Sanskrit Commentaries

त्रयस्त्रिंशस्सर्गः

[दशरथसमाश्वासनम्] ।। 2.33.1 ।। 

दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु।

जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ।। 1 ।।

एवं कृतयात्रादानस्य पित्रनुमतये पितृसमीपगमनंगत्वेत्यादि।

 ।। 2.33.1 ।।  ।। 2.33.2 ।। 

ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे।

मालादामभिराबद्धे सीतया समलङ्कृते ।। 2 ।।

ततो गृहीत इति। यथास्वमिति शेषः। तयोरायुधे तदायुधे ।।

सीतया सम्यक् अलङ्कृतेचन्दनादिभिरित्यर्थः.

 ।। 2.33.2 ।।  ।। 2.33.3 ।। 

ततः प्रासादहर्म्याणि विमानशिखराणि च।

अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् ।।

सप्तभूमिकः प्रासादो विमानम्। द्वित्रिभूमिकाःकेवलप्रासादाः। हर्म्यंबद्धगृहोपरिप्रदेशः। अधिरुह्य जन इति। अधिरुह्य स्थितो यो जनःतं जनं श्रीमानुदासीनो भूत्वाअरिरक्षयिषितत्वेन नीरागद्वेषतो व्यलोकयत्पश्यति स्म ।।3।।

उदासीनःनिरुत्सुकःनिर्विण्ण इति यावत्गो. कतकदृष्ट्या तु श्रीमान्, उदासीन इति पदद्वयं रामपरम्.

 ।। 2.33.3 ।।  ।। 2.33.4 ।। 

न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः।

आरुह्य तस्मात् प्रासादाद्दीनाः पश्यन्ति राघवम् ।। 4 ।।

तस्मादिति। बहुजनाकुलत्वेन रथ्यायां गन्तुमशक्यत्वादेवेत्यर्थः। प्रासादमारुह्य प्रासादात्प्रासादारोहणरूपोपायादेव पश्यति स्म। अभिषेकदर्शनाभावतो विपरीतवेषदर्शनतश्च दीनाः ।। 4 ।।

प्रसादान्'पाप्रासादानारुह्येत्यन्वयःगो.

 ।। 2.33.4 ।।  ।। 2.33.57 ।। 

1पदातिं सानुजं दृष्ट्वा ससीतं च जनास्तदा।

ऊचुर्बहुविधा वाचः शोकोपहतचेतसः ।। 5 ।।

यं यान्तमनुयाति स्म चतुरङ्गबलं महत्।

तमेकं सीतया सार्धं अनुयाति स्म लक्ष्मणः ।। 6 ।।

ऐश्वर्यस्य रसज्ञः सन् 2कामिनां चैव कामदः।

नेच्छत्येवानृतं कर्तुं 3 वचनं धर्मगौरवात् ।। 7 ।।

रसज्ञ इति। परिग्रहसुखज्ञ इति यावत्। वचनंपितृवचनम् ।।

1पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः'झ.

बहुविधाः इत्येवं विविधा वाचः' इति पर्यन्तम्.

 ।। 2.33.57 ।।  ।। 2.33.8 ।। 

या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि।

तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ।। 8 ।।

अद्येति। प्रयाणानुमत्यर्थदर्शनसमय इत्यर्थः ।। 8 ।।

 ।। 2.33.8 ।।  ।। 2.33.912 ।। 

अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम्।

वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् ।। 9 ।।

अद्य नूनं दशरथ स्सत्त्वमाविश्य भाषते।

न हि राजा प्रियं पुत्रं विवासयितुमर्हति ।। 10 ।।

निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम्।

किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ।। 11 ।।

आनृशंस्यमनुक्रोशः श्रुतं शीलं दमश्शमः।

राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम् ।। 12 ।।

अनुक्रोशःदया ।। 12 ।।

सत्त्वंपिशाचं आविश्यप्राप्यगो. सत्त्वंसत्त्वगुणं आविश्यप्राप्य भाषतेत्वया वनं न गन्तव्यमिति राजा रामं वदिष्यतीत्यर्थः। कुतः? न हि राजेतिती. दशरथं सत्त्वमाविश्य' इत्यपि पाठः झ. पुस्तके.

वृत्तेन केवलंचरित्रमात्रेण। वृत्तेन केवलमित्युक्तिर्दानमानादौ विद्यमानेऽपि चरित्रप्राधान्यात्गो.

दमःइन्द्रियनिग्रहः. शमःचित्तप्रशान्तिः शमश्चित्तप्रशान्तिः स्याद्दम इन्द्रियनिग्रहः' इति निर्वचनात्गो.

 ।। 2.33.912 ।।  ।। 2.33.13 ।। 

तस्मात्तस्योपघातेन प्रजाः परमपीडिताः।

औदकानीव सत्त्वानि ग्रीष्मे सलिलसङ्क्षयात् ।। 13 ।।

औदकानिउदकजीवनानि ।। 13 ।।

 ।। 2.33.13 ।।  ।। 2.33.14 ।। 

पीडया पीडितं सर्वं जगदस्य जगत्पतेः।

मूलस्येवोपघातेन वृक्षः पुष्प 1 फलोपगः ।। 14 ।।

पुष्पफलैः उपगःउपगमो यस्य ।। 14 ।।

1फलागमःङ.

 ।। 2.33.14 ।।  ।। 2.33.1516 ।। 

मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः।

पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः ।। 15 ।।

ते लक्ष्मण इव क्षिप्रं 1 सपत्न्यस्सहबान्धवाः।

गच्छन्तमनुगच्छामो येन गच्छति राघवः ।।16।।

सयत्न्य इति। सपत्नीका इति यावत्। येनेति। मार्गेणति शेषः। राघवःरघुकुलजः ।।

1सपत्नीकास्सबान्धवाःङ.

 ।। 2.33.1516 ।।  ।। 2.33.17 ।। 

उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च।

1एकदुःखसुखा राममनुगच्छाम धार्मिकम् ।। 17 ।।

एकदुःखसुखाःसमानसुखदुःखा इति यावत् ।। 17 ।।

1समङ.

 ।। 2.33.17 ।।  ।। 2.33.18 ।। 

1समुद्धृतनिधानानि परिध्वस्ताजिराणि च।

उपात्तधनधान्यानि 2हृत साराणि सर्वशः ।। 18 ।।

समुद्धृतनिधानत्वादिधर्मकानि वेश्मानि प्रतिपद्यतामित्यन्वयः ।।

1समुद्धतङ.

2दत्तसाराणि, हृतभाराणिङ.

साराणिशय्यासनादीनिगो.

 ।। 2.33.18 ।।  ।। 2.33.19 ।। 

रजसाऽभ्यवकीर्णानि परित्यक्तानि देवतैः।

मूषकैः परिधावद्भिरुद्बिलैरावृतानि च ।। 19 ।।

उद्बिलैःउत्सृष्टबिलैः ।। 19 ।।

मूषिकैःङ.

 ।। 2.33.19 ।।  ।। 2.33.2021 ।। 

अपेतोदकधूमानि हीनसम्मार्जनानि च।

प्रणष्टबलिकर्मेज्यामन्त्रहोमजपानि च ।। 20 ।।

दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च।

अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ।। 21 ।।

दुष्कालःराजिकदैविकक्षोभकालः ।। 21 ।।

 ।। 2.33.2021 ।।  ।। 2.33.2223 ।। 

वनं नगरमेवास्तु येन गच्छति राघवः।

अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम् ।। 22 ।।

बिलानि दंष्ट्रिणस्सर्वे सानूनि मृगपक्षिणः।

त्यजन्त्वस्मद्भयाद्भीता गजास्सिह्मा वनान्यपि ।। 23 ।।

1अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च।

दंष्ट्रिणःसर्पाः। सानूनिपर्वतप्रस्थाः। अस्मत्त्यक्तमिति। पुरमिति शेषः। सेव्यमानंअस्माभिराश्रियमाणं। वनमिति शेषः ।।

1अस्मद्युक्तंङ.

 ।। 2.33.2223 ।।  ।। 2.33.2425 ।। 

तृणमास 1 फलादानं देशं व्यालमृगद्विजम् ।। 24 ।।

प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः।

राघवेण वने सर्वे सह वत्स्याम निर्वृताः ।। 25 ।।

तृणादीनामादानं येभ्यो वनदेशेभ्यस्तथा। व्यालादयश्च येषु तथा ।। 25 ।।

व्यालमृगद्विजमिति बहुव्रीहिः। व्यालमृगद्विजैर्विशिष्टं तृणमांसफलादानां देशंकाननीभूतं देशमिति यावत्। अर्थात् तृणादाःमृगाः, मांसादाःव्यालाः, फलादाःपक्षिणः।

1फलादानांङ.

 ।। 2.33.2425 ।।  ।। 2.33.26 ।। 

इत्येवं विविधा वाचो नानाजनसमीरिताः।

शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम् ।। 26 ।।

न विचक्रेविकारं न प्राप ।। 26 ।।

 ।। 2.33.26 ।।  ।। 2.3.2729 ।। 

स तु वेश्म 1पितुर्दूरात् कैलासशिखरप्रभम्।

अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ।। 27 ।।

विनीतवीरपुरुषं प्रविश्य तु नृपालयम्।

ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः ।। 28 ।।

प्रतीक्षमाणोऽपि जनं तदाऽऽर्तं

अनार्तरूपः प्रहसन्निवाथ।

जगाम रामः पितरं दिदृक्षुः

पितुर्निदेशं विधिवच्चिकीर्षुः ।। 29 ।।

आर्तंखिन्नम् ।। 29 ।।

1पुनर्मातुःङ.

प्रतीक्षमाणःपश्यन्।

 ।। 2.33.2729 ।।  ।। 2.33.30 ।। 

तत्पूर्वमैक्ष्वाकसुतो महात्मा

रामो गमिष्यन् वनमार्तरूपम्।

व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं

पितुर्महात्मा प्रतिहारणार्थम् ।। 30 ।।

तत्पूर्वंतदारभ्येति यावत्। आर्तरूपंदुःखरूपं। पितुः प्रतिहारणार्थंनिवेदनार्थं सुमन्त्रं प्रेक्ष्य तत्प्रतीक्षां कृत्वा व्यतिष्ठत ।।

 ।। 2.33.30 ।।  ।। 2.33.31 ।। 

पितुर्निदेशेन तु धर्मवत्सलो

वनप्रवेशे कृतबुद्धिनिश्चयः।

स राघवः प्रेक्ष्य सुमन्त्रमब्रवीत्

निवेदयस्वागमनं नृपाय मे ।। 31 ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः

कलि (31) मानः सर्गः ।। 31 ।।

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रयस्त्रिंशस्सर्गः

 ।। 2.33.31 ।।