Sanskrit Commentaries

स निकामं विमानेषु विषण्णः कामरूपधृक् ।

विचचार पुनर्लङ्कां लाघवेन समन्वितः ।। 5.6.1।।

आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ।

प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ।। 5.6.2।।

स निकाममित्यादि विमानेषु विषण्णः विमानेषु सीतामदृष्ट्वा विषण्ण इत्यर्थः । लाघवेन वेगेन ।। 5.6.1,2।।



रक्षितं राक्षसैर्घोरैः सिंहैरिव महद्वनम् ।

समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ।। 5.6.3।।

रक्षितमिति । चकाशे जहर्षेत्यर्थः ।। 5.6.3।।



रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः ।.

विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ।। 5.6.4।।

गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः ।

उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः ।। 5.6.5।।

रूप्येकेत्यादि । पूप्यकोपहितैः रजतनिर्मितैः । कक्ष्याभिः प्रकोष्ठैः. असंहार्यैः अवध्यैः । स्यन्दनयायिभिः स्यन्दनवाहकैः ।। 5.6.4,5।।



सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः ।

घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ।। 5.6.6।।

बहुरत्नसमाकीर्णं परार्घ्यासनभाजनम् ।

महारथसमावासं महारथमहास्वनम् ।। 5.6.7।।

दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः ।

विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः ।। 5.6.8।।

सिंव्याघ्रतनुत्राणैः सिंहव्याघ्रचर्मपरिवृतैरित्यर्थः । महारथसमावासं महारथानां रक्षसामाकरम् । महारथामहास्वनं महतां रथानां महान् स्वनः यस्मिन् ।। 5.6.68।।



विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् ।

मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ।। 5.6.9।।

मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम् ।

वराभरणसंह्रादैः समुद्रस्वननिस्वनम् ।। 5.6.10।।

अन्तपालैः बाह्यरक्षिभिः । राक्षसेन्द्रनिवेशननं राक्षसेन्द्रा राक्षसश्रेष्ठाः निविशन्ते समीपे निवसन्त्यस्मिन्निति राक्षसेन्द्रनिवेशनमित्यर्थः । अन्यथा वक्ष्यमाणवेश्मपदेन पुनरुक्तिः स्यात् । संहादः शब्दः । समुद्रस्वनवन्निस्वनतीति समुद्रस्वननिस्वनम् । पचाद्यच् ।। 5.6.9,10।।



तद्राजगुणसंपन्नं मुख्यैश्चागुरुचन्दनैः ।

महाजनैः समाकीर्णं सिंहैरिव महद्वनम् ।। 5.6.11।।

भेरीमृदङ्गाभिरुतं शङ्खघोषनिनादितम् ।

नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा ।। 5.6.12।।

तत् प्रसिद्धम् । राजगुणसंपन्नं राजोपचारैर्धूपादिभिः संपन्नम् । अगुरुचन्दनैरित्यत्रापि संपन्नमिति संबध्यते । पर्वसु हुतं होमो यस्मिन् तत् पर्वहुतम् ।। 5.6.11,12 ।।



समुद्रमिव गम्भीरं समुद्रमिव निःस्वनम् ।

महात्मनो महद्वेश्म महारत्नपरिच्छदम् ।

महारत्नसमाकीर्णं ददर्श स महाकपिः ।। 5.6.13।।

विराजमानं वपुषा गजाश्वरथसङ्कुलम् ।

लङ्काभरणमित्येव सो ऽमन्यत महाकपिः ।। 5.6.14।।

समुद्रमिव निःस्वनं निःशब्दम्, रावणभीत्या जनकोलाहलरहितमित्यर्थः । समुद्रस्वननिस्वनमिति तु बाह्यकक्ष्यापेक्षया ।। 5.6.13,14।।



चचार हनुमांस्तत्र रावणस्य समीपतः ।। 5.6.15।।

गृहाद् गृहं राक्षसानामुद्यानानि च वानरः ।

वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः ।। 5.6.16।।

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।

ततो ऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ।। 4.6.17।।

अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् ।

विभीषणस्य च तदा पुप्लुवे स महाकपिः ।। 5.6.18।।

शुकस्य च महातेषाः सारणस्य च धीमतः ।

तथा चेन्द्रजितो वेश्म जगाम हरियूथपः ।। 5.6.20।।

जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः ।

रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च ।। 5.6.21 ।।

वज्रकायस्य च तथा पुप्लुवे स महाकपिः ।

धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः ।। 5.6.22 ।।

चचारेति । रावणस्य रावणगृहस्य ।। 5.6.1522 ।।



विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ।। 5.6.23।।

शुकनासस्य वक्रस्य शठस्य विकटस्य च ।

ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ।। 5.6.24।।

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः ।

विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ।। 5.6.25।।

करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ।

क्रममाणः क्रमेणैव हनुमान् मारुतात्मजः ।। 5.6.26।।

तेषु तेषु महार्हेषु भवनेषु महायशाः ।

तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः ।। 5.6.27।।

सर्वेषां समतिक्रम्य भवनानि समन्ततः ।

आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ।। 5.6.28।।

विद्युद्रूपपस्येत्यादि । विद्युज्जिह्वेन्द्रजिह्वानामिति बहुवचनं तन्नाम्नां बहूनां सत्त्वात् ।। 5.6.2328।।



रावणस्योपशायिन्यो ददर्श हरिसत्तमः ।

विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणाः ।

शूलमुद्गरहस्ताश्च शक्तितोमरधारिणीः ।। 5.6.29।।

ददर्श विविधान् गुल्मांस्तस्य रक्षःपतेर्गृहे ।

राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् ।। 5.6.30।।

रावणस्येति । उपशायिन्यः पर्यायशायनीः । रावणे शयाने जाग्रतीरित्यर्थः ।। 5.6.29,30।।



रक्तान् श्वेतान् सितांश्चैव हरींश्चापि महाजवान् ।

कुलीनान् रूपसम्पन्नान् गजान् परगजारुजान् ।। 5.6.31।।

निष्ठितान् गजशिक्षायामैरावतसमान् युधि ।

निहन्तृ़न् परसैन्यानां गहे तस्मिन् ददर्श सः ।। 5.6.32 ।।

क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन् ।

मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः ।। 5.6.33।।

सितान् बद्धान् । "षिञ् वन्धने" इत्यस्मात् क्तः । हरीन् अश्वान् । परगजानारुजन्ति पीडयन्तीति परगजारुजान् । क्षरतश्चेति श्लोकः पूर्वोक्तगजविशेषकः । क्षरतः किंचिद्वर्षतःस्रवन्मदत्वे दृष्टान्तः । स्रवतः निर्झरिणः ।। 5.6.3133।।



सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ।

हेमजालपरिच्छन्नास्तरुणादित्यसन्निभाः ।। 5.6.34।।

ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ।। 5.6.35।।

सहस्रमिति । वाहिनीः सेनाः, पदातीनित्यर्थः । जाम्बूनदं जम्बूनदीप्रभवं स्वर्णम् । हेम केवलस्वर्णम्, उभयविधस्वर्णमयाभरणयुक्ता इत्यर्थः ।। 5.6.34,35।।



शिबिका विविधाकाराः स कपिर्मारुतात्मजः ।

लतागृहाणि चित्राणि चित्रशाला गृहाणि च ।। 5.6.36।।

क्रीडागृहाणि चान्यानि दारुपर्वतकानपि ।

कामस्य गृहकं रम्यं दिवागृहकमेव च ।

ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ।। 5.6.37।।

शिबिका इत्यादि । दारुपर्वतकान् क्रीडापर्तकान् । कामस्य गृहकं रतिगृहम् । दिवागृहकं दिवाविनोदस्थानम् । रावणस्य निवेशने इति पाठः ।। 5.6.3637।।



स मन्दरगिरिप्रख्यं मयूरस्थानसङ्कुलम् ।

ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् ।। 5.6.38।।

अनेकरत्नसङ्कीर्णं निधिजालं समन्तत ।

धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव ।। 5.6.39।।

स इत्यादि । मयूरस्थानं क्रीडामयूरविश्रमस्थानम् । कपोतानामिव मयूराणामपि स्थानानि शिलाभिः कल्प्यन्त इति प्रसिद्धम् । धीरनिष्ठितकर्मान्तं धीरैः कृतकल्पकर्मकम् । भूतपतेः प्रमथाधिपस्य ।। 5.6.38,39।।



अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च ।

विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः ।। 5.6.40।।

जाम्बूनदमयान्येव शयनान्यासनानि च ।

भाजनानि च मुख्यानि ददर्श हरियूथपः ।। 5.6.41 ।।

अर्चिर्भिरिति । रश्मिमान् सूर्यः ।। 5.6.40,41।।



मध्वासवकृतक्लेदं मणिभाजनसङ्कुलम् ।

मनोरममसम्बाधं कुबेरभवनं यथा ।

नूपुराणां च घोषेण काञ्चीनां निनदेन च ।। 5.6.42।।

मृदङ्गतलघोषैश्छ घोषवद्भिर्विनादितम् ।

प्रासादसङ्घातयुतं स्त्रीरत्नशतसङ्कुलम् ।। 5.6.43।।

सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहम् ।। 5.6.44।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षष्ठः सर्गः ।। 5.6।।

मध्वसवकृतक्लेदं मघ्वासवैः मधुविकारमद्यैः कृतक्लेदं कृतसेकम् । घोषवद्भिः नादवद्भिः । नादश्च दीर्घशब्दस्य विरामसमयसम्भवो ध्वनिः । व्यूढकक्ष्यं विशालप्रकोष्ठम् । अस्मिन् सर्गे सार्द्धचतुश्चत्वारिंशच्छ्लोकाः ।। 5.6.4244।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षष्ठः सर्गः ।। 5.6।।