम।।

1.1.23 ।।

तमिति । प्रियः रामे सहजप्रतीतिमान् भ्रातु रामस्य दयितः इष्टः विनयसम्पन्नः लक्ष्मणो भ्राता सौभ्रात्रं सुभ्रातृभावम् अनुदर्शयन् स्नेहात् भक्त्यैवानुजगाम, न पित्रादिनिर्देशात् ।। 1.1.24।।



रामस्य दयिता इष्टा भार्या निरतिशयप्रेमास्पदा नित्यं हिता हितकारिणी च जनकस्य कुले गृहे यज्ञगृहे जाता आविर्भूता देवमायेव सुन्दोपसुन्दमोहनार्थं देवैरुत्पादिता सर्वोत्तमसौन्दर्या तिलोत्तमेव । यद्वा असुरव्यामोहनार्थममृतविनियोगसमये स्वनिर्मितादेवस्य विष्णोर्मायावनितेव ।। 1.1.25।।



सर्वलक्षणसम्पन्ना सामुद्रिकशास्त्रोक्तसर्वस्त्रीलक्षणसम्पन्ना, पुरुषाणां रामः उत्तमः नारीणामुत्तमा वधूः स्त्री । 'सीता लाङ्गलपद्धतिः' तदुत्थत्वात् सीतेति निर्दिश्यते ।। 1.1.26।।



अथ धर्मात्मा रामः पौरैः पित्रा दशरथेन च दूरमनुगतः । गङ्गाकूले वर्तमाने श्रृङ्गिबेरपुरे स्थितं निषादाधिपतिं प्रियमिष्टम् । गुहमासाद्य रामविसर्जनार्थमागतं गङ्गाकूले व्यसर्जयत् अत्यजत् । गुहमासाद्य गुहेन लक्ष्मणेन सीतया च सहितो रामः सुमन्त्रं व्यसर्जयदिति श्लोकद्वयमेकं वाक्यम् ।। 1.1.2728।।



तेवनेनेति । तेवनं पादचारणमिति सम्प्रदायः । ते त्रयः तेवनेन पादचारेण वनं गत्वा बहूदका नदीस्तीर्त्वा अनु पश्चात् भरद्वाजस्य शासनात् चित्रकूटं प्राप्य रम्यमावसथं कृत्वा पर्णशालां कृत्वा तत्र रममाणा देवगन्धर्वसङ्गाशाः सुखं न्यवसन्निति योजना ।। 1.1.2930।।



रामे चित्रकूटं गते सति तदा पुत्रशोकातुरो राजा पुत्रं स्मृत्वा विलपन् परिदेवनं कुर्वन्नेव स्वर्गं

जगाम ।। 1.1.31।।



तस्मिन् दशरथे मृते भरतस्तु वसिष्ठादिभिः राज्याय नियुज्यामानः महाबलः राज्यं कर्तुं समर्थः । सौभ्रात्रात् राज्यं नैच्छत् ।। 1.1.32।।



स जगामेति । वीरः वीर्येणयुक्तः । अत्र वीर्यं नाम अन्तःशत्रुभूतरागादिजेतृत्वम्, विषयानाकृष्टचित्त इत्यर्थः । रामपादप्रसादकः पादशब्दः पूज्यवाची । पूज्यं रामं प्रसन्नं कर्तुमित्यर्थः ।। 1.1.33।।



गत्वेति । राममभिगमं रामम् आर्यभावपुरस्कृतः विनयपुरस्कृतस्सन् सुमहात्मा सु शोभनः महानात्मा अन्तःकरणं यस्य तम् । अयाचत् स्वाभिलषितमिति शेषः । "सत्सु कार्यवतां पुंसा मलमेवाग्रतः स्थितिः " इति न्यायेन सतामग्रतो ऽवस्थानमात्रेण स्वाभिप्राये निवेदिते ऽपि दैन्यप्रख्यापनार्थं पुनरयाचदिति भावः ।। 1.1.34।।



अभिलषितमेवाह त्वमेवेति । धर्मज्ञः सर्वगुणश्रेष्ठे ज्येष्ठे सति कनिष्ठस्य राज्यार्हता नास्तीत्यमुं धर्मं त्वमेव जानासि, अतः त्वमेव राजेति रामं वचो ऽब्रवीदिति सम्बन्धः । रामो ऽपीति । रामो ऽपि रमयतीति व्युत्पत्त्या स्वरूपगुणैराश्रितचित्तरञ्जकत्वस्वभावो ऽपि । सुमुखः अर्थिजनलाभेन प्रसन्नमुखः । परमोदारः याचकाभीष्टप्रदाननिरतः, महायशाः "न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखाः प्रयान्ति" इति श्रीविष्णुपुराणोक्तप्रकारेण प्रसिद्धकीर्तिस्सन्नपि, महाबलः एकशरविमोचनेन सकलराक्षसनिरसनसमर्थः । अपिशब्दः सर्वत्र सम्बध्यते । एवम्भूतो ऽपि रामः पितुरादेशान्नियोगात् राज्यं नैच्छदिति योजना । पितुर्वचनगौरवात् भरतेनार्थितं राज्याभिषेकं नैच्छदित्यर्थः ।। 1.1.35।।



पादुके चेति । भरताग्रजः अस्य रामस्य, राज्याय राज्यं कर्तुम् । अहल्यादृष्टवैभवपादस्पृष्टे पादुके न्यासरूपेण दत्त्वा बहुविधैः सान्त्त्वैः पुनर्भरतं निवर्तयामासेति सम्बन्धः । राज्यस्य निक्षेपरूपतया स्वत्वनिवृत्तिपूर्वकपरस्पत्वापादनविषयत्वाभावाच्चतुर्थ्या अप्रसक्तेरस्येति सम्बन्धसामान्ये षष्ठी ।। 1.1.36।।



स काममिति । स भरतः कामम् अभिषेकार्थं रामप्रत्यानयनलक्षणं मनोरथमनवाप्यैव नन्दिग्रामे रामपादौ रामपादुके अनुदिनमुपस्पृशन् नमस्कुर्वन् रामागमनकाङ्क्षया नन्दिग्रामे स्थित्वा राज्यमकरोत् पालयामास ।। 1.1.37।।



गते त्विति । भरते गते सति श्रीमान् सर्वातिशयकान्तिमान् । सत्यसन्धः सत्यप्रातिज्ञः, जितेन्द्रियः राज्यभोगलोल्यरहितः । रामस्त्विति । नागरस्य जनस्य अयोध्यावासिनो जनस्य, चशब्दाद्भरतस्य च । तत्र चित्रकूटे पूनरागमनमालक्ष्य पितुर्वचनपरिपालने एकाग्रचित्तः सन् दण्डकान् दण्डकाख्यवनं प्रविवेश, अवान्तरवनबाहुल्याद्बहुवचनम् । हेति प्रिसद्धौ ।। 1.1.38।।



प्रविश्य तु महारण्यमित्यारभ्य आरण्यकाण्डकथासङ्ग्रहः क्रियते । तुशब्दो ऽवधारणे । राजीवलोचनो रामः । राजीवलोचनविशेषणं रामस्य महावनप्रवेशसम्भावितराक्षसयुद्धारम्भार्जितं हर्षं द्योतयति । महारण्यं दण्डकाख्यं वनं प्रविश्य तु प्रविश्यैव शरभङ्गनामानं मुनिं ददर्श तथा सुतीक्षणादीनपि ददर्श ।। 1.1.39।।



अगस्त्येति । शरासनादि प्रतिगृहाणेत्येवंरूपागस्त्यवचनात् । इन्द्रः परमेश्वरो विष्णुः तस्येदमैन्द्रम् । निजायुधलाभात् परमप्रीतः । अक्षयाः सायकाः ययोस्तौ । तूणी इषुधी च जग्राह ।। 1.1.40।।



वसत इति । सर्वे ऋषयः असुररक्षसां वधाय वनचरैर्वानप्रस्थमुनिभिः सह वने वसतस्तस्य रामस्याभ्यागमन् । समीपमिति शेषः । यद्वा अनादरे षष्ठी । हिंसानर्हं रामस्य

तापसरूपेणावस्थानमनादृत्य सर्वेश्वरो ऽयं दुष्टान् संहृत्य अस्मान् रक्षिष्यतीति निश्चित्य राघवं शरणमागता इत्यर्थः ।। 1.1.41।।



स तेषामिति । स रामः राक्षसानां वने राक्षसावासभूते वने । तेषाम् ऋषीणाम्, तथा प्रार्थनावचनं प्रतिशुश्राव अङ्गीचकारेत्यर्थः ।। 1.1.42।।



अङ्गीकृतमर्थमाह प्रतिज्ञातश्चेति । रामेण अग्निकल्पानाम् अग्निसदृशानां दण्डकारण्यवासिनामृषीणाम् । सन्निधाविति शेषः । संयति युद्धे प्राप्तकाले रक्षसां वधः प्रतिज्ञातश्चेति सम्बन्धः ।। 1.1.43।।



तेनेति । तेन रामेण तत्रैव दण्डकारण्यान्तर्भूतपञ्चवट्यामेव वसता । जनस्थाननिवासिनी जनस्थानं नाम दण्डकारण्ये रावणस्य बलनिवेशस्थानम् । कामरूपिणी कामेन रूपमस्या अस्तीति तथा । शूर्पणखा विरूपिता कर्णनासाच्छेदेन वैरूप्यं प्रापिता ।। 1.1.44।।



तत इति । ततः शूर्पणखावैरूप्यकरणानन्तरम् । शूर्पणखावाक्यादुद्युक्तान् युद्धार्थं सन्नद्धान् । सर्वराक्षसान् चतुर्दशसहस्रसङ्ख्याकप्रधानराक्षसान् । तेष्वपि प्रधानभूतान्निर्दिशति खरमिति । तेषां पूर्वोक्तराक्षसानां खरादीनां च पदानुगान् अनुचरांश्च रणे निजघानेति सम्बन्धः ।। 1.1.45।।



हतान् प्रधानान् सञ्चष्टे वन इति । तस्मिन्निवसता, रामेणेति शेषः ।। 1.1.46।।



तत इति । ततः खरादिवधानन्तरम् ज्ञातिवधम् अकम्पनशूर्पणखामुखेन श्रुत्वा क्रोधमूर्च्छितः क्रोधेन व्याप्तः सन् । मारीचं नाम राक्षसं सीताहरणे सहायं वरयामासेति योजना ।। 1.1.47।।



वार्यमाण इति । हे रावण लोकबाधक अप्रमेयबलेन तेन रामेण विरोधो न क्षम इति बहुशो वार्यमाणो ऽपि स रावणः कालचोदितस्सन् तद्वाक्यमनादृत्य सहमारीचः तस्य खरदूषणहन्तृत्वेन प्रसिद्धस्य रामस्याश्रमपदं जगामेति योजना ।। 1.1.4850।।



गृध्रं चेति । निहतं कण्ठगतप्राणं श्रुत्वा, गृध्रमुखादिति शेषः । विललाप पर्यदेवयत् । आकुलेन्द्रियः आकुलानि शोकपरवशानि इन्द्रियाणि यस्य स तथा ।। 1.1.51।।



तत इति । ततः प्रलापानन्तरम् तेनैव शोकेन रावणेन सीता हृतेति निवेद्य मृतजटायुर्विषयशोकेनैव उपलक्षितः जटायुषं दग्ध्वा विधिना संस्कृत्य, सीतां वने मार्गमाणः रूपेण विकृतं कबन्धं सन्ददर्शेति सम्बन्धः ।। 1.1.52।।



तमिति । तं कबन्धं निहत्य ददाह च । स च स्वर्गतः स्वर्गं प्राप्तवान्, स्वर्गगमनयोग्यं स्वकीयं गन्धर्वरूपं प्राप्तवानित्यर्थः ।। 1.1.53।।



स कबन्धःहे राघव शबरीं शबरस्त्रियं धर्मचारिणीम्, श्रवणकीर्तनादिभगवद्धर्माचरणशीलाम् धर्मनिपुणाम्, सामान्यविशेषरूपधर्मनिपुणाम् श्रमणीम् चतुर्थाश्रमं प्राप्ताम् । जितेन्द्रियत्वपूर्वकमोक्षोपयुक्ताचारनिष्ठामित्यर्थः । एवम्भूतां भक्तामभिगच्छेति अस्य रामस्य कथयामासेति योजना । प्रथमान्तपाठे त्वयमुत्तरशेषः ।। 1.1.54।।



सो ऽभ्यगच्छदिति । स्पष्टमेतत् । शबर्येति । सम्यक् पूजितः यथाविधि अर्घ्यादिफलसमर्पणान्तोपचारेणार्चितः ।। 1.1.55।।



पम्पातीर इत्यादिना किष्किन्धाकाम्डकथासङ्ग्रहः क्रियते । पम्पातीर इति । सङ्गतः राम इत्यनुषज्यते । हेति हर्षे । हनुमदिति । हनुमद्वचनात् सुग्रीवो युष्मत्सङ्गमपेक्षत इत्यादिरूपं हनुमद्वचनम् ।। 1.1.56।।



सुग्रीवायेति । महाबलो रामः आदितः जन्मन आरभ्य तत् प्रसिद्धम्, वृत्तं सीतायास्तद्वृत्तं च रावणहृतत्वादि सर्वम्, सुग्रीवाय विशेषतः विशेषेण यथावृत्तं वृत्तमनतिक्रम्य शंसत् । अडभाव आर्षः ।

महाबल इति विशेषणसामर्थ्यात्सहायमन्तरेण सर्वनिर्वाहकत्वे ऽपि लोकरीतिमनुसृत्य सुग्रीवसहायमुद्दिश्य सर्वमकथयदित्यवगम्यते ।। 1.1.57।।



सुग्रीव इति । वानरः सुग्रीवो ऽपि रामस्य सम्बन्धि तत्सर्वं श्रुत्वा स्वसमानदुःखमहाबलसम्बन्धलाभात् सुप्रीतः सन् रामेण अग्निसाक्षिकमेव अग्निः साक्षी साक्षाद्द्रष्टा यस्य तत्तथोक्तं सख्यं सखित्वं चकारेति योजना ।। 1.1.58।।



तत इति । वानरराजेन सुग्रीवेण दुःखितेन सुहृत्सन्निधौ स्मृतदुःखेन वैरस्यानुकथनं प्रश्नं प्रति । वालिना सह तव वैरं कथमभूदित्येवंरूपं प्रतीत्यर्थः । रामाय प्रणयात् प्रत्युत्तरमावेदितम्, साकल्येनोक्तमित्यर्थः ।। 1.1.59।।



प्रतिज्ञातमिति । तदा वैरवृत्तान्तश्रवणानन्तरकाले रामेण वालिवधं प्रति उद्दिश्य वालिनं वधिष्यामीति प्रतिज्ञातम् । वालिन इति । तत्र ऋश्यमूके । वानरः सुग्रीवः । वालिनो बलम् अरुणोदयमारभ्य सूर्योदयात्पूर्वमेव चतुस्समुद्राभिगमनादिकं वालिपौरुषं रामस्योत्साहवर्धनार्थमकथयदित्यर्थः ।। 1.1.60।।



सुग्रीव इति । अपि च राघवे राघवविषये वीर्येण हेतुना नित्यं शङ्कितः सुग्रीव आसीत्, रामस्य वालिहननसामर्थ्यमस्ति वा न वेति सुग्रीवो नित्यमशङ्किष्टेत्यर्थः ।। 1.1.61।।



राघवेति । राघवबलपरिज्ञानार्थं महापर्वतसन्निभं दुन्दुभेः कायं वालिना हतस्य दुन्दुभिनाम्नो ऽसुरस्य देहं रामाय दर्शयामास, इदं शरीरं वालिना एतावद्दूरं क्षिप्तमित्युक्त्वा तद्दर्शयामासेत्यर्थः ।। 1.1.62।।



उत्स्मयित्वेति । महाबाहुः बाह्वोर्महत्त्वं नाम अङ्गुल्येकदेशेन लोकविरोधिसकलदैत्यादिहननशक्तत्वम् । तथा युद्धकाण्डे "पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान् । अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर ।।" इति। महाबलः अपरिच्छेद्यबलो रामः ज्ञानिनोऽपि मुह्यन्ति किं वनकपिरित्युत्स्मयित्वा उदारमीषद्धास्यं कृत्वा अस्थिनिचयरूपं शरीरं प्रेक्ष्य दशयोजनपरिमितं देशं सम्पूर्णं यथा तथा पादाङ्गुष्ठेन चिक्षेप क्षिप्तवान्।।

1.1.63 ।।

बिभेद चेति । तदानीमार्द्रं शरीरमिदानीं शुष्कमिति सुग्रीवस्य विमर्शे सति पुनः प्रत्ययं विश्वासं जनयन् । हेतौ शतृप्रत्ययः । तदा तस्मिन् काले सप्तसालवृक्षान् गिरिं तत्समीपपर्वतं च रसातलं च । षष्ठो लोको रसातलम् । एकेन महेषुप्रयोगेणैव बिभेद । राम इति शेषः । एकसालमात्रभेदने अस्य वालिना साम्यशङ्का जायते तन्माभूदिति तन्निवृत्त्यर्थमचोदितानामप्यन्यसालगिरिप्रस्थादीनां भेदनमिति मन्तव्यम् ।। 1.1.64।।



तत इति । ततः सालभेदनानन्तरं तेन सालादिभेदनेन, विश्वस्तः विश्वासं प्राप्तः, सर्वात्मना रामो दर्शनमात्रेण वालिनं हनिष्यतीति विश्वासं प्राप्तः, प्रीतमनाः कपिराज्यमचिरादेव मम हस्तगतं भविष्यतीति सन्तुष्टान्तरङ्ग इत्यर्थः । तदा तस्मिन्नेव काले किष्किन्धां गुहां पर्वतान्तरावकाशे तत्र निर्मितत्वात् किष्किन्धापि गुहाशब्देनोच्यते । जगाम चेति योजना ।। 1.1.65।।



तत इति । सुग्रीवः अगर्जत् सिंहनादं कृतवान् । तेन सिंहनादेन हेतुना हरीश्वरः वाली गृहान्निर्जगाम ।। 1.1.66।।



अनुमान्येति । तदा निर्गमनसमये तारामनुमान्य सुग्रीवं रामसहायमङ्गदमुखादवगत्य युद्धनिर्गमनं वारयन्तीं तारां धर्मज्ञो रामो ममापकारं न करिष्यतीत्यादिसान्त्ववचनैरनुमतिं प्रापय्य सुग्रीवेण सह युद्धाय समागतो ऽभवत्, तत्रैनमेकेनैव शरेण निजघान ।। 1.1.67।।



तत इति । सुग्रीववचनात् "वालिनं जहि काकुत्स्थ " इत्येवंरूपात् आहवे वालिनं हत्वा

तद्राज्ये वालिराज्ये सुग्रीवमेव प्रत्यपादयत् प्रतिष्ठापितवान् ।। 1.1.68।।



स चेति । स च वानरर्षभः । जनकात्मजां दिदृक्षुः सर्वान् वानरान् समानीय सर्वा दिशः प्रस्थापयमास ।। 1.1.69।।



तत इति । गृध्रस्य सम्पातेर्वचनात् 'तस्यां वसति वैदेही' इत्येवंरूपात् । शतेत्यादिना सुन्दरकाण्डकथासङ्ग्रहः । हनुमान् शतयोजनविस्तीर्णं लवणार्णवमुल्लङ्घितवान् ।। 1.1.70।।



तत्रेति । लङ्कां पुरीं समासाद्य तत्र लङ्कायाम् अशोकवनिकाम् अशोकवनिकाख्यारावणप्रमदावनं गतां प्राप्तां राममेव ध्यायन्तीं सीतां ददर्श ।। 1.1.71।।



निवेदयित्वेति । अभिज्ञानमङ्गुलीयकरूपं ज्ञापकं निवेदयित्वा सुग्रीवसख्यवृत्तान्तं च निवेद्य च वाचा ज्ञापयित्वा वैदेहीं समाश्वास्य तोरणम् अशोकवनिकाबहिर्द्वारं चकारादशोकवनं च मर्दयामास ।। 1.1.72।।



पञ्च सेनेति । पञ्च सेनाग्रगान् सेनापतीन् अक्षं रावणकुमारम्, निष्पिष्य चूर्णीकृत्य, ग्रहणं समुपागमत् इन्द्रजित्प्रयुक्तब्रह्मास्त्रेण बन्धनं प्राप्तः ।। 1.1.73।।



अस्त्रेणेत्यादि श्लोकद्वयमेकं वाक्यम् । यदस्त्रस्यामोघतया बन्धनमात्रं पञ्चघटिकानन्तरं तन्मोक्षश्च भवतीति ब्रह्मणा हनूमते वरो दत्तः, अतः पञ्चघटिकानन्तरमेव ब्रह्मास्त्रेणोन्मुक्तमात्मानं ज्ञात्वा, यदृच्छया कार्यान्तरप्रसङ्गेन रावणदर्शनापेक्षया, यन्त्रिण आत्मानं बद्ध्वा स्थितान् राक्षसान्, वीरः हन्तुं समर्थो ऽपि,मर्षयन् क्षमं कुर्वन्, ततः रावणदर्शनव्यापारानन्तरं मैथिलीं सीताम् ऋते तदवस्थानप्रदेशं विना लङ्कां दग्ध्वा रामाय प्रियं प्रियवार्ताम् आख्यातुं वक्तुं पुनरायात् महाकपिरिति योजना ।। 1.1.7475।।



स इति । अमेयात्मा अपरिच्छेद्यधैर्यः । स हनुमान् महात्मानम् महांश्चासौ आत्मा च तम्, परमात्मानमित्यर्थः । रामभिगम्य प्रदक्षिणं कृत्वा दृष्टा सीतेति तत्त्वतः, सार्वविभक्तिकस्तसिः । तत्त्वं न्यवेदयदित्यर्थः । तत्र सीता दृष्टेति वक्तुं शक्यत्वे ऽपि दृष्टा सीतेति पदप्रयोगो रामस्य सीतादर्शनविषयसंशयो मा भूदिति ।। 1.1.76।।



ततः सुग्रीवसहित इत्यारभ्य युद्धकाण्डकथासङ्ग्रहः क्रियते तत इति । समुद्रं क्षोभयामास मार्गदाने औदासीन्यात् समुद्रमापातालमाकुलीचकारेत्यर्थः ।। 1.1.77।।



दर्शयामासेति । आत्मानं निजरूपं दर्शयामास । समुद्रवचनात् "एष सेतुं महोत्साहः करोतु मयि वानरः । तमहं धारयिष्यामि तथा ह्येष यथा पिता ।।" इत्येवंरूपसमुद्रवचनादेव नलं सेतुमकारयत्, नलेन सेतुं कारयामासेत्यर्थः।।

1.1.78 ।।

तेनेति । तेन सेतुना लङ्कां पुरीं गत्वा आहवे युद्धे रावणं हत्वा सीतां प्राप्य अनु पश्चात् परां व्रीडां रक्षो गृहे चिरोषितां पुनर्गृहीतवानिति लोकापवादशङ्कया लज्जामुपागमत् ।। 1.1.79।।



तामिति । ततः अनन्तरम्, रामो जनसंसदि वानरराक्षससभायां परुषम् "दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम्" इत्यादिकम् उवाच । अमृष्यमाणा पातिव्रत्यविषयसंशयवचनमसहमाना सीता ज्वलनं ज्वलन्मग्निं विवेश ।। 1.1.80।।



तत इति । अग्निवचनात् "विशुद्धभावां निष्पापां प्रतिगृह्णीष्व" इत्येवंरूपात्, गतकल्मषां स्वयं ज्ञात्वा लोकस्य च तथात्वं प्रत्याय्य । सीतामङ्गीचकारेति शेषः । केचित्तु 'ततो ऽग्निवचनात्' इत्यस्मादनन्तरं "बभौ रामः सम्प्रहृष्टः" इत्यर्धं पाङ्क्तमेव पठित्वा ततः 'कर्मणा तेन' इति श्लोकं पठन्ति । तस्मिन् पाठे विगतकल्मषां सीतां ज्ञात्वा सम्प्रहृष्टः सर्वदैवतैश्च पूजितो रामो बभूवेति योजना ।। 1.1.81।।



कर्मणेति । राघवस्य महता तेन कर्मणा रावणवधेन सचराचरम् चराचरप्रजासहितं त्रैलोक्यं तुष्टं तुतोष ।। 1.1.82।।



अभिषिच्येति । लङ्कायां लङ्काराज्यपद इत्यर्थः । कृतकृत्यः "अहं हत्वा दशग्रीवं सप्रहस्तं सबान्धवम् । राजानं त्वां करिष्यामि लङ्कायां राक्षसेश्वर ।।" इति प्रतिज्ञातस्य कृतत्वात् कृतकृत्यत्वम्, अत एव विज्वरः, विगतमनस्ताप इति यावत्। प्रमुमोद ह प्रकृष्टां मुदमाप।।

1.1.83 ।।

देवताभ्य इति । रामः सर्वजगत्कण्टकरावणवधजनितहर्षवशात् रामदिदृक्षया समागताभ्यो वरं प्राप्य "नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः । समुत्थाप्यन्तु हरयः सुप्ता निद्राक्षये यथा ।।" इत्युक्तप्रकारं वरं लब्ध्वा। राक्षसैर्हतान् वानरान् समुत्थाप्य, सुहृद्भिः सुग्रीवादिभिः संवृतः पुष्पकेण अयोध्यामुद्दिश्य प्रस्थितः जगामेत्यर्थः।।

1.1.84 ।।

भरद्वाजाश्रममिति । रामो भरद्वाजाश्रमं गत्वा भरतस्यान्तिकं प्रति हनूमन्तं व्यसर्जयत् । "चतुर्दशे हि सम्पूर्णे वर्षे ऽहनि रघूत्तम । न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ।।" इति भरतेन प्रतिज्ञातत्वात्। भरद्राजाश्रमे पञ्चम्यां चतुर्दशवर्षसमाप्त्यनन्तरं मुनिवचनेन एकदिनविलम्बस्य प्राप्तत्वात्स्वागमनबोधनाय हनुमद्विसर्जनम्।।

1.1.85 ।।

पुनरिति । अपरेद्युः सुग्रीवसहित इति विभीषणादीनामुपलक्षणम् । तत् पुष्पकं समारुह्य पुनराख्यायिकां पूर्ववृत्तविषयकथाम् "अत्रसीते त्वया दृष्टा तापसी धर्मचारीणी" इत्याद्युक्तप्रकारेण पुनर्जल्पन् कथयन् । सीताया इति शेषः । नन्दिग्रामं ययाविति योजना ।। 1.1.86।।



नन्दिग्राम इति । रामः नन्दिग्रामे जटां भरतादिभिः सहितः हित्वा त्यक्त्वा सीतामनुप्राप्यं सीतासादृश्यं प्राप्य मुनिवेषत्यागेन सीतामनुरूपः प्राप्येति यावत् । राज्यं पुनरवाप्तवान् पितृवचनात्पूर्वं प्राप्तं विशिष्य पुनः अद्य प्राप्त इत्यर्थः ।। 1.1.87।।



एतदन्तं चरितं वृत्तत्वेनोपदिश्य देवर्षिरतःपरमुत्तरकाण्डविषयं भविष्यत्वेनोपदिशति प्रहृष्टेति । अनेन रावणवधानन्तरं रामे राज्यं प्रशासति सति वाल्मीकिना रामायणं कृतमित्यनुसन्धेयम् "प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्रं विचित्र पदमात्मवान् ।।" इति वक्ष्यमाणत्वात्। "ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः। पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा।।

" इत्याद्युपरिवक्ष्यमाणत्वात् । लोकः सर्वजनः । प्रहृष्टः सञ्जातरोमाञ्चः । मुदितः मुदितान्तःकरणः । तुष्टः सर्वकामलाभजनितसन्तुष्टः, अनेन पूर्वं सर्वकामसम्पत्तौ विद्यमानायामपि रामविश्लेषेणातुष्टस्य "इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महातयान्तं रामं छत्रावृताननम् ।।" इति प्रार्थितरामाभिषेक एव परमतुष्टिरित्यवगम्यते। पुष्टः "विषये ते महाराज रामव्यसनकर्शिताः। अपि वृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाः।।

" इत्युक्तप्रकारेण रामविश्लेषकर्शितः सर्वो ऽपि चेतनवर्गः इदानीं रामसंश्लेषसंवर्द्धितसर्वाङ्गो ऽभूदित्यर्थः । सुधार्मिकः "स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः । सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः ।।" इति इष्टदेवतानमस्कारादिरूपधर्मस्य फललाभात् सुधार्मिकत्वोक्तिः। निरामयः मनःपीडारहितः। अरोगः व्याधिरहितः। दुर्भिक्षभयवर्जितः दुर्भिक्षं समृद्धेरभावः, तस्माद्भयं दुर्भिक्षभयम्, तेन वर्जितः।।

1.1.88 ।।

न पुत्रमरणमित्यादिना उत्तरकाण्डकथासङ्ग्रहः क्रियते न पुत्रेति । किञ्चिदपि क्वचित्कुत्रापि पुरुषाः पुत्रमरणं न द्रक्ष्यन्ति पितरि जीवति पुत्रा न मरिष्यन्तीत्यर्थः ।। 1.1.89।।



तापत्रयसम्बन्धं निराकरोति न चाग्निजमिति । आधिदैविकदुःखनिवृत्तिमुक्त्वा आध्यात्मिकं

निराकरोति नापि ज्वरकृतमिति । न तस्करभयमित्यादिनाधिभौतिकं निराकरोति ।। 1.1.90।।



नगराणीति । नगराणि पुराणि, राष्ट्राणि जनपदाः धनधान्ययुतानि भविष्यन्तीत्यनुषङ्गः ।। 1.1.91।।



अश्वमेधशतैरिति । अश्वमेधानां शतैरश्वमेधशतैः, अपरिमिताश्वमेधैरित्यर्थः । इष्ट्वा देवान् पूजयित्वा । बहुसुवर्णकैः बहुसुवर्णदक्षिणाकैर्यागविशेषैः इष्ट्वा असङ्ख्येयं धनं दत्त्वा ब्रह्मलोकं प्रयास्यति इति योजना । ब्रह्मैव लोकः तं परमात्मस्वरूपं सगुणस्य ब्रह्मणो विष्णोः स्वस्य लोकं वैकुण्ठाख्यं च प्रयास्यतीत्यर्थः ।। 1.1.92।।



राजवंशानिति । राजवंशान् शतगुणान् विवृद्धान् प्रत्येकं राज्यप्रदानेन स्थापयिष्यतीत्यर्थः । चातुर्वर्ण्यं च चतुर्वर्णान् स्वे स्वे धर्मे नियोक्ष्यति वर्तयिष्यति ।। 1.1.93।।



दशवर्षेति । एकादशवर्षसहस्राणि राज्यमुपासित्वा परिपाल्य ब्रह्मलोकं गमिष्यति ।। 1.1.94।।



इदमिति । इदं पवित्रम् अन्तःकरणशोधकम्, पुण्यं पुम्यसाधनम्, वेदैश्च सम्मितम् तुल्यम्, सर्ववेदार्थप्रतिपादकत्वात्तुल्यत्वम् ।। 1.1.95।।



एतदिति । एतदाख्यानम् आख्यायिकाम् आयुष्यम् आयुर्वृद्धिकरम् एतद्रामायणाख्यं प्रबन्धं पठन् पठनादेव पुत्रपौत्रसहितः इह भोगान् भुक्त्वा प्रेत्य स्वर्गलोके महीयते । "मह पूजायाम्" । तत्र पूजितो मोदत इत्यर्थः ।। 1.1.96।।



वर्णानां प्रतिनियतफलान्याह पठन्निति । स्यादिति यद्यर्थकमव्ययम् । पठन् द्विजः स्यात् ब्राह्मणो यदि वागृषभत्वमीयात् प्राप्नुयात्, शब्दब्रह्मपारगो भवेत् । क्षत्रियः स्यात् भूमिपतित्वं साम्राज्य 'श्रृण्वन्रामायणं भक्त्या' इति स्मरणात् । यद्वा पठन् शूद्रो जनः स्यात् महत्त्वं सजातीयेषु सर्वोत्तमत्वे पूज्यत्वमीयात् । चकारादवान्तरजातिस्समुच्चीयते । चतुर्विंशतिसहस्रश्लोकैः श्रीरामायणं चिकीर्षुर्वाल्मीकिर्गायत्र्या आदिमाक्षरेणोपक्रम्य अन्तिमाक्षरेण निगमनं कृतवान् ।। 1.1.97।।



इति श्रीपरमहंसपरिव्राजकाचार्यश्रीनारायणतीर्थशिष्यमहेश्वतीर्थकृतौ श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सङ्क्षेपो नाम प्रथमः सर्गः ।। 1।।





Sanskrit Commentary by Nagesa Bhatta
।। अथ रामकृता तिलकाख्या टीका ।। ।। श्रीगणेशाय नमः ।। ।। श्रीसीतारामचन्द्राभ्यां नमः ।।।। बालकाण्डः ।।

श्रीमद्राघवपादपद्मयुगलं पद्मार्चितं पद्मया

पद्मस्थेन तु पद्मजेन विनुतं पद्माश्रयस्याप्तये ।

यद्वेदैश्च नुतं सुखैकनिलयं सर्वाश्रयं निष्क्रियं

शश्वच्छङ्करशङ्करं मुहुरहो सन्नौमि तल्लब्धये ।। 1 ।।



श्रीमद्ब्रह्म तदेव वीजममलं यस्याङ्करश्चिन्मयः

काण्डैः सप्तभिरन्वितो ऽतिविततो ऋष्यालवालोदितः ।

पत्रैस्तत्त्वसहस्रकैः सुविलसच्छाखाशतैः पञ्चभिः

चात्मप्राप्तिफलप्रदो विजयते रामायणस्वस्तरुः ।। 2 ।।



वाल्मीकिगिरिसम्भूता रामाम्भोनिधिसङ्गता ।

श्रीमद्रामायणी गङ्गा पुनाति भुवनत्रयम् ।। 3 ।।



वेदवेद्ये परे पुंसि जाते दशरथात्मजे ।

वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना ।। 4 ।।



रामं रामानुजं सीतां भरतं भरतानुजम् ।

सुग्रीवं वायुसूनुं च प्रणमामि पुनः पुनः ।। 5 ।।



कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ।। 6।

वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः ।

शृण्वन्रामकथानादं को न याति परां गतिम् ।। 7 ।।



यः पिबन्सततं रामचरितामृतसागरम् ।

अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ।। 8 ।।



गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ।

रामायणमहामालारत्नं वन्दे ऽनिलात्मजम् ।। 9 ।।



अञ्जनानन्दनं वीरं जानकीशोकनाशनम् ।

कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ।। 10 ।।



उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः ।

आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ।। 11 ।।



मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ।। 12 ।।



रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ।। 13 ।।



जयति रघुवंशतिलकः कौसल्याहृदयनन्दनो रामः ।

दशवदननिधनकारी दाशरथिः पुण्डरीकाक्षः ।। 14 ।।



जितं भगवता तेन हरिणा लोकधारिणा ।

अजेन विश्वरूपेण निर्गुणेन गुणात्मना ।। 15 ।।



नत्वा रामं शिवं साम्बं रामो रामप्रवर्तकः ।

रामायणस्य तिलकं कुरुते रामतुष्टये ।। 16 ।।



ननु रामायणस्यैहिकामुष्मिकफलदत्वे मानाभावात्किं तद्व्याख्यानेनेति चेन्न "इदं पवित्रं पापघ्नम्" इत्यादि "जनश्च शूद्रो ऽपि महत्त्वमीयात्" इत्यन्तश्लोकैरैहिकार्थसाधकत्वस्य स्पष्टमत्रैव श्रूयमाणत्वात्, "शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा" इति मूलरामायणवचनेन ब्रह्मलोकावाप्तेः फलस्य स्पष्टमुक्तत्वाच्च । अपि च गायत्र्या ब्रह्मानुसन्धानाद्ब्रह्मलोकावाप्तिवत्तत्प्रतिपाद्यस्य लीलावताररूपतया रामस्य विभववैभवानुसन्धानेन ब्रह्मलोकावाप्तिरुचितैव । न च "काव्यालापांश्च वर्जयेत्" इति निषेधप्रसक्तिस्तस्यानृषिप्रणीतपुरुषार्थसाधनकाव्यविषयत्त्वात्, यत्रास्याध्ययने त्रैवर्णिकस्याधिकारो गायत्रीप्रतिपाद्यार्थप्रतिपादकत्वात् श्रवणे तु स्त्रीशूद्रादीनामप्यधिकारः । अथादिकविवाल्मीकिः सर्वोत्तमवस्तुज्ञानाय कृतसङ्कल्पो दिव्यतत्काव्यकृतिशक्तिलाभाय तादृशवस्तुज्ञानाय च कृतकष्टसमाधिसाधितपरमपुण्यचयस्तत्पुण्यचयसुप्रीतभगवन्नियोगसमुपागतं देवर्षिं नारदमभ्यर्च्य "कोन्वस्मिन्" इत्यादि पप्रच्छ । स च देवर्षी रामकथामुदितमना रामचरितमनुसृत्य सङ्क्षेपत उपदिश्य यथागतं जगाम । ततस्तदनुग्रहलब्धं रामचरितरहस्यं निरवशेषं तत्प्रसादादेव सम्यग्विज्ञाय भूलोकवर्तिनां चतुर्णां वर्णानां तापत्रयविमोचनाय ब्रह्मांशभूत एव भगवान्प्राचेतसो वाल्मीकिः स्वकृतशतकोटिरामायणसारभूतं चतुर्विंशत्यक्षरगायत्र्याख्यपरमब्रह्मविद्याविलासभूतं रामायणं चतुर्विंशतिसहस्रश्लोकरूपं कुशलवाभ्यामग्राहयत् । तस्यास्य दिव्यकाव्यस्याद्यः सर्गो वाल्मीकेर्नारदस्योपदेशरूपः । तत्र "नापृष्टः कस्यचिद्ब्रूयात्" इति न्यायेनापेक्षितप्रश्नोपक्षेपः

तपःस्वाध्यायेत्यादि । "श्रुत्वा चैतत्" इत्यन्तेन सम्बन्धः । तपस्त्वेन श्रुतः स्वाध्यायस्तपःस्वाध्यायः । "तपःस्वाध्याय इति ब्राह्मणम्" इत्यापस्तम्बोक्तेः । स्वाध्यायशब्देनाप्रायत्यानध्ययनकालदेशपरिहारादिनियमोपेततया

फलवदर्थावबोधपर्यन्तं स्वशाखाध्ययनमुच्यते । तस्मिन्निरतः तदभ्यासनिरत इति यावत् । यत्तु तपश्च स्वाध्यायश्च तपःस्वाध्यायौ तयोर्निरतः । तपःशब्देन चित्तप्रसादहेतुभूतं व्रतनियमादिकर्मोच्यते । यद्वा "यस्य ज्ञानमयं तपः" इति श्रुतेस्तपःशब्देन ब्रह्मविषयज्ञानमुच्यत इति, तन्न । तपोविशिष्टपुंविशेषप्रसिद्धमुनिपुङ्गवशब्देनैवोक्ततपःसम्पत्तैः सिद्धत्वादिति कतककृतः । एवं हि तपोरतमित्येव सिद्धे स्वाध्यायपदवैयर्थ्यापत्तिः । तस्मात्तपःशब्देन निदिध्यासनजन्यपरिपाकवद्ब्रह्मज्ञानमुच्यते । मुनिपुङ्गवशब्देन मननजन्यपरिपाकवत्त्वमेवोच्यत इति न तेन गतार्थतेत्यन्ये । वाग्विदां स्वरूपतो ऽर्थतश्च शब्दब्रह्मतत्त्वविदां पाणिनिपतञ्जल्यादीनां मध्ये वरम् श्रेष्ठम् । मुनिशब्द उक्तार्थः । तेषु पुङ्गवम् श्रेष्ठम् । एवं विशिष्टं नारदम् । तपस्वी कृच्छ्रैकादश्युपवासादिलक्षणं मुख्यं तपः, "तपो नानशनात्परम्" इति श्रुतेः स्वाध्यायरूपं च तपः, समनस्केन्द्रियाणामैकाग्र्यरूपं च तपस्तद्वान् । वाल्मीकिर्वल्मीकस्यापत्यम् "वाल्मीकप्रभवो यस्मात्तस्माद्वाल्मीकिरित्यसौ" इति ब्रह्मवैवर्तोक्तेः । वल्मीकप्रभवत्वेन गोणीपुत्रादिवद्गौणस्य वल्मीकापत्यत्वं गृहीत्वेञ् साधुरपत्यार्थः । यद्वा वाल्मीक इति ऋषिविशेषस्य सञ्ज्ञेत्याहुः । नारदं नराणामिदं नारमज्ञानं तद्द्यति खण्डयति ज्ञानोपदेशेनेति नारदः । "गायन्नारायणकथां सदा पापभयापहाम् । नारदो नाशयन्नेति नृणामज्ञानजं तमः" इति नारदीयोक्तेः । तं पप्रच्छेत्वन्वयः । अत्र प्रष्टुरुक्तविशेषणेन दिव्यार्थविषयश्रवणाधिकारसम्पदुक्ता । वक्तुरप्युक्तविशेषणः सार्वज्ञ्यादि प्रतिपादितम् ।

ग्रहणधारणहेतुशिष्यानुग्रहशक्तिमत्वं च प्रतिपादितम् ।। 1.1.1 ।।



अथ प्रश्नमभिनयति को न्विति । नुशब्दो वितर्के । साम्प्रतं वर्तमानकाले ऽस्मिँल्लोके भूलक्षणे को नु गुणवान् । प्रशस्तबहुगुणवानित्यर्थः । भूमप्रंशसादौ मतुप् । अस्यैव प्रपञ्चः कश्च वीर्ववानित्यादि । दिव्यास्त्रबलादिजशक्तिविशेषेण पराभिभवसामर्थ्यं वीर्यं तद्वान् । कश्च श्रौतस्मार्तसकलधर्मरहस्यज्ञः । बह्वीमप्यकृतिमुपेक्ष्यैकामप्युपकृतिं बह्वीं मन्यत इति कृतज्ञः । सत्यवाक्यः सर्वावस्थास्वपि यथाश्रुतदृष्टतत्त्वार्थवक्ता । दृढव्रतः आपद्यपि धर्माय परिगृहीतव्रतविशेषस्य त्यागरहितः ।। 1.1.2 ।।



चारित्रेणेति । चरित्रमेव चारित्रम् । स्वार्थिको ऽण् । वृत्तसम्पदनेनोच्यते । सर्वभूतेषु सर्वप्राणिषु मध्ये कः पुमान्हितः । ऐहिकामुष्मिकहितवहो ऽशत्रुभ्यः । यत्तु सर्वप्राणिषु सापराधिष्वपि हितकरणशील इति व्याचक्षते तत्तु हितयोगे चतुर्थ्यापत्तेरयुक्तम् । विद्वानात्मानात्मसकलपदार्थतत्त्वज्ञः । समर्थो लौकिकव्यवहारे प्रजारञ्जनादौ चातुर्यं सामर्थ्यं तद्वान् । कामाधिकसौन्दर्यवत्त्वेन नित्यसुखरूपत्वेन चैकप्रियं केवलप्रियं दुःखासम्भिन्नप्रियत्ववद्दर्शनं यस्य सः । यत्त्वेकं प्रति प्रियं दर्शनं यस्येति तदयुक्तम्, सर्वप्रियत्वस्य प्रतिपादनात् । एको ऽद्वितीयः स चासौ प्रियदर्शनश्चेत्यर्थ इति तीर्थः ।। 1.1.3 ।।



आत्मवानिति । वशीकृतान्तःकरण इत्यर्थः । जितक्रौधो निन्दाहिंसादिजनकचित्तवृत्तिविशेषरहितः । क्रोधो ऽत्र कामादीनामप्युपलक्षणम् । द्युतिः सर्वलोकस्य दिदृक्षाजनको देहकान्तिविशेषस्तद्वान् । अनसूयको विद्यैश्वर्यादितपःसुपरौन्नत्यासहनमसूया तद्रहितः । असूयतेः कण्ड्वादियङन्तादुपतापार्थाण्ण्वुल् । संयुगे युद्धकाले जातरोषस्य कस्य रोषाद्देवाश्च देवा अपीन्द्रादयो ऽपि अपिना असुराश्च बिभ्यति अतिबलवतो ऽस्मानप्यस्य क्रोधः संहरिष्यतीति भयं प्राप्नुवन्तीत्यर्थः । कस्येति सम्बन्धसामान्ये षष्ठीत्यन्ये । कस्य संयुगे कस्माद्बिभ्यतीति तीर्थः ।। 1.1.4 ।।



एतदित्युक्तगुणसामान्यापेक्षया नपुंसकम् । एतद्दिव्यपुरुषगुणजातं कस्यास्तीति श्रोतुमहमिच्छामि । उक्तगुणसामग्र्यस्यैकत्र दुर्लभत्वात्तादृशपुरुषविशेषज्ञाने मे परं सर्वस्मादपि कौतुकान्तरादुत्कटं कौतुकं वर्तते । नन्वेवंविधनरो मयापि दुर्ज्ञेयो नेत्याह हि यतो महर्षे अपरोक्षीकृताशेषार्थ त्वमेवंविधमुक्तगुणवन्तं नरं दिव्यपुरुषं ज्ञातुं समर्थो ऽसि सर्वलोकप्रसिद्धसामर्थ्यो ऽसि । तस्मात्त्वत्त एव श्रोतुमिच्छामीति पूर्वेण सम्बन्धः ।। 1.1.5 ।।



श्रुत्वेति । एतदुक्तप्रश्नजातम् । त्रिलोकज्ञः भूर्भुवःस्वर्लोकलक्षणांस्त्र्यवयवलोकांस्तत्रत्यवृत्तान्तं जानातीत्यर्थः । एवं च द्विगुत्वाभावान्न ङीप् । नारदो वाल्मीकेरेतद्वचः श्रुत्वा श्रूयतामिति चामन्त्र्यैकाग्र्यसिद्धये ऽभिमुखीकृत्य स्वगतस्यार्थस्य चिरं प्रतिपिपादयिषितस्य जिज्ञासुलाभेन प्रहृष्टो भूत्वा वक्ष्यमाणं वाक्यमब्रवीत् ।। 1.1.6 ।।



बहव इति । ये बहवो गुणास्त्वया कीर्तितास्त एकत्र प्राकृतपुरुषमात्रे दुर्लभा एव । चः पादपूरणे । अथापि हे मुने यस्तैर्युक्तस्तं बुद्ध्वा स्मृत्वाहं वक्ष्यामि तादृशो नरः श्रूयताम् । प्राप्तकाले लोट् । तस्य श्रवणं ते प्राप्तकालमित्यर्थः ।। 1.1.7 ।।



इक्ष्वाक्विति । इक्ष्वाकुवंशात्प्रभव आविर्भावो यस्य स तथा । रामो नाम राम इति नान्ना प्रसिद्धो जनैश्च श्रुतो ऽस्ति । तस्मिन्नेवैकत्र सर्वे त्वत्पृष्टा गुणाः, अन्ये च गुणा इति शेषः । तच्चेदं यौगिकं नाम । रमन्ते योगिनो ऽस्मिन् यद्वा रमयति स्वकानिति योगस्य प्रदर्शनात् । तत्रान्त्ये नारकपूरुषादिवत् "अन्येषामपि दृश्यते" इति दीर्घः । तानेव गुणानाह नियतात्मा निगृगीतान्तःकरणः । वीर्यं व्याख्यातम् । द्युतिः कान्तिः । आपत्सम्पदोरविकृतिश्चित्तस्य धृतिस्तद्वान् । वशी जिताशेषबहिरिन्द्रियः ।। 1.1.8 ।।



बुद्धिमानिति । प्रशस्तबुद्धिः बुद्धेः प्राशस्त्यं च सकृद्गृहीताविस्मरणावापोद्वापादिशक्तिमत्त्वम् । सर्वत्र प्रशंसादौ मतुप् । नीतिः कामन्दकादिप्रसिद्धराजनीतिस्तद्वांस्तज्ज्ञाता । वाग्मी प्रशस्तवाक् । श्रीमान्सर्वातिशायिशोभैश्वर्यादियुक्तः । यद्वा "ऋचः सामानि यजूँषि । सा हि श्रीरमृता सताम्" इत्युक्तश्रौतश्रीमान् । शत्रूणां बाह्यान्तराणां निबर्हणो नाशकर्ता । बाहुलकात्कर्तरि ल्युट् । विपुलांस इत्यादिना सामुद्रिकलक्षणं कथ्यते । विपुलौ मांसलोन्नतावंसौ भुजशिरसी यस्य सः । "स्कन्धो भुजशरिरों ऽसः" इति कोशः । अस्य सुलक्षणत्वं च वररुचिनोक्तम् "कक्षः कुक्षिश्च वक्षश्च घ्राणस्कन्धौ ललाटिका । सर्वभूतेषु निर्दिष्टा उन्नतास्ते सुखप्रदाः" इति । महाबाहुः "आत्महतः" इत्यात्वम् । "शिरो ललाटश्रवणे ग्रीवा वक्षश्च हृत्तथा । उदरं पाणिपादं च पृष्ठं दश महत्सुखम्' इति ब्राह्मे ऽस्य सुलक्षणत्वमुक्तम् । कम्बुग्रीवः कम्बुवद्रेखात्रयविशिष्टग्रीवः । महाहनुर्मांसलकपोलापरभागः । "पूर्णमांसलहनुस्तु भूपतिः" इति संहिता ।। 1.1.9 ।।



महोरस्क इति । महद्विशालमुरो यस्य सः । "उरः शिरो ललाटं च" इत्युपक्रम्य "विशालास्ते सुखप्रदाः" इत्युक्तेः । महेष्वासो महानिष्वासो धनुरस्य । गूढजत्रुर्गूढे मांसलत्वान्निमग्ने जत्रुणी वक्षों ऽससंधिगते अस्थिनी यस्य । अरिन्दमो निजभक्तानामरीन्कामादीन्निजभक्त्यन्तरायकर्तृपापानि वा दमयतीत्यरिन्दमः । यद्वा अरिन्दम इति राज्ञो ऽन्वर्थसञ्ज्ञा । शत्रुञ्जय इतिवत् । आजानुबाहुर्जानुपर्यन्तदीर्घबाहुः । "दीर्घभ्रूबाहुमुष्कश्च चिरञ्जीवी धनी नरः" इति ब्राह्मे । सुशिराः "समवृत्तशिराश्चैव च्छत्राकारशिरास्तथा । एकच्छत्रां महीं भुङ्क्ते दीर्घमायुश्च विन्दति" इति नारदः । सुललाटो रेखाधिकललाटः । "ललाटे यस्य दृश्यन्ते चतुस्त्रिद्व्येकरेखिकाः । शतद्वयं शतं षष्टिस्तस्यायुर्विंशतिस्तथा" इति कात्यायनः । सुविक्रमो गजसिंहादिगतिसदृशगतिः विक्रमः पादविक्षेपः । "स्वरो गतिश्च नाभिश्च गम्भीरः स प्रशस्यते" इति ब्राह्मे ।। 1.1.10 ।।



सम इति । समो नातिदीर्घो नातिह्रस्वः । "षण्णवत्यङ्गुलोत्सेधो योनांशः स दिवौकसाम्" इत्युक्तेः । समान्यन्यूनानधिकपरिमाणानि विभक्तानि पृथग्भूतान्यङ्गान्यवयवा यस्य सः । "भ्रुवौ नासापुटे नेत्रे कर्णावोष्ठौ च चूचुके । कूर्परौ मणिबन्धौ च जानुनी वृषणौ कटी ।। करौ पादौ स्फिजौ यस्य समौ ज्ञेयः स भूपतिः" इत्युक्तेः । स्निग्धवर्णः स्निग्धश्यामलवर्ण इत्यर्थः । "स्निग्धेन्द्रनीलवर्णस्तु भोगं विन्दति पुष्कलम्" इत्युक्तेः । प्रतापः स्मृतिमात्रेण रिपुहृदयविदारणक्षमं पौरुषं तद्वान् । "प्रतापौ पौरुषातपौ" इति कोशः । पीनवक्षा मांसलसमोन्नतवक्षाः । विशालाक्षो विस्तृतायतनेत्रः । "नासिका चक्षुषी कर्णौ यस्यायतौ" इत्युक्तेः । लक्ष्मीवान्सीतारूपलक्ष्मीशक्तिमान् सर्वावयवसौन्दर्यवान्वा । मोपधत्वाद्वत्वम् । एवमुक्तरीत्या शुभानि सामुद्रिकशास्त्रोक्तानि लक्षणानि यस्य स शुभलक्षणः ।। 1.1.11 ।।



धर्मज्ञ इति । सत्या ऽमोघा सन्धा "सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम" इत्यादिरूपिणी प्रतिज्ञा यस्य । यशस्वी रावणवधादिना दिव्ययशःसम्पन्नः । ज्ञानसम्पन्नो ब्रह्मज्ञानपरिपूर्णः । अत एव जटायुषं प्रति "मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्" इत्युक्तिः सङ्गच्छते । ब्रह्मज्ञस्यैव ब्रह्मोपदेशे ऽधिकारात् । विना ब्रह्मोपदेशमनुत्तमलोकावाप्त्यसम्भवात् । न विद्यन्ते उत्तमा येभ्यस्ते ऽनुत्तमाः । "आत्मानं मानुषं मन्ये रामं दशरथात्मजम्" इत्यादिवचस्तु मायामात्रमित्यन्यत्र विस्तरः । शुचिः प्रातःस्नानादिना प्राणायामाभ्यासादिना प्रत्याहारादिजन्यरागद्वेषहानेन च मायिकशरीरत्वाच्च नित्यं बाह्यान्तरशुद्धः । वश्यः पित्राचार्यदेवेषु विनीतः । समाधिमान् निजतत्त्वसमाधिमान् ।। 1.1.12 ।।



प्रजापतीति । प्रजापतिसमः यद्यपि रामो ब्रह्मैव तथापि मानुषधर्माणां शोकमोहादीनां मायिकानां तत्र दर्शनेनौपाधिकभेदमादाय तत्समत्वोक्तिः । भार्गवलोकप्रतिबन्धरूपाज्जटयुमोक्षप्रदानरूपात्स्वेन सह सर्वायोध्यावासिजनस्य सशरीरस्य ब्रह्मलोकनयनरूपाच्च कारणात्तत्समत्वम् । सर्वथा स्वतन्त्रस्यैवेदृशेषु योग्यत्वात् । श्रीमानित्येवमादीनां पौनःपुन्यं सकलैश्वर्यादिमत्त्वबोधनार्थम् । धाता पितेव सर्वप्रजाधारणपोषणसामर्थ्ययुक्तः । रिपुनिषूदन आश्रितजनरिपुनाशकः कामादिरिपुनाकश्च । अन्यथा जगद्गुरोर्भगवतो रिपोरेवाभावेनैतद्विशेषणासङ्गतिः स्यात् । बाहुलकात्कर्तरि ल्युट् । जीवलोकस्य प्राणिसमूहस्य सकलव्यवहारप्रवर्तकत्वेन रक्षिता । धर्मस्य तत्तद्वर्णाश्रमधर्मस्य मर्यादापरिपालनद्वारा रक्षिता ।। 1.1.13 ।।



रक्षितेति । स्वस्य धर्मस्य यज्ञाध्ययनदानदण्डयुद्धादिरूपस्य रक्षिता सादरमनुष्ठाता । स्वजनस्य स्वभक्तजनस्यावश्यंभाविनो ऽप्यनिष्टस्य निरासपूर्वकं परमेष्टमोक्षदानेन रक्षिता । तच्चाम्बरीषप्रह्लादध्रुवादीनां रक्षणेन प्रसिद्धमेव । वेदानामृग्यजुःसामार्थवणां छन्दःकल्पव्याकरणज्योतिषनिरुक्तशिक्षारूपदेवाङ्गानां च तत्त्वज्ञः पाठतो ऽर्थतश्च ज्ञाता । शस्त्रास्त्रादिप्रतिपादकं शास्त्रं धनुर्वेदस्तस्मिन्निष्ठितः सम्यक्तज्ज्ञाता ।। 1.1.14 ।।



सर्वेति । साङ्ख्ययोगतर्कपूर्वोत्तरमीमांसासूत्राणि सव्याख्यानान शास्त्राणि, स्मृतय उपस्मृतयश्च तत्त्वार्थशासकत्वाच्छास्त्रम्, सर्वमूलशब्दशासकत्वाद्व्याकरणं च शास्त्रम्, तथैव कामन्दकादीन्यपि नीतिशास्त्राणि, सर्वेषामेषामर्थतत्त्वज्ञः । स्मृतिमानुक्ताधीतवेदशास्त्रार्थविस्मरणरहितः । प्रतिभानवान्व्यवहारकाले श्रुतस्याश्रुतस्य चोचितार्थस्य शीघ्रं प्रतिभासः प्रसिभानं तद्वान् । तदुक्तम् "प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः" इति । सर्वलोकप्रियो द्रष्टृस्मर्तृलोकानामिहामुत्रहितावहः । साधुर्मृदुमधुरस्वभावः । अदीनात्मा सहजासाधारणक्षत्रभावेनादीनस्वभावः । अतिव्यसनपरम्परायामप्यक्षुभितान्तःकरणो वा । विचक्षणो यथोचितलौकिकालौकिकसर्वक्रियासु कुशलः ।। 1.1.15 ।।



सर्वदेति । सर्वदा होमदेवपूजासभाधिष्ठानकालेषु तत्तत्कालोचितैः सद्भिः सात्विकस्वभावैः पुरोहितद्विजमन्त्रिप्रधानादिभिः सिन्धुभिर्नदीभिः समुद्र इव अभिगतः सेवितः । यद्वा सद्भिर्भक्तैः सदा सेवितः । भगवत्सेवायां कालनियमाभावात् । दृष्टान्तेन तं प्राप्तानां सतां भक्तानां तेन सहैक्यं ध्वनयति । आर्यः सर्वपूज्यः । सर्वेषु सुखदुःखोदर्केषु समो हर्षविषादरहितः शत्रुमित्रोदासीनेषु वैषम्यरहितः । तत्तत्कार्यानुरूपफलदातेत्यर्थः इत्यन्ये । सदैव सर्वावस्थासु मुहुर्मुहुरनुभवे ऽप्यननुभूतपूर्ववद्विस्मयनीयदर्शनः ।। 1.1.16 ।।



स चेति । स रामः सर्वैर्गुणैर्युक्त उक्तैर्वक्ष्यमाणैश्च । कौसल्यानन्दवर्धनत्वेन महाकुलप्रसूतत्वप्रधानमहिषीपुत्रत्वादिरूपस्याभिषेकोचितधर्मस्य सत्ता दर्शिता । गाम्भीर्यमगाधाशयत्वं तत्र समुद्रतुल्यः । धैर्यं मनसाप्यधृष्यत्वम्, इष्टवियोगादावनभिभूतचित्तत्वं, च रणे ऽचलतया सहायाभावे ऽपि स्थितिश्च, तेन हिमवत्सदृशः ।। 1.1.17 ।।



विष्णुनेति । यद्यपि रामो विष्णुरेव सर्वरूपश्च तथापि मानुषोपाधिभेदात्सर्वत्र सादृश्यं द्रष्टव्यम् । यद्वा विष्णुना सदृश इत्यनन्वयालङ्कारः । चन्द्रवत्प्रजाव्यवहारनिरीक्षणकाले सौम्यदर्शनः । क्रोधे युद्धकालिके कालाग्निसदृशः । परैरधृष्य इति यावत् । क्षमाप्रतीकारसामर्थ्ये ऽप्यपकारसहिष्णुता तया पृथिवीतुल्यः ।। 1.1.18 ।।



धनदेनेति । त्यागे धनत्यागे धर्मार्थं धनव्ययविषये ऽपेक्षितधनसम्पत्तौ धनदेन नवनिधीशेन समः । अस्मिन्नेवांश उपमा, न तु त्यागांशे । तस्य धनसङ्ग्रह एव प्रवृत्तेः । धनदव्यवहारस्तु कतिपयत्रिदशेभ्यो भगवदाज्ञया कतिपयधनदानमात्रादिति बहवः । सत्ये सत्यवचने ऽपरो धर्म इव धर्मस्य मूर्त्यन्तरमिवेत्युत्प्रेक्षा । एतदन्तं बालकाण्डीयार्थसङ्ग्रहः । "तमेवम्" इत्यादिनायोध्याकाण्डीयार्थसङ्ग्रह आरभ्यते । तत्रेक्ष्वाकुवंशप्रभव इत्यनेन भगवदाविर्भावः सूचतः । महावीर्यःशत्रुनिबर्हण इत्यनेन विश्वामित्रानुग्रहजशस्त्रास्त्रसम्पत्तिताटकावधादि सूचितम् । लक्ष्मीवानित्यनेन सीतापरिणयः सूचितः । सत्यपराक्रममित्यनेन भार्गवलोकप्रतिबन्धादि सूचितम् । एवंगुणसम्पन्नं प्रागुक्तरीत्या सकलकल्याणगुणयुक्तम् । सत्यपराक्रमममोघपराक्रमम् ।। 1.1.19 ।।



ज्येष्ठमिति । ज्येष्ठगुणैर्यौवराज्याभिषेकार्हगुणैर्युक्तम् । प्रकृतीनां प्रजानां हितैरिहामुत्रहितावहैर्युक्तम् । ज्येष्ठं सुतं रामम् । प्रकृतिप्रियकाम्यया प्रकृतीनां प्रियं कर्तुमिच्छया । "छान्दसः काम्यच्" इति प्राञ्चः । प्रकृतिसम्बन्धेनात्मनः प्रियं कर्तुमिच्छया । युवराजेन हि प्रजाकृत्ये सम्पादिते सति व्यवहारादिनिरीक्षणजन्यश्रमनिवृत्तिरूपं प्रियं स्वस्य भवतीति वयम् ।। 1.1.20 ।।



यौवराज्येनेति । युवराजस्य भावो यौवराज्यम् । पितरि राज्यं कुर्वत्येव सर्वराजव्यापारे ऽभिषेकपूर्वकमधिकृतः पुत्रो युवराजः । संयोक्तुं योजयितुम् । महीपतिर्दशरथः ऐच्छत् । अथ तस्य रामस्य यौवराज्याभिषेके ऽपेक्षितान्सम्भारान् "औदम्बर्यासन्दी तस्यै प्रादेशमात्राः पादाः स्युः" इत्यादिना बह्वृचब्राह्मणेनोपदिश्यमानान्दधिमधुसर्पिरादीन्सम्भूतान्दृष्ट्वा मन्थरावचनाज्ज्ञात्वा । कैकेयी राज्ञः कनीयसी भार्या । अत्र कैकेयीत्येव । यद्यपि केकयशब्दादञि "केकयमित्रयु" इत्यादिना यादेरियादेशे गुणे आदिवृद्धौ ङीपि "यस्येति च" इति लोपे साधु, तथापि "अपि माषं मषं कुर्याच्छन्दोभङ्ग न कारयेत्" इति न्यायेन कैकयीति प्रयोगः । पुंयोगलक्षणे ङीपि "केकयी" इति पाठ इत्यन्ये ।। 1.1.21 ।।



पूर्वं पूर्वस्मिन्काल इन्द्रसहायार्थं प्रवृत्तदशरथस्य दैत्यैर्युद्धकाले दशरथेतरप्रयुक्तामासुरीं मायां धवलाङ्गमुनिदत्तविद्यया निवारयित्र्यै कैकेय्यै तुष्टेन दशरथेन दत्तौ वरौ यस्यै सा । देवी सैव राज्याभिषेकसमये प्राप्ताभिषेका देवी तद्वत्प्रियतमैनं वक्ष्यमाणलक्षणं वरं प्राप्तकालत्वादयाचत राजानम् । याचेर्द्विकर्मकत्वात् । वरद्वयमाह रामस्य राज्यादुद्वासनम्, भरतस्य स्वपुत्रस्याभिषेचनम् ।। 1.1.22 ।।



स इति । सत्यवचनात् । धर्मपरनिर्देशेन सत्यप्रतिज्ञत्वादित्यर्थः । अतो हेतोः सत्यरूपेण धर्मपाशेन संयतो बद्धः सन्दशरथः प्रियं सुतमपि विवासयामास ।। 1.1.23 ।।



स इति । वीरो ऽनेकैरपराङ्मुखतया योद्धापि स रामः पितुः प्रतिज्ञां सत्यतया स्वविवासनेनानुपालयन् । यद्वा कैकेयीसन्निधौ पितृवचनपरिपालनविषयां स्वकृतां प्रतिज्ञां परिपालयत्पितृवचनकृतान्निर्देशादाज्ञातो मातुश्च कैकेय्याः प्रियकारणात्प्रियसिद्धिनिमित्तं वनं जगाम । अनेन पितृतत्पत्नीसन्तोषकरणमेव सर्वात्मना पुत्रस्य धर्म इति भगवतोपदिष्टम् ।। 1.1.24 ।।



तमिति । व्रजन्तं भ्रातरम् । प्रियो रामे सहजप्रीतिमान् ।। 1.1.25 ।।



भ्रातरमिति । भ्रातू रामस्य दयितः प्रियः । सौभ्रात्रं सुभ्रातृभावम् । स्नेहमिति यावत् । स्नेहादेव जगाम । न पित्रादिनिर्देशादिति भावः । अथ रामस्य दयितेष्टा । प्राणसमा निरतिशयप्रेमास्पदम् । हिता नित्यं हितकारिणी ।। 1.1.26 ।।



जनकस्य कुले ऽन्वये जाता । यद्यप्येषा ऽयोनिजा तथापि सीरध्वजस्य देवयजनलाङ्गलपद्धतावाविर्भूतत्वादेवमुक्तिः । अत एवाह देवमायेवेति । सेवाचिन्त्योदयस्थितिलया । देवैरेव स्वकार्यसिद्ध्याकाङ्क्षिभिर्निर्मिताविर्भाविता । यद्वा इवशब्द एवार्थे । देवेन भगवताविर्भाविता

स्वमायैव । भगवतो ऽनाद्यन्ता सर्वकार्यसहायभूता सहजशक्तिरेव हि मायाः । यत्तु तिलोत्तमादिवद्देवमायेव स्थितेति, तन्न । निर्मितपदवैयर्थ्यापत्तेः । सर्वैः स्त्रीलक्षणैः सम्पन्ना युक्ता ।। 1.1.27 ।।



सीतेति । सीता लाङ्गलपद्धतिस्तदुत्थत्वात्सीता । शशिनं रोहिणीव राममनुगता ।। 1.1.28 ।।



शृङ्गेति । गङ्गाकूले वर्तमानशृङ्गवेरपुरे स्थितं निषादाधिपतिं प्रियमिष्टं गुहमासाद्य तत्सहितो लक्ष्मणादिसहितश्च रामः सूतं रथेन स्वप्रापणार्थमागतं गङ्गाकूले व्यसर्जयत्परावर्तितवान् ।। 1.1.29 ।।



गुहेनेति । पूर्वार्धं पूर्वश्लोकान्वयि । अथ ते सीतारामलक्ष्मणा वनेन पुरोवर्तिप्राप्तवनद्वारेण परमपरं वनं गत्वा । तेवनं पादचारस्तेन वनं गत्वेत्यर्थ इति सम्प्रदायः ।। 1.1.30 ।।



चित्रेति । अनु पश्चाद्भरद्वाजस्य शासनाच्चित्रकूटं प्राप्य तत्र रम्यमावसथं पर्णशालां कृत्वा तत्र वने रममाणास्त्रयो देवगन्धर्वसदृशाः सुखं न्यवसन्नित्यन्वयः ।। 1.1.31 ।।



तथा पुत्रशोकातुरो ऽनिर्वाच्यपुत्रवियोगजन्यशोकपीडितः ।। 1.1.32 ।।



राजेति । तस्मिन्दशरथे गते लोकान्तरं गते मृते वसिष्ठाद्यैर्द्विजैस्त्रैवर्णिकैः । इदमुपलक्षणम् । तत्सहितैर्मन्त्रिवृद्धैरित्यपि बोध्यम् ।। 1.1.33 ।।



राज्याय राज्यं कर्तुं तैर्नियुज्यमानः प्रेर्यमाणो महाबलः समर्थो ऽपि सौभ्रात्राद्राज्यं नैच्छत् । ततो रामपादप्रसादकः पूज्यं रामं प्रसादयितुं वनं जगाम । पादशब्दः पूज्यवची ।। 1.1.34 ।।



गत्वेति । स भरतो महत्मानं सत्यप्रतिज्ञत्वादिधर्मैर्महावैभवं भ्रातरं रामं गत्वार्यभावपुरस्कृतो विनीतवेषस्तं रामं राज्याय प्रतिनिवृत्तिमयाचत् । याचिर्द्विकर्मकः ।। 1.1.35 ।।



ननु पितृमातृदत्तं राज्यं तवैव योग्यमिति मम प्रतिनिवृत्तिरनुचितेत्यत्राह त्वमेवेति । सर्वगुणश्रेष्ठे ज्येष्ठे सति कनिष्ठो न राज्यार्ह इति धर्मं त्वमेव जानासीति त्वमेव राजेति वचो राममब्रवीत् । रामो ऽपि रमयतीति व्युत्पत्त्याश्रितचित्तरञ्जको ऽपि पितुरादेशाद्राज्यं नैच्छदित्युत्तरेणान्वयः । अत्र हेतुगर्भं विशेषणम् । परमोदारः स्वसुखसाधनस्य परस्मै दानमौदार्यं तद्युतः । सुमुखो राज्यादपि वने ऽम्लान्याद्यधिकमुखप्रसादयुक्तः । सुमहायशाः प्रतिज्ञापालनरूपयशोभङ्गभिया नैच्छदिति कतककृतः । तीर्थस्तु परमोदारो याचकाभीष्टप्रदाननिरतो ऽर्थिलाभेन प्रसन्नमुखः । सुमहायशा अर्थ्यवैमुख्येन प्रसिद्धकीर्तिरपि पित्राज्ञयैव भरतवाक्यं नैच्छदित्याह ।। 1.1.36 ।।



ततो ऽस्य भरतस्य राज्याय राज्यरक्षणसामर्थ्यं लब्धुमहल्यादौ दृष्टशक्तिकाचिन्त्यवैभवस्वपदस्पृष्टे पादुके न्यासरूपेण दत्त्वा पुनःपुनः प्रतिनिवृत्तिं याचमानं भरतं चतुर्दशसमानन्तरं सर्वथा प्रतिनिवर्तितव्यमित्यभ्युपेत्य निवर्तयामास । अस्येति राज्यापेक्षया षष्ठी । दत्त्वेत्यत्र अस्मै इत्यर्थलभ्यम् । दत्त्वेत्यन्वये ऽपि सम्प्रदानस्य शेषत्वविवक्षया षष्ठीत्यन्ये । यत्तु निक्षेपे मुख्यदानाभावान्न चतुर्थी दत्त्वेत्यन्वये ऽपीति, तन्न । खण्डिकोपाध्यायस्तस्मै चपेटां ददातीति महाभाष्यप्रयोगविरोधात् ।। 1.1.37 ।।



स भरतो रामप्रतिनिवृत्तिरूपं काममनवाप्यैव रामपादौ नमस्कुर्वन्प्रतिनिवृत्त इति शेषः ।। 1.1.38 ।।



ततो नमस्कृत्य प्रतिनिवृत्तो नन्दिग्रामे स्थित्वा रामश्चतुर्दशसमारूपप्रतिज्ञातसमयानन्तरं राज्यायागमिष्यतीति रामागमनकाङ्क्षया पादुके पुरस्कृत्य राज्यमकरोत् । उत्तरार्धं स्पष्टम् ।। 1.1.39 ।।



राम इति । उक्तगुणविशिष्टो रामस्त्वत्यासन्नतया नागरस्य मन्त्रिवृद्धादिपौरजनस्य भरतस्य च तत्र चित्रकूट आगमनमालक्ष्य सम्भाव्य तेषां प्रतिनिवर्तनप्रयासाद्वरमितो ऽपि दूरगमनमिति सञ्चिन्त्य दण्डकान्दण्डकारण्यानि । अवान्तरबहुत्वाद्बहुवचनम् । तेषां रक्षश्चोरादिभूयिष्ठत्वादेकाग्रः सज्जो भूत्वा प्रविवेश । हेति प्रसिद्धौ ।। 1.1.40 ।।



प्रविश्येति । महारण्यमित्यरण्यकाण्डकथासङ्ग्रहः । राजीवम् पद्मम् । अनेन राक्षसयुद्धारम्भकृतहर्षो ध्वनितः । शरभङ्गाद्या ऋषयः ।। 1.1.41 ।।



चापीति निपातसमुच्चयः पद्यपूरकः । अगस्त्यभ्रातेध्मवाहननामेति केचित् । "ततो मुनेरगस्त्यस्य भ्रातागस्त्य इति श्रुतः । स चिन्वन्कानने वन्यं सखीभिः कोपितो ऽशपत्" इति मार्कण्डेयपुराणे श्रूयते । दिव्यं धनुरादिकं कार्याय प्रतिगृहाणेत्येवं रूपादगस्त्यवचनात् ऐन्द्रमिन्द्रादगस्त्यस्यागतं शरासनं धनुर्जग्राह । पूर्वं भार्गवं जित्वा ततः प्राप्तं यद्वैष्णवं धनुर्भगवता रामेण वरुणे न्यस्तं तदिन्द्रेण वरुणादानीयागस्त्ये स्थापितमित्यग्रे ऽरण्यकाण्डे स्फुटम् । यद्वेन्द्रो विष्णुः ।। 1.1.42 ।।



खङ्गञ्चेति । अनुरूपनिजायुधलाभात्परमप्रीतः । अक्षयाः सायका बाणा ययोस्तौ । तूणी इषुधी । वनचरैर्वानप्रस्थैः ।। 1.1.43 ।।



ऋषय इति । तद्वने वसतो रामस्यान्तिकमसुराः कबन्धादयो रक्षांसि खरादयस्तेषां वधाय वधं प्रार्थयितुं सर्वे ऋषयो ऽभ्यागमन् । स रामस्तेषां राक्षसानां वधं तस्मिन्वने तेभ्यो ऋषिभ्यः प्रतिशुश्राव । प्राप्तकालमसुररक्षो योधयिष्ये नोपेक्षिष्य इति तद्वचो ऽङ्गीकृतवानित्यर्थः ।। 1.1.44 ।।



प्रतिज्ञात इति । अग्निकल्पानामग्निसदृशानामृषीणाम् । सन्निधाविति शेषः । अपेक्षित इति वा शेषः । संयति युद्धे ऽचिन्त्यामितनिजशक्तिवैभवाद्रक्षसां वधः प्रतिज्ञातश्चेति सम्बन्धः ।। 1.1.45 ।।



तेनेति । तेन रामेण तत्रैव दण्डकारण्यदक्षिणप्रदेशवर्तिपञ्चवट्याश्रमे जनस्थानं नाम दण्डकारण्ये रावणस्य बलनिवेशस्थानम् । कामरूपिणीच्छया नानारूपधारिणी । यद्वा पुंसां काम्यमानरूपवती । विरूपिता कर्णनासाछेदेन वैरूप्यं प्रापिता । शूर्पणखेत्यत्र "नखमुखात्सञ्ज्ञायाम्" इति ङीप्निषेधः । "पूर्वपदात्सञ्ज्ञायाम्" इति णत्वम् । विरुद्धं रूपं विरूपं तत्सञ्जातमस्या इति तारकादित्वादितच् ।। 1.1.46 ।।



तत इति । ततस्तद्वैरूप्यकरणानन्तरम् । सर्वराक्षसान् जनस्थाननिवासिन इति शेषः । उद्युक्तान्युद्धार्थं सन्नद्धान् ।। 1.1.47 ।।



पदानुगाननुचरान् । निवसता । रामेणेति शेषः । उत्तरश्लोकान्वयी ।। 1.1.48 ।।



रक्षसामिति । चतुर्दशसहस्राणि तत्सङ्ख्यासङ्ख्यातानि । सैन्यानीति शेषः । ज्ञातयः खरादयः । खरादयो हि रावणस्य वैमात्रेयाः । श्रुत्वा । शूर्पणखामुखादिति शेषः । मूर्च्छितो व्याप्तचित्तः ।। 1.1.49 ।।



क्रोधेन व्याप्तः स रावणो मारीचेन बहुशो बहुवारं परदारहरणस्य परमाधर्मत्वं बलवद्विरोधस्य निजनाशान्तत्वम् । अतस्तेन रामेण बलवता विश्वामित्राश्रमे मदनुभूतबलेन ते तव विरोधो न क्षमो न युक्तो न हितश्चेति वार्यमाणो ऽपि मारीचं नाम प्रसिद्धं राक्षसं सीताहरणे सहायं वरयामास । "वृञ् वरणे" इति स्वार्थे ण्यन्तो ऽपि ।। 1.1.50 ।।



नेति । पूर्वार्धं पूर्वान्वयि । कालचोदितो मृत्युप्रेरितो रावणस्तद्वाक्यं मारीचवाक्यं त्वनादृत्य ।। 1.1.51 ।।



सहमारीचो मारीचसहितः । "वोपसर्जनस्य" इति विकल्पात्सहस्य सादेशाभावः । तस्य खरादिहन्तृत्वेन प्रसिद्धस्य रामस्याश्रमपदमाश्रमस्थानं जगाम । ततस्तेन मायाविना मारीचेन तौ नृपात्मजौ रामलक्ष्मणौ दूरमपवाह्यापसार्य ।। 1.1.52 ।।



जहारेति । हत्वा हतप्रायं कण्ठगतप्राणं कृत्वा रामस्य भार्यां जहारेति सम्बन्धः । निहतम् निहतप्रायम् । श्रुत्वा । गृध्रमुखादिति शेषः ।। 1.1.53 ।।



विललाप पर्यदेवयत् । आकुलेन्द्रियः शोकपरवशेन्द्रियः । तेनैव शोकेन निवृत्तिहेतुमप्राप्तेनाभिभूयमान एव सन्गृध्रं रावणेन सीतापहृतेति निवेद्य मृतं दग्ध्वा विधिना संस्कृत्य ।। 1.1.54 ।।



सीतां वने मार्गमाणः । मार्गयमाण इत्यर्थः । रूपेण विकृतं कबन्धं राक्षसम् । ददर्शेति सम्बन्धः ।। 1.1.55 ।।



तमिति । तं कबन्धं निहत्य ददाह । महाबाहू रामः । स च कबन्धः स्वर्गतः स्वर्गगमनयोग्यं स्वीयं गन्धर्वरूपं प्राप्तवान् । ततस्तेन रूपेण । अस्य रामस्य ।। 1.1.56 ।।



श्रमणाम् तापसीम् । धर्मनिपुणाम् सकलधर्मज्ञाम् । धर्मचारिणीमित्यस्य तु सकलधर्मानुष्ठात्रीमित्यर्थः । श्रमणामित्यत्र कर्तरि ल्युट् । तपसा श्राम्यतीत्यर्थात् । तामभिगच्छेति कथयामासेत्यन्वयः ।। 1.1.57 ।।



शबर्येति । सम्यक्पूजितो यथाविध्यर्घ्याद्युपचारैः पूजितः । पम्पेत्यादिना किष्किन्धाकाण्डकथासङ्ग्रहः । सङ्गतो मिलितः ।। 1.1.58 ।।



हनुमद्वचनात्सुग्रीवो युष्मन्मैत्रीमपेक्षत इत्यादिरूपात् । समागतो मैत्रीं कृतवान् । हनुशब्दो ह्रस्वान्तो दीर्घान्तश्च । सुग्रीवायेति । सङ्गतायेति शेषः । शंसदकथयत् । छान्दसो ऽडभावः । महाबलः सुग्रीवेण स्वकार्यसाधकमहाबलवत्त्वेनावगतः ।। 1.1.59 ।।



आदित इति । जन्मन आरभ्येत्यर्थः । तत्प्रसिद्धं वृत्तं स्वीयं सीतायाश्च वृत्तं विशिष्य रावणापहारान्तम् अशंसत् । यद्यपि महाबलत्वाद्विनापि सहायं सर्वनिर्वाहकस्तथापि लोकरीतिमनुसृत्य सुग्रीवमैत्रीमुद्दिश्य सर्वमकथयदिति बोद्धव्यम् । वानरः सुग्रीवो ऽपि रामस्य सम्बन्धि तत्सर्वं श्रुत्वा ।। 1.1.60 ।।



स्वसमानदुःखमहाबलसम्बन्धलाभात्प्रीतः सुग्रीवो ऽग्निसाक्षिकमग्निरेव साक्षाद्द्रष्टा यस्य तादृशं सख्यं चकार । ततो वैरानुकथनं वालिनस्तव च वैरे किं कारणमिति रामकृतप्रश्नं प्रति । प्रश्नोत्तरमिति यावत् ।। 1.1.61 ।।



रामाय यत्प्रत्युत्तरमावेदितव्यं तत्सर्वं रामवद्दारापहारान्तकष्टैः सञ्जातदुःखेन सुग्रीवेण प्रणयाद्रामायावेदितम् । तदा तद्वृत्तान्तश्रवणानन्तरकाले रामेण वालिवधं प्रति वालिवधमुद्दिश्यावश्यं वालिनं वधिष्यामीति प्रतिज्ञातम् ।। 1.1.62 ।।



वालिनश्चेति । तत्र ऋष्यमूकपर्वते । वानरः सुग्रीवो वालिनो बलमरुणोदयानन्तरं सूर्योदयात्प्रागेव रावणं गृहीत्वा चतुःसमुद्रलङ्घनादिरूपं कथयामास । किञ्च सुग्रीवो रामो वालितुल्यो न वेति शङ्कितः सञ्जातशङ्क आसीत् ।। 1.1.63 ।।



राघवेति । राघवस्य वालिमहाबलत्वे विश्वासार्थमुत्तमं बलप्रत्यायनोत्तमसाधनं महापर्वतसदृशं दुन्दुभेर्दैत्यस्य शरीरं दर्शयामास । यस्य काय इदानीमेतादृशस्तादृशो दुन्दुभिर्वालिना हत्वैतावद्दूरं प्रक्षिप्त इत्युक्त्वा दर्शयामासेत्यर्थः ।। 1.1.64 ।।



उत्स्मयित्वेति । बाहुलकात्स्वार्थे णिच् । ईषत्स्मितं कृत्वा ।। 1.1.65 ।।



बिभेदेति । पुनश्च प्रत्ययं जनयन्स्वबलविश्वासमुत्पादयन् । हेतौ शता । फलमपि हेतुः । तदैकेनैव महेषुणा सकृत्प्रयोगेणैव सप्तसालान्सप्तसालवृक्षांस्तत्समीपस्थं गिरिं पर्वतं रसातलं षष्ठमधोलोकं च बिभेद । अतलवितलसुतलतलातलमहातलरसातलपाताला इति सप्ताधो लोकाः । एकसालमात्रभेदने ऽस्य वालिसाम्यशङ्का जायेत तन्निवृत्त्यर्थमनुक्तानामपि शा(रसात)लगिरिप्रस्थादीनां भेदनमिति मन्तव्यम् ।। 1.1.66 ।।



तत इति । ततः सालभेदानन्तरं तेनातिदुष्करेण कर्मणा वालिवधे विश्वासं प्राप्तः प्रीतमनाः कपिराज्यलाभो ऽचिरादेवेति सन्तुष्टमनाः महाकपिः सुग्रीवः किष्किन्धाख्यां गुहां रामसहितो जगाम ।। 1.1.67 ।।



तत इति । हरिवरः कपिश्रेष्ठो ऽगर्जत्सिंहनादं कृतवान् । हरीश्वरो वाली ।। 1.1.68 ।।



अन्विति । तदाङ्गदमुखादवगतसुग्रीवराममित्रत्वेन संयुगनिर्गमनं वारयन्तीं तारां स्वस्त्रियं मया ऽकृतापकारो धर्मज्ञो रामो मह्यं नापकरिष्यतीत्यादिवचनैरनुमान्यानुमतिं प्रापय्य । कृतानुमतिकां कृत्वेति यावत् । सुग्रीवेण सह वाली युद्धाय समागतो ऽभवत् । तत्र संयुगे । एनं वालिनम् ।। 1.1.69 ।।



तत इति । सुग्रीववचनात् "वालिनं जहि काकुत्स्थ मया बद्धो ऽयमञ्जलिः" इत्येवंरूपात्सुग्रीववचनात् । आहवे रणे । प्रत्यपादयत्प्रतिष्ठापितवान् । सुग्रीववचनादित्यनेनानपकारिवालिवधस्यायुक्तत्वे ऽपि मित्रापकारित्वेन तदुक्त्या हननमिति ध्वनितम् ।। 1.1.70 ।।



स चेति । स सुग्रीवः । दिदृक्षुरन्वेषिषुः सर्वान्वानरान्समानीय सर्वा दिशः प्रस्थापयामास ।। 1.1.71 ।।



तत इति । गृध्रस्य सम्पातेर्वचनात् "तस्यां वसति वैदेही दीना कौशेयवासिनी" इत्येवंरूपात् । पुप्लुव उल्लङ्घितवान् । इतः सुन्दरकाण्डकथासङ्ग्रहः ।। 1.1.72 ।।



तत्रेति । अशोकवनिकां गताम् प्रमदवनस्थिताम् । ध्यायन्तीम् राममिति शेषः ।। 1.1.73 ।।



निवेदयित्वेति । अभिज्ञानमङ्गुलीयकरूपम् । प्रवृत्तिं रामसुग्रीवसख्यादिसर्ववृत्तान्तम् । समाश्वास्य राघवस्य सर्वो ऽपि व्यापारस्त्वत्प्रत्यापत्त्येकफलक इत्यादितत्त्वकथनेन वैदेहीं समाश्वास्य । "गृहीत्वा प्रत्यभिज्ञानम्" इति पाठे प्रत्यभिज्ञानं सीतालकस्थितचूडामणिरूपम् । तोरणमशोकवनिकागतप्रासादबहिर्द्वारसन्निवेशम् । चकारादशोकवनं च मर्दयामास ।। 1.1.74 ।।



पञ्चेति । सेनाग्रगाः सैन्यपतयः पिङ्गलनेत्रप्रभृतयः मन्त्रिसुता जम्बुमाल्यादयः । अक्षं रावणसुतं निष्पिप्य चूर्णीकृत्य ग्रहणमिन्द्रजित्प्रयुक्तब्रह्मास्त्रकृतबन्धनं समुपागमत्प्राप्तः ।। 1.1.75 ।।



अस्त्रेणेति । मदस्त्रस्यामोघत्वात्तेन बन्धनमात्रं चतुष्पञ्चघटिकानन्तरं पुनर्मोक्षश्चेति ब्रह्मदत्तवरात् । तावता कालेन ब्रह्मास्त्रमुक्तमात्मानं ज्ञात्वापि यदृच्छया कार्यान्तरप्रसङ्गेन रावणदर्शनापेक्षया । यन्त्रिणो बद्ध्वा नेतृ़ंस्तान्राक्षसान्प्रति वीरो हन्तुं समर्थो ऽपि मर्षयन्क्षमां कुर्वन् । रावणसमीपं प्राप्तवानिति शेषः । "ममर्ष" इति वा पाठः ।। 1.1.76 ।।



तत इति । ततो रावणदर्शनादिव्यापारानन्तरं सीतामृते सीतावस्थानप्रदेशं विना लङ्कां दग्ध्वा रामाय प्रियं सीतादर्शनरूपप्रियवार्तामाख्यातुं पुना रामान्तिकं महाकपिर्हनुमानायादागतः ।। 1.1.77 ।।



सो ऽभीति । प्रदक्षिणम् प्रदक्षिणादिमुख्यमुपचारम् । महात्मानम् परमात्मानम् । अमेयात्मा ऽपरिच्छेद्यबलबुद्धिधैर्यादिवैभवः । तत्त्वतः । सार्वविभक्तिकस्तसिः । दृष्टा सीतेति तत्त्वं न्यवेदयदित्यर्थः । अत्र दृष्टेति पदस्य प्रथमप्रयोगो रामस्य सीतेति श्रवणे तद्विषयक्रियापदसंशयो माभूदित्यर्थः ।। 1.1.78 ।।



तत इति । ततो युद्धकाण्डकथासङ्ग्रहः । क्षोभयामास । लङ्कागमनमार्गदानऔदासीन्यात्समुद्रमापातालमाकुलीचकारेत्यर्थः ।। 1.1.79 ।।



दर्शयामासेति । समुद्रः । शरक्षोभित इति शेषः । समुद्रवचनात् "एष सेतुं महोत्साहः करोतु मयि वानरः । तमहं धारयिष्यामि" इत्येवंरूपान्नलं सेतुमकारयत् । नलेन सेतुं कारितवानित्यर्थः ।। 1.1.80 ।।



तेनेति । तेन सेतुना । आहवे युद्धे । अत्र क्वचिन्मध्ये "अभ्यषिञ्चत्" इत्यादिश्लोकद्वयम् "अभ्यषिञ्चत्स लङ्कायां राक्षसेन्द्रं विभीषणम् । कर्मणा तेन महता देवा इन्द्रपुरोगमाः ।। सदेवर्षिगणास्तुष्टा राघवं ते ऽभ्यपूजयन् । तथा परमसन्तुष्टैः पूजितः सर्व दैवतैः ।।" लङ्कायां राज्ये राक्षसेन्द्रं तत्त्वव्यवहारविषयो भवति यथा तथाऽभ्यषिञ्चत्। तेन कर्मणा रावणहननादिरूपेण। सदेवर्षिगणा देवर्षिसहिता गणाः। अर्थादृषिगणास्तत्सहिता देवा इत्यर्थः। तदिदं श्लोकद्वयम्। "पूजितः सर्वदैवतैः। अभिषिच्य च" इत्यनेन पुनरुक्तमिति प्रक्षिप्तमेव बोध्यम्। सीतां प्राप्यानु पश्चात्परां व्रीडां रक्षोगृहे चिरोषितां पुनर्गृहीतवानिति लोकापवादशङ्कयातिशयितां लज्जामुपागमत् ।।

1.1.81 ।।

तामिति । जनसंसदि वानरराक्षससभायां परुषम् मर्मस्पृक् । "दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम्" इत्यादिवचनमुवाच । लोकस्य नास्यां रामस्य कामादिदोषतः पुनर्जिघृक्षास्तीति प्रत्यायनार्थम् । अमृष्यमाणा पातिव्रत्यसंशयजनितमुक्तवचनम् । सतीत्यनेन पातिव्रत्यबलान्निजेच्छयाग्निप्रादुर्भावनशक्तिमत्त्वद्योतनमिति केचित् । लक्ष्मणप्रादुर्भावितो ज्वलन इत्यन्ये ।। 1.1.82 ।।



तत इति । अग्निवचनात् "विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव" इत्येवंरूपात् । विगतकल्मषां निष्पापां स्वयं ज्ञात्वा लोकस्य च तथात्वं प्रत्याय्य । सीतामङ्गीचकारेति शेषः । क्वचित्तु "अग्रहीदमलां रामो वचनाच्च गुरोस्तदा" इति पठ्यते । तत्रामलामिति पुनरुक्तमापद्यते ।। 1.1.83 ।।



सदेवर्षीति । तेन कर्मणा सीताप्रत्यानयनान्तेन कर्मणा । ऋषिदेवगणसहितचराचरप्रजासहितं त्रैलोक्यं तुष्टम् तुतोष । तत्सन्तोषेण च प्रहृष्टसन्तोषवशादेव सर्वदैवतैः पूजितश्च रामो बभौ । अत्र केचिदचराणां वृक्षादीनां रावणकृतपीडापरिज्ञानाभावेन रावणवधजन्यसन्तोषभावादेवं व्याचक्षते "देवऋषिगणम्" इति पाठः । "ऋत्यकः" इति प्रकृतिभावः । तत्र देवगणा इन्द्रादयः, ऋषिगणा विश्वामित्रादयः । एतद्रूपं यत्रैलोक्यम् सचराचरम् । अत्र चरप्रजा गतिभक्षणमात्रप्रधानास्तिर्यक्स्रोतसः पशुपक्ष्यादय ऐरावतादयः । अचरप्रजाश्चरप्रजाभिन्नाज्ञानयुक्तप्रजा अवाक्स्रोतसो मनुष्याः । एवं च स्वस्वशेषतिर्यगवाक्स्रोतोयुतं देवर्षिगणरूपं त्रैलोक्यं तुष्टम् । रावणस्य मर्त्योपेक्षित्वात्प्राधान्येन देवर्षिग्रहणमित्याहुः ।। 1.1.84 ।।



अभिषिच्येति । राक्षिसेन्द्रम् भावितत्त्वव्यवहारविषयम् । कृतकृत्यः प्राक्प्रतिज्ञातविभीषणाभिषेकलक्षणकृत्यस्यापि कृतत्वात्कृतकृत्यः । अत एव विज्वरो विगतावश्यकर्तव्यविषयचिन्तातापः । प्रमुमोदेति च्छान्दसं परस्मैपदम् ।। 1.1.85 ।।



देवताभ्य इति । सुप्तोत्थितवदुत्तिष्ठन्तु वानरा इत्येवंरूपं वरं रावणवधजनितहर्षवशात्स्वदिदृक्षया समागताभ्यो देवताभ्यः प्राप्य सुहृद्भिः सुग्रीवविभीषणादिभिः संवृतः पुष्पकेणायोध्यामुद्दिश्य प्रस्थितो जगाम ।। 1.1.86 ।।



भरद्वाजेति । "चतुर्दशे तु सम्पूर्णे वर्षे ऽहनि रघूत्तम । न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम्" इति भरतेन प्रतिज्ञातत्वाद्भरद्वाजाश्रमे चतुर्दशसमासमाप्त्यनन्तरं मुनिवचनेनैकदिनविलम्बस्य प्राप्तत्वात्स्वागमनप्रबोधनाय हनुमद्विसर्जनम् । यद्वा महत्या वानरसेनया सहाकस्माद्गमने भरतादेः शङ्का मा भूदिति तद्विसर्जनम् ।। 1.1.87 ।।



पुनरिति । पुष्पकादवतीर्णत्वात्पुनस्तत्पुष्पकं समारुह्य । आख्यायिकाम् पूर्ववृत्तविषयां कथाम् । भरद्वाजाश्रमारोहात्पूर्वमिव जल्पन्कथयन् । सुग्रीवेति विभीषणादेरुपलक्षणम् ।। 1.1.88 ।।



नन्दिग्राम इति । नन्दिग्रामे भ्रातृभिः सह स्वस्यापि व्रतप्रयुक्तां जटां हित्वा त्यक्त्वा रामः सीतामनुप्राप्य मुनिवेषत्यागेन सीतानुरूपं रूपं प्राप्य । यद्वा मुनिवेषत्यागेन हृष्टां सीतां प्राप्य प्राप्तविसृष्टं राज्यं पुनरवाप्तवान् ।। 1.1.89 ।।



एतदन्तं चरितं वृत्तत्वेनोपदिश्य देवर्षिरतःपरमुत्तरकाण्डविषयं भविष्यत्वेनोपदिशति प्रहृष्टेति । अनेन च रावणवधानन्तरं रामे राज्यं प्रशासति सति वाल्मीकेर्नारदं प्रति प्रश्न इति ज्ञायते । प्रहृष्टः प्रातिस्विकपुत्रपश्वादिसम्पत्त्या मुदितः क्षोभराहित्येन मुदितान्तःकरणः । लोकः सर्वप्रजाः । तुष्टो बहुप्रदाद्भगवतः सांसारिकपारमार्थिकार्थलाभात्तुष्टः । अत एव पुष्टो दारिद्र्यकार्श्यरहितः । आमयो मनःपीडा । रोगो देहजो व्याधिः । दुर्भिक्षेण चोरादिभयेन च रहितः । भविष्यतीति शेषः । यद्वा रामविरहेण दुःखितो राममेलनेन तुष्टः । तथा तद्विरहेण कृशस्तन्मेलनादेव पुष्टः ।। 1.1.90 ।।



नेति । स्वपितृषु स्वेषु च जीवत्स्विति शेषः । अविधवाः । भर्त्रनुगमनाद्धवांशपुत्रसद्भावाद्वेति शेषः ।। 1.1.91 ।।



न चाग्निजमिति । पादत्रयेणाधिदैविकदुःखनिवृत्तिरुच्यते । चतुर्थेनाध्यात्मिकनिवृत्तिः ।। 1.1.92 ।।



भौतिकदुःखाभावमाह न चापीति । क्षुद्भयं क्षुदुपशमोपायाभावजं न च नैव भविष्यतीत्यनुषङ्गः ।। 1.1.93 ।।



नित्यमिति । कृतयुगे स्वाभाविकादधर्मसम्बन्धान्नित्यं प्रजामोदः, त्रेतायामधर्मस्य पादांशेन सम्बन्धे ऽपि रामपालनवैभवात्तदनाक्रमेण नित्यप्रमोदत्वम् । अथ रामस्य भाविवृत्तान्तरमाह अश्वेति । शतशब्दो ऽनन्तवाची । इष्ट्वा दत्त्वेत्यादिस्वरूपकथनम् । न तु तेषां रामस्य स्वलोकप्राप्तिं प्रति हेतुतेति बोध्यम् । यत्तु कतककृताश्वमेधाद्यनुष्ठानस्य मानुषोपाधिप्रयुक्तावर्ज्याघशमनद्वारा ब्रह्मलोकप्राप्तौ हेतुत्वमित्युक्तम्, तन्न । भगवदवताराणां पुण्यपापसम्बन्धस्य सर्वतन्त्रविरुद्धत्वात् । अश्वमेधाद्यनुष्ठानं तु लीलामात्रं लोकोपदेशायेत्यन्यत्र विस्तरः ।। 1.1.94,95 ।।



राजवंशानिति । कामरूपकान्यकुब्जादितत्तद्राज्यपदस्थान्राजवंशाञ्शतगुणाननेकगुणवृद्धिर्यथा भवति तथा स्थापयिष्यति । शाश्वततत्तद्राज्यप्रदानेनेति शेषः । चातुर्वर्ण्यम् चत्वारो वर्णाः । स्वार्थे ष्यञ् । नियोक्ष्यति । शङ्कितस्वधर्मभ्रंशमपीति शेषः ।। 1.1.96 ।।



अवतारत्यागकालमाह दशेति । उपासित्वा नित्यवदनुष्ठायेत्यर्थः । ब्रह्मलोकम् मायिकं वैकुण्ठादिलोकम् । अनेन निजनित्यकर्मयोगोपेतस्यैव साक्षात्परम्परया ब्रह्मलोकप्राप्तिरिति ध्वनिः ।। 1.1.97 ।।



अथ नारदः स्वोपदिष्टसङ्क्षेपरामायणपाठफलमुपदिशति इदमिति । पवित्रं चित्तशोधनम् । पुण्यम् सकलपुण्यसाधनम् । वेदैः सम्मितम् सकलरहस्यवेदार्थप्रतिपादकत्वाद्वेदतुल्यम् ।। 1.1.98 ।।



सर्वपापमोक्षद्वारा मोक्षफलकत्वमुपपादितम् । पुण्यस्यापि त्रिगुणात्मकत्वेन पापतुल्यतया हेयत्वादिति मुमुक्षुफलमुद्दिश्य मुमुक्षुणामपि प्रवृत्तय आह एतदिति । आयुष्यमायुष्करणम् । आख्यानमाक्यायिका । रामो ऽयनं प्रतिपाद्यो यस्य तद्रामायणम् । सञ्ज्ञात्वाण्णत्वम् । गणो दासीदासादयस्तैः सह । इहैहिकान्भोगान्भुक्त्वा प्रेत्य मृत्वा स्वर्गे महीयते स्वर्गिभिः सत्कृतो मोदत इत्यर्थः । पठन्निति हेतौ शता ।। 1.1.99 ।।



पठन्नति । द्विजो मुख्यद्विजो ब्राह्मणः पठन्वागृषभत्वं शब्दब्रह्मपारगत्वं प्राप्नुयात् । स्यादिति यद्यर्थे । यदि क्षत्रियस्तदा रामायणं पठन्भूषतित्वमाप्नुयात् । पण्यैः क्रयद्रव्यैः साध्यं मूलाद्द्विगुणत्रिगुणवृद्ध्यादिरूपं फलं यस्य तत्त्वं प्राप्नुयात् । धनसमृद्धिं प्राप्नुयादिति फलितो ऽर्थः । शूद्रो ऽपि जनस्त्रैवर्णिकदासः । अत्र शृण्वन्नित्यध्याहारः । महत्त्वं द्विजेतरसर्वप्रजाभ्यः श्रैष्ठ्यं महत्त्वं देहान्ते स्वोपरितनवर्णप्राप्तिलक्षणं च महत्त्वं प्राप्नुयात् । अस्य गायत्र्यर्थप्रतिपादकत्वध्वननाय गायत्र्यादिमाक्षरेणोपक्रम्य यादिति गायत्र्यन्तिमाक्षरेण समापितवान् ।। 1.1.100 ।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे प्रथमः सर्गः ।। 1 ।।



Sanskrit Commentary by Sivasahaya
।। श्री: ।।।। रामायणशिरोमणिटीका ।।।। बालकाण्डः ।।।। 13 सर्गाः ।।

।। श्रीगणेशाय नमः ।।।। श्रीसीतारामचन्द्राभ्यां नम: ।। ।। श्रीहनुमते नम: ।।

स्वस्तिश्रीमन्तं करुणावन्तं श्रीहनुमन्तं नौमि कले

नित्यं विहरन्तं हरिजनवन्तं क्षमावहन्तं कीशबले ।

सीतापतिपतिकं पररसरसिकं श्रितजनमतिकं दीनपतिं

रघुनायकहृदयं हृद्रिपुविजयं शरणदमभयं सर्वनतिम् ।। 1 ।।



वन्दे श्रीसहितं गुरुमतिमहितं श्रुतिरसदयितं परममहं

सीतारघुवीरं सुखमतिधीरं सुखदगभीरं विदितमहम् ।

विधिहरिहरवन्द्यं श्रितजननन्द्यं प्रीतिमदाद्यं श्रुतिगम्यं

साकेतपुरेशं द्विभुजपरेशं सर्वसुरेशं द्युतिरम्यम् ।। 2 ।।



निश्शेषश्रुतिसारभूतममलं सन्तापसन्नाशकं

सीतारामपदारविन्दरसिकै: संसेव्यमानं सदा ।

वाल्मीकेर्मुखनिस्सृतं सुरनुतं रामायणं श्रीकरं

ब्रह्माद्यैर्विबुधैर्नितान्तरणितं दद्यात्स्वमर्थं हि न: ।। 3 ।।



आसीद्भूसुरवंशविश्रुतयशा: श्रीतोडिरामस्तत:

सीताराम इति श्रुतो ऽजनि ततो ऽभूच्छ्रीलवंशीधर: ।

लब्ध्वा सम्मतिमस्य रामचरणौ ध्यायंस्त्रिवेण्यास्तटे

श्रीवाल्मीकिमुने: कृतौ कृतमना ह्यासं विचारावधौ ।। 4 ।।



सीतारामसमारम्भां शुकाचार्यादिमध्यगाम् ।

अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ।। 5 ।।



वंशीधरबुधै: सार्धं सहाय: शिवपूर्वक: ।

करोमि रामरामाय रामायणशिरोमणिम् ।। 6 ।।

।। अथ लवकुशयोर्मङ्गलानि लिख्यन्ते ।।

श्रीराघवं दशरथात्मजमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपम् ।

आजानुबाहुमरविन्ददलायताक्षं रामं निशाचरविनाशकरं नमामि ।। 1 ।।



कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ।। 2 ।।



वाल्मीकेर्मुनिसिंहस्य कवितावनचारिण: ।

शृण्वन् रामकथानादं को न याति परां गतिम् ।। 3 ।।



य: पिबन्सततं रामचरितामृतसागरम् ।

अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ।। 4 ।।



गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ।

रामायणमहामालारत्नं वन्दे ऽनिलात्मजम् ।। 5 ।।



अञ्जनानन्दनं वीरं जानकीशोकनाशनम् ।

कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ।। 6 ।।



आमिषीकृतमार्तण्डं गोष्पदीकृतवारिधिम् ।

तृणीकृतदशग्रीवमाञ्जनेयं नमाम्यहम् ।। 7 ।।



आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् ।

पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ।। 8 ।।



यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् ।

बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ।। 9 ।।



उल्लङ्घ्य सिन्धो: सलिलं सलीलं य: शोकवह्निं जनकात्मजाया: ।

आदाय तेनैव दहाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ।। 10 ।।



मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं मनसा स्मरामि ।। 11 ।।



रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीताया: पतये नम: ।। 12 ।।



वेदवेद्ये परे पुंसि जाते दशरथात्मजे ।

वेद: प्राचेतसादासीत्साक्षाद्रामायणात्मना ।। 13 ।।



शृण्वन्रामायणं भक्त्या य: पादं पदमेव वा ।

स याति ब्रह्मण: स्थानं ब्रह्मणा पूजित: सदा ।। 14 ।।



य: कर्णाञ्जलिसम्पुटैरहरह: सम्यक् पिबत्यादरा

द्वाल्मीकेर्वदनारविन्दगलितं रामायणाख्यं मधु ।

जन्मव्याधिजराविपत्तिमरणैरत्यन्तसोपद्रवं

संसारं स विहाय गच्छति पुमान्विष्णो: पदं शाश्वतम् ।। 15 ।।



वाल्मीकिगिरिसम्भूता रामसागरगामिनी ।

पुनाति भुवनं पुण्या रामायणमहानदी ।। 16 ।।



श्लोकसारसमाकीर्णं सर्गकल्लोलसङ्कुलम् ।

काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ।। 17 ।।



रामं रामानुजं सीतां भरतं भरतानुजम् ।

सुग्रीवं वायुसूनुं च प्रणमामि पुन: पुन: ।। 18 ।।



जितं भगवता तेन हरिणा लोकधारिणा ।

अजेन विश्वरूपेण निर्गुणेन गुणात्मना ।। 19 ।।



इति लवकुशयोर्मङ्गलस्तवं पठित्वा रामायणं पठेत् ।

"इन्द्रियेभ्य: परा ह्यर्था अर्थेभ्यश्च परं मन: । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्पर: ।। महत: परमव्यक्तमव्यक्तात्पुरुष: पर: । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गति: ।।" इत्यादिश्रुतिषु पुरुषस्यैव परत्वप्रतिपादनात् 'धर्मात्मा सत्यन्धश्च रामो दाशरथिर्यदि। पौरुषे चाप्रतिद्वन्द्व: शरैनं जहि रावणिम्' इत्यादिवाल्मीकीयवचनात्पुरुषत्वस्य रघुनाथमात्रपर्यवसन्नत्वात् श्रुतौ चाव्यक्तशब्देन 'अव्यक्तं

शङ्करे विष्णावव्यक्तं महदादिषु । आत्मन्यपि स्यादव्यक्तमस्फुटे त्वभिधेयवत् ।।' इति विश्वकोशाभिधानेन विष्ण्वादीनां ग्रहणात्साकारनिराकारब्रह्माङ्गित्वं रघुनाथस्य बोधितम्। अत एव लक्ष्मणांशभूतसङ्कर्षणान्त:स्थितश्रीरामस्य 'शब्दब्रह्म परब्रह्म ममोभे शाश्वती तनू' इत्याद्युक्ति: सङ्गच्छते। अत एव 'एते चांशकला: पुंस: कृष्णस्तु भगवान्स्वयम्' अस्य पुंसो रघुनाथस्यैतेंऽशकला: विष्णुर्नित्यं वृन्दावनविहारी स्वयं रघुनाथ एवेत्यर्थकस्य सङ्गति:। तुशब्द एवार्थे। अयं भाव:। निखिलेश्वरापेक्षया नन्दनन्दनो रामान्तरङ्ग इति। अत एव "देवानां पूरयोध्या तस्यां हिरण्मय: कोश:" इत्यादिश्रुतिभिस्तद्धाम्नोऽपि सर्वपरत्वं व्याख्यातम्। अत एव 'उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत:' इति गीतावाक्ये अहमित्यपहाय अन्य इति वासुदेवोक्ति: सङ्गच्छते। 'अतोऽस्मि लोके वेदे च प्रथित: पुरुषोत्तम:' इत्युक्तिस्तु नन्दनन्दनेनाभेदमारोप्येति। किञ्च रामवाचकपुरुषोत्तमशब्द: निखिलेश्वरनियन्तृपर:। अयं पुरुषोत्तमशब्दस्तु निखिलभूतजीवनियन्तृपर इति न विरोध:। रामादन्यत्रोपलब्धपुरुषोत्तमशब्दार्थस्तु पुरुष: परमपुरुषो राम एव उत्तमो यस्मादिति। अत एव 'वाल्मीकिना च यत्प्रोक्तं रामोपाख्यानमुत्तमम्। ब्रह्मणा चोदितं तच्च शतकोटिप्रविस्तरम् ।।

व्याहृतं नारदेनैव वाल्मीकाय निवेदितम् ।' इत्यादिवचनैर्ब्रह्मणो रामोपासकत्वं बोधितम् । अत एव शङ्कराचार्यरामानुजाचार्यमध्वाचार्यांशित्वेन तत्तदभिमतै: शिवलक्ष्मणवायुभी रघुनाथ एवाश्रित: । अत एव "यदद्वैतं ब्रह्म यस्य तनुभा" इत्यादिश्रुति: 'सर्वेषामवताराणामवतारी रघूत्तम: । रामपादनखज्योत्स्ना परब्रह्मेति गीयते ।।' इत्याद्यगस्त्यसंहितावचनं च सङ्गच्छते। अत एव F'तस्मिन्साकेतलोके विधिहरहरिभि: सन्ततं सेव्यमाने दिव्ये सिंहासने स्वे जनकतनयया राघव: शोभमान:। युक्तो मत्स्यैरनेकै: करिभिरपि तथा नारसिंहैरनन्तै: कूर्मै: श्रीनन्दनन्दैर्हयगलहरिभिर्नित्यमाज्ञोन्मुखैश्च ।।

यज्ञ: केशववामनौ नरवरो नारायणो धर्मज: श्रीकृष्णो हलधृक् तथा मधुरिपु: श्रीवासुदेवो ऽपर: । एते नैकविधा महेन्द्रविधयो दुर्गादय: कोटिश: श्रीरामस्य पुरो निदेशसुमुखा नित्यास्तदीये पदे' इत्यादीनि बृहद्ब्रह्मसंहितावचनानि सङ्गच्छन्ते । अत्र नन्दनन्दनशब्द: नन्दं नन्दयति विविधोक्त्या शोकत्याजनाद्वर्धयतीति मथुरानिवासिपर: । श्रीकृष्णशब्दो द्वारकानिवासिपर इति न विरोध: । अत एव 'नारायणादिरूपाणि साकारैश्वर्यमुत्तमम् । नित्यं ब्रह्म निराकारैश्वर्यं नित्यं विभाति च ।।' इति सुन्दरीतन्त्रवचनम्। 'नारायणोऽपि रामांश: शङ्खचक्रगदाधर:।' इति वाराहसंहितावचनं च। 'आनन्दो द्विविध: प्रोक्तो मूर्तश्चामूर्त एव च। अमूर्तस्याश्रयो मूर्त: परमात्मा नराकृति: ।।

' इति पञ्चरात्रवचनं च । 'ययौ तथा महाशम्भू रामलोकमगोचरम् । तत्र गत्वा महाशम्भू राघवं नित्यविग्रहम् ।। ददर्श परमात्मानं समासीनं मया सह । सर्वशक्तिकलानाथं द्विभुजं रघुनन्दनम् ।। द्विभुजाद्राघवान्नित्यात्सर्वमेतत्प्रवर्तते ।' इति सुन्दरीतन्त्रवचनं च । 'स्थूलं चाष्टभुजं प्रोक्तं सूक्ष्मं चैव चतुर्भुजम् । परं च द्विभुजं रूपं तस्मादेतत्त्रयं यजेत् ।' इत्यानन्दसंहितावचनं च । 'यो वै वसति गोलोके द्विभुजस्तु धनुर्धर: । सदानन्दमयो रामो येन विश्वमिदं ततम् ।।' इति सदाशिवसंहितावचनं च। 'रमन्ते योगिनो यस्मिन्नित्यानन्दे चिदात्मनि। इति रामपदेनासौ परब्रह्माभिधीयते ।।

' इति रामोपनिषद्वचनं च । 'राम एव परं ब्रह्म राम एव परं तप: । राम एव परं तत्त्वं श्रीरामो ब्रह्म तारकम् ।।' इति हनुमदुपनिषद्वचनं च। 'आनन्दरूपो निष्परिणाम एष लोकश्चैतस्माद्रमते' इति शाण्डिल्यशाखावचनं च। 'ब्रह्मविष्णुमहेशाद्या यस्यांशा लोकसाधका:। तं रामं सच्चिदानन्दं नित्यं रासेश्वरं भजे ।।

' इति हनुमत्संहितावचनं च सङ्गच्छते । तद्धामपरत्वप्रतिपादिका श्रुति:

'अष्टाचका नवद्वारा देवानां पूरयोध्या तस्यां हिरण्मय: कोश:स्वर्गो लोको ज्योतिषावृत: यो वैतां ब्रह्मणो वेद अमृतेनावृतां पुरीं तस्मै ब्रह्म च ब्रह्मा च आयु: कीर्तिं प्रजां ददु:' इति

तैत्तिरीयशाखान्तर्गतारणमध्ये । 'अथ यदरण्यायनमित्याचक्षते । ब्रह्मचर्यमेव तत् अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरम्मदीयं सर: तदश्वत्थ: सोमसवन: तदपराजिता पूर्ब्रह्मण: प्रभुमितं हिरण्मयं तद्य एवैतावरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोक: । तेषां सर्वेषु लोकेषु कामचारो भवति' इति च । अत एव प्रभो: प्रभुरित्यादि सङ्गच्छते । अथ यदरण्यायनमितिश्रुतेरर्थस्तु

अथ यत् अरण्यायनमरण्यप्रापकं तदेव ब्रह्मचर्यमित्याचक्षते वेदा इति । शेष: । तेन ब्रह्मचर्येण ये जना ब्रह्मलोके विद्यमानौ अरं च ण्यं चार्णवौ अनुविन्दन्ति मनसा प्राप्नुवन्ति तेषामेवैष: श्रुतिप्रसिद्धो ब्रह्मलोको भवति तेषामेव सर्वेषु लोकेषु कामचारो भवति हिरण्यगर्भलोकं व्यावर्तयितुं श्रुतिरेव निर्वक्ति इतो भूलोकावहारात् तृतीयस्यां दिवि प्रकृतिमण्डलाद्बहिर्भाग इत्यर्थ: । ब्रह्मलोके ब्रह्मप्रकाशितभुवने अरश्च अरनामका ण्यो ण्यनामकश्च ह वै प्रसिद्धौ अर्णवौ समुद्रौ तत् तत्रैव ऐरम् इरा प्राकृतविलक्षणमन्नं तन्मय ऐरो मण्ड: तेन पूर्णमैरं मदीयं प्रमोदप्रापकं सरो ऽस्तीति शेष: । तत् तत्रैव सोमसवनो ऽमृतस्रावी अश्वत्थश्चलदल: तत् तत्रैव ब्रह्मण: सत्यज्ञानानन्तप्रकाशकरामस्य अपराजिता अयोध्यापरपर्याया ऽपराजिताशब्दवाच्या पू: । तत् तस्यां पुर्यां प्रभुमितं प्रभुभ्यां तत्स्वामिसीतारामाभ्यामेव मितं नि:शेषतो ज्ञातं हिरण्मयं मण्डपमस्तीति शेष: । प्रभुभ्यामित्यत्र "पुमान् स्त्रिया" इत्येकशेष: । अयोध्याकाण्डे चतुश्चत्वारिंशसर्गे सूर्यस्यापीत्यस्यायमर्थ: । सूर्यस्य सर्वावभासकादित्यस्यापि सूर्यो ऽवभासक इत्यर्थ: ।

ननु 'तमेव भान्तमनुभाति सर्वम्' इत्यादिश्रुत्या सूर्यावभासकत्वं ब्रह्मण: प्रसिद्धमिति । ब्रह्म किमित्यत आह अग्ने: सर्वाग्र्यस्य प्रकाशब्रह्मणो ऽप्यग्नि: प्रकाशक इत्यर्थ: । अत एव प्रभो: सर्वनियन्तुर्ब्रह्मादित्रयस्यापि प्रभुर्नियन्ता । अग्निशब्दस्य ब्रह्मपरत्वमग्र्यत्वादग्निनामासावित्यादिना मध्वाचार्यैर्व्याख्यातम् । अभिमतश्चायं सिद्धान्तो गोविन्दाचार्याणामपि । अत एव प्रभो: सर्वनियन्तुरपि नियन्तेति तैर्व्याख्यातम् । सर्वनियन्तृत्वं च विष्ण्वादीनामेवेति भाव: । किञ्च सूर्यस्य प्रकाशकारणस्यापि सूर्य: कारणमित्यर्थ: । ननु सूर्यकारणत्वेन वह्नि: प्रसिद्ध इति किं स इत्यत आह अग्नेरप्यग्नि: कारणमित्यर्थ: । ननु सर्वकारणत्वेन ब्रह्मण: प्रसिद्धत्वादिति किं तदित्यत आह प्रभो: सकलनियन्तुरपि च प्रभुर्नियन्तेत्यर्थ: । अत एव सर्वपरमकारणत्वं तस्यैवेत्याह श्रिय: श्रीरित्यादिभि: । सूर्यस्य सर्वजगदवभासकस्यापि सूर्य: अग्ने: सर्वदाहकस्याप्यग्निर्दाहक इति भूषणोक्तार्थस्तु न युक्त: । दाहकत्वेन प्रकाशकत्वेन च द्वयो: प्रसिद्ध्या अन्यतरोपादानस्य निरर्थकत्वापत्ति: । नापि सूर्यस्यापि प्रकाशको दाहकश्च अग्नेरपि प्रकाशको दाहकश्चेत्यर्थो युज्यते पतत्प्रकर्षदोषवत्तापत्तेरिति दिक् । न च 'रामपादनखज्योत्स्ना परब्रह्मेति गीयते ।' इदमप्रमाणम्, विरुद्धार्थप्रतिपादकत्वात् । घट: पट इतिवत् । एतत्प्रतिपाद्यार्थस्य विरुद्धत्वं तु

"सदेव सौम्येदमग्र आसीत् एकमेवाद्वितीयम् । य: पृथिव्यां तिष्ठन् यं पृथिवी न वेद यस्य पृथिवी शरीरं य: प्रधानमन्तरे सञ्चरन् यं प्रधानं न वेद यस्य प्रधानं शरीरं यो विज्ञानमन्तरे सञ्चरन् यं विज्ञानं न वेद यस्य विज्ञानं शरीरं सत्यं ज्ञानमनन्तं ब्रह्म । आनन्दं ब्रह्मेति व्यजानात् । तदेजति तन्नैजति तद्दूरे तदु अन्तिके" इत्यादिश्रुतिभि: सर्वकारणीभूतस्वगतसजातीयविजातीयभेदशून्यसर्वान्तर्यामिदेशकालवस्तुपरिच्छेदशून्यसर्वशक्ति नित्यशुद्धबुद्धस्वयम्प्रकाशस्य ब्रह्मणो देशकालवस्तुपरिच्छिन्नरामनखज्योत्स्नात्वेन प्रतिपादनात् । तथा च यत्समानाधिकरणात्यन्ताभावप्रतियोगिता ऽनवच्छेदकं यत्साध्यतावच्छेदकं तदवच्छिन्नसामानाधिकरण्यमिति व्याप्तिस्वरूपात्,

विरुद्धार्थप्रतिपादकत्वाधिकरणीभूतेदन्त्वाश्रयवृत्तिघटाद्यभावीयप्रतियोगिता ऽनवच्छेदकीभूतप्रमाण प्रतियोगिकभेदत्वावच्छिन्नसामानाधिकरण्यं विरुद्धार्थप्रतिपादकत्वस्यास्तीति द्वितीयप्रमाणेन एतदर्थस्याप्रमाण्यग्रस्तत्वाद्रामस्य ब्रह्मप्रकाशित्वमसिद्धमिति वाच्यम् । अद्वैतसिद्धान्ते "भारूप: सत्यसङ्कल्प:" इत्यादि श्रुतिभिर्ब्रह्मण: प्रकाशस्वरूपत्वेन प्रतीयमानत्वात् "तस्य भासा सर्वमिदं विभाति" इत्यादिश्रुतिभिश्च रामस्य प्रकाशाश्रयत्वश्रुत्या एतदर्थस्य विरुद्धत्वाभावेन स्वरूपासिद्ध्या, इदं प्रमाणप्रतियोगिकभेदानुयोगित्वाभाववत् प्रमाणप्रतियोगिकभेदानुयोगित्वाभावव्याप्याप्तोच्चारितत्वादिति सत्प्रतिपक्षितत्वेन च "तस्य भासासर्वमिदं विभाति" इति परमप्रमाणभूतश्रुत्यनुगामित्वेन प्रामाण्यनिश्चयाद्बाधितत्वेन च एतद्द्वितीयस्य प्रमाणाभासत्वात् । तद्वत्ताबुद्धिं प्रति तदभाववत्ताबुद्धेरिव तदभावव्याप्यवत्ताबुद्धेश्च प्रतिबन्धकत्वात् । यद्यपि स्वरूपासिद्धेर्न साक्षादनुमितिप्रतिबन्धकत्वं तथापि धूमाभाववद्ध्रदत्वावच्छिन्नानाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयविषयताया: यथा वह्निव्याप्यधूमवान् ह्रद इति परामर्शनिरसनद्वारा वह्निमान् ह्रद इत्यनुमितिप्रतिबन्धकत्वं तथा । विरुद्धार्थप्रतिपादकत्वाभाववदिदन्त्वावच्छिन्नानाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयविषयिताया: प्रमाणप्रतियोगिकभेदविशिष्टत्वव्याप्यविरुद्धार्थप्रतिपादकत्ववदिदमिति परामर्शनिरसनद्वारा इदमप्रमाणमित्यनुमितिप्रतिबन्धकत्वम् । एवमन्यत्रापि यथासम्भवमूह्यम् । तथा इदं वाक्यं प्रमाणं श्रुतिसिद्धार्थबोधकत्वात्, 'न जायते म्रियते वा कदाचित्' इत्यादिवत् । इदं क्वचिदाश्रितं प्रकाशत्वात्सूर्यप्रकाशवदित्याद्यनुमानान्तराणामपि सानुकूलत्वात् । न च रामस्य ब्रह्मप्रकाशकत्वे ब्रह्मणो देशकालवस्तुपरिच्छेदशून्यत्वाभावापत्ति: । तथाहि प्रकाशस्य प्रकाश्यतिरिक्तत्वेन वस्तुदेशपरिच्छेद: । अत एव मध्यमपरिमाणत्वापत्त्या च कालपरिच्छेद: परिच्छेदपरिच्छेदशून्यत्वयोरेकत्रासम्भव: । प्रकाशस्य प्रकाश्यायत्ततया स्वातन्त्र्यानुपपत्तिश्चेति वाच्यम् । प्रकाशप्रकाशिनोस्तादात्म्यस्वीकारेणादोषात् । न च ब्रह्मातिरिक्तवस्तुस्वीकारे "एकमेवाद्वितीयम्" इत्यादिश्रुतिभिर्ब्रह्मणि प्रतीयमानस्य स्वगतसजातीयविजातीयभेदशून्यत्वस्य हान्यापत्तिरिति वाच्यम् । इष्टापत्ते: । श्रुते: स्वगतसजातीयविजातीयभेदशून्यार्थबोधकत्वाभावात् । सार्वकालिकद्वित्वसङ्ख्यापूरकप्रतियोगिकभेदसमानाधिकरणप्राधान्यविशिष्टं सदित्यर्थस्य स्वारसिकत्वात् । सजातीयत्वं च प्रधानत्वेन रूपेण । अत एवाक्ष्यादिप्रतिपादनं सङ्गच्छते । स्वगतभेदशून्यत्वप्रतिपादने तु विरुध्येत प्रधानान्तरस्य प्रकाशिन: सत्त्वादयमर्थो विरुद्ध इति तु न भ्रमितव्यम् । दत्तोत्तरत्वात् । अनुभूतं च तयोस्तादात्म्यं सविता प्रकाशते सवित्रा दग्ध इत्यादौ । अत एव विधिनिषेधकबोधकवाक्यानां न वैयर्थ्यम् । "अपाणिपादो जवनो ग्रहीता" इत्यादिना पाण्यादिनिषेधस्तु प्राकृतपाण्यादीनामिति न विरोध: । पारमार्थिकपाणिपादनिषेध इत्यर्थस्तु न युक्त: जवन इत्यादिना विरोधापत्ते: । अत एव "सत्यं भिदा सत्यं भिदा नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां विदधाति कामान् । भोक्ता भोग्यं प्रेरितारं च मत्वा" "नत्वेवाहं जातु नासं" "भेदव्यपदेशाच्च" इत्यादीनि श्रुतिस्मृतिसूत्राणि सङ्गच्छन्ते । न च गुणक्रियाश्रयस्य द्रव्यत्वनियमात्प्रकाशिनो द्रव्यत्वापत्तिरिति वाच्यम् । इष्टापत्ते: । स्वीकृतं च नैयायिकै: परमात्मनो द्रव्यत्वम् । न चेदमनित्यं संयोगाश्रयत्वात् घटवदित्यनुमानेनानित्यत्वापत्तिरिति वाच्यम्, संयोगाश्रयत्वस्यानित्यत्वाभाववति कालादौ वृत्तित्वेन व्यभिचरितत्वात् । "नित्यो नित्यानाम्" इत्यादिश्रुतिप्रामाण्येनेदन्त्वाश्रयस्यानित्यत्वाभावविशिष्टत्वेन बाधाच्च । एवं च हेतोस्तत्रावृत्तित्वेन स्वरूपासिद्धेश्च । इदं नित्यं नित्यगुणाश्रयत्वात् कालादिवदित्यनुमानेन सत्प्रतिपक्षितत्वाच्च । वक्तव्या

चैषैव युक्ति: प्रकाशस्य गुणाद्यन्यतमत्वस्वीकारे अनित्यवादनिरासाय दर्शनान्तरीयैरपि । न च प्रकाशस्याधेयत्वापत्त्या "अनाश्रयम्" इत्यादिश्रुतिविरोध: । तासां प्रकाशिपरत्वेनाविरोधात् । अत एव 'स्वमहिम्नि प्रतिष्ठितम्' इत्यादिना न विरोध: । प्रकरणविरोध इति न भ्रमितव्यम् । तयोस्तादात्म्यात् । स्वीकृतं च वार्तिककारानुयायिभि: "आत्मैवेदं सर्वम्" इत्यादिश्रुतिव्याख्यावसरे तादात्म्यमिति दिक् ।

एतदनुरोधेन 'विष्णुना सदृशो वीर्ये' इत्यस्य विष्णुर्न आसमन्ताद्भावेन सदृशो यस्येत्यादिरर्थ: । 'विष्णोरर्धं महाभागम्' इत्यस्य विष्णो: अर्धं वर्धकमित्यर्थ: । उत्तरकाण्डघटकीभूते 'पितुस्तु मम जामाता विष्णु: किल सुरेश्वर: । अभिप्रेतस्त्रिलोकेशजतस्मान्नान्यस्य मे पिता ।।' इत्येतत्पद्ये विष्णुशब्दो व्यापकव्यापकपर:। सुरेश्वरशब्दो दानीश्वरपर:। अत एव त्रिलोकेश इत्यनेन न गतार्थता। तत्प्रकरणान्तर्गते 'ततो मनोरथं सत्यं पितुर्नारायणं प्रति' इत्यत्र नारायणशब्दार्थस्तु नारेण नीत्यैव अयते इति नारायणो मर्यादापुरुषोत्तम इत्यर्थ:। एवं गूढार्थमजानतो नारायणादिवाच्या बहव: सन्ति तत्र क ईप्सित इति शङ्कां निरसन्त्याह 'नारायणो मम पतिर्न त्वन्य: पुरुषोत्तमात्' एतदर्थस्तु पुरुषोत्तमादन्य: पुरुषोत्तमप्रतियोगिकभेदानुयोगी नारायणो मम पतिर्न पुरुषोत्तम एवेत्यर्थ इति। प्रकरणस्याभिधानियामकत्वादत्र पुरुषोत्तमशब्द: "पुरुषान्न परं किञ्चित्सा काष्ठा सा परागति:" इति श्रुतिघटकपुरुषार्थक:। अतो नारायणस्यार्थान्तरप्रतिपादकपुरुषोत्तमशब्दप्रतिपाद्यत्वेऽपि न क्षति:। एतदर्थविवक्षयैव 'नारायणो मम पतिर्नान्य: कश्चिन्मतो मम' इति न त्वन्य: सम्मतो ममेति वा नोक्तम्। एवं चात्रादेयकोटिप्रविष्टनारायणशब्दो मर्यादापुरुषोत्तमपर एव। 'तस्मात्त्वयोनिजा साध्वी भवेयं धर्मिण: सुता' इति वेदवतीवचनार्थस्तु तस्मात् सम्भावितकृतत्वादिमतीत्वाद्धेतोरयोनिजा योनिसम्बन्धाभावेन प्रादुर्भूता साध्वी पतिव्रताशिरोमणि: धर्मिणो जनकस्य सुता अहं भवेयम् प्राप्नुयाम्। प्राप्त्यर्थकोऽत्र भवति:। 'पश्य मृगो धावति। पश्य लक्ष्मण पम्पायां बक: परमधार्मिक:। जानामि सीता धरणीप्रसूता जानामि रामो मधुसूदनश्च। जानामि मृत्युं मम तस्य हस्तात्तथापि सीतां न समर्पयामि ।।

' इत्यादाविव वाक्यार्थस्य क्रियायामन्वयात्तस्यैव कर्मत्वेन तद्वाचकस्य प्रातिपदिकत्वाभावेन न ततो द्वितीयोत्पति: 'सैषा जनकराजस्य प्रसूता तनया प्रभो । तव भार्या महाबाहो विष्णुस्त्वं हि सनातन: ।' एतदर्थस्तु हे प्रभो हे महाबाहो सा सीता परमप्रेमास्पदीभूतवेदवतीप्राप्तीच्छाविषयीभूता जनकराजस्य तनया नित्यपुत्री अत एव प्रसूता तत्रैव प्रादुर्भूता एषा तव भार्या जानकी त्वं तु सनातन: सनति सर्वं रचयतीति सनम् "यतो वा इमानि भूतानि जायन्ते" इत्यादिश्रुतिप्रतिपादितं प्रकाशब्रह्म तदुपलक्षितब्रह्मादीन् आतनोति तत्तत्कार्यनियामकत्वेन विस्तारयति । किं च सनं तदेव अ: विष्णुश्च आ: ब्रह्मा च आ: शिवश्च ते सना: तान् तनोति स: 'अकारो वासुदेव: स्यादाकारस्तु पितामह:' इत्येकाक्षर: । आ: स्वयम्भूरिभो वाजी खेद: शङ्करवासवौ ।।' इति मात्रिकाकोश:। स विष्णु: हिस्त्वर्थ:। पूर्वं क्रोधहत: शत्रुर्ययासौ निहतस्तया। उपाश्रयित्वा शैलाभस्तव वीर्यममानुषम् ।।

' अस्यार्थ: यया वेदवत्या शैलाभ: शत्रुरसौ रावण: पूर्वं क्रोधहत: क्रोधेन हतो निहतप्राय: तया वेदवत्या उपाश्रयित्वा जानकीमाश्रित्य निहत: अतस्तव वीर्यममानुषं प्राकृतमानुषवीर्याद्विलक्षणम् । प्रतापिसखस्य रावणभवनसमये पुनरेषा प्रादुर्भवितेति बोधयन्नाह 'एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुन: । क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा ।।' वेदवत्या उत्पत्तिप्रकारं बोधयन्नाह एवमिति। या एषा वेदवती पूर्वं कृतयुगे आसीत् सा त्रेतायुगमनुप्राप्य रक्षसस्तस्य रावणस्य वधार्थं स्वस्वामिन्यै सीतायै वधयोग्यतां निवेदयितुमित्यर्थ:। महात्मनो जनकस्य मैथिलकुले उत्पन्नेति दिक्। वेदवतीप्रकरणस्थपद्यानामीदृशार्थ: तुष्यतु दुर्जनन्यायेनोक्त:। वस्तुतस्तु लक्ष्मीरेव वेदवती कुशध्वजगृहे

प्रादुर्भूता नारायणरूपभरतेनोद्वाहिता तदनुमत्यैव मन्थरया राम: प्रव्राजित इत्युत्तरकाण्डे वक्ष्यते 'विक्रमस्ते यथा विष्णो रूपे चैवाश्विनोरिव । बुद्ध्या बृहस्पतेस्तुल्य: प्रजापतिसमो ह्यसि ।। क्षमा ते पृथिवीतुल्या तेजसा भास्करोपम: । वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव ।। अप्रकम्प्यो यथा स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् ।' इत्युत्तरकाण्डीयसप्तत्रिंशसर्गश्लोकेष्वप्युपमानोपमेयभाव इषुवत्सविता गच्छतीतिवद्बोध्य: । किं च प्रजापतीनां बह्मादीनां सम: सृष्ट्यादिष्वेकाकारवर्तनं यस्मात्स: अत एव बृहस्पतेरपि बुद्ध्या तुल्य: तोलयितुमैश्वर्यादिना इयत्तां कर्तुं शक्यो यस्त्वन्नासि एतन्नञर्थस्तु बुद्ध्या अ इति छित्त्वा लब्ध: । तस्य तव विक्रम इव विष्णोर्विक्रम: कविभिर्वर्ण्यत इति शेष: । ते रूपमिवाश्विनो रूपे । ते क्षमा पृथिवीक्षमा तुल्या यस्या: । स त्वं तेजसा भास्करोपम: भास्कर उपमोपमेयो यस्य । ते वेग: वायुना तुल्य: वायुर्न आसमन्तातुल्यो यस्य । ते गाम्भीर्यमिव उदधेर्गाम्भीर्यम् । त्वमिव स्थाणु: शिव: अप्रकम्प्य: । ईदृशं भवत्सौम्यत्वसदृशं सौम्यत्वं चन्द्रे अस्तीत्यर्थ: । अत एव 'चन्द्रे सौम्यत्वमीदृशम्' इत्यस्य न वैरूप्यम् । 'उत्तस्थौ नागशयनात् हरिर्नारायणो यथा ।' इत्येतदर्थस्तु नागशयनात् न आग: आगमनमुत्पत्तिर्यस्य नित्यसिद्धमित्यर्थ: । तदेव शयनमिति कर्मधारय: । तस्मात् नारायण: नारेण नीत्यैव अयनं गतिर्यस्य मर्यादापुरुषोत्तम इत्यर्थ: । हरि: आश्रितानां नि:शेषसन्तापस्य निवर्तको राम: यथा यथावदुत्तस्थौ । एतेन सूतसम्माननं सूचितम् । अत एव नान्यतरवैयर्थ्यम् । उत्तरकाण्डे पञ्चाशत्तमे सर्गे ऽयं श्लोक: 'भविष्यति दृढं रामो दु:खप्रायो विसौख्यभाक् । प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्द्रुतम् ।।' एतदर्थ: विसौख्यभाक्। विशेषसुखस्य भोक्तापि राम: दु:खप्रायो भविष्यति। तत्र हेतु: यतो महाबाहु: राम: प्रियै: विप्रयोगं वियोगं द्रुतं प्राप्स्यते। तदेव विशदयन्नाह 'त्वां चैव मैथिलीं चैव शत्रुघ्नभरतौ तथा। स त्यजिष्यति धर्मात्मा कालेन महता महान् ।।

' इदमेकत्र न वक्तव्यमित्याह 'इदं त्वयि न वक्तव्यं सौमित्रे भरते ऽपि वा । राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ।।' त्वयि त्वया अत्र भरते न वक्तव्यमित्यनेन भरतेनैवावश्यं दु:खं भोक्तव्यमिति बोधितम्। तेन ज्ञाने दु:खाल्पत्वं भविष्यतीति व्यक्तम्। तेन वक्ष्यमाणशापो भरतोद्देश्यक एवेति ध्वनितम्। तेन विष्णुर्भरतस्यैव स्वरूपान्तरमिति व्यञ्जितम्। वक्ष्यमाणेन शत्रुघ्नस्यापि सन्निधावित्यनेन शत्रुघ्नज्ञाने भरतोऽप्यवश्यं ज्ञास्यतीति व्यक्तम्। तेन द्वयो: परस्परप्रेमास्पदत्वं व्यक्तम्। शापाकारं बोधयन्नाह तत्रेति। 'तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम्' अत्र पत्नीति त्वच्छब्दार्थे विशेषणम्। पत्नीसहित इत्यर्थ:। व्रीह्यादित्वादिनि:। ग्रहणरूपधात्वर्थविहितणिजन्तप्रकृतिकभावघञन्तप्रकृतिकतद्धितान्तप्रकृतिकप्रथमान्तो वा। वियोगमिष्टवियोगजनितदु:खम्। अत एव विप्रयोगं प्रियैर्द्रुतमित्युपक्रमेण न विरोध:। न च शापवाक्यानां भरतोद्देश्यकत्वे 'इहागतो हि पुत्रत्वं तव पार्थिवसत्तम। राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ।।

' इति विरुध्येत रामपरतया प्रतीयमानत्वादिति वाच्यम् । अस्य गूढार्थकत्वात् ।

तथाहि रामे इहास्मिँल्लोके तव पुत्रत्वमिति प्राप्ते सति त्रिषु लोकेषु अभित: विख्या: विशेषेण ख्यातिर्यस्य स एवातो व्यापक: । किं च विराकाश इव ख्यातं ख्यातिर्यस्य गगनसदृश: इह तव पुत्रत्वमागत: प्राप्त: विष्णु: भृगुशापकृतं महत्तत्प्रसिद्धं फलं प्राप्स्यते रामस्तु दीर्घकालमयोध्याधिपतिर्भविष्यति । उत्तरकल्पे अभीति सप्तम्यन्तं रामविशेषणम् । अं विष्णुं भाति प्रकाशयतीति तदर्थ: । नन्वेवमपि उत्तरकाण्डसप्तविंशसर्गे इन्द्रप्रार्थितविष्णुप्रतिज्ञाबोधकेन 'प्रतिज्ञाने च देवेश त्वत्समीपे शतक्रतो । भवितास्मि यथास्याहं रक्षसो मृत्युकारणम् ।।' अनेन विरुध्येतेति चेन्न। कारणं भवितास्मीत्यनेन साक्षात्स्वकर्तृत्वाभावबोधनात्। अत एव अहमेव निहन्तास्मीत्यस्य घातयितास्मीत्यर्थ:। अन्तर्भावितणिजर्थोऽत्र हन्ति:। 'रामायणमिदं कृत्स्नं शृण्वत: पठत: सदा। प्रीयते

सततं राम: सहि विष्णु: सनातन: ।। आदिदेवो महाबाहुर्हरिर्नारायण: प्रभु: ।' एतदर्थस्तु आदयति ब्रह्मादिद्वारा सर्वान् भोजयति तच्छील: आदिदेवो नित्यप्रमोद: स एव स इति कर्मधारय: । महाबाहु: महान्तौ बाहू यस्य आजानुबाहुरित्यर्थ: । हरि: आश्रितसकलसन्तापहारक: नारायणो मर्यादापुरुषोत्तम: प्रभु: सर्वस्वामी सनातनो ब्रह्मादिप्रवर्तको ऽपि स: श्रुतिप्रसिद्धो विष्णु: स्वप्रकाशद्वारा सर्वत्र पूर्णो राम: इदं रामायणं सदा शृण्वत: पठत: पुरुषस्योपरि सततं प्रीयेत ।

रामायणप्रवृत्तिं बोधयन्नाह 'एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु व: । प्रव्याहरत विस्रब्धं बलं विष्णो: प्रवर्धताम् ।।' एवमेतत्प्रकारकं पुरा पूर्वं विष्णोर्वृत्तं प्रवृत्तमत एव विस्रब्धं विश्वासोत्पादकमेतदाख्यानं प्रव्याहरत यूयं पठत अतो वो भद्रं कल्याणमस्तु। वो बलं च प्रवर्धताम् 'सर्व एते महाभागा रावणाद्बलवत्तरा:। न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् ।।

ऋते नारायणं देवं शङ्खचक्रगदाधरम् । भवान्नारायणो देवश्चतुर्बाहु: सनातन: ।। राक्षसान् हन्तुमुत्पन्नो ह्यजय्य: प्रभुरव्यय: ।' इति वक्ष्यमाणपद्यानां त्वयमर्थ: नारो नीतिस्तेनैव अयते गच्छतीति नारायणस्तं मर्यादापुरुषोत्तममित्यर्थ: । तथाहि 'न्याय्यात्पथ: प्रचलनं यतो नैवास्य विद्यते । अतो नारायणो रामो विद्वद्भि: परिकीर्तित: ।।' इत्याप्तवचनम्। देवं नित्यविहारिणं शङ्खचक्रगदाधरं शङ्ख्ाचक्रगदा: सन्ति अस्य स नारायणोऽधरो यस्मात् तं विष्णोरुत्तममित्यर्थ:। ऋते विना अन्य: राक्षसान् हन्ता न। ननु स क इत्यत आह स भवानेव तद्विशेषणं नारायणो देव: नारायणश्च आ: ब्रह्मा च उ: रुद्रश्च तेषां देव: पूज्य: अत एव चतुर्बाहु: चतुरोऽर्थादीन् वाहयति आश्रितेभ्य: प्रापयतीति स: सनातनो नित्य: अजय्य: सर्वैर्जेतुमशक्य: अव्यय: सर्वविकारशून्य: प्रभु: प्रभोरपि प्रभु: राक्षसान् राक्षसत्वं हन्तुं निवर्तयितुं भवानेव उत्पन्न: प्रादुर्भूत:। अत एव 'विष्णुना सदृशो वीर्ये विष्णोस्तुल्यपराक्रमान्। न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ।।

तानि कर्माणि श्रूयन्ते यानि युद्धे हनूमत: ।' इत्यादिभेदप्रतिपादकवचनैर्न विरोध: । अत एव न द्विभुजरामे चतुर्बाहुत्वप्रतिपादनं प्रत्यक्षविरोध: । चतुर्बाहुर्नारायणो ऽपि भवानेवेति विशिष्य न विरोध इति तु न भ्रमितव्यम् । विशेषणवैयर्थ्यात् । चतुर्भुजशब्दस्यापि नारायणे सङ्केतितत्वेन पौनरुक्त्यस्य दुरुद्धरत्वाच्च 'इमं मुहूर्तं दुर्धर्षं स्मर त्वं जन्म वैष्णवम्' इत्युत्तरकाण्डनवतितमसर्गघटकपद्यघटकीभूतवैष्णवशब्दार्थस्तु विष्णोरिदं विष्णुप्रार्थनया प्रादुर्भूतं स्वकीयं जन्मेति विष्णूनां वैकुण्ठेशक्षीराब्धीशभूम्नामिदं जन्म भरतादिरूपेण प्राकट्यं स्मरेति वा । उत्तरकाण्डचतुरुत्तरशततमसर्गघटकस्य 'तवाहं पूर्वके भावे पुत्र: परपुरञ्जय । मायासम्भावितो वीर काल: सर्वसमाहर: ।।' इति कालवचनस्य तु अयमर्थ: पूर्वके पूर्व एव पूर्वक: तस्मिन्प्रथमे भावे सृष्ट्यादावित्यर्थ:। मायासम्भावित: जीवादिविषयकत्वत्कृपया प्रादुर्भावित: अत एव तव पुत्र:। अपुत्र इति छेदो वा त्वत्पुत्रसदृश: सर्वसमाहर: सर्वव्यवहारहेतु: कालोऽहमस्मीति शेष:। तत्र 'सङ्क्षिप्य हि पुरा लोकान् मायया स्वयमेव हि। महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजन: ।।

' इति ब्रह्मवचनस्य त्वयमर्थ: पुरा लोकान् सङ्क्षिप्य सङ्क्षेपरूपेण कृत्वा महार्णवे शयान: महार्णवे शय: शयनं यस्य स एव अनिति पालयति विश्वमिति आ विष्णुस्तस्मान्मायया जीवादिविषयककृपयाप्सु मां त्वमजीजन: उत्पादितवान् । "शयवासवासिष्वकालात्" इति सप्तम्या अलुक् । तत्र 'ततस्त्वमसि दुर्धर्षस्तस्माद्भावात्सनातनात् । रक्षां विधास्यन् भूतानां विष्णुत्वमुपजग्मिवान् ।। अदित्यां वीर्यवान् पुत्रो भ्रातृ़णां वीर्यवर्धन: ।' इत्यस्य त्वयमर्थ: भ्रातृ़णां वीयर्वर्धन: वीर्यवान् भूतानां रक्षां विधास्यन् । अदित्यां य: पुत्र: तस्मिन्पुत्रे विष्णुत्वं स्वरूपव्यापकत्वं यतस्त्वमुपजग्मिवान् प्रापितवान् तस्मात्सनातनान्नित्याद्भावात्स्वप्रभावात् ततो विस्तारको दुर्धर्षस्त्वमसि । 'अथवा विजिगीष ते सुरलोकाय राघव । सनाथा विष्णुना देवा भवन्तु विगतज्वरा: ।।' इत्यस्य त्वयमर्थ: हे राघव

सुरलोकाय यदि ते विजिगीषा तर्हि सनाथा इन्द्रसहिता देवा विष्णुना सह विगतज्वरा भवन्तु । भवद्दर्शनादिति शेष: । एतेन विष्ण्वादीनां रामदर्शने उत्कण्ठातिशय: सूचित: । एतदर्थविवक्षयैव त्वयेति नोक्तम् । उत्तरकाण्डषडुत्तरशततमसर्गघटकीभूतस्य 'ततो विष्णोश्चतुर्भागमागतं सुरसत्तमा: । हृष्टा: प्रमुदिता: सर्वे पूजयन्ति स्म राघवम् ।।' इत्यस्यायमर्थ: विष्णो: क्षीराब्धीशस्य चतुर्भागं सर्वांशविशिष्टं राघवं रघुकुलप्रादुर्भूतं लक्ष्मणं पूजयन्ति स्म। उत्तरकाण्डे दशाधिकशततमे सर्गे 'तत: पितामहो वाणीं त्वन्तरिक्षादभाषत। आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि राघव ।।

भ्रातृभि: सह देवाभै: प्रविशस्व स्वकां तनुम् । यामिच्छसि महाबाहो तां तनुं प्रविश स्वकाम् ।। वैष्णवीं तां महातेज यद्वाकाशं सनातनम् । त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते ।। ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् ।' इत्यादेरयमर्थ: हे विष्णो स्वप्रकाशद्वारा सर्वत्र पूर्णदेवाभै: देवान् आभान्ति प्रकाशयन्ति । अन्तर्भावितणिजर्थ: । देवप्रकाशकैरित्यर्थ: । भ्रातृभि: सह स्वकां तनुमिव तनुवन्नित्यसम्बद्धं स्वप्रकाशप्रकाशितं स्वलोकमित्यर्थ: । प्रविशस्व सभ्रातृरामप्रवेशनं सम्प्रार्थ्य तदीप्सितान्यकर्तृकप्रवेशं सम्प्रार्थयन्नाह यामिति । हे महाबाहो यां व्यक्तिं यं यं जनमित्यर्थ: । इच्छसि प्रवेशयितुं वाञ्छसि तां तं तं जनमित्यर्थ: । वैष्णवीं वैकुण्ठेशक्षीराब्धीशभूमसम्बन्धिनीं तां तनुं तत्तल्लोकमित्यर्थ: । आकाशमाकाशवद्विपुलं सनातनं यन्महातेज: । स्वकां तनुं स्वलोकमित्यर्थ: । तत् वा प्रविश प्रवेशय अत एव न पौनरुक्त्यम् । हिरिवार्थे । 'पितामहवच: श्रुत्वा विनिश्चित्य महामति: । विवेश वैष्णवं तेज: सशरीर: सहानुज: ।।' इत्यस्य त्वयमर्थ: स राम: महामतिरनुज: अतिबुद्धीन् अनुजांशान् वैष्णवं वैकुण्ठेशादिसम्बन्धिनं लोकं विवेश प्रवेशयामास तेज: साकेतलोकं तु सशरीर: सन् विवेश। राजा गच्छतीत्यादाविव रामपरिकरेष्वपि गमनकर्तृत्वं बोध्यम्। अत एव भ्रात्रंशानां प्रवेशनमुक्त्वा भ्रातृप्रवेशनं नोक्तम्। महामतिरनुज इति समुदायार्थस्य कर्मत्वम्। अत एव न तद्वाचका द्वितीया। तस्य प्रातिपदिकत्वाभावात्। वाक्यार्थस्य कर्मत्वस्वीकारादेव। 'श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तय: शुभा:। पश्य लक्ष्मण पम्पायां बक: परमधार्मिक:। जनामि रामो मधुसूदनश्च। पश्य मृगो धावति' इत्यादीनां सङ्गति:। अनुज: वैष्णवमित्यत्र च जात्यभिप्रायेणैकवचनम्। 'ततो विष्णुमयं देवं पूजयन्ति स्म देवता:।' इत्यस्य त्वयमर्थ: विष्णुमयं विष्णून् वैकुण्ठेशादीन् मयते तत्तल्लोकं प्रापयतीति स तं देवं नित्यप्रमोदं रामं देवता: ब्रह्मप्रभृतिसुरा: पूजयन्ति स्म प्राशंसन्। 'अथ विष्णुर्महातेजा: पितामहमुवाच ह। एषां लोकं जनौघानां दातुमर्हसि सुव्रत ।।

' इत्यस्य तु अयमर्थ: अथ साकेतलोकप्राप्त्यनन्तरं महातेजा: विष्णु: स्वप्रकाशद्वारा सर्वत्र पूर्ण: । किञ्च विपा सर्वव्यापकेन विष्णुना नूयते स्तूयते असाविति विष्णु: । विष्ण्वादिस्तुत इत्यर्थ: । सञ्ज्ञापूर्वकविधेरनित्यत्वाज्जश्त्वाभाव: । आगमशास्त्रस्यानित्यत्वात्तुगभाव: । पितामहं साकेतस्थब्रह्माणमुवाच 'त्यक्तात्मानश्च मत्कृते' इत्यस्य त्वयमर्थ: मत्कृते त्यक्त: आत्मा प्रयत्नो यैस्ते । 'तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरु: प्रभु: । लोकान्सन्तानकान्नाम यास्यन्तीमे समागता: ।।' अस्यार्थ: विष्णुवचनं विष्ण्वादिस्तुतरामवाक्यं श्रुत्वा उवाचेति शेष:। तद्वचनमेवाह समागता: भवद्भि: सार्धमिह प्राप्ता: सन्तानकान्साकेतान्तर्वर्तिदेशविशेषान् यास्यन्ति प्राप्स्यन्ति। क्वास्ति स लोक इत्यत आह

'सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे' ब्रह्मलोकात् ब्रह्मणो महाविष्णोर्लोकात् साकेतोत्तरद्वारवर्तिमहावैकुण्ठादित्यर्थ: । अनन्तरे समीपे सर्वैर्निखिलैर्ब्रह्मगुणै: परमानन्दादिभिर्युक्ते स लोको ऽस्तीत्यर्थ: । 'वानराश्च स्वकां योनिमृक्षाश्चैव तथा ययु:' वानरा ऋक्षाश्च स्वकां योनिं स्थानं साकेतमित्यर्थ: । ययु: प्रापु: रामेण सहैवेति शेष: । वानरादिषु निलीनानां देवांशानां वृत्तमाह 'येभ्यो विनि:सृता: सर्वे सुरेभ्य: सुरसम्भवा: । तेषु प्रविविशे चैव सुग्रीव: सूर्यमण्डलम् ।।' सुग्रीव:

सुग्रीवनिलीनसूर्यांश: । 'तथा ब्रुवति देवेशे गोप्रतारमुपागता:' एतेन साकेतस्थयो: संवादस्तै: श्रुत इति ध्वनितम् । तेन तेषां दिव्येन्द्रियप्राप्तिर्जातेति ध्वनितम् । एवमन्यविरोधाभासेष्वप्यूह्यम् । तत्रापाततो विरुद्धत्वेन प्रतिभासमानानां 'विष्णुना सदृशो वीर्ये । विष्णोरर्धं महाभागम्' इत्यादिवचनानां विशेषतस्तत्वनिर्णयाय महापातकनाशकैकवर्णघटितश्रीमद्वाल्मीकीयरामायणं व्याख्यायते । श्रुतश्रुतीनां प्राप्तमहत्सङ्गानां समातिशयरहितसत्यज्ञानानन्दस्वरूपदेशकालवस्तुपरिच्छेदशून्यसाकारनिराकारब्रह्मनियन्त्रवाङ्मनसगोचरवेदतात्पर्यगम्यसर्वेश्वरेश्वरश्रीसीतारामप्राप्तीच्छावतां तदन्वेषणशीलानां तदवबोधाय परमकारुणिकपरमरामरसास्वादनतत्परनारदब्रह्मोपदेशमवगत्य परमकारुणिक ऋषिर्वाल्मीकिर्वेदोपबृंहणभूतं रामाचरितप्रतिपादकं चतुर्विंशतिसहस्रसङ्ख्यात्मकश्लोकात्मकं श्रीमद्रामायणं प्रकटयामास । तत्र प्रथमे श्लोके गुरौ गुरुधर्मान्प्रदर्शयन्नाह

तप:स्वाध्यायनिरतमिति । यस्य ज्ञानमयं तप इत्यादिप्रामाण्येन तपसो ज्ञानस्य प्रतिपादको य: स्वाध्यायो वेद उपनिषद्भाग इत्यर्थ: । तत्र निरतं नितरां रतम् । एतेन "तं त्वौपनिषदं पुरुषं पृच्छामि" इति श्रुतिगम्यविषयकपिपृच्छिषा वाल्मीके: सूचिता । किञ्च तपो वेद: "तपो हि स्वाध्याय:" इति श्रुते: तस्य सू: प्रादुर्भवो यस्मात्स तपस्सूर्ब्रह्मा तस्याध्या उत्कण्ठापूर्वकं स्मरणं तेनायते प्राप्नोतीति स: तप:स्वाध्याय: । साकेतनित्यविहारी रघुनाथस्तत्र निरतं तद्ध्यानपरायणमित्यर्थ: । तत्र निरतं पप्रच्छेत्यनेन साकेताधीशविषयकसामान्यज्ञानवान्वाल्मीकिरिति ध्वनितम् । किञ्च तपसे तप: कारयितुं सूर्ब्रह्मकर्मकप्रेरणा यस्य स तपस्सूर्विष्णु: । प्रेरणार्थकषूधातोर्भावक्विबन्त: सूरिति निष्पन्नस्तस्याध्या उत्कण्ठापूर्वकं स्मरणं तेनायते तत्स्मृतिविषयीभवतीति तपस्स्वाध्याय: स एव तत्र निरतमित्यर्थ: । किञ्च तपस: सू: तप:कर्मकब्रह्मप्रेरणा यस्मै स तप:सू: शिव: तस्याध्या तेनायते य: स एव तत्र निरतम् । किञ्च उक्तदिशा तपस्सूशब्दस्य ब्रह्मविष्णुमहेशपरत्वमवगतम् । तथा चैकशेषेण तपस्स्वां ब्रह्मविष्णुमहेश्वराणामाध्या उत्कण्ठापूर्वकं स्मरणं तेनायते स साकेताधीश एव तत्र निरतं तद्विषयकज्ञानवन्तमित्यर्थ: । तप:स्वाध्याय इत्यनेन ब्रह्मविष्णुमहेश्वरोपास्यत्वमुपायान्तरागम्यत्वं च साकेताधीशस्य सूचितम् । अत एव वाग्विदां वाग्वेदितृ़णां मध्ये वरम् श्रेष्ठम् । किञ्च वाग्विद्भिर्वेदाद्यभिज्ञैर्व्रियते साकेताधीशज्ञानलाभार्थं स्वीक्रियते पूजालङ्कारादिभिरर्च्यते वासौ वाग्विदां वरस्तम् । सम्भक्तिस्वीकारान्यतरार्थकवृधातो: कर्मणि प्रत्यय: । अत एव मुनिपुङ्गवं विज्ञानिश्रेष्ठम् । 'बुधे च पुङ्गव: श्रेष्ठे वृषभे भिषजा वरे' इति विश्व: । अत एव नारदं न ऋच्छति विज्ञानमन्तरा न निवर्तते इति नारमज्ञानं तद्द्यति साकेताधीशज्ञापनद्वारा निर्मूलयतीति नारदस्तम् । उक्तं च नारदीये 'नारदो नाशयन्नेति नृणामज्ञानजं तम:' इति । तपस्वी साकेताधीशसामान्यज्ञानवान् वाल्मीकिर्वल्मीकगौणपुत्र: परिपप्रच्छ । गौणत्वं च बहुकालिकतपस्स्थितिहेतुकवल्मीकाकृतित्वप्राप्त्यनन्तरं वरुणकृतवृष्ट्या निष्पन्नत्वात् । अत एव वक्ष्यमाणप्राचेतसत्वव्यवहारो ऽपि न विरुद्ध: प्रचेतोनिरूपितगौणपुत्रत्वस्याप्यस्मिन्सुवचत्वात् गौणपुत्रत्वयोर्विरोधाभावात् । अत एव भृगुपुत्रत्वमप्यस्मिन्न विरुद्धम् । भृगुनिरूपितमुख्यपुत्रत्वस्यास्मिन्विद्यमानत्वात् गौणपुत्रत्वमुख्यपुत्रत्वयोर्विरोधाभवात् । अत एव 'अथाब्रवीन्महातेजा ब्रह्मा लोकपितामह: । वल्मीकप्रभवो यस्मात्तस्माद्वाल्मीकिरित्यसौ ।।' इति ब्रह्मवैवर्तवचनम्। 'अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम्' इति लवकुशोक्तिश्च। 'ऋक्षो भूद्भार्गवस्तस्माद्वाल्मीकिर्योऽभिधीयते' इति विष्णुपुराणवचनं च सङ्गच्छते। अत्र तस्मादित्युत्तरान्वयि। अत एव ज्ञापकादस्य ऋक्ष इति रूढं नाम। तस्यात्रानुक्तिस्तु आत्मनाम

गुरोर्नामेत्यादिस्मृत्या ऽ ऽत्मनामग्रहणस्य निषिद्धत्वान्निषेधस्य च रूढनामविषयत्वात् । वस्तुतस्तु स्मृतौ ग्रह उच्चारणमर्थ: । ज्ञानाद्यर्थत्वे निषेधस्यासम्भवापत्ति: । लेखनमात्रे च नोच्चारणमित्याद्यङ्गीकारस्तदा रामाचरितस्य दुर्लभत्वबोधनफलकस्वतप:प्रख्यापनार्थं यौगिकनामोक्तिरिति बोध्यम् । अत्र प्रथमो वर्ण: गायत्रीप्रथमवर्णप्रतिनिधिभूत: । एवं प्रतिश्लोकसहस्रादिवर्णा: गायत्री द्वितीयादिवर्णप्रतिनिधिभूता: । अत एव श्रीमद्रामायणस्य गायत्रीमयत्वमिति वर्णयन्ति । तच्चिन्त्यम् । प्रतिश्लोकसहस्रादौ तादृशवर्णानामनुपलब्धे: । केषाञ्चिदुपलब्धत्वे ऽपि पदैकदेशत्वात् । अर्थवत्त्वाभावेन प्रयोजनाभावात् । वर्णमात्रघटकत्वेन गायत्रीमयत्वे निखिलपुराणेतिहासादीनां तत्त्वापत्ते: । इष्टापत्तावस्योत्कर्षत्वानापत्ते: । न च तद्वर्णमयत्वाभावे गायत्रीमयत्वानुपपत्ति: । तथात्वे वेदसम्मितत्वाभावापत्त्या 'पुण्यं वेदैश्च सम्म्मितम्' इत्यादिवचनस्यासम्भवापत्तिरिति वाच्यम् । तद्वर्णमयत्वाभावे ऽपि तदर्थवत्त्वेन तन्मयत्वस्याबाधात् । तदर्थवत्त्वे तद्वर्णमयत्वस्याहेतुत्वात् । अत एव निखिलवेदानां गायत्रीतादृशवर्णमयत्वाभावे ऽपि तदर्थवत्त्वं सङ्गच्छते । तदर्थवत्त्वं तु गायत्रीप्रतिपाद्यसवित्रन्तर्यामिपरमात्मप्रतिपाद्यत्वेन । अत एव आदित्यहृदये 'बह्मेशानाच्युतेशाय' लक्ष्मणप्रतिज्ञाने 'पौरुषे चाप्रतिद्वन्द्व:' सुमित्रोपदेशे 'प्रभो: प्रभु:' इत्याद्युक्तय: सङ्गच्छन्त इति दिक् ।। 1.1.1 ।।



प्रश्नाकारमाह कोन्वस्मिन्नित्यादिभि: । अस्मिन् लोके साम्प्रतमस्मिन्काले गुणवान् अतिशयसौशील्यादिमान् को ऽस्ति । अस्तीत्यध्याह्रियते । यत्र क्रियान्तरं न श्रूयते तत्रा ऽस्तिर्भवन्तीपर: प्रथमपुरुषो ऽप्रयुज्यमानो ऽपि प्रयुज्यते इति भाष्योक्तेरस्ते: सर्वत्र सम्बन्धो बोध्य: । तत्र भवन्तीति लट: सञ्ज्ञा । वीर्यवान् अतिशयपराक्रमवाँश्च क: । धर्मज्ञ: अतिशयधर्मज्ञाता च क: । कृतज्ञ: कृतं कथञ्चिज्जातोपकृतिमेव जानाति स्मरति नानन्तरजाता ऽपकृतिगणं जानातीति । कृतज्ञश्च क: वक्ष्यति च 'कथञ्चिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मवत्तया' इति । सत्यवाक्य: सत्यं मृषासंसर्गरहितं वाक्यं लीलाभाषादिष्वपि यस्य स च क: । वक्ष्यति च 'अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन' इति । दृढव्रत: एकपत्न्यादिविषयकदृढव्रतवाँश्च क: । तथा वक्ष्यति 'अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् । नहि प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषत: ।।' इति। अस्मिँल्लोके अस्मिन् काले इत्युक्ते: प्रकटीभूतेश्वरेश्वरविषयकोऽयं प्रश्न इति ध्वनितम्। अन्यथा 'अयोध्यां च परित्यज्य पादमेकं न गच्छति' इत्याद्युक्त्या सार्वकालिकरघुनाथस्थिते: प्रसिद्धत्वादस्मिन्काले इत्याद्युक्तेरनर्थकत्वं प्रसज्येत। सर्वत्र किंशब्दसम्बन्धेन परिगणितगुणाद्यन्यतमस्यापि रघुनाथादन्यत्रानुपलम्भत्वं बोधितम्। तेन प्रष्टुस्तद्गुणादिषु प्रीत्यतिशयो व्यक्त: ।।

1.1.2 ।।

चारित्रेणेति । चारित्रेण नित्यकुलाचारेण युक्तो नित्ययुक्तश्च क: । 'विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्य:' इत्यनेन नित्यचारित्रनित्ययुक्तैतद्घटकीभूतनित्यपदलोपो ज्ञातव्य: । अन्यथा क्षणिककुलाचारक्षणिकयुक्तत्वस्य बहूनां प्रसिद्धत्वादेतत्प्रश्नस्य निरर्थकत्वापत्ति: । एतेन प्रश्नविषयीभूतस्य सर्वविलक्षणत्वं बोधितम् । सर्वभूतेष्वपराधयुक्तेष्वपि हित: प्रियकर्ता च क: । एतेन परमात्मनो युद्धादिप्रवृत्तिस्तदनुग्रहायैवेति प्रश्नकर्तुर्ज्ञानमस्तीति सूचितम् । किञ्च सर्वाणि भूतानि येभ्य: तानि तेषु ब्रह्मणीत्यर्थ: । बहुत्वमादरार्थम् । हितो नियामकत्वेन प्राप्तश्च क: । गत्यर्थहिधातुप्रकृतिकनिष्ठाप्रत्ययान्तो हित इति । विद्वान्सर्वज्ञश्च क: समर्थ: अघटितघटनापटीयांश्च क: । एकप्रियदर्शन: एकं प्राकृतभिन्नं प्रियं दर्शनं यस्य प्राकृतभिन्नत्वविशिष्टप्रियदर्शनविशिष्टश्च क इत्यर्थ: । किञ्च एकै: प्रधानैर्ब्रह्मादिभि: प्रियत्वेन दृश्यते ऽसाविति एकप्रियदर्शन:

ब्रह्मादिप्रीतिविषयीभूतश्च क इत्यर्थ: । किञ्च एक: सर्वादिभूत: स एव प्रियदर्शन: सर्वादिभूतत्वसमानाधिकरणप्रियदर्शनवाँश्च क इत्यर्थ: । किञ्च एकं केवलं प्रियं दर्शनं यस्य नित्यप्रीतिविषयीभूतदर्शनविषयीभूतश्च क इत्यर्थ: । किञ्च एक: साधारण: सरलस्वमाव इत्यर्थ: । प्रियं दर्शनं यस्य स प्रियदर्शन: स एव स इति कर्मधारय: । सरलस्वभावत्वसमानाधिकरणप्रीतिविषयीभूतदर्शनविषयीभूतत्ववाँश्च क इत्यर्थ: । किञ्च एक: सर्वत्र समबुद्धि: स एव प्रियदर्शन: सर्वत्र समत्वे सति प्रियदर्शनश्च क इत्यर्थ: । किञ्च एके अल्पा: प्रियदर्शना यस्मात् अन्यत्र सर्वत्राल्पप्रियदर्शनत्वबुद्धिसम्पादकप्रियदर्शनविषयीभूतश्च क इत्यर्थ: । किञ्च एकप्रियदर्शन: अद्वितीयप्रियदर्शनविषयीभूतश्च क इत्यर्थ: । तथा च कोश: 'एको ऽन्यार्थे प्रधाने च प्रथमे केवले तथा । साधारणे समाने ऽल्पसङ्ख्यायां च प्रवर्तते ।।' इति। यत्र चकारन्यूनता तत्र तदावृत्त्यान्वयो बोध्य: ।।

1.1.3 ।।

आत्मवानिति । आत्मा कथञ्चित्स्वसाम्मुख्यमात्रेण रक्षकत्वरूप: प्रशस्त: स्वभावो ऽस्यास्तीत्यात्मवाँश्च क: । किञ्च आत्मान: जीवधृतिदेहस्वभावपरमात्मान: सन्ति नियम्यत्वेनास्येति । तत्र प्रमाणम् "भीषास्माद्वात: पवते" इत्यादि । 'कर्तृत्वं करणत्वं च स्वभावश्चेतना धृति: । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ।।' इत्याद्यागम:। आत्मशब्दस्य जीवादिवाचकत्वे 'आत्मा यत्नो धृतिर्बुद्धि: स्वभावो ब्रह्म वर्ष्म च' इत्यमरोऽनुसन्धेय:। अत्र वर्ष्मशब्देन लक्षणया जीवस्यापि ग्रहणम्। अत एव आत्मा द्विविधो जीवात्मा परमात्मा चेत्यादिग्रन्था: सङ्गच्छन्ते। जितक्रोध: सापराधेष्वपि क्रोधरहितश्च क:। एतेनापराधिभ्यो दण्डदानं तच्छुद्धिहेतुकमिति ध्वनितम्। द्युनिमान् अतिशयप्रकाशवान्। सर्वेषां प्रकाशकानां प्रकाशकश्च क इत्यर्थ:। "तस्य भासा सर्वमिदं विभाति" इति श्रुति:। किञ्च अजितक्र: अधोद्युतिमानिति पदच्छेद:। अजित: ईश्वरैरपि जेतुमशक्य: क्र: कृतिर्यस्य सोऽजितक्र:। भावकप्रत्ययान्तयत्नार्थककृञ्धातुनिष्पन्न: क्र इति। अत एव अध: सर्वे द्युतिमन्तो यस्मात्तादृशश्च क:। अनसूयक: नासूया गुणेषु दोषाविष्करणं यस्य यस्मिन्वेत्यनसूयकश्च क:। शैषिके कपि "आपोऽन्यतरस्याम्" इति ह्रस्व:। असूया तु 'दोषारोपो गुणेष्वपि' इत्यमर:। किञ्च अनिति पालयति सर्वमिति अनो विष्णु: पचाद्यच् तत्र सू: प्रेरणा यस्य सोऽनसू: प्रेरणार्थकसूधातोर्भावक्विबन्त: सूरिति उपलक्षणतया शिवब्रह्मविष्णुप्रेरक इत्यर्थ:। उ: शम्भु: य: सर्वत्र प्राप्तिमान् विष्णु:। याधातुप्रकृतिकघञर्थकप्रत्ययान्तप्रकृतिकार्शआद्यजन्तो य इति। 'यकारस्तु प्रजापति:' इत्यभिधानात्। यो ब्रह्मा च तयोरेकशेषे याविति तत: उश्च यौ च उया: शम्भुविष्णुब्रह्माणस्तेषां कं सुखं यस्मात् स उयक: 'कं सुखेऽपि प्रकीर्तितम्' इति कोश:। शम्भुविष्ण्वादिभ्योऽपि सुखदाता अनसूश्चासौ उयकश्च अनसूयकश्च क:। जातरोषस्य कृपया शिक्षार्थं स्वीकृतकोपाभासस्य कस्य संयुगे सङ्ग्रामे देवा: चकारादन्येऽप्यसुरादयो बिभ्यति भयं प्राप्नुवन्तीत्यर्थ:। कस्य संयुगे इत्यन्वयान्न किंशब्दाद्भीत्रार्थानामित्यपादानमूलकपञ्चमीप्रसक्ति:। कस्य बिभ्यतीत्यन्वये तु अपादानत्वाविवक्षया तदप्रसक्ति: सम्बन्धसामान्यविवक्षया च षष्ठी ।।

1.1.4 ।।

स्वकृतप्रश्नोत्तरस्य द्रुतं शुश्रूषया ऋषिं प्रोत्साहयन्नाह एतदित्यादिना । हे महर्षे ऋषिश्रेष्ठ यतो मे परं कौतूहलमाश्चर्यमस्ति अतो भवत: एतन्मत्प्रश्नविषयीभूततत्त्वमहं श्रोतुमिच्छामि यत एवंविधं नरमीश्वरनियन्तृदिव्यपुरुषं ज्ञातुं बोधयितुं त्वं समर्थो ऽसि । अन्तर्भावितणिजर्थ: । परं कौतूहलं हि मे इत्युक्त्वा "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" इत्यादिश्रुतिबोधितवाङ्मनसगोचरातीतप्राकट्यं कथमिति हेतुर्व्यक्त: । तेन तद्वस्तुनो दुर्लभत्वं बोधितम् ।। 1.1.5 ।।



उत्तरं वर्णयितुं वृत्तमाह श्रुत्वेत्यादिना । त्रिलोकज्ञ: त्रिषु ब्रह्मविष्णुमहेश्वरेषु लोको दृष्टिर्यस्य स त्रिलोक: । सर्जनाद्यर्थं तत्तत्काले तत्तदाज्ञापकसाकेताधीश इत्यर्थ: । तज्जानातीति त्रिलोकज्ञो नारदो वाल्मीकेरेतदुक्तं वच: श्रुत्वा चान्नित्यविहारिसाकेताधीशमनुसन्धाय तं प्रश्नकर्तारमामन्त्र्य प्रशस्य च हृष्ट: अतिहर्षविशिष्ट: सन् श्रूयतामिति वाक्यमब्रवीत् । तत्तदाज्ञापक इत्यनेन साकेताधीशस्य त्रिगुणातीतत्वं ध्वनितम् । तज्जानातीत्यनेन ऋषेर्विज्ञानिश्रेष्ठत्वं व्यक्तम् । प्रहृष्ट इत्यनेन एतादृक्प्रश्नकर्तृशिष्य: परमात्मातिकृपया लभ्यत इत्यतीव भाग्यवत्ता ममेति हेतुर्ध्वनित: । तेन नासंवत्सरवासिने प्रब्रूयादिति निषेधस्यानवसर: सूचित: । अनुसन्धाय इत्यनेन तद्वस्तुनो दुर्बोधत्वं बोधितम् ।। 1.1.6 ।।



तद्वाक्यमेवाह बहव इत्यादिना । ये बहवो गुणास्त्वया कीर्तिताः पृष्टा: । चादपृष्टा अपि प्राकृतविलक्षणा एतज्जातीयका गुणास्ते दुर्लभा एव । ईश्वरनियन्तृपरमपुरुषाद्भिन्ने नैव सन्तीत्यर्थ: । अत्र एकघटसत्त्वे ऽपि घटान्तराभावतात्पर्येण घटो नास्तीत्यनुभवाभावादभावीयप्रतियोगिताया सामान्यधर्मावच्छिन्नत्वनियम: । तेन गुणान्यतमस्याप्यभाव: सूचित: । एकसत्त्वे ऽपि द्वयं नास्तीति न्यायस्य तु नात्रावसरस्तस्य द्वित्वादिवाचकोपात्तविषयत्वात् । यदि च ये गुणास्त्वया कीर्तितास्ते बहवो ऽन्यत्र न सन्तीत्यन्वयस्तदान्यत्रापि क्वचित्केचन सन्तीति प्रतीयते । पूर्वकल्पे ऽपि यदि जसुपात्तसङ्ख्याया विवक्षा तदा सो ऽप्युत्तरेण सम एवेति दिक् । अतो बुद्ध्वा ईश्वरनियन्तृदिव्यपुरुषं विचार्य अहं वक्ष्यामीति तैर्भवत्पृष्टापृष्टान्यावृत्तिप्राकृतविलक्षणगुणैर्युक्तो नर: एकत्वविशिष्ट: प्राकृतविलक्षणपुरुषस्त्वया श्रूयताम् । बुद्ध्वा वक्ष्यामीत्यनेन पुन: पुनर्विचारादेव तद्वस्तु लभ्यत इति सूचितम् ।। 1.1.7 ।।



रघुनाथस्यैव पृष्टापृष्टतद्गुणाश्रयत्वं बोधयन्नाह इक्ष्वाकुवंशेत्यादिना । इक्ष्वाकुवंशप्रभव: इक्ष्वाकुवंशे एव प्रभव: स्वपरिकराज्ञापनपूर्वकं प्राकट्यं यस्य स: । नियतात्मा नितरां यत: प्रयत्नं प्राप्त आत्मा ईश्वरो यस्मात्स: । किञ्च नियता: तत्तत्कार्ये नियमिता: आत्मानो जीवधृतिदेहस्वभावपरमात्मानो येन स: । अत एव महावीर्य: महदीश्वरवर्तिवीर्यादप्यधिकं वीर्यं यस्य स: । अत एव द्युतिमान् ईश्वर: प्रकाशकर्ता । अत एव धृतिमान्सर्वाश्रय: । किञ्च धृति: ईश्वरावतारधारणप्रेरणा तद्वान् । अन्तर्भावितणिजर्थ: । अत एव वशी साक्षात्स्वनियम्येश्वरद्वारा च सर्ववशकर्ता । अत एव जनैरस्मदादिभिर्नित्यं श्रुत: श्रूयमाणो नाम प्रसिद्ध: रामो ऽस्ति । किञ्च नामजनै: "नामरूपे व्याकरवाणि" इति श्रुतिबोधितनामरूपजनकै: परब्रह्मणा श्रुत: । स्वप्रकटितवेदवाक्यैर्नित्यं श्रूयत इत्यर्थ: । बहुत्वमादरार्थम् । नाम इति रूपस्याप्युपलक्षकम् । परब्रह्मणा नित्यं श्रूयत इत्युक्ते: परब्रह्मोपास्यत्वं रघुनाथस्य सूचितम् । तेन रघुनाथगुणानामीश्वरमोहकत्वं व्यक्तम् । रामपदार्थस्तु रेण रामवाचकमहामन्त्ररूपरकारोच्चारणेन अमति आश्रितहृदये प्राप्नोतीति राम: । एतेन सौशील्यादिगुणो व्यक्त: । इदं गुणवान्क इत्यस्योत्तरम् । किञ्च रेण रकारोपलक्षितपरशुरामादिना अम्यते सेवार्थं गम्यते असाविति राम: । परशुरामादिसेव्य इत्यर्थ: । तेनातिशयपराक्रमवत्त्वं सूचितम् । इदं वीर्यवान्क इत्यस्योत्तरम् । किञ्च रो दानस्य अम: इयत्ताभावो यस्य स राम: । अपरिमितदातेत्यर्थ: । तेनातिशयधर्मज्ञातृत्वं बोधितम् । इदं धर्मज्ञ: क इत्यस्योत्तरम् । किञ्च रमयति अभिरमयति स्वाश्रितत्वसमानाधिकरणापकारित्वविशिष्टमपीति राम: "जनीजृ़ष्क्नसुरञ्जोमन्ताश्च" इत्यत्र "वा चित्तविरागे" इत्यतो वेत्यनुवृत्तेर्मित्सञ्ज्ञाया वैकल्पिकत्वाद्ध्रस्वत्वविरह: । रम एव राम इति प्रज्ञाद्यणन्तो वा । एतेन कृतज्ञत्वं व्यक्तम् । इदं कृतज्ञ: क इत्यस्योत्तरम् । किञ्च 'सकृदेष प्रपन्नाय । अप्यहं जीवितं जह्याम्' इत्यादिस्मृत्यां रमन्ते

कर्मभक्तिज्ञानयोगिनो यस्मिन्स राम: । एतेन सत्यवाक्यत्वं सूचितम् । इदं सत्यवाक्य: क इत्यस्योत्तरम् । किञ्च रा: दानमेव मा लक्ष्मीर्यस्य स राम: । अनिवृत्तदातृत्ववानित्यर्थ: । एतेन दृढव्रतत्वं सूचितम् । इदं दृढव्रत: क इत्यस्योत्तरम् । किञ्च राकारवाच्यां पृथिवीममति स्वीयपालनार्थं समये प्राप्नोतीति राम: । एतेन नित्यं नित्यकुलाचारयुक्तत्वं व्यञ्जितम् । इदं चारित्रेण च को युक्त इत्यस्योत्तरम् । किञ्च रयुक्तानां स्वस्वैश्वर्यविशिष्टानां विष्णुब्रह्मरुद्राणामम: पालनाद्यर्थं यथालोकं गमनं यस्मात्स राम: । विष्ण्वादिप्रेरक इत्यर्थ: । एतेन सर्वभूतहितत्वं ब्रह्मणि नियामकत्वेन प्राप्तत्वं च द्योतितम् । इदं सर्वभूतेषु को हित इत्यस्योत्तरम् । किञ्च रं वह्निसूर्यादितेज: अमति सर्वलोकहितार्थं प्रकाशकत्वेन प्राप्नोतीति राम: । प्रकाशकानां प्रकाशक इत्यर्थ: । अत्रार्थे "तस्य भासा सर्वमिदं विभाति" इति श्रुतिरनुग्राहिका । अत एव 'सूर्यस्यापि भवेत्सूर्य:' इत्याद्यप्यनुकूलम् । एतेन सर्वज्ञत्वं व्यक्तम् । इदं सर्वज्ञ: क इत्यस्योत्तरम् । किञ्च र: रेफ: नित्यमुच्चार्यमाणत्वेनास्यास्तीति र: शिव: स च अश्च आश्च रा: हरहरिब्रह्माण: । तैरम्यते काले सेवनार्थं गम्यते इति राम: । एतेनाघ्ाटितघटनापटीयस्त्वं सूचितम् । इदं समर्थ: क इत्यस्योत्तरम् । किञ्च रेण स्वस्वैश्वर्येण युक्तौ यौ अश्च आश्च औ विष्णुब्रह्माणौ ताभ्यां तदुपलक्षितशिवेन च अम्यते मनसा सदैव प्राप्यत इति राम: । वस्तुतस्तु दीर्घाकार: शम्भोरपि वाचक इति नोपलक्षणप्रयोजनम् । एतेन विष्ण्वादिप्रियदर्शनत्वं व्यञ्जितम् । तेन यदि विष्ण्वादिप्रियदर्शनत्वं तर्हि अन्याप्रियदर्शनत्वं किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनित: । इदमेकप्रियदर्शन: क इत्यस्योत्तरम् । किञ्च राम् राक्षसत्वमपि अमयति स्वसाम्मुख्यमात्रेण दूरीकरोतीति राम: । एतेन स्वसाम्मुख्यमात्रेण रक्षकत्वं जीवादिनियामकत्वं च व्यक्तम् । इदमात्मवान् क इत्यस्योत्तरम् । किञ्च रौ भूमिराजानाविव अम्यते क्षमया अनवगाह्यहृदयत्वेन च प्रतीयते असाविति राम: । एतेन जितक्रोधत्वम् अजितक्रत्वं च व्यक्तम् । इदं जितक्रोध: क: अजितक्र: क इत्यनयोरुत्तरम् । किञ्च रस्य वाच्यो यो ऽम: न मीयते देशकालवस्तुभि: परिच्छिद्यते असाविति राम: । देशकालवस्तुपरिच्छेदशून्यप्रकाशवानित्यर्थ: । एतेन द्युतिमत्त्वमधोद्युतिमत्त्वं च व्यक्तम् । इदं द्युतिमान् अधोद्युतिमान् क इत्यस्योत्तरम् । किञ्च रस्य धनस्य अम: अनियन्ता यस्य स राम: । अपरिमितैश्वर्य इत्यर्थ: । एतेन विष्ण्वाद्यैश्वर्यमेतदायत्तमेवेति ध्वनितम् । तेन विष्ण्वादिसुखदातृत्वं विष्ण्वादिप्रेरकत्वमसूयारहितत्वं च ध्वनितम् । इदमनसूयक: क इत्यस्योत्तरम् । किञ्च राणि देवादिराजादिहृदयानि अमयति क्रोधाभाससमये प्रकम्पयतीति राम: । एतेन देवादिभयहेतुत्वं ध्वनितम् । इदं कस्य बिभ्यति देवाश्चेत्यस्योत्तरम् । पृष्टषोडशसङ्ख्याकगुणानामुत्तरं षोडशसङ्ख्याकरामपदार्थैर्बोधयित्वा अपृष्टगुणानपि कांश्चिद्बोधयन्नर्थान्तरत्रयमाह । किञ्च रैरिन्द्रियै: अ अम: न प्रप्तिरस्येति राम: । वाङ्मनसगोचरातीत इत्यर्थ: । वाङ्मनसगोचरातीतत्वोक्त्या वेदतात्पर्यविषयीभूतत्वं रघुनाथस्य व्यक्तम् । तेन तत्कृपयैव स लभ्यत इति सूचितम् । तथा च श्रुति: "यमेवैष वृणुते तेन लभ्य:" इति । तेन तस्य कर्मालभ्यत्वं ध्वनितम् । तत्रार्थे श्रुति: "न कर्मणा न प्रजया धनेन" इत्यादि: । किञ्च रावाच्याया: पृथिव्या: अम: प्राप्तिर्यस्या: सा रामा सीता सास्ति नित्यमस्येति राम: । नित्यं सीतासंयुक्त इत्यर्थ: । एतेन सीतारामयो: प्राकृतविलक्षणस्नेहाश्रयत्वं सूचितम् । तेन तस्य संयुक्तोपास्यत्वं व्यक्तम् । किञ्च रैर्महाराजाधिराजै: अम्यते प्राकट्यसमये सेवार्थं गम्यत इति राम: । तेन सर्वलोकस्वामित्वं व्यक्तम् । तेन श्रेयस्कामै राम एवाश्रयणीय इत्यादेयं वस्तु व्यक्तमिति दिक् । अत्रापरिमितवाचकामशब्दस्तु माधातुप्रकृतिककप्रत्ययान्तेन नञ्समासात्सिद्ध: । रकारस्य रामादिवाचकत्वं 'रश्च रामे ऽनिले वह्नौ भूमावपि धने ऽपि च । इन्द्रिये धनरोधे च भूपे रश्च प्रकीतिर्त: ।।' इत्येकाक्षर: प्रमाणम्।

अकाराकारयोर्विष्णुब्रह्मवाचकत्वे 'अकारो वासुदेव: स्यादाकारस्तु पितामह:' इत्यादिना स एव । राशब्दस्य राक्षसवाचकत्वे "स राम इति लोकेषु विद्वद्भि: प्रकटीकृत: । राक्षसा येन मरणं यान्ति" इत्यादिरामतापिन्युक्तश्रुति: प्रमाणम् । 'विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्य:' इत्यनेन नित्यं श्रुत इत्येतद्घटकीभूतनित्यशब्दलोप: । यद्यपि पृष्टापृष्टगुणा रामपदेनैव बोधितास्तथापि स्पष्टतस्तत्तद्गुणप्रतिपत्त्यर्थं विशेषणान्तरोपादानम् । तत्र इक्ष्वाकुवंशप्रभव इत्यनेन चारित्रेण च को युक्त इत्यस्योत्तरम् । एवं यथासम्भवमूह्यम् ।। 1.1.8 ।।



बुद्धिमानिति । बुद्धिमान् अतिशयबुद्धिविशिष्ट इत्यर्थ: । तद्बुद्धावतिशयत्वं च ब्रह्मविष्ण्वादिबुद्धिप्रवृत्तिहेतुत्वेन । इदमेव "य: सर्वज्ञ: स सर्ववित्" इति श्रुत्योक्तम् । अत एव नीतिमान् ब्रह्मादिभ्यो ऽपि नीतिशिक्षक इत्यर्थ: । अत्रार्थे श्रुति: "धाता यथापूर्वमकल्पयत् । एष सेतुर्विधारण: । एषां लोकानामसम्भेदाय" इत्यादि: । वाग्मी अतिशयवचनवान् । तद्वचनस्यातिशयत्वं च ब्रह्मादिमोहकत्वेन । श्रीमान् श्रिय: ईर्लक्ष्मीस्वामिनी सीतेत्यर्थ: । तद्वान् नित्यं तद्युक्त इत्यर्थ: । शत्रुनिबर्हण: शत्रून्स्वाश्रितजनापकारिणो निबर्हयति साक्षाद्विष्ण्वादिद्वारा च दूरीकरोति अपकारित्वधर्मं निवर्त्तयतीति शत्रुनिबर्हण: । "एष भूतपतिरेष भूतपाल:" इत्यादिश्रुतिरेतदर्थबोधिका । शरीरलक्षणत्वेनापि सर्वविलक्षणत्वं रघुनाथस्य द्योतयञ्छरीरलक्षणान्याह विपुलांस इत्यादिना । सार्द्धश्लोकद्वयेन । विपुलौ मांसलोन्नतौ अंसौ स्कन्धौ यस्य स विपुलांस: । महापुरुष इत्यर्थ: । अत एवोन्नतस्कन्धवत्त्वं च महापुरुषलक्षणमिति सामुद्रिके उक्तम् । 'स्कन्धो भुजशिरोंसः' इति कोश: । एतेनान्यत्रापि यदीदं लक्षणमवलोक्यते तदा तत्रैतदंशविशेष इत्यूहनीयम् । 'पौरुषे चाप्रतिद्वन्द्वश्शरैनं जहि रावणिम्' इत्यादि वक्ष्यमाणेनात्रैव महापुरुषत्वस्य पर्यवसन्नत्वात् । अत एव 'कक्ष: कुक्षिश्च वक्षश्च घ्राणस्कन्धौ ललाटिका । सर्वभूतेषु निर्दिष्टा उन्नतास्ते सुखप्रदा:' इत्याद्यप्यनुकूलम् । महाबाहु: महान्तौ मांसलौ बाहू यस्य स: । अत एवाजानुबाहुरित्यनेन न पौनरुक्त्यम् । कम्बुग्रीव: कम्बुतुल्या रेखात्रयविशिष्टा ग्रीवा यस्य स: । महाहनु: महत्यौ पुष्टे हनू कपोलोपरिभागौ यस्य स: ।। 1.1.9 ।।



महोरस्क इति । महद्विशालत्वादिना प्रशंसनीयमुरो यस्य स: । अत एव स्थिरं विशालं कठिनमुन्नतं मांसलं समम् । 'वक्षो यस्य महीपालस्तत्समो वा भवेन्नर:' इत्यादिनैतस्य सुलक्षणत्वमुक्तम् । पीनवक्षा इत्यनेन तु न पौनरुक्त्यम् । आदिशब्देन पीनत्वातिरिक्तानां ग्रहणात् । पीनशब्दस्य मांसलार्थकत्वात् । महेष्वास: महान्सर्वपूज्य: इष्वासो धनुर्यस्य स: । गूढजत्रु: गूढे मांसलत्वेन निमग्ने जत्रुणी अंसद्वयमध्यवर्तिसक्थिनी यस्य स: । अयं जत्रुशब्दार्थ: 'स्कन्धो भुजशिरोंसो ऽस्त्री सन्धी तस्यैव जत्रुणी' इत्यमरादवगन्तव्य: । अरिन्दम: अरिन्दमा रेखा यस्य स: । अत एव लक्षणप्रतिपादकेभ्यो नास्य वैरूप्यम् । नापि शत्रुनिबर्हण इत्यनेन पौनरुक्त्यम् । आजानुबाहु: जानुपर्यन्तदीर्घबाहु: । सुशिरा: शोभनं समवृत्तं छत्राकारं च शिरो यस्य स: । अस्य सुलक्षणत्वम् 'समवृत्तशिराश्चैव छत्राकारशिरास्तथा । एकछत्रां महीं भुक्ते दीर्घमायुश्च जीवति ।।' इत्यादिनोक्तम्। सुललाट: सुष्ठु अर्द्धचन्द्रनिभं ललाटं यस्य स:। इदमपि लक्षणम् 'अर्द्धचन्द्रनिभं तुङ्गं ललाटं यस्य स प्रभु:' इत्यादिनोक्तम्। सुविक्रम: शोभनस्सिंहवृषभगजव्याघ्रपादन्यासतुल्य: विक्रम: पादविक्षेपो यस्य स:। एतल्लक्षणं तु 'सिंहर्षभगजव्याघ्रगतयो मनुजा मुने। सर्वत्र सुखमेधन्ते सर्वत्र जयिनस्सदा ।।

' इति जगद्वल्लभायां व्याख्यातम् ।। 1.1.10 ।।



सम इति । सम: अतिह्रस्वातिदीर्घत्वाभाववान् । सुलक्षणप्रतिपादकशास्त्रोक्तोन्नतत्वविशिष्ट इत्यर्थ: । इदमपि लक्षणम् 'षण्णवत्यङ्गुलोत्सेधस्सार्वभौमो भवेन्नृप:' इत्यादिनोक्तम् । समविभक्ताङ्ग: समानि न्यूनाधिकपरिमाणशून्यानि विभक्तानि अमीलितान्यङ्गानि करचरणादीनि यस्य स: । इदमपि

लक्षणम् 'भ्रुवौ नासापुटे नेत्रे कर्णावोष्ठौ च चूचुके । कूर्परौ मणिबन्धौ च जानुनी वृषणौ कटी ।। करौ पादौ च सुस्फीतौ यस्य स्त: स तु भूपति: ।' इत्यादिनोक्तम् । स्निग्धवर्ण: स्नेहयुक्तो वर्णश्श्यामलो यस्य स: । इदमपि लक्षणम् 'स्निग्धेन्द्रनीलवर्णस्तु भोगं विन्दति पुष्कलम्' इत्यादिना प्रतिपादितम् । प्रतापवान् परमतेजस्वी । अत एव नास्य प्रकरणाद्वैरूप्यम् । पीनवक्षा: पीनं मांसलं वक्षो यस्य स: । विशालाक्ष: विशाले पद्मपत्रायिते अक्षिणी यस्य स: । "बहुव्रीहौ सक्थ्यक्ष्णो: स्वाङ्गात्" इति षच् । इदमपि लक्षणं सामुद्रिके 'रक्तान्तै: पद्मपत्राभैर्लोचनैस्सुखभोगिन:' इत्यनेन प्रतिपादितम् । अत एव लक्ष्मीवान्सर्वावयवशोभासम्पन्न: शुभलक्षण: शुभानि अनुक्तान्यपि लक्षणानि यस्य स: ।। 1.1.11 ।।



धर्मज्ञ इति । धम्र्मज्ञ: धर्म्मम् शरणागतरक्षणादिरीतिम् । स्वीकृतो न त्याज्य इत्याद्याकारिकां जानातीति स: । वक्ष्यति च 'मित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चन' इत्यादिना । अत एव सत्यसन्ध: सत्या सन्धा प्रतिज्ञा यस्य स: । वक्ष्यत्येतत् 'अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् । नहि प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषत: ।।' इत्यादिना सन्धाशब्दस्य प्रतिज्ञापरता 'प्रतिज्ञाने वधे सन्धा' इति वैजयन्ती कोशादवगन्तव्या। प्रजानां जनानां हिते स्वलोकप्राप्तये एव रत: प्रकटक्रीडाकारक:। अत एव वक्ष्यमाणेन रक्षिता जीवलोकस्येत्यनेन न गतार्थता। चशब्द एवार्थे। हितशब्द: प्राप्त्यर्थकहिधातुप्रकृतिकभावक्विबन्त:। अत एव यशस्वी नित्यं निरतिशयातिशययशोविशिष्ट:। ज्ञानसम्पन्न: ज्ञानेन अहमनन्यगति: रघुनाथ एवागतिकगतिरित्याकारकेण सम्पद्यते प्राप्नोतीति क्तप्रत्ययोपस्थितभूतत्वस्याविवक्षा। सम्पूर्वकपद: प्राप्त्यर्थकत्वं सम्पद्यते। विधिवशात्खलु कोपि काल इत्यादौ प्रसिद्धम्। अत एव शुचि: अतिपावनहेतु:। वश्य: पित्राचार्यादिषु विनीत: स्वाश्रिततन्त्रो वा। अत एव 'अहं भक्तपराधीन:' इत्यादि सङ्गच्छते। अत एव समाधिमान् आश्रितपालनविषयकविचारविशिष्ट: ।।

1.1.12 ।।

प्रजापती । प्रजापतिसम: प्रजापतीनां प्रजानियन्तृ़णां ब्रह्मादीनां सम: प्रजापालनादिषु समत्वमेकाकारवर्त्तनं यस्मात्स: । भावप्रधानो निर्द्देश: । श्रीमान् नित्यं विभूतिधारी अग्निहोत्रीति यावत् । अत्र 'श्रीर्वेशरचना शोभा भारती सरलद्रुमे । लक्ष्म्यां त्रिवर्गसम्पत्तिविद्योपकरणेषु च ।। विभूतौ च मतौ च स्त्री स्रु: स्त्रियां निर्भरे स्रवे ।' इति मेदिनी प्रमाणम् । 'भूतिर्भस्मनि सम्पदि' इत्यपि । अत एव धाता वेदोक्तकर्मकारी । अत एव रिपुनिषूदन: रिपून्वेदद्रुहो निषूदयति तद्दोग्धृत्वं निवर्त्तयतीति सुषामादित्वात्षत्वम् । अत एव जीवलोकस्य रक्षिता जीवन्ति प्राणधारणं कुर्वन्तीति जीवा मनुष्यादय: । जीवयन्ति प्राणधारणं कारयन्ति जीवा ईश्वरा: ते च ते चेत्येकशेष: । लोका: भुवनानि तेषां समाहार: जीवलोकं तस्य रक्षिता पालक: । अत एव धर्मस्य परिरक्षिता तत्तद्धर्मप्रवर्त्तक इत्यर्थ: ।। 1.1.13 ।।



रक्षितेति । स्वस्य धर्मस्य प्रवर्तकत्वरूपमहाराजाधिराजत्वस्य परिरक्षिता नित्यं स्वीकर्त्ता । अत एव स्वजनस्यापि रक्षिता परिरक्षिता । यस्मिन्सर्व्वरक्षकत्वं तस्मिन्स्वजनरक्षकत्वं सिद्धमेवेति । पुन: स्वजनरक्षकत्वप्रतिपादनं गोबलीवर्दन्यायेन विशिष्टबोधनाय । अत एव वेदवेदाङ्गतत्वज्ञ: वेदानामृग्यजुस्सामाथर्वणाम् अङ्गानां 'शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गति: । छन्दो विचितिरित्येतै: षडङ्गो वेद उच्यते ।।' इत्यत्रोक्तानां तत्त्वं जानातीति स:। पाठतोऽर्थतश्च निखिलज्ञातेत्यर्थ:। धनुर्वेदे च निष्ठित: धनुर्वेदे शस्त्रास्त्रप्रतिपादकशास्त्रे निष्ठित:। परमज्ञातेत्यर्थ: ।।

1.1.14 ।।

सर्वेति । सर्वशास्त्रार्थतत्वज्ञ: रूढियोगवृत्त्या

शास्त्रशब्दप्रतिपादितसाङ्ख्ययोगतर्कपूर्वोत्तरमीमांसास्मृत्याद्यर्थतत्त्वाभिज्ञ: । वेदाङ्गानां पृथगुपादानं तन्महत्वद्योतनाय । स्मृतिमान् अधीतवेदादिविस्मरणरहित: । प्रतिभानवान् प्रतिभानं शृता ऽश्रुतोभयोचितार्थस्य झटिति स्फूर्तिस्तद्वान् । अत एव सर्वलोकप्रिय: सर्वेषां लोकानां जनानां प्रिय: । 'लोकस्तु भुवने जने' इति कोश: । साधु: मृदुमधुरस्वभाव: । अदीनात्मा न कदाचिद्दीन: आत्मा स्वभावो यस्य स: । नित्यक्षत्रियत्वादित्यर्थ: । विचक्षण: लौकिकालौकिकक्रियाकुशल: ।। 1.1.15 ।।



अत एव सद्भिर्वसिष्ठादिभि: सर्वदाभिगत: नित्यं प्राप्त: । तत्र दृष्टान्तमाह सिन्धुभिर्नदीभिस्समुद्र इव । सिन्धुर्ना सरिति स्त्रियाम् इति कोश: । आर्य: ईश्वरेश्वरो ऽपि सर्वसम: पित्राचार्यादिमत्त्वेन लोकसदृश एव । अत एव वसिष्ठादिशिष्यत्वादि राघवस्य सङ्गच्छते । एतेन रघुनाथस्य परमदयालुत्वातिशयस्सूच्यते । चो ऽप्यर्थे । अत एव सदैव नित्यमेव प्रियं दर्शनं यस्य स: । प्रतिक्षणमनुभूतो ऽपि अननुभूत इव लक्ष्यत इत्यर्थ: । अत एव 'तदेव रूपं रमणीयताया: क्षणे क्षणे यन्नवतामुपैति' इत्युक्तम् । एतेन रघुनाथस्य विलक्षणसौन्दर्यातिशयस्सूचित: ।। 1.1.16 ।।



इदानीं "न तत्समश्चाभ्यधिकश्च दृश्यते" इति श्रुत्या 'समो न विद्यते यस्य विशिष्ट: कुत एव हि' इति स्मृत्या च वास्तवरघुनाथोपमानाभावे ऽपि वस्तुनो दुरवगाहत्वाद्बालान्बोधयितुमिषुवत्सविता गच्छतीतिवत्तद्गुणांशांशसदृशगुणवत: उपमानत्वानर्हानपि तद्गुणसदृशगुणवन्तमीश्वरमपि उपमानत्वेन प्रकल्प्याह स चेत्यादिना सार्द्धश्लोकद्वयेन । अस्मिन्पक्षे ऽर्थस्स्पष्ट एव । यद्वा तद्गुणलेशगुणानामन्यत्रापि प्रतीयमानत्वात्तत्तदुपमानत्वेन रघुनाथं वर्णयन्नाह स चेत्यादिना । सर्वगुणोपेत: सर्वैरुक्तवक्ष्यमाणैर्गुणैरुपेतो युक्त: कौसल्यानन्दवर्द्धन: कोसलस्य दक्षिणकोसलाधिपतेरपत्त्यं स्त्री कौसल्या "वृद्धेत्कोसलाजादाञ्ञ्यङ्" इति ञ्यङ् । ञ्यङ्प्रत्ययान्ताच्चाप् । तस्या आनन्दं वर्धयति स: । प्रतिक्षणमद्भुतमातृनवानन्ददातेत्यर्थ: । किञ्च कौसल्याया आनन्दो यस्मात् स कौसल्यानन्दो दशरथस्तं कौसल्या च आनन्दस्तदानन्दकर्त्ता दशरथश्च कौसल्यानन्दौ तौ वा यश:प्रख्यापनेन प्रतिक्षणं विलक्षणप्रमोददानेन च वर्द्धयतीति स: । असदृश: वास्तवसादृश्यप्रतियोगित्वानुयोगित्वानाक्रान्त । अत्रार्थे श्रुतिस्मृती "न तत्समश्चाभ्यधिकश्च दृश्यते" । 'समो न विद्यते यस्य विशिष्ट: कुत एव हि' इति असदृशपदावृत्त्या बहुव्रीहितत्पुरुषोभयाश्रयणादयमर्थो लब्ध: । वीर्ये सोमवत्प्रियदर्शन: वीर्येण स्वस्वप्रभावेण युक्ता: इ: काम: ईर्लक्ष्मी: सोम: उमासहितश्शिवो ऽस्त्याधारत्वेनास्येति सोमवान् चन्द्रश्च ते प्रियदर्शना यस्मात्स: । 'वीर्यं शुक्रे च शक्तौ च वीर्यं तेज:प्रभावयो:' इति हैम: । 'इकार: कथ्यते कामो: लक्ष्मीरीकार उच्यते' इत्येकाक्षर: । एतेन प्रियदर्शनत्वेन प्रसिद्धा: कामलक्ष्मीचन्द्रमस: यत्प्रसादात्प्रियदर्शनास्तस्य प्रियदर्शनत्वं किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनित: । किञ्च वीर्यस्य शुक्रहेतुभूतकामस्य ईर्भस्मत्वप्राप्तिर्यस्मात्स एव सोमवाँश्चन्द्रशेखर: तस्य प्रियं तृप्तिकारकं दर्शनं यस्य । यद्दर्शनमन्तरा शिवस्यापि न तृप्तिरित्यर्थ: । क्रोधे भक्तापकारिदोषापनयनहेतुभूते क्रोधाभासे कालाग्नि: सदृशो यस्य । क्षमया पृथिवी समा यस्य । त्यागे धनदश्चासौ इनो राजा च धनदेनो रन्तिदेव: कुबेरो वा समो यस्य तादृश: । यो विष्णुना विष्णु: स्वप्रकाशद्वारा व्यापक एव ना नराकृति: परमपुरुषो रघुनाथस्स इव । गाम्भीर्य्ये समुद्र: । रघुनाथनिष्ठगाम्भीर्यांशांशसदृशगाम्भीर्यवान्समुद्रो लक्ष्यत इत्यर्थ: । स एव धैर्य्येण हिमवान् । तन्निष्ठधैर्य्यांशांशसदृशधैर्य्यवान् हिमवाँश्च लक्ष्यत इत्यर्थ: । सत्ये स इव । अपर उत्कृष्टो धर्मो लक्ष्यत इत्यर्थ: । यद्वा । सर्वगुणोपेत: उक्तवक्ष्यमाणगुणयुक्त: । अत एव विष्णुर्न आसमन्ताद्भावेन सदृशो यस्येत्यर्थ: । नैकधेत्यादिवत्समास: । कौसल्यानन्दवर्द्धन: । वीर्ये सोमवत्प्रियदर्शनो रघुनाथ: क्रोधे

कालाग्निसदृश: क्षमया पृथिवीसम: त्यागे धनदेन सम: वर्ण्यते । कविभिरिति शेष: । स्वस्ववाक्यावनार्थमिति भाव: । स इव गाम्भीर्ये समुद्र: स इव धैर्येण हिमवान्स इव सत्ये ऽपरोधर्म: वर्ण्यत इत्यर्थ: । अत्र पक्षे अव्याख्यातार्थपदस्य पूर्वव्याख्यातार्थो बोध्य: । कौसल्यानन्दवर्द्धन इत्यनेन जनकादधिको पुत्रानन्दो मातरीति ध्वनितम् । एतेन 'विष्णोरर्द्धं महाभागम्' इत्यादौ रघुनाथस्य विष्णोरर्द्धत्वोक्त्या तत्सदृश्यं रामे सुवचमिति भूषणोक्तं व्याख्यानं निरस्तम् । 'सूर्यस्यापि भवेत्सूर्यो ह्यग्नेरग्नि: प्रभो: प्रभु:' इत्यादिना विरोधात् । न च विष्णुर्न आसमन्ताद्भावेन सदृशो यस्येति बहुव्रीहिस्वीकारे विष्णोरर्द्धं महाभागमिति विरुध्येतेति वाच्यम् । तत्रार्द्धशब्दस्य वर्द्धकपरत्वात् । अर्द्धयतीत्यर्द्ध इति व्युत्पते: । पचाद्यच् । विष्ण्वैश्वर्यावतारादीनां रघुनाथायत्तत्वाद्वामनादिस्वरूपस्य रघुनाथप्रेरणावर्द्ध्यत्वाच्च वर्द्धकत्वं सुवचमेव । अत एव 'सर्वेषामवताराणामवतारी रघूत्तम:' इत्यादि सङ्गच्छते । अत एव सूर्यास्यापीत्यादिना न विरोध: । किञ्चात्रार्द्धशब्दस्य समांशवाचकत्वे वाक्यार्थ एव दुरुपपादस्स्यात् । तथा हि नहि विष्णोस्स्वरूपे समांशविभागो युक्त: । विष्णोरपि द्विभुजत्वापत्ते: शक्तिविशेषेण द्विभुजत्वाभावे ऽप्यनित्यत्वप्रसङ्गात् । वचनप्रामाण्येनानित्यत्वाभावे ऽपि तद्विवक्षिताधिकत्वस्य विष्णौ दुरुपपादत्वाच्च । नह्यधिकभुजादिकं शक्त्याधिक्ये नियामकम् । कार्तवीर्यार्जुनस्य सहस्रभुजत्त्वे ऽपि चतुर्भुजविष्ण्वपेक्षया शक्त्याधिक्यस्य कार्त्तवीर्यार्जुने ऽश्रुतत्वात् । नाप्यैश्वर्यादौ समांशविभागो युज्यते । तदैश्वर्यादेरपरिमेयत्वात् । नह्यनन्तपदार्थे समप्रविभागं कर्तुं कश्चिच्छक्नोति । अत एव नह्याकाशं कश्चिदर्द्धत्वेन विभजते नापि खण्डवाचकत्वमनित्यत्वप्रसङ्गात् अखण्डप्रतिपादकश्रुतिविरोधाच्च । अन्यतरस्याधिकत्वे मानाभावेनान्यतरस्यैवोपमानत्वमित्यत्र विनिगमकाभावाच्च । अर्द्धस्य महाभागविशेषितत्वे रघुनाथस्यैवाधिकत्वेन्यविवक्षितोपमानत्वस्य विष्णौ भङ्गाच्च । अतो वर्द्धकपर एव अर्द्धशब्दस्य समांशखण्डयो: रूढ्या यौगिकार्थस्य बाधादयमर्थो न युक्त इति तु न भ्रमितव्यम् । प्रत्ययादिभेदेन श्ाब्दभेदात् । अत एव "कप्यासं पुण्डरीकमेवमक्षिणी पुरुष:" इत्यादौ कपिशब्दस्य वानरे रूढत्वे ऽपि सूर्यपरत्वं रामानुजाचार्यैर्व्याख्यातम् । पुनर्भूशब्दस्य 'पुनर्भूर्दिधिषूरूढा' इत्यादिना द्विर्विवाहितायां रूढत्वे ऽपि 'पुनर्भूर्यौगिक: पुंसि' इति दीक्षितैरुक्तम् । "रुजार्थानाम्भाववचनानामज्वरे:" इति सूत्रे वचनशब्दस्य वाचि रूढत्वे ऽपि कर्तृपरत्वमाश्रित्य भावकर्तृकाणामित्यर्थस्सम्पादितो महाभाष्यादौ । बृहदारण्यकश्रुतौ पञ्चमे ऽध्याये नवमब्राह्मणे जनकसभागतयाज्ञवल्क्यशाकल्यसंवादे "कतमो ऽध्यर्द्ध:" इति प्रश्ने "योयं पवते" इत्युक्तम् । "कथमध्यर्द्ध:" इति प्रश्ने "यदस्मिन्निदँ सर्व्वमध्यार्ध्नोत्" इत्युत्तरम् । तत्रार्द्धशब्दस्य वर्द्धकपरत्वम् । विष्णुशब्दस्य पायसपरत्वे विष्णोरर्द्धमित्यादौ विष्णुशब्देन वस्तुतो नारायणस्यानुपस्थानात्तत्प्रतियोगिकसादृश्यानुयोगिकत्वं रामे युक्तम् । विष्णोरर्द्धमित्युक्तेरिति भूषणकारोक्तेरसम्भवाच्च । विष्णोरीश्वरत्वेनेश्वरस्येश्वरान्तराप्रसिद्धिरित्यपि न भ्रमितव्यम् । "तमीश्वराणां परमं महेश्वरम्" इत्यादिश्रुतिषु ईश्वरान्तरस्य प्रसिद्धत्वादिति दिक् । सार्द्धश्लोकद्वयमेकान्वयि ।। 1.1.17,18 ।।



बालकाण्डोक्तं सूचयित्वा ऽयोध्याकाण्डवृत्तमाह तमेवमित्यादिना । सत्यपराक्रमम् अमोघवीर्यं प्रियं सर्वप्रीतिविषयीभूतं जेष्ठं पूर्वप्रादुभूतं श्रेष्ठगुणैर्युक्तम् । श्रेष्ठे ज्येष्ठे ये ऽनुचिता: गुणा वात्सल्यादयस्तैर्युक्तम् । प्रकृतीनाम्प्रजानां हितैर्हितफलकोपदेशैर्युक्तम् । एवं सर्वगुणसम्पन्नं तं सुतं स्वपुत्रं रामं प्रकृतिप्रियकाम्यया प्रजाकल्याणेच्छया महीपति: अप्रतिहतचक्रो राजाधिराजो दशरथ: प्रीत्या अतिप्रेम्णा यौवराज्येन संयोक्तुमैच्छत् । दशरथशब्दार्थस्तु दशसु दिक्षु अप्रतिहतो रथो यस्य स: । अर्द्धचतुष्टयमेकान्वयि ।। 1.1.19,20 ।।



तस्येति । अथा ऽनन्तरं पूर्वं शम्बरासुरविजयकाले सारथ्यकरणेन राजप्रसादसमये राज्ञा दत्तवरा दत्तो वरो यस्यै सा देवी केकयी भार्या अभिषेकसम्भारान् वेदोक्तदध्यादिसामग्रीर्दृष्ट्वा मन्थरावाक्यादवगत्य रामस्य विवासनं भरतस्याभिषेचनं च एनं वरं भूपतिमयाचत । दृशिर्ज्ञानसामान्ये । केकेयी शब्दार्थस्तु केकयस्य केकयजनपदाधिपते: कन्या केकयी "पुंयोगादाख्यायाम्" इति ङीष् । तत्र योगशब्देनाविशेषाज्जन्यजनकभावो ऽपि गृह्यते । प्रसिद्धश्च केकयीशब्द: "प्राक्केकयीतो भरतस्ततोभूत्" इत्यादिना भट्टिकाव्यादौ जनपदशब्दादित्यञि टिढ्ढेति ङीपि तु कैकेयीति स्यात् । "तद्धितेष्वचाम्" इति वृद्धे: । "केकयमित्रयुप्रलयानां यादेरिय:" इतीयादेशाश्च । "अतश्च" इति लुक् तु न । "न प्राच्यभर्गादि" इति निषेधात् । प्रसिद्धश्च कैकेयीशब्दो ऽपि कैकेयिकामा: फलितास्तवेतयदौ रघुकाव्ये वक्ष्यते च । अत्रापि बहुश: स्थले कैकयीशब्दस्यापि प्रामाणिकत्वे इयादेशविधायके विकल्पानुवृत्तिरनुसर्त्तव्या । अनुसृता च कैश्चित् । किञ्च कं सुखमेव एकं कवलं कैकन्तद्याति देवादीन् प्रापयतीति कैकयी । गौरादित्वं प्रज्ञादित्त्वं वा कल्प्यमिति दिक् । सार्द्धश्लोक एकान्वयी ।। 1.1.21,22 ।।



स इति । धर्मस्य प: पालनं तस्य आशो व्याप्तिस्तेन संयुत: । धार्मिकशिरोमणिरित्यर्थ: । स राजा महाराजाधिराजो दशरथ: सत्यवचनात्सत्या ऽयोध्या राजधान्यस्त्यस्येति सत्यो रघुनाथस्तस्मिन्यद्वचनं ब्रह्मप्रार्थनास्वीकारसूचकवाक्यं तस्माद्धेतो: प्रियं सुतं रामं विवासयामास । एतेनारण्यगमनमन्तराब्रह्मप्रार्थनास्वीकारसिद्धिर्न स्यादिति हेतुर्व्यक्त: । तेन महाराजाधिराजस्य ब्रह्मप्रार्थनादिविज्ञातृत्वं परमदयालुत्वं च रघुनाथसुखसुखित्वं च व्यक्तम् । तेन महाराजदशरथवदेव वर्त्तितव्यमित्युपदेशो व्यञ्जित: । एतदर्थविवक्षयैव धर्मपाशेन बन्धितस्सम्बद्धो वेति नोक्तम् । अत एव धर्मपाशेन संयुत इत्यनेन सत्यवचनादित्यस्य न गतार्थत्वम् । एतेन सत्यवचनादित्यस्य विरुद्धमर्थं प्रकल्प्य दशरथो न मुक्त इति भूषणकारवचनमाकाशमनवकाशमितिवद्ध्येयम् । न च कालवशानुग इत्यादिवक्ष्यमाणायोध्याकाण्डवाक्येन रघुनाथानुचरेषु कालवशत्वाभावसम्पादनात् प्राकृतेषु कालवशत्वाभावस्यासम्भवेन रघुनाथानुचराणां प्राकृतविलक्षणत्वप्रतिपादनेन विरोधाच्च ।। 1.1.23 ।।



स इति । केकय्या: प्रिये विवासने यत्कारणं ब्रह्मप्रार्थनास्वीकारसिद्ध्या भवितव्यम् । तस्माज्जातात्पितुर्वचननिर्द्देशाद्धेतो: प्रतिज्ञां स्वकृतप्रतिश्रवमनुपालयन्स वीरो रामो वनं जगाम ।। 1.1.24 ।।



तमिति । भ्रातुर्दयित: नित्यं भ्रातृनिष्ठप्रीतिविषय: प्रिय: नित्यं रामविषयकप्रीतिमान् अत एव विनयसम्पन्नस्सुमित्रानन्दवर्द्धनो भ्राता लक्ष्मण: सौभ्रात्रम् सुभ्रातृत्वम् । वियोगासहिष्णुत्वसूचकचेष्टादीत्यर्थ: । अनुदर्शयन्नाचरन् व्रजन्तं तं भ्रातरं रामं स्नेहादनुजगाम । ह इति महत्सुप्रसिद्धम् । सुमित्त्रानन्दवर्द्धन: कौशल्यानन्दवर्द्धनवद्व्याख्येय: । सुमित्त्राशब्दार्थस्तु सुमिदं रामविषयकातिस्नेहं त्रायते पालयति नित्यं नवन्नवं संवर्द्धयतीत्यर्थ: । मिदशब्दोभावक्विबन्त: । त्रशब्द: कर्तृकप्रत्ययान्त: । सार्द्धश्लोक एकान्वयी ।। 1.1.25 ।।



रामस्येति । प्राणसमा प्राणसदृशी दयिता प्रिया हिता प्रियकरी किञ्च प्राणवत्समाहिता रघुनाथेन नित्यं स्वीकृता जनकस्य कुले जाता प्रादुर्भूता सर्वलक्षणसम्पन्नेत्यादिविशेषणचतुष्टयविशिष्टा सीतेव निर्मिता प्रकटिता देवमायाविष्ण्ववतारभूतमोहिनीत्यर्थ: । देवमायाशब्दार्थस्तु देवानां मा आयुर्बलादिसम्पत्तिस्तां यात्यमृतदानद्वारा प्रापयति सा । अन्तर्भावितणिजर्थो याति: । किञ्च निर्गतं मितमियत्ता यस्यास्सा देवस्य परमात्मनो मायाकृपेव अपिरिमितपरमात्मदयालुतैव ततो निश्चित्य प्रादुर्भूतेवेत्यर्थ: । अत एव

नारीणां सर्वैर्लक्षणैस्सामुद्रिकोक्तशुभसूचकसकललक्षणै: सम्पन्ना । नित्यं संयुक्तेत्यर्थ: । अत एवोत्तमा ब्रह्माण्यादितो ऽपि श्रेष्ठा । अत एव वधू: रघुनाथमनोहारिणीत्यर्थ: । सीता रामस्य भार्या राममनुगता अन्वगच्छत् । तत्र दृष्टान्त: शशिनं चन्द्रमसं यथा रोहिणी चन्द्रस्यासाधारणस्त्री । अनेनोपमालङ्कारेण यथा चन्द्र: संयुक्तसुखप्रद: वियुक्तदु:खप्रद: तथा रघुनाथो ऽपि धर्मसंयुक्तसुखप्रद: धर्मवियुक्तदु:खप्रद: प्रतीत इत्युपमालङ्कृतिर्व्यञ्जिता । तेन रघुनाथस्य सर्वसमत्वं ध्वनितम् । अत्राप्युपमानोपमेयभाव इषुवत्सविता गच्छतीतिवत् । किञ्च राममनुगता सीता शशिनं रोहिणी इव अनुगतेत्यर्थ: । वधूशब्द: लुप्ताकारकावपूर्वककम्पनार्थकधूप्रकृतिकक्विबन्त: । 'माया दम्भे कृपायां च' इति कोशान्मायाशब्द: कृपापर: । अपिर्हेतौ । अर्द्धचतुष्टयमेकान्वयि ।। 1.1.26,27 ।।



पौरैरिति । पौरै: पुरोद्भवैर्बालवृद्धादिभिरपि दशरथेन पित्रा च दूरं स्वस्वोचितादधिकमनुगत: । द्रुतं पुन: सम्मेलनेच्छया अल्पानुगमने कर्तव्ये दूरानुगमनेन तेषां प्रीत्यतिशयो ध्वनित: । धर्मात्मा परमधर्मप्रवर्त्तक: रघुनाथ: शृङ्गवेरपुरे जातं प्रियं परमप्रीतिमन्तं निषादाधिपतिं गुहं गङ्गाकूले आसाद्य सम्प्राप्य सूतं रथेन स्वप्रापणार्थमागतं सुमन्त्रं व्यसर्ज्जयत् । स रथं परावर्त्तयदित्यर्थ: । शृङ्गवेरशब्दार्थस्तु शृङ्गं वाति अवयवत्वेन प्राप्नोतीति शृङ्गवा: शृङ्ग्यृषि: यस्य ईर: प्राप्तिर्यस्मिन्तत् शृङ्गवेरम् । किञ्च शृङ्गाणि सन्ति येषां ते शृङ्गा: मृगा: पर्वता वा । अर्शआद्यच् । तैस्सह तेषु वा अवेरन्नित्यं प्राप्तिर्यस्य स एव ऋषि: तस्य पुरं तद्विवाहे लब्धपत्तनमिति यावत् । अवेत्युपसर्गाकारलोप: । अयं पाठो मदसम्मत: । भूषणकारसम्मतशृङ्गिवेरेति पाठे "अत इनिठनौ" इति इन्प्रत्यय: । एतेन तद्देशस्यातिपवित्रत्वं सूचितम् । तत्र जातमित्यनेन शृङ्ग्यृषेस्सेवको ऽयमिति ध्वनितम् । तेन स रघुनाथकृपाधिकारीति सूचितम् । गुहशब्दार्थस्तु गूहति परमात्मप्रेम्णा श्रेष्ठानप्याच्छादयतीति गुह: । रघुनाथविषयकपरमप्रीतिमानित्यर्थ: । इगुपधलक्षण: क: । सार्द्धश्लोक एकान्वयी ।। 1.1.28,29 ।।



सूतविसर्जनानन्तरकालिकं रामवृत्तमाह गुहेनेत्यादिना । गुहेन लक्ष्मणेन च सीतया च सहितो राम: अवनेन अवनी पृथ्वी एवास्त्याधारत्वेन यस्मिन्गमने तेन पादत्राणादिरहितसञ्चारेणेत्यर्थ: । किञ्च तेवनेन लीलया वनं गङ्गाजलसमीपं गत्वा प्राप्य अतिष्ठदिति शेष: । अत्र प्रथमपक्षे ते इति तत्रान्वयि अमृतस्वरूपे इति तदर्थ: । 'तश्चौरामृतपुच्छेषु क्रोडे म्लेच्छे च कुत्रचित्' इति मेदिनी । चकार उभयान्वयी । तेवनेनेति देवनार्थकतेवृधातुप्रकृतिकल्युडन्तत्वेन सिद्धम् । यद्वा । स राम: गुहादिनैव सह वनं गङ्गाजलसमीपं हित: चलित आसीदिति शेष: । हित इति गत्यर्थकहिप्रकृतिकनिष्ठान्तम् । "विनापि तद्योगं तृतीया" इति सिद्धान्त: । देवगन्धर्वसङ्काशा: देवादिप्रकाशकास्ते त्रय: सीतारामलक्ष्मणा: बहूदका: अगाधजला: नदी: गङ्गां तीर्त्वा । बहुत्वमादरार्थम् । भरद्वाजस्य शासनात् भरद्वाजशिक्षात: चित्रकूटमनुप्राप्य द्रुतं सङ्गम्य तत्र चित्रकूटे रम्यमावसथं पर्णशालां कृत्वा रममाणा: विहरन्त: सन्त: सुखं न्यवसन् । देवगन्धर्वसङ्काशा इत्यनेन रामस्याटवीगमनमात्रेणास्मदरयो निहतप्राया इति देवादिनिश्चय: सूचित: । सार्द्धश्लोकद्वयं सम्मिलितान्वयि ।। 1.1.30,31 ।।



रामगमनौत्तरकालिकायोध्यावृत्तमाह चित्रकूटमित्यादिना । रामे चित्रकूटं तथा उक्तप्रकारेण गते प्राप्ते सति पुत्रशोकातुर: प्रकटितपुत्रवियोगजनितशोकाक्रान्त: राजा दशरथ: सुतं विलपन् 'हा सुत' इति विलापं कुर्वन्स्वर्गं स्व: स्वर्गे गीयते नित्यं प्रशस्यते ऽसौ स्वर्ग: । अप्रकटायोध्यापरपर्यायसाकेतलोकस्तज्जगाम । स्वर्शब्दस्य स्वर्गवाचकत्वं स्वरिति स्वर्गे परलोके चेत्यादिना मनोरमादौ स्पष्टम् । अर्द्धद्वयमेकान्वयि । एव मुत्तरत्रापि ।। 1.1.32 ।।



गत इति । तस्मिन्महाराजदशरथे गते अप्रकटसाकेतं प्राप्ते सति वशिष्ठप्रमुखैर्वशिष्ठाद्यैर्द्विजै राज्याय राज्यं कर्तुं नियुज्यमानो ऽपि महाबलो भरत: राज्यं न्नैच्छत् । एतेन भरतस्य परमसुभ्रातृत्वं बोधितम् । राज्यायात्र चतुर्थी "क्रियार्थोपपदस्य च कर्मणि स्थानिन:" इति सूत्रविहिता । तुशब्दोप्यर्थे । मृत इति पाठस्तु सन्दर्भाशुद्ध्या न च कालवशानुग इत्यनेन विरोधाच्च न ऋषिप्रणीत इति प्रतीयते । सत्वे तु तस्मिन् प्रसिद्धे दशरथे मृते लोकान्तरं प्राप्ते सतीत्यर्थ: । मृत इति आचारक्विबन्तप्रकृतिककर्त्रजन्तप्रकृतिकसप्तम्यन्तम् । किञ्च मृते मकारवाच्येषु जीवजातेषु ऋत: कृपा यस्य तस्मिन् लोककृपामूलकरामप्रेषणहेतुकसाकेतलोकप्राप्तिमति सतीत्यर्थ: । मकारस्य जीववाचकत्वे प्रकाणम् "पञ्चविंशोयमात्मा" इति श्रुति: । अत एव प्रणवार्थव्याख्याने 'अकारार्थो विष्णुर्जगदुदयरक्षाप्रलयकृन्मकारार्थो जीवस्तदुपकरणं वैष्णवमिति' रामानुजाचार्यैर्व्याख्यातम् ।। 1.1.33 ।।



दिदृक्षुः दृशिर्ज्ञानसामान्ये । स इति । रामपादप्रसादक: रामस्य पादौ प्रसादयति स: । किञ्च रामपादप्रसादादेव कं सुखं यस्य स वीरो भरत: वनं रामाधिष्ठितचित्रकूटारण्यं जगाम । रामपादप्रसादक इत्यनेन रघुनाथाङ्गानां चेतनत्वं भरतस्य प्रेमाधिक्यं च सूचितम् । तदङ्गानां चेतनत्वप्रतिपादिका "आनन्दरूपममृतं यद्विभाति तदा प्रणखादानन्दमेव सच्चिदानन्दात्मको भगवान् सच्चिदानन्दात्मिकास्य व्यक्ति:" इत्यादि: श्रुति: । अर्द्धं पृथक् ।। 1.1.34 ।।



गत्वेति । आर्ये रामे भाव: परप्रीति: पुरस्कृता प्रकटीकृता येन । किञ्च आर्यस्य भाव: अतिचिन्तनं पुरस्कृतं येन स भरत: । सत्यपराक्रमम् अमोघवीर्यवन्तं महात्मानं महान्त: सर्वपरा: आत्मानो धृत्यादयो यस्य तं भ्रातरं रामं गत्वा प्राप्य रामम् उक्तविशेषणविशिष्टमयाचदेव । अत्र रामविशेषणानामावृत्तिर्बोध्या: । यद्वा रामस्य मा परमसम्पत्ति: सीता तस्यामार्यभाव: श्रेष्ठत्वं पुरस्कृतं येन स भरत: । सत्यपराक्रमं सत्यपरान्सत्यवक्तृ़नाक्रमते प्राप्नोति स तम् । मह