Sanskrit Commentaries

अथ पञ्चदशः सर्गः

[पुत्रीयेष्टिः, विष्णुं प्रति देवानां प्रार्थना च]

 ।। 1.15.1 ।। मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् ।

लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ।। 1 ।।

अथ जलपृथिवीप्रधानस्थूलभूमवग्रहोपग्रहस्य विराजो ब्रह्मणो जलप्राधान्येन प्रजापत्यात्मना सृष्टत्रिस्रोतस आहरतः तत्संसारप्रवृत्तये तद्वारा पालनसिद्धये भूमप्राधान्येन विष्ण्वात्मना युगे युगे ऽवतारनैसर्गस्य प्रतीतान्नपानादिदेहयात्रात्रिमलवन्निजभूमविग्रहयात्रावशजत्रिमलस्य रावणादित्रिरक्षःपरिणतस्य संहाराय त्रेतायामपि यथाप्राप्तकालोचितावतारो दशरथपुत्रप्रवृत्तिप्रसङ्ग उपदिश्यते--मेधावीत्यादिना । ततःपुत्रोत्पादनप्रतिश्रवानन्तरम् । मेधावीसदा स्वबुद्धिधृताशेषवेदशास्त्रः । अथ एव सदा वेदज्ञःस्वरूपतो ऽर्थतश्च वेदतत्ववित् । स ऋश्यशृङ्गः । प्रतिश्रुतांशनिर्वाहाय किं कर्तव्यमिति निश्चेतुं किञ्चित्कालं विकल्पसमाधौ स्थितो ध्यात्वा तत इदमुत्तरंइदमिहोत्तरमनुष्ठेयकृत्यमिति निश्चित्य पश्चात् लब्धसंज्ञःसमाधिव्युत्थितः तं तु नृपमब्रवीत् ।। 1.15.1 ।। 

 ।। 1.15.2 ।। इष्टिं ते ऽहं करिष्यामि पुत्रीयां पुत्रकारणात् ।

अथर्वशिरसि प्रोक्तैः मन्त्रैः सिद्धां विधानतः ।। 2 ।।

किमब्रवीदित्यतःइष्टिमित्यादि । पुत्रकारणात्पुत्रप्राप्तिहेतोः, ते पुत्रीयां--पुत्रप्राप्तिनिमित्तभूताम्, निमित्ताधिकारे 'पुत्राच्छ च' इति छः, अथर्वशिरसि प्रोक्तैः मन्त्रैः विधानतः--कल्पसूत्रतः सिद्धामिष्टिं करिष्यामि । इत्युक्तेव्ति शेषः ।। 1.15.2 ।। 

 ।। 1.15.3 ।। ततः प्रारब्धवानिष्टिं पुत्रीयां पुत्रकारणात् ।

जुहाव चाग्रौ तेजस्वी मन्त्रदृष्टेन कर्मणा ।। 3 ।।

मन्त्रदृष्टेनेति । मन्त्रपूर्वकतया कल्पसूत्रदृष्टेनेत्यर्थः ।। 1.15.3 ।। 

 ।। 1.15.4 ।। ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।

भागप्रतिग्रहार्थं वै समवेता यथाविधि ।। 4 ।।

ततःतत्रेति यावत् ।। 1.15.4 ।। 

 ।। 1.15.5 ।। ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः ।

अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं महत् ।। 5 ।।

तस्मिन् सदसि ता देवतास्समेत्येति । अन्तर्धानशक्त्या मर्त्यानवलोकितमिति शेषः । लोककर्तारं--यज्ञदेवतायज्ञपशुयज्ञकर्तृमयसंसारस्रष्टारं भगवन्तं सावित्र्यंशं विराजंब्रह्माणमिति यावत् ।। 1.15.5 ।। 

 ।। 1.15.6,7 ।। भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः ।

सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः ।। 6 ।।

त्वया तस्मै वरो दत्तः प्रीतेन भगवन् पुरा ।

मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ।। 7 ।।

कुतो युष्मद्बाधनक्षमवीर्यलाभ इत्यतः--त्वयेत्याद । युष्माकमपि दत्तमेव वीर्यमस्माभिरित्यत्र--मानयन्तश्च तमिति । सर्वदेवताभिरवध्यत्वरूपो यो वरो दत्तस्तं परिपालयन्त इति यावत् ।। 1.15.6,7 ।। 

 ।। 1.15.8 ।। उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः ।

शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ।। 8 ।।

त्रिदशराजानमिति । प्रागप्युक्तमनित्यस्समासान्त इति ।। 1.15.8 ।। 

 ।। 1.15.9 ।। ऋषीन् यक्षान् सगन्धर्वानसुरान् ब्राह्मणांस्तथा ।

अतिक्रामति दुर्धर्षो वरदानेन मोहितः ।। 9 ।।

असुराःराहुप्रमुखाः आजानजदेवयोनयः ।। 1.15.9 ।। 

 ।। 1.15.10 ।। नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः ।

चलोर्मिमाली तं दृष्ट्वा समुद्रो ऽपि न कम्पते ।। 10 ।।

न प्रतपतीतिअन्तर्भावितणिः, न तापयतीति यावत् । एवमादिकं तत्कार्यातिशयप्रकाशनपरम् । चलोर्मिभिः माला ऽस्यास्तीति तथा, व्रीह्यादित्वादिनिः ।। 1.15.10 ।। 

 ।। 1.15.11,12 ।। तन्महन्नो भयं तस्माद्राक्षसाद्धोरदर्शनात् ।

वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि ।। 11 ।।

एवमुक्तस्सुरैस्सर्वैश्चिन्तयित्वा ततो ऽब्रवीत् ।

हन्तायं विदितस्तस्य वधोपायो दुरात्मनः ।। 12 ।।

एवमुक्त इति । भगवान् ब्रह्मेति शेषः । हन्तेत्यनुकम्पायाम् ।। 1.15.11,12 ।। 

 ।। 1.15.13 ।। तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् ।

अवध्यो ऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ।। 13 ।।

अयमिति क इत्यतःतेनेत्यादि । तत् तथास्त्वित्युक्तमिति योजना ।। 1.15.13 ।। 

 ।। 1.15.14 ।। नाकीर्तयदवज्ञानात् तद्रक्षो मानुषांस्तदा ।

तस्मात् स मानुषाद्वध्यो मृत्युर्नान्यो ऽस्य विद्यते ।। 14 ।।

तदेति । अवध्यत्ववरणसमय इत्यर्थः । मृत्युःमृतिसाधकमिति यावत् ।। 1.15.14 ।। 

 ।। 1.15.15 ।। एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् ।

सर्वे महर्षयो देवाः प्रहृष्टास्ते ऽभवंस्तदा ।। 15 ।।

प्रहृष्टा इति । मनुष्यद्वारेणापि वधश्रवणजस्सन्तोषः ।। 1.15.15 ।। 

 ।। 1.15.16,17 ।। एतस्मिन्नन्तर इति । मनुष्याद्वधश्रवणजसर्वदेवतासन्तोषकाल इति यावत् । सर्वास्वपि देवतासु भूमावतारो भूमशक्तिप्राधान्यान्मदेकसाध्यः, विशिष्य तु देवारातिसंहारकः । अतो मयेदं सर्वदेवताप्रीतिकरं कृत्य मनुष्ठेयमित्यभिध्याय भगवानपि स्वप्रधानमूर्त्या ब्रह्मणा समागत्य देवकार्येण समाहितस्तस्थौ ।। 1.15.16,17 ।। 

 ।। 1.15.18 ।। तमब्रुवन् सुरास्सर्वे समभिष्टूय संनताः ।

त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया ।। 18 ।।

सन्नताःप्रणता इति यावत् । हे विष्णो त्वां नियोक्ष्यामह इति । प्रागुक्तरीत्या भूमावतारस्य त्वदेकसाध्यत्वादिति भावः ।। 1.15.18 ।। 

 ।। 1.15.19,20 ।। राज्ञो दशरथस्य त्वं अयोध्याधिपतेर्विभोः ।

धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः ।। 19 ।।

तस्य भार्यासु तिसृषु हीश्रीकीर्त्युपमासु च ।

विष्णो पुत्रत्वमागच्छ कृत्वा ऽ ऽत्मानं चतुर्विधम् ।। 20 ।।

कस्मिन्नियुङ्ध्व इत्यतो राज्ञ इत्यादि । अत्रत्यराजराजपत्नीविशेषणं विष्णोरवतारयोग्यताप्रतिपादकम् ।। 1.15.20 ।। 

 ।। 1.15.21 ।। तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ।

अवध्यं दैवतैर्विष्णो समरे जहि रावणम् ।। 21 ।।

कुतो ममैष नियोग इत्यतः--अवध्यं दैवतैरित्यादि । 'कृत्यानां कर्तरि वा' इति पक्षे तृतीया । जहिहन्तेर्जः ।। 1.15.21 ।। 

 ।। 1.15.22,23,24,25 ।। स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ।

राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते ।। 22 ।।

ऋषयस्तु ततस्तेन गन्धर्वाप्सरसस्तथा ।

क्रीडन्तो नन्दनवने क्रूरेण किल हिंसिताः ।। 23 ।।

वधार्थं वयमायातास्तस्य वै मुनिभिस्सह ।

सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः ।। 24 ।।

त्वं गतिः परमा देव सर्वेषां नः परन्तप

वधाय देवशत्रूणां नृणां लोके मनः कुरु ।। 25 ।।

हे देव नस्सर्वेषां अत्र विषये त्वमेव परमा गतिः--उपायः । नृणामिति । 'नृच' इति पाक्षिको नामि न दीर्घः । मनः कुर्विति । अवतरितुमिति शेषः ।। 1.15.22,23,24,25 ।। 

 ।। 1.15.26,27,28,29 ।। एवमुक्तस्तु देवेशो विष्णुस्त्रिदशपुङ्गवः ।

पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः ।। 26 ।।

अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ।

भयं त्यजत भद्रं वः, हितार्थं युधि रावणम् ।। 27 ।।

सपुत्रपौत्रं सामात्यं समित्रज्ञातिबान्धवम् ।

हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम् ।। 28 ।।

दशवर्षसहस्राणि दशवर्षशतानि च ।

वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ।। 29 ।।

हत्वा वत्स्यामीति योजना ।। 1.15.2629 ।। 

 ।। 1.15.30 ।। एवं दत्वा वरं देवो देवानां विष्णुरात्मवान् ।

मानुषे चिन्तयामास जन्मभूमिमथात्मनः ।। 30 ।।

चिन्तयामासेति । यथा देवैराज्ञप्तं तथेति शेषः ।। 1.15.30 ।। 

 ।। 1.15.31,32 ।। ततः पद्मपलाशाक्षः कृत्वा ऽ ऽत्मानं चतुर्विधम् ।

पितरं रोचयामास तदा दशरथं नृपम् ।। 31 ।।

ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः ।

स्तुतिभिर्दिव्यरूपाभिः तुष्टुवुर्मधुसूदनम् ।। 32 ।।

दिव्यरूपाभिः स्तुतिभिस्तुष्टुवुः ।। 1.15.32 ।। 

 ।। 1.15.33 ।। तमुद्धतं रावणमुग्रतेजसम्

प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् ।

विरावणं साधुतपस्विकण्टकं

तपस्विनामुद्धर तं भयावहम् ।। 33 ।।

स्तुत्वा च, उच्यमानविशेषणं रावणं उद्धरतमुन्मूलय, सबलत्वादिविशेषणकमेव हत्वा स्वर्लोकमागच्छेत्यपि न्ययुञ्जतेति शेषः । विरावणंविशेषेण त्रिलोकमाक्रन्दयितारं । अत्र तत्तदसाधारणकृत्ये तत्तद्देवस्य तदितरदेवैर्मगवदादिगुरुब्रह्मैकावयवैर्नियोजनम् । तस्य तस्य तत्र तत्र नियोज्यत्वं च गुण एव, न तु दोषः । यथा "तेषामसुराणां तिस्त्रः पुर आसन्" इत्यारभ्य रुद्रैकसाध्यकृत्ये रुद्रस्य सर्वदेवैर्नियोगः"रुद्र इत्यब्रुवन्, रुद्रो वै क्रूरः, सो ऽस्यत्विति," तथा "यज्ञस्य शिरो ऽच्छिद्यत । ते देवा अश्विनावब्रुवन् । भिषजौ वै स्थः इदं यज्ञस्य शिरः प्रतिधत्तम् " इति । तथा "अग्रेस्त्रयो ज्यायांसो भ्रातर आसन्" इत्यादि । "उप न आवर्तस्व, हव्यं नो वह", इति नियोगः । मूढास्तु ततः किञ्चिदुत्कर्षापकर्षं कल्पयन्ति । एकस्य भगवतः श्रीमदादिब्रह्मणो ऽपत्यानि त्रिब्रह्ममुखाः सर्वे त्रिदशाः सर्वे ऽपि स्वस्वकृत्ये प्रधानभूताः तत्र भगवन्नियोगवन्तश्च । यथा चक्षुरदिः रूपादौ नियतनियोगस्तिष्ठति तथा ।। 1.15.33 ।। 

 ।। 1.15.34 ।। तमेव हत्वा सबलं सबान्धवं

विरावणं रावणमुग्रपौरुषम् ।

स्वर्लोकमागच्छ गतज्वरश्चिरं

सुरेन्द्रगुप्तं गतदोषकल्मषम् ।। 34 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चदशः सर्गः

--

अत्र स्वर्लोकमित्यस्य गतदोषकल्मषमिति विशेषणमस्ति । तत्र दोषा रागद्वेषमोहादयः । कल्मषंपापंस्वहृदि स्वात्मतया ऽवस्थितश्रीमदादिब्रह्मानुपासनादि ब्रह्महत्यान्तम् । एतयोः प्रसङ्गो यत्र गतः तादृश स्वर्लोकमिति । इदं च परस्वर्गाख्ये ब्रह्मलोक एव । समस्तसुरेन्द्रैस्सर्वैरपि यथाभगवद्दत्तस्वस्वदेशमवस्थितैर्गुप्तमिति चासङ्कोचेन ब्रह्मलोक एवास्ति । नापि च शक्रलोकप्रत्यागमनियोगश्च युज्यते । विष्णोर्भगवतो विराङ्त्वतो वैराजब्रह्मलोकप्रत्यागतिरेवोपदिश्यते । राज्यमपासत्वा ब्रह्मलोकं गमिष्यतीति स्पष्टत्वाच्च । तदविदितब्रह्मतत्वा मोहात्स्वकुलदैवब्रह्मापकर्षगवेषणपरमश्रद्धामिथ्यापकर्षं चापादयन्तो वदन्तु नाम । भग(34)मानः ।। 1.15.34 ।। 

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चदशः सर्गः