[सीतादृढाध्यवसायः] ।। 2.29.1 ।।
एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता।
प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत् ।। 1 ।।
इदमब्रवीदित्युक्तम्। तदेव प्रदर्श्यतेएतत्त्वित्यादि ।। 1 ।।
।। 2.29.1 ।। ।। 2.29.2 ।।
ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति।
गुणा इत्येव तान् 1विद्धि तव स्नेह 2 पुरस्कृता ।। 2 ।।
तव स्नेहपुरस्कृतापुरस्कृतत्वादेवत्वदनुगृहीतत्वादेव हेतोः गुणा इत्येव विद्धीति ।। 2 ।।
1मन्येङ.
2पुरस्कृतान्ङ.
।। 2.29.2 ।। ।। 2.29.34 ।।
मृगास्सिंहा गजाश्चैव शर्दूलाश्शरभास्तथा।
पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ।। 3 ।।
अदृष्टपूर्वरूपत्वात् सर्वे ते तव, राघव
रूपं दृष्ट्वाऽपसर्पेयु 1 भये सर्वे हि बिभ्यति ।। 4 ।।
एतदेव प्रदर्शयतिमृगा इत्यादि। सृमरःगवयःमरै सृमरैः अदृष्टपूर्वं तावकं रूपं येषां ते तथा, तेषां भावस्तत्त्वं, तस्मादित्यर्थः। भयेभयहेतौ सति ।। 4 ।।
ते सर्वे तव रूपं' इत्यन्वयः।
1तवङ.
।। 2.29.34 ।। ।। 2.29.5 ।।
त्वया च सह गन्तव्यं मया गुरुजनाज्ञया।
त्वद्वियोगेन मे, राम त्यक्तव्यमिह जीवितम् ।। 5 ।।
त्वद्वियोगेन हेतुना ।। 5।।
इयं सीता मम सुता৷৷৷৷ छायेवानुगता सदा' (बा. 7326) इत्युक्तत्वादितिभावः।
।। 2.29.5 ।। ।। 2.29.67 ।।
न च मां त्वत्समीपस्थामपि 1शक्नोति, राघव
सुराणामीश्वर 2 श्शक्रः प्रधर्षयितुमोजसा ।। 6 ।।
पतिहीना तु या नारी सा न शक्ष्यति जीवितुम्।
काममेवंविधं, राम त्वया मम 3विदर्शितम् ।। 7 ।।
पतिहीनेति। प्रबलभर्तृहीनेति यावत्। न शक्ष्यतीति। उक्तरूपवन इति शेषः। कामं विदर्शितं भवता। अथापि त्वद्भर्तृकाया न भीतिलेश इति शेषः ।। 7 ।।
1शक्रोऽपिङ.
2श्शक्तःङ.
दशमसर्गारम्भश्लोकेविदर्शिताविपरीतं बोधितेति व्याख्यातत्वादत्रापि विदर्शितंविपरीतमुपदिष्टमित्यर्थः स्वरसः। पतिहीनाया जीवनमेव यदाऽसम्भवि, तदा तस्यै अन्यानुवर्तनोपदेशोऽत्यन्तं विपरीत एवेत्याशयः।
3निदर्शितम्ङ.
।। 2.29.67 ।। ।। 2.29.8 ।।
अथवाऽपि, महाप्राज्ञ ब्राह्मणानां 1मुखाच्छ्रुतम्।
पुरा पितृगृहे, 2सत्यं वस्तव्यं किल मे वने ।। 8 ।।
अथवा किमनेन सुखदुःखविचारेण। मम तु वनवासप्राप्तिर्ब्रह्मालिखितेत्याहअथवेत्यादि। पुरा पितृगृहे निवसन्त्या मया ब्राह्मणानां मुखात् त्वया किल वने वस्तव्यम्' इति श्रुतम् ।। 8 ।।
1मया श्रुतम्ङ.
2नित्यंङ.
मे मयागो.
।। 2.29.8 ।। ।। 2.29.9 ।।
लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाऽहं वचनं पुरा।
वनवासकृतोत्साहा नित्यमेव, महाबल ।। 9 ।।
कथमेवं निश्चयसम्भव इत्यत्राहलक्षणिभ्य इति। लक्षणज्ञानमस्त्येषामिति इनिः, सामुद्रिकलक्षणविद्भ्य इत्यर्थः ।। 9 ।।
लाक्षणिभ्यःङ.
।। 2.29.9 ।। ।। 2.29.10 ।।
आदेशो वनवासस्य प्राप्तव्यस्स मया किल।
सा त्वया सह 1तत्राहं यास्यामि, प्रिय नान्यथा ।। 10 ।।
सः वनवासस्यादेशः ब्राह्मणोक्तः मया प्राप्तव्यः किल। ललाटलिपेरशक्यपरिमार्जनत्वादित्याशयः। सातथाऽऽदेशवत्यहं। तत्रतस्मादेव हेतोस्त्वया सह यास्यामि। नान्यथा ।। 10 ।।
आदेशःदैवादेशः विध्यपरपर्यायः ब्राह्मणमुखाच्छ्रुतः,
1भर्त्राहंङ.
।। 2.29.10 ।। ।। 2.29.11 ।।
कृतादेशा भविष्यामि गमिष्यामि सह त्वया।
कालश्चायं समुत्पन्नः सत्यवाग्भवतु द्विजः ।। 11 ।।
एवं सति कृतादेशाकृतब्राह्मणनियोगा भविष्यामि। अतस्त्वया सह गमिष्यामि। समुत्पन्न इति। वनवासस्येति शेषः ।। 11 ।।
एकवचनेन तेषामैकमत्यं सूच्यते.
।। 2.29.11 ।। ।। 2.29.12 ।।
वनवासे हि जानामि दुःखानि बहुधा किल।
प्राप्यन्ते नियतं, वीर पुरुषैरकृतात्मभिः ।। 12 ।।
वनवासे हि बहुधा दुःखानि किल सन्तीति जानाम्येव। अथापि तद्दुःखमकृतात्मभिःअजितेन्द्रियैर्विषयलोलुपैरेव प्राप्यते। न त्वादृङ्मादृग्जनेनेत्यर्थः ।। 12 ।।
।। 2.29.12 ।। ।। 2.29.13 ।।
कन्यया च पितुर्गेहे वनवासः श्रुतो मया।
भिक्षिण्या 1 स्साधुवृत्ताया मम मातु रिहाग्रतः ।। 13 ।।
न केवलं ब्राह्मणमुखाद्वनवासश्रवणं, अपि तु तापसीमुखादपीत्याहकन्ययेत्यादि। गेह इति। स्थितवत्येति शेषः। भिक्षिणीव्रीह्यादित्वादिनिः, तापसीति यावत् ।। 13 ।।
ननु लक्षणज्ञानां भ्रमो भवेत्, तत्राहभिक्षिण्याःतापस्याः। तपोयुक्तत्वेन तस्याः भ्रमो न सम्भवतीति भावःति. साधुवृत्ताया भिक्षिण्या इति पञ्चमी।
1श्शमवृत्तायाङ. च.
अत्र इह' इति पदमुत्तरश्लोकान्वयिति। इह मातुः एतज्जन्मनि जनन्या इत्यर्थःसत्य. अथवा पितृगृहे लक्षणिभ्यः श्रुतम्। इहपतिगृहे च मातुःकदाचिदागताया मातुः, अथवा कौसल्यैव माता, तस्या अग्रतः भिक्षिण्या श्रुतमित्यर्थः।
।। 2.29.13 ।। ।। 2.29.14 ।।
प्रसादितश्च वै पूर्वं त्वं वै बहु 1विधं, प्रभो
गमनं वनवासस्य काङ्क्षितं हि सह त्वया ।। 14 ।।
वनवासस्य गमनं प्रति प्रसादित इति योजना ।। 14 ।।
1तिथंङ. च.
।। 2.29.14 ।। ।। 2.29.15 ।।
कृतक्षणाऽहं, भद्रं ते, गमनं प्रति, राघव
वनवासस्य शूरस्य चर्या हि मम रोचते ।। 15 ।।
कृतक्षणाकृतानुमतिका। वने वासो यस्य स तथा। चर्याशुश्रूषा ।। 15 ।।
कृतः क्षणःउत्सवःउत्साहः यया सा। कृतोत्साहेत्यर्थः। अहं गमनं प्रति कृतोत्साहा। हे राम ते भद्रं भवतु इत्यन्तवयः।
।। 2.29.15 ।। ।। 2.29.16 ।।
शुद्धात्मन् 1प्रेमभावाद्धि भविष्यामि विकल्मषा।
भर्तारमनुगच्छन्ती भर्ता हि 2मम दैवतम् ।। 16 ।।
3प्रेत्यभावेऽपि 4कल्याणसङ्गमो मे सह त्वया।
अनुगच्छन्ती विकल्मषा भविष्यामीति योजना। प्रेत्यभावेमृत्वा शरीरान्तरपरिग्रहेऽपि हि यस्मात् त्वया कल्याणसङ्गमःदिव्यसुखहेतुस्सङ्गमस्सिद्धःअत इह नित्यसङ्गमः कैमुतिकसिद्ध इत्यर्थः ।।
1प्रेष्यङ.
2परङ. च.
3एतदनन्तरं पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्रो रक्षन्तिवार्धक्ये न स्त्री स्वातन्त्र्यमर्हति।।' इत्यधिकम्ङ.
4कल्याणः संगमःङ. च.
।। 2.29.16 ।। ।। 2.29.1718 ।।
श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् ।। 17 ।।
इह लोके च पितृभिः या स्त्री यस्य महामते
अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा ।। 18 ।।
कुतः प्रेत्य च सङ्गमसिद्धिरित्यत्राहश्रुतिरित्यादि। ब्राह्मणानां मुखात् पुण्या किल श्रुतिः यत उक्तार्थप्रतिपादिका श्रूयते अत इत्यर्थः। का सेत्यतस्तां श्रुतिं पठतिइहेत्यादि। पद्यसिद्धये वाल्मीकिना महामत इति पदं प्रयुक्तम्। श्रुतिस्वरूपं तु तदतिरिक्तं यजुर्मन्त्ररूपम्इह लोके च पितृभिर्यास्त्री यस्याद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सेति ।। 18 ।।
अद्भिस्सहेत्यर्थः.
स्वधर्मेणपतिव्रताधर्मेण विद्यमाना सा प्रेत्यभावेऽपि तस्य पत्नी भवत्येवती
खिलश्रुतिःक.
।। 2.29.1718 ।। ।। 2.29.19 ।।
एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम्।
नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना ।। 19 ।।
एवमिति। श्रुतिस्मृतिन्यायतो नित्यसम्बन्धे सिद्धे सतीत्यर्थः। इहईदानीमिति यावत् ।। 19 ।।
।। 2.29.19 ।। ।। 2.29.20 ।।
भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः।
नेतुमर्हसि, काकुत्स्थ समानसुखदुःखिनीम् ।। 20 ।।
सुखदुःखयोरिति। तत्साधनानुष्ठानयोरित्यर्थः। अत एव समानसुखदुःखिनीम् ।। 20 ।।
।। 2.29.20 ।। ।। 2.29.2122 ।।
यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि।
विषमग्निं जलं वाऽहमास्थास्ये मृत्युकारणात् ।। 21 ।।
एवं बहुविधं तं सा याचते गमनं प्रति।
नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ।। 22 ।।
नयनाननुमतौ हेतुःविजनमिति। श्वश्रूननान्दृमुखरक्षकजनरहितमिति यावत् ।। 22 ।।
।। 2.29.2122 ।। ।। 2.29.23 ।।
एवमुक्ता तु सा चिन्तां मैथिली समुपागता।
स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः ।। 23 ।।
गांभुवम् ।। 23 ।।
।। 2.29.23 ।। ।। 2.29.24 ।।
चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान्।
ताम्रोष्ठीं स तदा सीतां काकुत्स्थो बह्वसान्त्वयत् ।। 24 ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनत्रिंशस्सर्गः
वर (24) मानः सर्गः ।। 2224 ।।
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकोनत्रिंशस्सर्गः।
क्रोधाविष्टां तु वैदेहीङ.
।। 2.29.24 ।।