Sanskrit Commentaries

अथ पञ्चसप्ततितमः सर्गः

[वैष्णवधनुःप्रशसा]

 ।। 1.75.1 ।। राम दशरथे राम वीर्यं ते श्रूयते ऽद्भुतम् ।

धनुषो भेदनं चैव निखिलेन मया श्रुतम् ।। 1 ।।

अथ जामदाग्न्यस्य रामाभियानम्रामेत्यादि । निखिलेन--कार्त्स्न्येन ।। 1.75.1 ।। 

 ।। 1.75.2 ।। तदद्भुतमचिन्त्यं च भदनं धनुषस्त्वया ।

तच्छ्रुत्वा ऽहमनुप्राप्तो धनुर्गृह्य परं शुभम् ।। 2 ।।

यत्त्वया धनुषो भेदनं कृतं तदद्भुतमचिन्त्यं च भवत्येव । अतःतच्छ्रुत्वेत्यादि । गृह्यगृहीत्वा ।। 1.75.2 ।। 

 ।। 1.75.3 ।। तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः ।

पूरयस्व शरेणैव स्वबलं दर्शयस्व च ।। 3 ।।

जामदग्न्यंजमदग्नेस्स्वपितुरागतं । आगतार्थे ष्यञ् आर्षः ।। 1.75.3 ।। 

 ।। 1.75.4 ।। तदहं ते बलं दृष्ट्वा धनुषो ऽस्य प्रपूरणे ।

1द्वन्द्वयुद्धं प्रदास्यामि वीर्य2श्लाध्यमहं तव ।। 4 ।।

प्रपूरणं प्रागुक्तार्थं । वीर्यवद्भिः श्लाध्यं वीर्यश्लाध्यं ।। 4 ।।

(1 एतदनन्तरं 'भीतो यदि धनुन्त्यक्त्वा निर्जितो ऽस्मीति वा वद' इत्यधिकंङ.झ.)

(2 श्लाध्यस्य राघवःङ.ज) ।। 1.75.4 ।। 

 ।। 1.75.5 ।। तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा ।

विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ।। 5 ।।

तद्वचनं । द्वन्द्वयुद्धवचनमित्यर्थः ।। 5 ।।

( अदीनः--त्रैकालिकदीनताभावविशिष्टः, विषण्णवदनाःउदासीनचित्तःशि.) ।। 1.75.5 ।। 

 ।। 1.75.6 ।। क्षत्ररोषात्प्रशान्तस्त्वं ब्राह्मणश्च महायशाः ।

बालानां मम पुत्राणां अभयं दातुमर्हसि ।। 6 ।।

क्षत्ररोषादिति । तज्ज3क्षत्रवधादित्यर्थः ।। 6 ।।

(3 क्षत्रिय--घ.) ।। 1.75.6 ।। 

 ।। 1.75.7 ।। भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् ।

सहास्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि ।। 7 ।।

सहस्राक्ष इति । तत्सन्निधावित्यर्थः । प्रतिज्ञायेति । अतः परं शस्त्रं न ग्रहीष्यामीत्येवमिति शेषः । निक्षिप्तवान् । त्यक्तवानिति यावत् ।। 7 ।।

(ब्रह्माण्डपुराणे (3.47) परशुरामः स्वपितृणां वचनात् शस्त्रं निक्षिप्तवानिति वर्तते । महाभारते तु (वन.117) ऋचीकनियमनादिति वर्तते । अत्र तु इन्द्रनियमनादिति । अतः स्वपितृणां देवानां च सन्निधौ--इति विरोधः परिहरणीयः । तत्र चेन्द्रस्य प्रधान्यादत्र तस्य निर्देश इति ।) ।। 1.75.7 ।। 

 ।। 1.75.8 ।। स त्वं धर्मपरो भूत्वा कश्यपाय वसुन्धराम् ।

दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः ।। 8 ।।

स त्वंतथात्यक्तशस्त्रस्त्वं ।। 8 ।।

(महेन्द्रःमहेन्द्रपर्वतः) ।। 1.75.8 ।। 

 ।। 1.75.9 ।। मम सर्वविनाशाय संप्राप्तस्त्वं महामुने ।

1न चैकास्मिन् हते रामे सर्वे जीवामहे वयम् ।। 9 ।।

मम सर्वविनाशायेति योजना । कुतस्सर्वविनाशनप्रसंग इत्यतः--न चेत्यादि ।। 9 ।।

(1 नचैतस्मिन्ङ) ।। 1.75.9 ।। 

 ।। 1.75.10,11 ।। ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् ।

2अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ।। 10 ।।

इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते ।

3दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ।। 11 ।।

इमे द्वे धनुषी इति । वक्ष्ममाणलक्षणे दृढे स्थिरे बलवती क्षतक्षमे इति यावत् ।। 11 ।।

(2 एतदनन्तरं 'रोषात्प्रस्फुरमाणोष्टो रामं परमधन्विनम् ।' इत्यधिकंङ)

(3 एतदनन्तरं 'करवीरसमे गन्धे विशाले विमले शुभे' इत्यदिकंङ) ।। 1.75.11 ।। 

 ।। 1.75.12 ।। 4 अतिसृष्टं सुरैरकं त्र्यम्बकाय युयुत्सवे ।

5 त्रिपुरघ्नं 6नरश्रेष्ठ भ्गनं काकुत्स्थ यत्त्वया ।। 12 ।।

युयत्सव इति । त्रिपुरावासिभिरिति शेषः । त्रिपुरघ्नतद्धननसाधन मित्यर्थः ।। 12 ।।

(4 अनुसृष्टंङ.ज)

( अतिसृष्टं--दत्तम् । तदादुष्करत्रिपुरहननातन्तरकालेगो)

(5 एतदनन्तरंइदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः इत्यधिकंङ.ज.)

(6 धनुःश्रेष्ठंङ) ।। 1.75.12 ।। 

 ।। 1.75.13,14 ।। तदिदं वैष्णवं राम धनुः परमभास्वरम् ।

समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम् ।। 13 ।।

1तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् ।

शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया ।। 14 ।।

तस्येदानीं असमानसारतामाह--तदा त्वित्यादि । अग्निमनीकं सोमं शल्यं विष्णुं तेजनं इति विष्णोः रुद्रसंहारपरिकरान्तर्भावश्रवणाद्विष्णोश्चान्यत्र सर्वत्र सर्वासुरसंहारकत्वेन प्राबल्ये चाविवाददर्शनात् अयं रुद्राहुर्बलस्समो ऽधिको वेत्येवं शितिकण्ठस्य विष्णोर्बलाबलनिरीक्षया सर्वा देवताः पितामहं पृच्छन्ति स्म ।। 14 ।।

(1 कदाचिद्देवताःङ)

(धनुर्द्वयस्य तौल्ये एकधनुषो भङ्गे कृते किं द्वितीयभङ्गेन ? इत्याक्षेपःस्यादितितदपेक्षया ऽस्य वैशिष्ट्यनुच्यत इति भावः) ।। 1.75.13,14 ।। 

 ।। 1.75.15,16 ।। अभिप्रायं तु विज्ञाय देवतानां पितामहः ।

विरोधं जनयामास 2तयोः सत्यवतां वरः ।। 15 ।।

3विजये च महद्युद्धमभवद्रोमहर्षणम् ।

शितिकण्ठस्य विष्णोश्च परस्पर4जिगीषिणोः ।। 16 ।।

स च भगवांस्तेषां अभिप्रायं उक्तरूपं विज्ञाय अथैकस्यैव श्रीमदादिब्रह्मणो मूर्तित्रये प्रतीच इव स्थिते मोहादुपाधिभेदावलम्बनजां इमां दुश्चिन्तां स्वयमेव भेत्स्यन्त इति विज्ञाय श्रीमच्चतुर्मुख प्रदेशमूर्त्यन्तरभूतयोः रुद्रविष्ण्वोः सत्यसङ्कल्पत्वात् सङ्कल्पशक्तिमदान्तरप्रधानत्वाच्च स्वेच्छया वैरं सञ्जनयामास । अग्निभूतत्त्वयोर्वैरस्य सम्पादनमीषत्करं भगवतो ब्रह्मणः । सत्यवतां वरः--इत्यनेन अस्मदुक्तसत्यसङ्कल्पत्वमुक्तम् । 1विजय इति निमित्तसप्तमी ।। 16 ।।

( बहुश उपदेशे ऽपि नैषां चित्तं सुमाधत्ते अतः क्रिययैव बलतारतम्यं दर्शयिष्यामीत्यभिप्रेत्य विरोधं जनयामास । अहं धन्वी प्रधानः, विष्णुस्तु ममोपसजंनम्' इति रुद्रेणोक्तमिति विष्णुं प्रत्युक्त्वा, शराग्रतया ऽवस्थानात् मयैव त्रिपुरहननं कृतम् इति विष्णुनोक्तमिति रुद्रं प्रत्युक्त्या च विरोधजननमित्यवगभ्यते--गो)

(2 तयोःसत्वपरीक्षयाङ)

(3 विरोधेइत्येव सर्वकोशेषु दृश्यते.)

(4 जयैषिणोःङ.ज)

(1 अजयइति मातृकासु । परन्त्वौचित्यादेवं निवेशितम्) ।। 1.75.16 ।। 

 ।। 1.75.17 ।। तदा तु जृम्भितं शैवं धनुर्भीमपरक्रमम् ।

हुंकारेण, महादेवः स्तम्भितो ऽथ त्रिलोचनः ।। 17 ।।

तदाविरोधसमये । अथ तथाविरोधाद्युद्धकाले हुङ्कारेण जृम्भितमिति । उत्कटरजश्शक्त्यधिष्ठानजो हुङ्कारः, तेन तद्विषयीकृतत्वेन जृम्भितंसोच्छ्वासमभवदित्यर्थः । 'रजस्सत्त्वं तमश्चैव तमस्सत्त्व रजस्तथा । अभिभूय प्रभवति' इति न्यायेन उत्कटरजःप्रवृत्तौ तदितरगुणाभिभवस्य स्वाभाविकत्वात्तत्कालमितरगुणप्राधान्यात् भगवांस्त्रिलोचनः स्तम्भितःस्तंभितपरिकरो ऽभूत् ।। 17 ।।

(हुंकारेणैवविष्णोरिति शेषः । जृंभितंशैथिल्यं प्राप्तम् । अथधनुर्विजृम्भणानन्तरं त्रिलोचनो महादेवः स्तम्भितःव्यापाररहितः आसीदिति शेषः । एतेन सत्त्वगुणस्य तदानीं प्राबल्यं सूचितम्शि ।। हुंकारेणन स्वाभिमन्त्रितबाणेन, महादेवःमहादेवशब्दो महावृक्षसमाख्यायित इति भावः । त्रिलोचन इत्यनेन तृतीथं लोचनमपि निरर्धकं कृतमिति भावःगो) ।। 1.75.17 ।। 

 ।। 1.75.18 ।। देवैस्तदा समागम्य सर्षिसङ्घैः सचारणैः ।

याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ ।। 18 ।।

एतावद्दर्शने सति प्राप्तिनिश्चयैः देवैः युद्धादुपरतिं याचितौ देवतानुग्रहाय प्रशमं जग्मतुः ।। 18 ।।

( एतावत्यर्थे दृष्टे प्राप्तनिश्चयैःदेवैर्युद्धादुपरतिं याचितौति. अनेन उभयोरपि शान्तियाचनं समर्थितम् ।।

अत्र शिवस्तंभनानन्तरं तत्प्रशान्तियाचनया तमोगुणोद्रेकसमये स्वीकृततमोगुणस्य विजयो भविष्यति, पुनः सत्त्वगुणोद्रेकसमये स्वीकृतसत्त्वगुणस्य विजयो भविष्यतीत्यनवस्था स्यादिति देवाभिप्रायः सूचितःशि. किमनेन बालेन ? अनुकम्प्यताम्इति याचितः तन्निग्रहान्निवृत्तः विष्णुः रुद्रस्तु स्वामितः पराजयो नास्माकं दोषायेति सान्त्वितः तत्तुल्यत्त्वाभिमानात् (पराजयनिमित्तशोकाद्वा) निवर्तित इत्यर्थःगो ।) ।। 1.75.18 ।। 

 ।। 1.75.19 ।। जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः ।

1 अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ।। 19 ।।

तदा कीदृशं निश्चयं प्राप्तवन्त इत्यतःजृम्भितमित्यादि । विष्णुपराक्रमो हुंकाररूपः, तेन शैवं धनुर्जृम्भितं दृष्ट्वा तदा विष्णुं विष्णुबलं अधिकं मेनिरे । सिद्धान्तस्तु त्रिब्रह्मसु कालत्रये ऽपि 'शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्' इति प्रसिद्धक्षत्रधर्माणां प्रसक्त्यभावाद्विना क्षत्रधर्मं स्वसृष्टप्रजारक्षा ऽसम्भवात् तत्तदर्थमग्निभूप्राधान्येन परिगृहीतचतुर्मुखप्रदेशरुद्रविष्णुमूर्त्योर्धनुर्ग्रहप्रमुखसकलक्षत्रधर्मसहजस्वभावयोर्यदा यस्मिन्नुत्कटभूमरजश्शक्यावेशस्स तु तदा ऽधिकक्षत्रबलभानो भवति । अन्योन्यथा चलं गुणवृत्तमिति न्यायेन (परिगृहीतचतुर्मुख)गुणौत्कठ्यानौत्कठ्ये तु न व्यवस्थिते । यो ऽशेषवानरलक्ष्मणोपेतो रामो ऽपि भगवानेकेनेन्द्रजिता सर्वात्मना जित एव । स एव पुनर्द्देवतासाहाय्यादुज्जीविताशेषपरिकर उत्कटरजश्शक्तिस्तमप्यजयच्च । अतश्च द्वन्द्वयुद्धे किंचित्क्षत्रबलाधिक्यभानम् विष्णोः, त्रिपुरसंहारदक्षाध्वरादौ रुद्रस्य । वस्तुतस्तुक्षत्रधर्मप्राबल्यं रुद्रस्य, अग्नितत्त्वत्वात् । अतो ब्रह्मविद्भिः रुद्रो ऽधिको विष्णुर्न्युनस्सवा ऽधिको न्यून इति दुर्मतिर्दूरे त्याज्य । एकस्यैव ब्रह्मणः प्रत्यग्वदेव गुणभेदमात्रनिबन्धनरुद्रविष्णुशब्दतो भेदाभावात् ।।

यस्तु रुद्रोपाधिर्भगवानादिगुरुः स एव विष्णूपाधिरिति यश्चैवमुपाधिस्स एवोपाधिरिति वामदक्षिणोर्ध्वाधो ऽवयववत् किंचित्क्कचित्कदाचित् गुणवत्त्वेनाधिकत्वेन न्यूनत्वेन च भाति । सर्वो ऽप्ययमेकधर्म इति न वृथोल्लाळनं कर्तव्यमिति ।। 19 ।।

(विष्णुं अधिकंश्रेष्ठं सेव्यत्वेन मेनिरे । वस्तुतस्तु प्रकृतयुद्धे विष्णोराधिक्यदर्शनात् त्रिपुरवधे शिवस्याधिक्यदर्शनात् तयोः साम्यग्रहणमिति तात्पर्यम् । अधिकमित्यस्य स्वीयपूर्वज्ञानविषयस्वरूपापेक्षया ऽधिकमित्यर्थःति. विष्णुमधिकं मेनिरेस्वीकृततत्सत्त्वगुणस्य तत्काले आधिक्यं स्वीचक्रुरित्यर्थः । अत एव त्रिपुरविजयकाले शिवबलस्याधिक्यदर्शने ऽपि नैतेषां संशयोत्पत्तिः--हरिहरयोरैक्यात् तत्तन्न्यूनाधिक्ययोर्वक्तुमशक्यत्वात् । अत एव 'एको ह वै रुद्रः' 'एको ह वै नारायणः' इति श्रुत्योर्न विरोधः৷৷৷৷एतेन 'तमउद्रेकेण कदाचिद्रुद्रस्य पराजयो न दोषायेति वा केनचिदुक्तं प्रत्युक्तम्' इति भूषणकारोक्तमेव प्रत्युक्तम् । त्रिपुरविजयकाले विष्णोरल्पबलवत्त्वे अस्या एव रीतेस्तैरपि वक्तव्यत्वात्शि ।।

तत्विष्णवधिष्ठानेन पूर्वं त्रिपुरघ्नं धनुःजृम्भितंविष्ण्वधिष्ठानाभावेनजृम्भितं दृष्ट्वान त्वाप्तवाक्यात् श्रुत्वा ৷৷.आधिक्यावबोधनं न पक्षपातमूलमित्याह सर्षिगणा इति । अतीन्द्रियार्धद्रष्टार ऋषयः, तेषां गणाः৷৷.'भूयसां स्याद्धलीयस्त्वम्' इति न्यायेन, तज्ज्ञानं न पक्षपातमूलं न वा भ्रान्तिमूलमिति भावःएतेन तमउद्रेकेण कदाचिद्रुद्रस्य पराजयो न दोषायेति केन चिदुक्तं प्रत्युक्तम् । तमो ऽभिभवस्यैवावरत्वनियामकत्वात् । इन्द्रजिता रामपराजयस्तु'अदृश्यो न शब्दवेधेन वध्यते' इति धर्मप्रवर्तनाय । धर्मसंस्थापनार्थाय हि तदवतार इत्युक्तम् । (अत एव अनन्तरमिन्द्रजिद्वधःसंगच्छते) । अत्र तु स्वरूपत एव रुद्रस्य पराजयः । किञ्च रुद्रपराजयस्य तमःकृतत्वे देवानामधिकत्वबुद्धिर्न स्यादेव ।। अयं च धनुर्भङ्गः दक्षयज्ञान इति बोध्यम् । अन्यथा 'दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्' इत्यादिना दक्षयज्ञान्ते रुद्रो देवानां धनुर्दावित्युक्तं विरुध्येत । अत्रेदमेव धनुस्त्रिपुरघ्नं, 'त्रिपुरघ्नम्' इत्युक्तत्वात् । एतद्विरुद्धं मेरूधनुष्ट्वं पुराणान्तरोक्तमनादरणीयम्गो ।)

(1 एतदनन्तरं पूजयित्वा ततो विष्णुमामंत्र्य च पिनाकिनम् । ब्रह्मेन्द्रादीन् पुरस्कृत्य नाकपृष्ठं ययुस्तदा ।। ' इत्यधिकंङ.) ।। 1.75.19 ।। 

 ।। 1.75.20 ।। धनू रुद्रस्तु सङ्क्रुद्धो विदेहेषु महायशाः ।

1देवरातस्य राजर्पेर्ददौ हस्ते ससायकम् ।। 20 ।।

धनू रुद्र इत्यादि । एवं युद्धदशायां सङ्क्रुद्धः पश्चाद्देवप्रार्थनया प्रसन्नो देवेभ्य एव तद्धनुः ससायकं दत्त्वा तच्च वरुणद्वारा विदेहेषु वर्तमानस्य देवरातस्य राजर्षेर्हस्ते ददौ । एवं विशेषव्याख्या तु षट्षष्टितमे 'प्रतीतियुक्तस्स सर्वेषां ददौ तेषां महात्मनाम्' इति प्रति एव रुद्रो देवेभ्यो ददावित्युक्तेः । तथा ऽग्रे वरुणेन दत्तमिति वक्ष्यमाणत्वाच्च ।। 20 ।।

(ननु पूर्वं दक्षयज्ञान्ते रुद्रो देवेभ्यो धनुर्दत्तवानित्युक्तम् । अत्र पुनः देवराताय रुद्रो दत्तवानित्युक्तम् । विश्वामित्राश्रमे मुनिभिः यज्ञे जनकाय देवा ददुरित्युक्तम् । अनसूयासमीपे सीतया जनकाय वरुणेन दत्तमित्युक्तम् । कथमिदं सङ्गच्छते ? श्रूयताम्--पूर्वं देवाः त्रिपुरवधाय विश्वकर्मणा निर्मितं धनू रुद्राय ददुः । दक्षयज्ञान्ते विरोधे विष्णुहुंकारेण जृम्भितं तत् देवैः प्रार्थितो रुद्रो देवरातस्य हस्ते दत्तवान् । ततः प्रभृति न्यासभावेन मैथिलेषु वर्तमानं तत्स्वत्वेन देवाः वरुणेन जनकायादापयन्निति क्रमः । तेन दक्षयज्ञाने धनुर्दानवचनं देवैर्जनकस्य यज्ञफलत्वेन दानवचनं वरुणेन दत्त्वत्वचनं च समंजसं, गो । इदं तु चिन्त्यम्--दक्षयज्ञवधानन्तरं दाक्षायण्याः हिमवत्पुत्रीत्वेन जननम् । ततः स्कन्दोत्पत्तिः । ततस्तेन तारकासुरवधः । त्रिपुरासुराश्च तारकासुरपुत्राः । एवञ्च दक्षयज्ञवधः त्रिपुरासुरवधात्पूर्वमेव स्यात् । दक्षयज्ञवधान्त एव यदि धनुर्दत्तं स्यात् तर्हि त्रिपुरवधः अन्येन धनुषा कृतः स्यात् । तथा सति 'त्रिपुरघ्नं' इति विशेषणं बाधितम् । यदि च त्रिपुरवधानन्तरमेव दत्तं स्यात् तर्हि दक्षयज्ञकाले दत्त्वत्ववचनं बोध्येत । अत एवमत्र वक्तव्यम्--दक्षयज्ञान्ते शिवः धनुः देवेभ्यो दत्तवान् । देवाश्च वरुणद्वारा देवराताय न्यासतया ददुः । (वैष्णवमपि धनुः रामः परशुरामात् गृहीत्वा वरुणायैव दत्तवान् इति (बाल.77.1) श्रूयते ।) अनंतरं तेनैव देवरातात् गृहीतेन त्रिपुरवधः कृतः । तदन्ते च विष्णुशिवयोर्युद्धं । ततः पुनर्देवराताय तद्दानमिति । एवं क्रमाङ्गीकारे न को ऽपि विरोधः आपाततः कुत्रचित् विरोधःप्रतीयमानो ऽपि पदाक्षरपर्यालोचनायां सुपरिहर एव इति केचित् । परे तु त्रिपुराणां तारकपुत्रत्वे ऽपि शङ्करसंहितादिपर्यालोचनया प्रथममेव त्रिपुरवधः, अनन्तरं च दक्षयज्ञध्वंस इति 'त्रिपुरघ्नं' इति विशेषणं युक्तमेवे ऽत्याहुः ।।)

(1 एतदनंतरंतद्धनुर्देवरातो ऽपि शिरसा गृह्य पूजयत् । भग्नं तन्मनुजश्रेष्ठ त्वया पैनाकमुत्तमम् । इत्यधिकंङ) ।। 1.75.20 ।। 

 ।। 1.75.21 ।। इदं च वैष्णवं राम धनुः परपुरंजयम् ।

ऋचीके भार्गवे प्रादाद्विष्णुः 1 स्वन्यासमुत्तमम् ।। 21 ।।

एतवतानूक्तं भार्गवेण तु रौद्रं धनुः शिथिलप्रायं जनकवंशे स्थितं । न तु तद्भञ्जनमात्रतस्तव वीर्याधिक्यमिति । तर्हि क्क मे वीर्यशुद्धिरित्यतः--इदञ्चेत्यादि । परपुरञ्जयमिति । असंज्ञायामप्यार्षः खच् । भार्गवःभृगुपुत्रः । स्वस्यस्वीयस्य न्यासः--सन्यासः ।। 21 ।।

(1 संन्यासर्वत्र,) ।। 1.75.21 ।। 

 ।। 1.75.22 ।। ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः ।

पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः ।। 22 ।।

पुत्रस्येति । जमदग्नेरिति यावत् । अप्रति2कर्मणः--स्वघातुके कार्तवीर्ये शापादिप्रतिक्रियारहितस्तथा ।। 22 ।।

(2 कर्माइति स्यात्) ।। 1.75.22 ।। 

 ।। 1.75.23 ।। न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते ।

अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः ।। 23 ।।

न्यस्तं विष्णुधनूरूपं शस्त्रं येन स तथा । तपोबलसमन्विते ऽपि प्राकृतां बुद्धिमास्थितः सन् अर्जुनः--कार्तवीर्यार्जुनो 1रुद्रः मृत्युं अस्मत्पितुर्विदधे ।। 23 ।।

(यद्यपि महाभारते (वन.117) ब्रह्माण्डपुराणे (3.45) च कार्तवीयार्जुनपुत्रैः शूरसेनादिभिर्जमदग्निर्हत इति कथ्यते--अथापि ब्रह्माण्डपुराणे कथाक्रम एवं दृश्यते । कदाचित् कार्तवीर्यार्जुनः मृगयार्थं वनं गतः तत्र जमदग्निना कामधेनुसहायेन ससैन्यः सत्कृतः । प्रतिनिवर्तनकाले स्वमंत्रिणं चन्द्रगुप्तं तद्धेन्वानयनार्थं प्रेषयामास । यदा च जमदग्निर्धेनुं न ददौ, तदा सः जमदग्निं कशादिभिर्मृतप्रायं कृत्वा गतः । तदैव च परशुरामो बहिर्गतः प्रत्यागच्छत् । तं दृष्ट्वा तन्माता रेणुका सोदरताडनं चुक्रोश । यावच्च रामः न्यरोधत् तावत्येव तया एकविंशतिवारमुदरमताडि । अतो रामेणापि एकविंशतिवारं निक्षत्रीकरणशपथः कृतः । अनन्तरं च भृगुमहर्षिः संजीविनीविद्यया जमदग्निं अजीवयत् । ततश्च परशुरामेण कार्तवीर्यो हतः । कालान्तरे च कार्तवीर्यपुत्राः शूरसेनादयः मृगयार्थं वनं गताः परशुरामानुपस्थितिसमये जमदग्निशिर एव छित्वा गृहीत्वा गताः । तत् ज्ञात्वा परशुरामः 'क्षत्रियरुधिरेण स्वपितृतर्पणं कुर्यामहम्' इति प्रतिजज्ञे । तथैव कृतवांश्चेति । एवञ्चात्र प्रथमं यत् कार्तवीर्येण स्वामात्यद्वारा जमदग्निवधः कृतः सो ऽत्र विवक्षितः । महाभारते तु सङ्गहत्वात् द्वितीयवारजमदग्निवध एव वर्णित इति न विरोधावकाश इति ।। अप्रतिकर्मण इत्यस्यैव विवरणं--न्यस्तशास्त्र इति)

(1 इदं पदंग. पुस्तके नास्ति.) ।। 1.75.23 ।। 

 ।। 1.75.24 ।। 2वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् ।

3 क्षत्त्रमुत्सादयन् रोषात् जातं जातमनेकशः ।। 24 ।।

प्रतिरूपंन्याय्यम् ।। 24 ।।

(2 एतदनंतरं अमर्षो मे महानासीन् सर्वलोकभयप्रदः । शास्त्रतोग्निर्हुतो विप्रैर्यथा हुतमुखे प्रभुः । अशक्नुवन् स तं क्रोधं धनुर्गुह्य परं शुभम् । इत्यधिकंङ)

(जातं जातं क्षत्रमुस्सादयन् अखिलां पृथिवीं प्राप्य इत्यन्वयः)

(3 क्षत्रमुत्सादयम्ङ.च.ज. क्षत्रमुत्पाटयन्ङ) ।। 1.75.24 ।। 

 ।। 1.75.25 ।। पृथिवीं 4चाखिलां प्राप्य कश्यपाय महात्मने ।

यज्ञस्यान्ते तदा राम दक्षिणां 5पुण्यकर्मणे ।। 25 ।।

प्राप्येति । स्वबलेनेति शेषः । पुण्यकर्मण इति । यज्ञमयपुण्यकर्मसाद्गुण्यार्थमित्यर्थः ।। 25 ।।

(4 चाखिलां प्रादांङ.)

( पुण्यकर्मणो महात्मने कश्यपायशि.)

(5 पुण्यकर्मणांङ.) ।। 1.75.25 ।। 

 ।। 1.75.26 ।। 6 दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः ।

श्रुतवान् धनुषो भेदं ततो ऽहं द्रुतमागतः ।। 26 ।।

महेन्द्रःमहेन्द्रपर्वतः ।। 26 ।।

(6 एतदनन्तरं 'स्थितो ऽस्मि तस्मिंस्तप्यन्वै सुसुखं सुरसेविते । अद्य तूत्तमवीर्येण त्वया राम महाबल' इत्यधिकंङ) ।। 1.75.26 ।। 

 ।। 1.75.27 ।। तदिदं वैष्णवं राम पितृपैतामहं महत् ।

क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ।। 27 ।।

पितृपैतामहमिति । पितृपितामहक्रमागतमित्यर्थः । उत्तरपदवृद्धिरार्षी । क्षत्त्रधर्मं पुरस्कृत्येति । ब्राह्मणवच्छान्तिमास्थाय नाहं शक्त इति मा ब्रूहीत्यर्थः ।। 1.75.27 ।। 

 ।। 1.75.28 ।। योजयस्व धनुश्रेष्ठे शरं परपुरञ्जयम् ।

यदि शक्नोषि, काकुत्स्थ द्वन्द्वं दास्यामि ते ततः ।। 28 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चशप्ततितमः सर्गः

--

यदि शक्नोषि तावतापि न त्वां मुञ्चामि । अपि तु ततः अनन्तरं द्वन्द्वयुद्धं प्रदास्यामि । वीर्यपरीक्षणार्थमित्यर्थः । जरा (28)मानः सर्गः ।। 28 ।। ।। 1.75.28 ।। 

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चसप्ततितमः सर्गः