Sanskrit Commentaries

तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा ।

सेनापतिमभीप्सन्तः पितामहमुपागमन् ।। 1.37.1 ।।

अथ प्रतिज्ञातं स्कन्दोत्पादकत्वरूपं दिव्यसम्भववैभवमाह सप्तत्रिंशे--तप्यमान इत्यादि । तप्यमाने तपःकर्मकत्वादात्मनेपदकर्मवद्भावौ । देवसेनापतित्वं विहाय केवलतपःप्रवण इत्यर्थः ।। 1.37.1 ।।



ततो ऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् ।

प्रणिपत्य सुराः सर्वे सेन्द्राः साग्निपुरोगमाः ।। 1.37.2 ।।

तत इति । अग्निना पुरोगमेन सहिताः साग्निपुरोगमाः । सुराः सर्वे प्रणिपत्य सुराः सर्वे अब्रुवन्निति क्रियाभेदान्न पुनरुक्तिः ।। 1.37.2 ।।



यो नः सेनापतिर्देव दत्तो भगवता पुरा ।

तपः परममास्थाय तप्यते स्म सहोमया ।। 1.37.3 ।।

यो न इति । भगवता भवता । यः सेनापतिरस्मभ्यमादिकाले दत्तः स इदानीमुमया सह तप्यते । स्मेति प्रसिद्धौ ।। 1.37.3 ।।



यदत्रानन्तरं कार्यं लोकानां हितकाम्यया ।

संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ।। 1.37.4 ।।

यदिति । अनन्तरं सेनापतावन्यपरे सति । अत्र सेनापतिविषये । यत्कार्यं तत्संविधत्स्व आलोचय । तमेवाहूय सैनापत्ये निवेशय, अन्यं वोत्पादयेत्यर्थः ।। 1.37.4 ।।



देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।

सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ।। 1.37.5 ।।

देवानामिति । सान्त्वयन् उग्रे तपसि वर्तमानस्य तस्य रुद्रस्य निवर्तनमशक्यम्, तत्र नाभिनिवेशः कार्य इति समादधान इत्यर्थः ।। 1.37.5 ।।



शैलपुत्र्या यदुक्तं तन्न प्रजाः सन्तु पत्निषु ।

तस्या वचनमक्लिष्टं सत्यमेतन्न संशयः ।। 1.37.6 ।।

अन्यं वोत्पादयेत्यत्र प्रतिवक्ति--शैलेति । शैलपुत्र्या पार्वत्या देवानां पत्निषु प्रजा न सन्त्विति यदुक्तं तद्वचनम् । अक्लिष्टम् अमोघम् । मया सत्यमेवोच्यते अत्र संशयो भवद्भिर्न कर्तव्यः ।। 1.37.6 ।।



इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः ।

जनयिष्यति देवानां सेनापतिमरिन्दमम् ।। 1.37.7 ।।

तर्हि का गतिरित्यत्राह--इयमिति । इयं बुद्धिस्था । अस्तीति शेषः ।। 1.37.7 ।।



ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तत्सुतम् ।

उमायास्तद्बहुमतं भविष्यति न संशयः ।। 1.37.8 ।।

कथमिदं गङ्गा सम्मन्यते, कुतो वोमा न कुप्येत्तत्राह--ज्येष्ठेति । तत्सुतम् अग्नेः सुतं मानयिष्यति, बहुमतिपूर्वं जनयिष्यतीत्यर्थः । तदुमाया बहुमतं स्वज्येष्ठायाः प्रीत्यर्थत्वादिति भावः ।। 1.37.8 ।।



तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन ।

प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ।। 1.37.9 ।।

तदिति । कृतार्थाः कृतार्थप्रायाः ।। 1.37.9 ।।



ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् ।

अग्निं नियोजयामासुः पुत्रार्थं सर्वदैवताः ।। 1.37.10 ।।

त इति । दैवतशब्दः पुँल्लिङ्गोप्यस्ति । "दैवतानि पुंसि वा" इत्यनुशासनात् । दग्धरुद्रतेजसो ऽग्नेः स्थानं कैलासः । पुत्रार्थं पुत्रोत्पादनार्थम् अग्निमूर्त्यन्तरं दग्धरुद्रतेजःस्थम् ।। 1.37.10 ।।



देवकार्यमिदं देव संविधत्स्व हुताशन ।

शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ।। 1.37.11 ।।

देवेति । संविधत्स्व सम्पादय । अस्य विवरणमुत्तरार्द्धम् । प्रथमं सामान्येनोक्तिरग्निहृदयज्ञानाय । महातेज इति सम्बोधनम् । तेजः रेतः ।। 1.37.11 ।।



देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः ।

गर्भं धारय वै देवि देवतानामिदं प्रियम् ।। 1.37.12 ।।

देवतानामिति । देवताभ्यस्तथेति प्रतिज्ञायाकाशगङ्गां गत्वा हे देवि गर्भं धारय इत्युवाचेति शेषः । किमर्थमित्यत आह--देवतानामिदं प्रियमिति ।। 1.37.12 ।।



तस्य तद्वचनं श्रुत्वा दिव्यं रूपमधारयत् ।

दृष्ट्वा तन्महिमानं स समन्तादवकीर्यत ।। 1.37.13 ।।

तस्येति । दिव्यं रूपं दिव्यस्त्रीवेषम् । सो ऽग्निस्तस्या महिमानं सौन्दर्यातिशयं दृष्ट्वा समन्तात्सर्वावयवेभ्यः अवकीर्यत अवाकिरत् । आर्षः श्यन्प्रत्ययः । हृतवीर्यो ऽभूत् । "अङ्गारसदृशी नारी घृतकुम्भसमः पुमान् ।" इति न्यायात् ।। 1.37.13 ।।



समन्ततस्तदा देवीमभ्यषिञ्चत पावकः ।

सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ।। 1.37.14 ।।

समन्तत इति । समन्ततः सर्वावयवेषु अभ्यषिञ्चत रेतः सर्वावयवेषु यथा व्याप्तं भवति तथा सिक्तवानित्यर्थः । तेन सर्वस्रोतांसि सर्वावयवाः पूर्णानि व्याप्तानि ।। 1.37.14 ।।



तमुवाच ततो गङ्गा सर्वदेवपुरोहितम् ।

अशक्ता धारणे देव तव तेजः समुद्धतम् ।

दह्यमानाग्निना तेन सम्प्रव्यथितचेतना ।। 1.37.15 ।।

तमित्यर्द्धत्रयम् । तेनाग्निना अग्नितेजसा दह्यमाना अत एव सम्प्रव्यथितचेतना अतिदुःखितचित्ता गङ्गा । सर्वदेवानां पुरोहितम् । "अग्निमीडे पुरोहितम्" इति श्रुतेः । तमग्निमुवाच । कथम् ? हे देव तव तेजः समुद्धतं अभिवृद्धं भवति अस्य धारणे अशक्तास्मीति ।। 1.37.15 ।।



अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ।

इह हैमवते पादे गर्भो ऽयं सन्निवेश्यताम् ।। 1.37.16 ।।

अथेति । सर्वदेवानां यत् हुतं तमश्नातीति सर्वदेव हुताशनः । पादे पर्यन्तपर्वते अग्निदग्धश्वेतपर्वतीकृतरुद्रतेजोराशावित्यर्थः ।। 1.37.16 ।।



श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ।

उत्ससर्ज महातेजः स्रोतोभ्यो हि तदानघ ।। 1.37.17 ।।

श्रुत्वेति । महातेज इति सम्बोधनम् । स्रोतोभ्यः, उत्कृष्येति शेषः ।। 1.37.17 ।।



यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम् ।

काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम् ।। 1.37.18 ।।

यदिति । अस्याः गङ्गातः । निर्गतं यत् शोणितादि धरणीं गतं तस्मात्तप्तजाम्बूनदप्रभं द्रुतस्वर्णविशेषकान्ति काञ्चनम् । अमलं शुभं हिरण्यं रजतं च । अभवदिति वक्ष्यमाणमनुषज्यते । अमलमिति निर्गतविशेषणं वा ।। 1.37.18 ।।



ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभ्यजायत ।

मलं तस्याभवत्तत्र त्रपु सीसकमेव च ।। 1.37.19 ।।

ताम्रमिति । गङ्गातो निर्गतात् तैक्ष्ण्यात् क्षारात् । ताम्रं कार्ष्णायसं चाभ्यजायत । तस्या गङ्गातः, अभवत् निर्गच्छति स्म । मलं तत्र भूमौ त्रपु सीसकं चाभ्यजायत । कृष्णायसमेव कार्ष्णायसम् ।। 1.37.19 ।।



तदेतद्धरणीं प्राप्य नानाधातुरवर्द्धत ।। 1.37.20 ।।

उपसंहरति--तदेतदिति । तदेतत् गङ्गातो निर्गतम् ।। 1.37.20 ।।



निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् ।

सर्वं पर्वतसन्नद्धं सौवर्णमभवद्वनम् ।। 1.37.21 ।।

एवं गर्भोत्सर्जनकाले गङ्गातो निर्गतानां शोणितादीनां सौवर्णादिभावमुक्त्वा गर्भतेजोरञ्जनात् केषाञ्चित्स्वर्णभावमाह निक्षिप्तेति । गर्भे गङ्गया निक्षिप्तमात्रे तस्य तेजोभिरभिरञ्जितं व्याप्तं पर्वतसन्नद्धं पूर्वोक्तश्वेतपर्वतसहितम् । सर्वं तद्वनं शरवणम् । सौवर्णं स्वर्णमयं अभवत् ।। 1.37.21 ।।



जातरूपमिति ख्यातं तदाप्रभृति राघव ।

सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् ।। 1.37.22 ।।

जातेति । यदा सुवर्णं जातं तदाप्रभृति हुताशनसमप्रभं सुवर्णम्, जातं रूपं यस्येति व्युत्पत्त्या जातरूपमिति विख्यातमभूत् ।। 1.37.22 ।।



तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् ।। 1.37.23 ।।

उपसंहरति--तृणेति ।। 1.37.23 ।।



तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः ।

क्षीरसम्भावनार्थाय कृत्तिकाः समयोजनयन् ।। 1.37.24 ।।

एवं गङ्गयोत्सृष्टस्य गर्भस्य पोष्ाणप्रकारमाह--तमिति । ततः गङ्गोत्सर्जनानन्तरम् । जातं तं कुमारं मरुद्गणाः देवगणाः सह युगपत् । क्षीरसम्भावनार्थाय क्षीरेण वर्द्धनप्रयोजनाय कृत्तिकाः समयोजयन् । ण्यन्तत्वाद्द्विकर्मकत्वम् ।। 1.37.24 ।।



ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ।

ददुः पुत्रो ऽयमस्माकं सर्वासामिति निश्चिताः ।। 1.37.25 ।।

ता इति । कृत्तिकाः अयमस्माकं सर्वासां पुत्रो भवत्विति देवैः सह समयं सङ्केतं कृत्वा निश्चिताः कृतनिश्चयाः सत्यः । जातमात्रस्य तस्य क्षीरं ददुः दातुमुद्युक्ताः ।। 1.37.25 ।।



ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् ।

पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ।। 1.37.26 ।।

तत इति । उक्तविशेषणः पुत्रः कार्तिकेयः कृत्तिकापुत्रो भविष्यति इति । ब्रुवन् अब्रुवन् ।। 1.37.26 ।।



तेषां तद्ववचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे ।

स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम् ।। 1.37.27 ।।

तेषामिति । कृत्तिकाः गर्भपरिस्रवे गर्भोदके । स्कन्नं पतितम् । स्नापयन् अस्नापयन् । गर्भस्रवनिवृत्त्यर्थम् ।। 1.37.27 ।।



स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात् ।

कार्तिकेयं महाभागं काकुत्स्थ ज्वलनोपमम् ।। 1.37.28 ।।

स्कन्द इति । स्कन्नत्वात् स्कन्द इत्यन्वर्थनाम, चक्रुरित्यर्थः ।। 1.37.28 ।।



प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् ।

षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ।। 1.37.29 ।।

प्रादुर्भूतमिति । ततः स्नापनानन्तरं । षण्णां कृत्तिकानां क्षीरं प्रादुर्भूतम् । तच्च स्तनजं पयः षडाननो भूत्वा जग्राह ।। 1.37.29 ।।



गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा ।

अजयत्स्वेन वीर्येण दैत्यसैन्यगणान् विभुः ।। 1.37.30 ।।

गृहीत्वेति । एकाह्नेति टजभावः समासान्तस्यानित्यत्वात् । एकदिनेन स्तन्यं पीत्वा क्रमेण सुकुमारवपुरपि दैत्यगणानजयत् ।। 1.37.30 ।।



सुरसेनागणपतिं ततस्तमतुलद्युतिम् ।

अभ्यषिञ्चन् सुरगणाः समेत्याग्निपुरोगमाः ।। 1.37.31 ।।

सुरेति । सुरसेनागणपतित्वेनाभ्यषिञ्चन्नित्यर्थः । प्रथममभिषेकस्ततो जय इत्यर्थक्रमः ।। 1.37.31 ।।



एष ते राम गङ्गाया विस्तरो ऽभिहितो मया ।

कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ।। 1.37.32 ।।

एष इति । विस्तरः दिव्यसम्भवः । तमेवाह कुमारेति । एवमेतदाख्यानश्रवणफलमुक्तम् धन्य इत्यादिना ।। 1.37.32 ।।



भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः ।

आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ।। 1.37.33 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः ।। 37 ।।

अथ प्रसङ्गात्तद्भक्तिफलमाह--भक्तश्चेति । सलोक एव सालोक्यम् । स्वार्थे ष्यञ् । तस्य भावः सालोक्यता, स्कन्दसमानलोकत्वमित्यर्थः ।। 1.37.33 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूष्ाणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तत्रिंशः सर्गः ।। 37 ।।