Content

Audio

तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ।

शोकार्तेनास्य शकुने: किमिदं व्याहृतं मया ।।1.2.16।।

Translation

एवम् in this manner, ब्रुवत: having uttered, वीक्षत: reflecting, तस्य हृदि in his heart, अस्य शकुने: शोकार्तेन distressed by the grief of this bird, मया व्याहृतम् uttered by me, इदम् these words, किम् what?, चिन्ता बभूव a thought arose.

Brooding over his utterances, he reflected, 'What is this that I uttered in reaction to the grief of this bird?'