Sanskrit Commentaries

अथ सप्तदशः सर्गः

[ऋक्षवानराद्युत्पत्तिः]

 ।। 1.17.1 ।। पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः ।

उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ।। 1 ।।

अथ प्रपञ्च इव एक एव भगवान् त्रिभूमविग्रहोपगृहीतस्त्रिब्रह्ममूर्तिरपि विराडवतारे वैराजविष्णूपग्रहप्राधान्येनावतीर्णः स्वावयवसर्वत्रिदशानपि स्वस्वस्थूलविराड्विष्णूपग्रहप्राधान्येन प्रधानदेवतामयस्वसहायार्थं स्वयमेवावतारनियोगं करोति । (नित्य)अवयव्यवतारप्रसङ्गादवयवानामप्यवतारोपदेशः--पुत्रत्वमित्यादि । विष्णौविराडुपग्रहब्रह्मणि । एवं सर्वत्रार्थो द्रष्टव्यः । स्वयम्भूरिति । 'भुवस्संज्ञान्तरयोः' इति क्किप् ।। 1.17.1 ।। 

 ।। 1.17.2 ।। सत्यसन्धस्य वीरस्य सर्वेषां नो हितैषिणः ।

विष्णोस्सहायान् बलिनः सृजध्वं कामरूपिणः ।। 2 ।।

सहायानिति । महायकरणसमर्थानित्यर्थः । ननु कथं विष्णौ पुत्रत्वं गते ब्रह्मा देवान् अवतारे नियुङ्क इति । वालिसुग्रीवादेरुत्पत्तिवैरादीनां प्रागेव चिरप्रवृत्तत्वात् । उच्यते--पुत्रत्वं गते सहायार्थं सृजध्वमित्ययं भगवन्नियोगः प्राचीन एव । कविस्त्वद्य प्रसङ्गात्प्रतिपादयतीति ।। 1.17.2 ।। 

 ।। 1.17.3 ।। मायाविदश्च शूरांश्च वायुवेगसमान् जवे ।

नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ।। 3 ।।

मायाविद् इति । असुरादिमायासंहारसमर्थदेवमायाशक्तिमन्त इति यावत् । जवेवेगवत्वविषये ।। 1.17.3 ।। 

 ।। 1.17.4 ।। असंहार्यानुपायज्ञान् सिंहसंहनान्वितान् ।

सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव ।। 4 ।।

असंहार्यानिति । परैरिति शेषः । संहननंगात्रंसिंहसंहननसमानसंहननान्विता इत्यर्थः ।

अमृतप्राशनाःदेवाः, कर्तरि ल्युट्, देववत्सर्वास्त्रावध्यत्वसम्पन्ना इत्यर्थः ।। 1.17.4 ।। 

 ।। 1.17.5 ।। अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च ।

यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च ।। 5 ।।

गन्धर्वीणामिति । 'जातेरस्त्रीविषयात्' इति ङीष् । तथा विद्याधरीष्वित्यपि ।। 1.17.5 ।। 

 ।। 1.17.6 ।। किन्नरीणां च गात्रेषु वानरीणां तनूषु च ।

सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ।। 6 ।।

हरिरूपेणेति । वानररूपेणेति यावत् । ननु मनुष्यरूपेणैव कुतो नावयवदेवानामप्यवताराः । उच्यते--वनवासे सीतापहारादेव रावणस्य शीर्षछेद्यत्वे प्राप्ते तत्र च तपस्विनो रामस्य मनुष्यवेषैरशक्यसंहारसहायत्वात्, वानरशब्दस्यान्वर्थत्वतो मनुष्यवत्सुकरव्यवहारत्वात्, नन्दिना कृतस्य रावणशापस्य समर्थत्वाच्च । तथा हि--दिग्विजये रावणं नन्दिकेश्वरो भगवान् रावणकृतपरिहासश्शशाप"तस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसः । उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः" इति । अकथकमेकं नास्ति । तुल्यपराक्रमानिति । स्वतुल्यपराक्रमानित्यर्थः, यथाबीजं तथाङ्कुरमिति न्यायेन ।। 1.17.6 ।। 

 ।। 1.17.7 ।। पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गवः ।

जृम्भमाणस्य सहसा मम वक्त्रादजायत ।। 7 ।।

यद्देहपरिग्रहनियोगः ? इत्यत्र कार्यार्थमस्माभिरप्यपरिमितज्ञानायुरैश्वर्यवन्तो ये सृष्टाः, तादृशां अंशतस्स्वीकृत्येत्याहपूर्वमित्यादि । विराङ्व्यतिरिक्तब्रह्मसृष्टेरनेकमूलत्वादाहजृम्भमाणस्येत्यादि । सहसाद्रागिति यावत् ।। 1.17.7 ।। 

 ।। 1.17.810 ।। ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् ।

जनयामासुरेवं ते पुत्रान् वानररूपिणः ।। 8 ।।

ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः ।

चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ।। 9 ।।

वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमूर्जितम् ।

सुग्रीवं जनयामास तपनस्तपतां वरः ।। 10 ।।

एवमिति । वक्ष्यमाणप्रकारस्तावत् देवराजः--इन्द्रो वालिनं जनयामास । कथमिदं भगवन्नियोगविपरीततया राघवारातिमेव भगवानिन्द्रस्सृजति उच्यते--अवतीर्णदेवसेनानुग्रहक्षमराजसिद्धये स्वतुल्यपराक्रमवालिसर्गः । नास्य रामस्य च किञ्चिन्निमित्तमरातित्वम् । अपि त्वेतत्सख्ये रामस्य वृत्ते अयमेव सीतां क्षणात्प्रत्यर्पयेत् वाली । रावणः चिरकक्षपीडितः तच्चीटीमात्रेण स्वयमेव भीतः सीतां प्रत्यर्पयेत् । ततश्च देवकार्यं न संवृत्तं स्यात् । अत एवास्य वधः स्वसमानदुःखसापेक्षसुग्रीवसख्याय । अतो यावत्सुग्रीवराज्यं देवसेनारक्षणप्रयोजन एव वालिसर्गः । अपि च रामो ऽपि महाबलत्वात् स्वयमन्यसख्यं न प्रार्थयेत् ।

वाली तु सुतरां अकण्टकमहाबलमहाराजो निष्प्रयोजनं रामसंख्यं कटाक्षेणापि नेक्षेत । तथा च देवसेनानां सीतान्वेषणादिरामकृत्यानुप्रयोगः ।

अत उक्तमेव प्रयोजनम् ।। 1.17.810 ।। 

 ।। 1.17.1114 ।। बृहस्पतिस्त्वजनयत् तारं नाम महाहरिम् ।

सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ।। 11 ।।

धनदस्य सुतः श्रीमान् वानरो गन्धमादनः ।

विश्वकर्मा त्वजनयत् नलं नाम महाहरिम् ।। 12 ।।

पावकस्य सुतः श्रीमान् नीलो ऽग्निसदृशप्रभः ।

तेजसा यशसा वीर्यात् अत्यरिच्यत वानरान् ।। 13 ।।

रूपद्रविणसम्पन्नौ अश्विनौ रूपसम्मतौ ।

मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ।। 14 ।।

रूपेणलक्षणेन, द्रविणेनवित्तेन सम्पन्नौ तथा । अत एव रूपसम्मतमैन्दद्विविदयोस्सर्गः । रूपसम्मताविति मत्वर्थीयो ऽच् । प्रशस्तरूपवत्वेन सर्वलोकसम्मतावित्यर्थः ।। 1.17.14 ।। 

 ।। 1.17.15 ।। वरुणो जनयामास सुषेणं नाम वानरम् ।

शुरभं जनयामास पर्जन्यस्तु महाबलम् ।। 15 ।।

पर्जन्यःजगद्वर्षानुग्रहकरभगवद्देवराजमूर्त्यन्तरम् ।। 1.17.15 ।। 

 ।। 1.17.16 ।। मारुतस्यात्मजः श्रीमान् हनूमान् नाम वानरः ।

वज्रसंहननोपेतो वैनतेयसमो जवे ।। 16 ।।

सर्ववानरमुख्येषु बुद्धिमान् बलवानपि ।

वज्रवदभेद्यसंहननोपेतः । तथा वानरमुख्याःसुग्रीवादयस्सुषेणान्ताः ।। 1.17.16 ।। 

 ।। 1.17.17 ।। ते सृष्टा बहुसाहस्रा दशग्रीववधे रताः ।। 17 ।।

अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ।

दशग्रीववधे रता इति । भविष्यति निष्ठा छान्दसी, रंस्यमाना इति यावत् । अपि च ये रता भविष्यन्ति तादृशा बहुसाहस्राः सृष्टा इति । धातुसम्बन्धे प्रत्यया इति साधुः ।। 1.17.17 ।। 

 ।। 1.17.18 ।। मेरुमन्दरसङ्काशा वपुष्मन्तो महाबलाः ।। 18 ।।

ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ।

गोपुच्छाः--वानरविशेषाः ।। 1.17.18 ।। 

 ।। 1.17.19 ।। यस्य देवस्य यद्रूपं वेपो यश्च पराक्रमः ।। 19 ।।

अजायत समस्तेन तस्य तस्य सुतः पृथक् ।

रूपं--नीलपीतादि । वेषोवृत्तचतुरश्रादिसंस्थानविशेषः ।। 1.17.19 ।। 

 ।। 1.17.2025 ।। गोलाङ्गूलिषु चोत्पन्नाः केचित् संमतविक्रमाः ।। 20 ।।

ऋक्षीषु च तथा जाता वानराः किन्नरीषु च ।

देवा महर्षिगन्धर्वाः तार्क्ष्या यक्षा यशस्विनः ।। 21 ।।

नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः ।

वहवो जनयामासुः हृष्टास्तत्र सहस्रशः ।। 22 ।।

वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ।

अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च ।। 23 ।।

नागकन्यासु च तथा गन्धर्वीणां तनूषु च ।

कामरूपबलोपेता यथाकामं विचारिणः ।। 24 ।।

सिंहशार्दूलसदृशा दर्पेण च बलेन च ।

शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ।। 25 ।।

नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः ।

सर्वास्त्रकोविदा इति । देवांशत्वात् स्वयं प्रतिभातसर्वास्त्रपरिहारोपाया इत्यर्थः । नैव ते ऽस्त्रप्रयोक्तारः । शिलादिप्रहरणा इत्युक्तत्वात् ।। 1.17.2025 ।। 

 ।। 1.17.26 ।। विचालयेयुश्शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् ।। 26 ।।

क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ।

विचालयेयुरित्यादौ 'शकि लिङ् च' इति लिङ् । 'कम्पने चलिः' इति मित्वेपि ह्रस्वाभावश्छान्दसः ।। 1.17.26 ।। 

 ।। 1.17.27 ।। दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम् ।

नभस्थलं विशेयुश्च गृह्णीयुरपि तोयदान् ।। 27 ।।

आप्लवेयुरिति । सन्तरेयुरिति यावत् ।। 1.17.27 ।। 

 ।। 1.17.28 ।। गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने ।

नर्दमानाश्च नादेन पातयेयुर्विहङ्गमान् ।। 28 ।।

प्रव्रजतः । स्वच्छन्दगतीनित्यर्थः ।। 1.17.28 ।। 

 ।। 1.17.29 ।। ईदृशानां सहस्राणि हरीणां कामरूपिणाम् ।

शतं शतसहस्राणि यूथपानां महात्मनाम् ।। 29 ।।

शतं शतसहस्राणीति । अनेकानीति यावत् ।। 1.17.29 ।। 

 ।। 1.17.30 ।। ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ।

बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन् हरीन् ।। 30 ।।

त इत्यादि । ते प्रागुक्ताः सुग्रीवादिसुषेणान्तः हरीणां प्रधानेषु यूथेषु--महायूथेषु हरियूथपाः बभूवुः । ते यूथपश्रेष्ठाश्च वीरान् हरीनजनयन् ।। 1.17.30 ।। 

 ।। 1.17.31 ।। अन्ये ऋक्षवतः प्रस्थान् उपतस्थुः सहस्रशः ।

अन्ये नानाविधान् शैलान् काननानि च भेजिरे ।। 31 ।।

सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ।। 32 ।।

भ्रातरावुपतस्थुस्ते सर्व एव हरीश्वराः ।

नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ।। 33 ।।

ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः ।

विचरन्तो ऽर्दयन् दर्पात् सिंहव्याघ्रमहोरगान् ।। 34 ।।

तांश्च सर्वान् महाबाहुर्वाली विपुलविक्रमः ।

जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ।। 35 ।।

वाली जुगोपेति देवराजावतारत्वादेव ।। 1.17.35 ।। 

 ।। 1.17.36 ।। तैरियं पृथीवी शूरैः सपर्वतवनार्णवा ।

कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ।। 36 ।।

विविधसंस्थानैः--स्थूलसूक्ष्मह्रस्वदीर्घादिनानाप्रकारदेहसंस्थानविशेषवद्भिः । नानाविधानि व्यञ्जनानि--अयं सुग्रीवः, अयं हनूमानित्यसाधारणतत्तत्स्वरूपव्यक्त्य साधारणानि लक्षणानि--प्रशस्तहनुयुक्तत्वादिचिह्नानि येषां ते तथा ।। 1.17.36 ।। 

 ।। 1.17.37 ।। तैर्मेघबृन्दाचलकूटकल्पैः

महाबलैर्वानरयूथपालैः ।

बभूव भूर्भीमशरीररूपैः

समावृता रामसहायहेतोः ।। 37 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तदशः सर्गः

--

अचलकूटःपर्वतशृङ्गः । शरीररूपंशरीरसंस्थानम् । साल(37)मानः सर्गः ।। 1.17.37 ।। 

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तदशः सर्गः