Sanskrit Commentaries

तया परुषमुक्तस्तु कुपितो राघवानुजः ।

स विकांक्षन् भृशं रामं प्रतस्थे नचिरादिव ।। 3.46.1 ।।

अथ सीतायाः लक्ष्मणविषयपरुषभाषणफलं दर्शयत्येकादशभिः सर्गैः । रावणप्रलोभनमाह षट्चत्वारिंशे तया परुषमित्यादि । विकाङ्क्षन् अनिच्छन्नेव राममुद्दिश्य प्रतस्थे । नचिरादिव अविलम्बितमेव । इवशब्दो वाक्यालङ्कार इति वा । यद्वा नचिरादिव सीतात्यागासहिष्णुतया पादौ पश्चादाकर्षतः रामप्राप्तित्वरा तु पुरतः कर्षतीतीवशब्दस्य भावः ।। 3.46.1 ।।



तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः ।

अभिचक्राम वैदेहीं परिव्राजकरूपधृत् ।। 3.46.2 ।।

तदिति । आस्थितः अवकाशं प्रतीक्षमाणः स्थितो दशग्रीवः । तदेव अन्तरम् अवकाशम् । आसाद्य वैदेहीम् अभिचक्राम आभिमुख्येनाजगाम । परिव्राजको भिक्षुः तस्य रूपं लिङ्गं धारयतीति परिव्राजकरूपधृत् ।। 3.46.2 ।।



श्लक्ष्णकाषायसंवीतः शिखी छत्त्री उपानही ।

वामे चांसे ऽवसज्याथ शुभे यष्टिकमण्डलू ।

परिव्राजकरूपेण वैदीहीं समुपागमत् ।। 3.46.3 ।।

परिव्राजकलिङ्गान्याह श्लक्ष्णेति । शिखी अदन्तत्वाभावे ऽपि व्रीह्यादित्वादिनिः । छत्त्रीत्यत्र वाक्यसन्धेरनित्यत्वेन यणभावः । उपानहीत्यत्र इनिरार्षः । यष्टिः त्रिदण्डम् । शिखीत्यनेन साहचर्यात् । अत्र धर्मप्रधानजनककुलनन्दियाः सीताया विश्वासाय धृतत्वादित्थमेव यतिलिङ्गमिति दर्शितम् । तथाहाङ्गिराः "यतेर्लिङ्गं प्रवक्ष्यामि येनासौ लक्ष्यते यतिः । बह्मसूत्रं त्रिदण्डं च वस्त्रं जन्तुनिवारणम् । शिक्यं पात्रं बृसी चैव कौपीनं कटिवेष्टनम् । यस्यैतद्विद्यते लिङ्गं स यतिर्नेतरो यतिः ।।" इति। परिव्राजकरूपेणेत्यनेन ब्रह्मसूत्रादिकमुक्तम्। समुपागमदिति प्रतिपाद्यार्थभेदात् पुनः पुनः क्रियापदप्रयोगः ।। 3.46.3 ।।



तामाससादातिबलो भ्रातृभ्यां रहितां वने ।

रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तमः ।। 3.46.4 ।।

तामिति । भ्रातृभ्यां रामलक्ष्मणाभ्याम् । महत्तम इत्यभूतोपमा, सन्ध्यायां महतस्तमसो ऽसम्भवात् ।। 3.46.4 ।।



तामपश्यत्ततो बालां रामपत्नीं यशस्विनीम् ।

रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः ।। 3.46.5 ।।

तामिति । ग्रहः अङ्गारकः शनैश्चरो वा स रोहिणीमिव भृशदारुणो रावणस्तामपश्यत् । यथा रोहिण्याः क्रूरग्रहवीक्षणं लोकानर्थकरं तथा रावणस्य सीतावीक्षणमिति भावः ।। 3.46.5 ।।



तमुग्रं पापकर्माणं जनस्थानरुहा द्रुमाः ।

समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः ।। 3.46.6 ।।

दारुणत्वं प्रकटयति तमुग्रमिति ।। 3.46.6 ।।

शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ।

स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी ।। 3.46.7 ।।

शीघ्रस्रोताः शीघ्रप्रवाहा । वीक्षन्तं वीक्षमाणम् । स्तिमितमिति क्रियाविशेषणम् ।। 3.46.7 ।।



रामस्य त्वन्तरप्रेप्सुर्दशग्रीवस्तदन्तरे ।

उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः ।। 3.46.8 ।।

रामस्येति । रामस्य अन्तरप्रेप्सुः विश्लेषान्वेषी । तदन्तरे तस्मिन्नवकाशे । प्रथमं सीतामुद्दिश्य गमनम् अथाश्रमसमीपगमनं ततः सीतादर्शनं ततः सन्निकर्षगमनमिति क्रमः ।। 3.46.8 ।।



अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ।

अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः ।। 3.46.9 ।।

अथाभिमुखगमनमाह अभव्य इति । अभव्यः दुर्जनः । भव्यरूपेण सुजनरूपेण । अनुशोचतीमिति आगमशासनस्यानित्यत्वान्नुमभावः ।। 3.46.9 ।।



स पापो भव्यरूपेण तृणैः कूप इवावृतः ।

अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् ।। 3.46.10 ।।

स इति । पापः अन्तः पापात्मा । भव्यरूपेम बाह्याकारेणोपलक्षितः ।। 3.46.10 ।।



शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् ।

आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् ।। 3.46.11 ।।

स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् ।

अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः ।। 3.46.12 ।।

बाष्पशोकाभिपीडितां रामार्तस्वरश्रवणेन बाह्यभ्यन्तरास्वास्थ्यवतीम् । पीतकौशेयं वस्ते इति पीतकौशेयवासिनीम् । णिन्यन्तात् ङीप् । अभ्यगच्छत पूर्वस्मादपि सन्निकर्षं प्राप्तः ।। 3.46.11,12 ।।



स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् ।

अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः ।। 3.46.13 ।।

स इति । ब्रह्मघोषम् "उपनिषदमावर्तयेत्" इत्युक्तपरिव्राजकोचितवेदघोषम् । प्रश्रितं विनयान्वितम् । रहिते विजनप्रदेशे ।। 3.46.13 ।।



तामुत्तमां स्त्रियं लोके पद्महीनामिव श्रियम् ।

विभ्राजमानां वपुषा रावणः प्रशशंस ह ।। 3.46.14 ।।

तामिति । लोके उत्तमां स्त्रियमित्यन्वयः । प्रश्रितं वाक्यमब्रवीदित्यस्यैव विवरणं प्रशशंसेति ।। 3.46.14 ।।



का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि ।

कमलानां शुभां मालां पद्मिनीव हि बिभ्रती ।। 3.46.15 ।।

काञ्चनवर्णाभे काञ्चनतुल्यवर्णे कमलानां मालां बिभ्रती पद्मिनीव स्थिता पद्मतुल्यमुखनयनपाणिपादविशिष्टत्वादिति भावः ।। 3.46.15 ।।



ह्रीः कीर्तिः श्रीः शुभा लक्ष्मीरप्सरा वा शुभानने ।

भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी ।। 3.46.16 ।।

ह्रीः विष्णुपत्नी भूमिः । "ह्रीश्च ते लक्ष्मीश्च पत्न्यौ" इति श्रुतेः । श्रीः कमला । लक्ष्मीः कान्त्यधिष्ठानदेवता । रतिः मन्मथस्त्री । स्वैरचारिणी स्वतन्त्रा ।। 3.46.16 ।।



समाः शिखरिणः स्निग्धाः पाण्डरा दशनास्तव ।

विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ।। 3.46.17 ।।

विशालं जघनं पीनमूरू करिकरोपमौ ।। 3.46.18 ।।

समाः वैषम्यरहिताः । शिखराणि अग्राणि प्रशस्तानि सन्तीति शिखरिणः । प्रशंसायामिनिः । कुन्दकुड्मलवत् प्रशस्ताग्रा इत्यर्थः । स्निग्धाः मसृणाः । रक्तान्ते रक्तरेखायुक्तान्ते । जघनं कटिपुरोभागः । "पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः" इत्यमरः ।। 3.46.17,18 ।।



एतावुपचितौ वृत्तौ संहतौ सम्प्रवल्गितौ ।

पीनोन्नतमुखौ कान्तौ स्निग्धौ तालफलोपमौ ।

मणिप्रवेकाभरणै रुचिरौ ते पयोधरौ ।। 3.46.19 ।।

एताविति । उपचितौ उन्नतौ । वृत्तौ वर्तुलौ । संहतौ अन्योन्यसंश्लिष्टौ । सम्यक् प्रकृष्टं वल्गितं चलनं ययोस्तौ सम्प्रवल्गितौ गुरुत्वौन्नत्याभ्यां किञ्चिच्चलन्ताविव स्थितावित्यर्थः । पीनोन्नतमुखौ क्वचित् स्तनयोः पीनत्वे ऽप्यग्रे औन्नत्यं पीनत्वं च न स्तः तथा न भवत इमौ किन्तु पीनम् उन्नतं च मुखं ययोस्तौ । कान्तौ काम्यमानौ । मणिप्रवेकाभरणौ मणिप्रवेकाः मणिश्रेष्ठाः । "प्रवेकानुत्तमोत्तमौ" इत्यमरः । ते मालात्मकाः आभरणं ययोस्तौ । रुचुरौ शोभमानौ । सूक्ष्मतरकौशेयोत्तरीयचलनवशेन हठाद् दृष्टः प्रकारो दुरात्मना वर्ण्यते ।। 3.46.19 ।।



चारुस्मिते चारुदति चारुनेत्रे विलासिनि ।

मनोहरसि मे कान्ते नदी कूलमिवाम्भसा ।। 3.46.20 ।।

चारुस्मित इति । चारवो दन्ता यस्याः सा चारुदती । आर्षो दन्तस्य दत्रादेशः छन्दोवद्भावेन "छन्दसी च" इति सूत्रेण समासान्तो दन्तस्य दत्रादेशो वा "उगितश्च" इति ङीप् । समा इत्यादिना पूर्वोक्तस्य सामान्योक्तिरियं चारुस्मितत्वनिर्वाहाय विलासो ऽम्भस्थानीयः अतो न न्यूनोपमा ।। 3.46.20 ।।



करान्तमितमध्यासि सुकेशी संहतस्तनी ।। 3.46.21 ।।

करान्तेति । करान्तेन करतलाङ्गुष्ठप्रदेशिनीचक्रमानेन मितं परिच्छिन्नं मध्यं यस्याः सा । संहतस्तनीति पर्वं संहतावित्युक्तकल्पे ऽपि पुनरुक्तिर्दुर्लभलक्षणत्वविस्मयेन ।। 3.46.21 ।।



नैव देवी न गन्धर्वी न यक्षी न च किन्नरी ।

नैवंरूपा मया नारी दृष्टपूर्वा महीतले ।। 3.46.22 ।।

एवंरूपा देवी देवस्त्री देवलोके न दृष्टा, एवमुत्तरत्रापि योज्यम् । नारी मनुष्यस्त्री ।। 3.46.22 ।।



रूपमग्य्रं च लोकेषु सोकुमार्यं वयश्च ते ।

इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे ।। 3.46.23 ।।

लोकेष्वग्य्रं श्रेष्ठं रूपं लावण्यं रूपादीनि कान्तारवासश्च उन्मादयन्ति परस्परविरुद्धत्वात् । किमत्र तवागमनमिति निर्णयबुद्धिं न जनयन्तीत्यर्थः ।। 3.46.23 ।।



सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि ।

राक्षसानामयं वासो घोराणां कामरूपिणाम् ।। 3.46.24 ।।

सेति । प्रतिक्राम प्रतिनिवर्तस्व, निलयमिति शेषः । वस्तुं स्थातुम् ।। 3.46.24 ।।



प्रासादाग्राणि रम्याणि नगरोपवनानि च ।

सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ।। 3.46.25 ।।

सम्पन्नानि समृद्धानि । आचरितुं सञ्चरितुम् ।। 3.46.25 ।।



वरं माल्यं वरं भोज्यं वरं वस्त्रं च शोभने ।

भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे ।। 3.46.26 ।।

वरमिति । वरं श्रेष्ठम् । माल्यादि त्वद्युक्तं तव योग्यं मन्ये न तु यादृशतादृशम् । एमुत्तरत्रापि । यद्वा माल्यादिकं त्वद्युक्तं त्वत्सम्बद्धं सत् वरं प्रशस्तं भवतीति मन्ये ।। 3.46.26 ।।



का त्वं भवसि रुद्राणां मरूतां वा वरानने ।

वसूनां वा वरारोहे देवता प्रतिभासि मे ।। 3.46.27 ।।

का त्वमिति । त्वं मे दवेता देवस्त्रीति प्रतिभासि । तत्र का त्वं किं रुद्राणां सम्बन्धिनी उत मरुताम् आहोस्विद्वसूनां सम्बन्धिनी । वाकरः समुच्चयार्थः । तेन किमादित्यानामित्यपि सिद्ध्यति ।। 3.46.27 ।।



नेह गच्छन्ति गन्धर्वा न देवा न च किन्निराः ।

राक्षसानामयं वासः कथं नु त्वमिहागता ।। 3.46.28 ।।

तत्रापि संशयनिवृत्तिमाह नेहेति ।। 3.46.28 ।।



इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा ।

ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसि ।। 3.46.29 ।।

भयहेत्वन्तरमाह इहेति । शाखामृगाः वानराः । द्वीपं चर्म तद्योगात् द्वीपिनो बालव्याघ्राः । व्याजिघ्रन्तीति व्याघ्राः द्वीप्यपेक्षया किञ्चिन्महान्तो ऽमी । तरक्षवो मृगादनाः महाव्याघ्राः । न बिभ्यसि न बिभेषि । कङ्काः मांसादा भयङ्कराकृतयः पक्षिविशेषाः ।। 3.46.29 ।।



मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् ।

कथमेका महारण्ये न बिभेषि वरानने ।। 3.46.30 ।।

प़ञ्चम्यर्थे षष्ठी । तरस्विनां बलवताम् ।। 3.46.30 ।।



का ऽसि कस्य कुतश्चित्वं किन्निमित्तं च दण्डकान् ।

एका चरसि कल्याणि घोरान् राक्षससेवितान् ।। 3.46.31 ।।

का ऽसीति । का ऽसि किन्नामधेया ऽसि । कस्य सम्बन्धिनी कुतः कस्माद्देशादागता ऽसि ।। 3.46.31 ।।



इति प्रशस्ता वैदेही रावणेन दुरात्मना ।

द्विजातिवेषेण हितं दृष्ट्वा रावणमागतम् ।

सर्वैरतिथिसत्कारैः पूजयामास मैथिली ।। 3.46.32 ।।

इतीति । द्विजातिवेषेण सन्न्यासिवेषेण । हितं सहितम् । सत्क्रियते एभिरिति सत्काराः पूजाद्रव्याणि तैः ।। 3.46.32 ।।



उपनीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च ।

अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् ।। 3.46.33 ।।

उक्तं विवृणोति उपनीयेति । पाद्येन पादोदकेन । अभिनिमन्त्र्य सत्कृत्य । तदा पाद्यप्रदानानन्तरं सिद्धमित्येवाब्रवीत् । पक्वान्नं सिद्धमित्यब्रवीत् ।। 3.46.33 ।।



द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम् ।

अशक्यमुद्द्वेष्टुमपायदर्शनं न्यमन्त्रयद् ब्राह्मणवत्तदाङ्गाना ।। 3.46.34 ।।

उक्तमर्थं सर्गान्तश्लोकाभ्यां विवृणोति द्विजातीत्यादि । द्विजातिवेषेण समागतम् । पात्रम् अलाबुप्रभृतिष्वेकं कुसुम्भं महारजताख्यरञ्जकद्रव्यविशेषरक्तं वस्त्रम् । "तेन रक्तम्" इति प्राप्तस्याणो लोप आर्षः । यद्वा कुसुम्भः कमण्डलुः । "स्यान्महारजने क्लीबं कुसुम्भं करके पुमान्" इत्यमरः । तदुभयधारिणम् । अपाये अपहरणे अनर्थकरणे वा दर्शनं बुद्धिर्यस्य तम् । अत एव उद्द्वेष्टुं भोजयितुमशक्यं तं समीक्ष्य मैथिली ब्राह्मणवत् ब्राह्मणेन सदृशं यथा भवति तथा न्यमन्त्रयत् । ब्राह्मणातिथिवन्निमन्त्रितवतीत्यर्थः । यद्वा ब्राह्मणवत् ब्राह्मणार्हम् "तदर्हम्" इति वतिः । यद्वा मैथिली जनककुलजाततया तद्व्यवहारपरिपाटीविज्ञातकपटवेषा ऽपि सन्न्यासिवेषधारणमात्रेण उद्द्वेष्टुं द्वेषं कर्तुम् अशक्यं तं न्यमन्त्रयत् । "काषायदण्डमात्रेण यतिः पूज्यो न संशयः" इति वचनादिति भावः ।। 3.46.34 ।।



इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्यं प्रतिगृह्यतामिति ।

इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम् ।। 3.46.35 ।।

सत्कारप्रकारमाह इयमिति । इंय बृसी मुनीनामासनम् । आस्यतां त्वदर्थं सिद्धं पक्वम् इदं वनजातं कन्दमूलफलादिकम् । इह स्थले अव्यग्रमुपभुज्यताम् । इतिकरणस्य उत्तरश्लोके ऽन्वयः ।। 3.46.35 ।।



निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् ।

प्रसह्य तस्या हरणे धृतं मनः समार्पयत्स्वात्मवधाय रावणः ।। 3.46.36 ।।

निमन्त्र्यमाण इति । प्रतिपूर्णभाषिणीं सर्वं सम्पन्नमित्यतिथये वक्तव्यं वचनं भाषमाणम् । धृतं धीरं यथा तथा मनोविशेषणं वा । तस्या हरणे मनः समार्पयत् निहितवान् ।। 3.46.36 ।।



ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा ।

विवीक्षमाणा हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्मणौ ।। 3.46.37 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्चत्वारिंशः सर्गः ।। 46 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्चत्वारिंशः सर्गः ।। 46 ।।

सुवेषं शोभनाकारम् । मृगयागतं मृगयार्थं गतं पतिं प्रतीक्षमाणा प्रतिपालयन्ती हरितं यत्र गतौ तौ तां दिशं विवीक्षमाणा विविधं पश्यन्ती । महद्वनमेव ददर्श रामलक्ष्मणौ तु न ददर्श ।। 3.46.37 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ।। 46 ।।