Content

राज्यभारनियुक्तानामेष धर्मस्सनातन:।

अधर्म्यां जहि काकुत्स्थ धर्मोह्यस्या न विद्यते।।1.25.18।।

Translation

राज्यभारनियुक्तानाम् for those who enjoined by the burden of royalty, एष: this one, सनातन: eternal, धर्म: law, काकुत्स्थ O Kakusthsa, अधर्म्याम् unjust (Tataka ), जहि kill her, अस्या: for this Tataka, धर्म: righteousness, न विद्यते हि knows not.

This is the eternal law binding those who are appointed to bear the burden of a kingdom. O Kakutstha kill her. She knows no dharma.
Sanskrit Commentary by Amruta Kataka
अथ पञ्चविंशः सर्गः

[ताटकावृत्तान्तः, तद्वधसमर्थनं च]

 ।। 1.25.1 ।। अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् ।

श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ।। 1 ।।

अथैवं स्त्रीवधे नियोगे सति स्त्रियास्तादृग्बलतद्वधसंशयौ रामस्योपोहति विश्वामित्रः--अथेत्यादि ।। 1.25.1 ।। 

 ।। 1.25.2 ।। अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुङ्गव

कथं नागसहस्रस्य धारयत्यबला बलम् ।। 2 ।।

यदेति । यस्मात् श्रूयन्ते, पुराणादिष्विति शेषः । नागःगजः । अबलेति साभिप्रायम् ।। 1.25.2 ।। 

 ।। 1.25.3 ।। तस्य तद्वचनं श्रुत्वा रामस्य विदितात्मनः ।

विश्वामित्रो ऽब्रवीद्वाक्यं शृणु येन बलोत्तरा ।। 3 ।।

वरदानकृतं वीर्यं धारयत्यबला बलम् ।

वरदानकृतं वीर्यंतत्कृतं बलं च धारयति ।। 1.25.3 ।। 

 ।। 1.25.4 ।। पूर्वमासीत् महायक्षः सुकेतुर्नाम वीर्यवान् ।। 4 ।।

अनपत्यः शुभाचारः स च तेपे महत्तपः ।

कुतो वरप्राप्तिरित्यतः--पूर्वमित्यादि । तेप इति । पुत्रार्थं पितामहमुद्दिश्येति शेषः ।। 1.25.4 ।। 

 ।। 1.25.5 ।। पितामहस्तु संप्रीतस्तस्य यक्षपतेस्तदा ।। 5 ।।

कन्यारत्नं ददौ राम ताटकां नाम नामतः ।

कन्यारत्नमिति । उत्तमदिव्यदेवरूपवतीमित्यर्थः ।। 1.25.5 ।। 

 ।। 1.25.6,7 ।। ददौ नागसहस्रस्य बलं चास्याः पितामहः ।। 6 ।।

न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ।

तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम् ।। 7 ।।

खञ्जुपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ।

खञ्ज्वोः पुत्रः खञ्जुपुत्रः । ननु सुन्दो ऽसुरः, सुकेतुर्यक्षः, स कथमसुराय दद्यात् भार्यात्वेन ? यक्षस्यापि देवयोनिमात्रत्वात् । नैऋ़तानामपि तथात्वादेवैकजात्यं, तदुचितो यौनसम्बन्धः ।। 1.25.6,7 ।। 

 ।। 1.25.8 ।। कस्य चित्त्वथ कालस्य यक्षी पुत्रमजायत ।। 8 ।।

मारीचं नाम दुर्धर्षं यः शापाद्राक्षसो ऽभवत् ।

अजायतेति । जनी जनने, जननंगर्भविमोचनम् प्रासोष्टेति यावत् ।। 1.25.8 ।। 

 ।। 1.25.9,10 ।। सुन्दे तु निहते राम सा ऽगस्त्यं मुनिपुङ्गवम् ।। 9 ।।

ताटका सह पुत्रेण प्रधर्षयितुमिच्छति ।

भक्षार्थं जातसंरम्भा गर्जन्ती सा ऽभ्यधावत ।। 10 ।।

'शापाद्राक्षसो ऽभवत्' इत्युक्ते किंशापादित्यतः--सुन्दे तु निहत इत्यादि । अगस्त्येनेति शेषः ।

इच्छतिइच्छति स्म । जातसंरम्भा--खभर्तृवधजकोपवती । अत एवभक्षार्थमभ्यधावतेति । एतेन यक्षरक्षो ऽसुरादेः पुरुषादत्वादिधर्मवत्वेन च साजात्यं यौनसम्बधार्हं द्रष्टव्यम् ।। 1.25.10 ।। 

 ।। 1.25.11 ।। आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ।

राक्षसत्वं भजस्वेति मारीचं व्याजहार सः ।। 11 ।।

राक्षसत्वं भजस्वेति । शुद्धदेवयोनिस्वरूपं मुक्त्वेति शेषः ।। 1.25.11 ।। 

 ।। 1.25.12 ।। अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् ।

पुरुषादी महायक्षी विरूपा विकृतानना ।। 12 ।।

इदं रूपं विहायाथ दारुणं रूपमस्तु ते ।

पुरुषादीति । जतिलक्षणङीष् । कोपवशाद्विरूपविकृताननत्वम् । वैरूप्यंक्रोधवशजमुखारुण्यदि । इदं रूपंयक्षीरूपम् । दारुणं रूपमिति । पुत्रवदेव राक्षसं रूपमित्यर्थः ।। 1.25.12 ।। 

 ।। 1.25.13 ।। सैषा शापकृतामर्षा ताटका क्रोधमूर्च्छिता ।। 13 ।।

देशमुत्सादयत्येनमगस्त्यचरितं शुभम् ।

देशोत्सादने हेतुगर्भविशेषणम्--अगस्त्यचरितमिति ।। 1.25.13 ।। 

 ।। 1.25.14 ।। एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् ।। 14 ।।

गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ।

यक्षिः यक्षी यक्षिन्इति रूपत्रयमप्यस्ति ।। 1.25.14 ।। 

 ।। 1.25.15 ।। न ह्येनां शापसंस्पृष्टां कश्चिदुत्सहते पुमान् ।। 15 ।।

निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन

शापः--आगस्त्यः ।। 1.25.15 ।। 

 ।। 1.25.16 ।। न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम ।। 16 ।।

चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना ।

हे नरोत्तम ते स्त्रीवधनिमित्ता या घृणा सा त्वया न कार्येति योजना । कुत एवमित्यतःचतुर्वर्ण्यहितार्थायेति । स्वार्थे ष्यञ् ।। 1.25.16 ।। 

 ।। 1.25.17 ।। नृशंसमनृशंसं वा प्रजारक्षणकारणात् ।। 17 ।।

पातकं वा सदोषं वा कर्तव्यं रक्षता सदा ।

नृशंसःक्रूरकर्मा । प्रजारक्षकारणादिति । प्रजारक्षणसिद्धिहेतोरित्यर्थः । रक्षता सदेति । रक्षाधर्मसिद्धिशेषत्वेनेति यावत् ।। 1.25.17 ।। 

 ।। 1.25.18 ।। राज्यभारनियुक्तानां एष धर्मः सनातनः ।। 18 ।।

अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्या न विद्यते ।

इतश्चास्या वधो न्याय्य इत्याह--अधर्म्यामिति । धर्मादनपेता धर्म्या, सा न भवतीत्यधर्म्या । अयमेवार्थः स्थिरीक्रियते--धर्म इत्यादि ।। 1.25.18 ।। 

 ।। 1.25.19 ।। श्रूयते हि पुरा शक्रो विरोचनसुतां नृप ।। 19 ।।

पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ।

प्रजारक्षाप्राप्तो ऽधर्म्यस्त्रीवधो धर्म्य एवेतीममर्थं सम्मतिभिः स्थिरीकरोति--श्रूयत इत्यादि । पृथिवीमित्यादि । देवताविग्रहवतीमिति यावत् ।। 1.25.19 ।। 

 ।। 1.25.20 ।। विष्णुना च पुरा राम भृगुपत्नी दृढव्रता ।। 20 ।।

अनिद्रं लोकमिच्छन्ती काव्यमाता निषूदिता ।

अनिद्रंनिद्रासुखरहितम् । काव्यःशुक्रः ।। 1.25.20 ।। 

 ।। 1.25.21,22 ।। एतैश्चान्यैश्च बहुभी राजपुत्र महात्मभिः ।। 21 ।।

अधर्मसहिता नार्यो हताः पुरुषसत्तमैः ।

तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप ।। 22 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चविंशः सर्गः

--

एतैरिति । छान्दसं बहुत्वम् । एताभ्यां शक्रविष्णुभ्यामित्यर्थः । रुद्र (22) मानः ।। 1.25.22 ।। 

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चविंशः सर्गः



Sanskrit Commentary by Govindaraja
अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् ।

श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ।। 1.25.1 ।।

स्त्रिया अपि सर्वलोकविनाशिन्या वधे न दोष इत्याह पञ्चविंशे अथेत्यादि । अप्रमेयस्य अप्रमेयप्रभावस्य ।। 1.25.1 ।।



अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुङ्गव ।

कथं नागसहस्रस्य धारयत्यबला बलम् ।। 1.25.2 ।।

अल्पेति । यदा यस्मात्, यदायत्रादयो हेतावपि मुनिभिः प्रयुज्यन्ते । यस्माच्छ्रूयन्ते तस्मात् अबला स्त्री कथं नागसहस्रस्य बलं धारयति ।। 1.25.2 ।।



विश्वामित्रो ऽब्रवीद्वाक्यं शृणु येन बलोत्तरा ।

वरदानकृतं वीर्यं धारयत्यबला बलम् ।। 1.25.3 ।।

विश्वामित्र इति । येन हेतुना बलोत्तरा भवति तं शृणु । तस्या वरदानकृतं वीर्यं बलमस्ति अतो ऽबलापि बलं धारयति ।। 1.25.3 ।।



पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् ।

अनपत्यः शुभाचारः स च तेपे महत्तपः ।। 1.25.4 ।।

वरदानप्रकारमाह पूर्वमित्यादि ।। 1.25.4 ।।



पितामहस्तु सम्प्रीतस्तस्य यक्षपतेस्तदा ।

कन्यारत्नं ददौ राम ताटकां नाम नामतः ।। 1.25.5 ।।

पितामह इति । नाम प्रसिद्धौ ।। 1.25.5 ।।



ददौ नागसहस्रस्य बलं चास्याः पितामहः ।

न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ।। 1.25.6 ।।

ददाविति । यक्षाय सुकेतवे ।। 1.25.6 ।।



तां तु जातां विवर्द्धन्तीं रूपयौवनशालिनीम् ।

जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ।। 1.25.7 ।।

तामिति । विवर्द्धन्तीं विवर्द्धमानाम् । भार्यां ददौ ।। 1.25.7 ।।



कस्यचित्त्वथ कालस्य यक्षी पुत्रमजायत ।

मारीचं नाम दुर्द्धषं यः शापाद्राक्षसो ऽभवत् ।। 1.25.8 ।।

कस्यचिदिति । कस्मिंश्चित्काले गते सति । अजायत अजनयत् ।। 1.25.8 ।।



सुन्दे तु निहते राम सागस्त्यं मुनिपुङ्गवम् ।

ताटका सह पुत्रेण प्रधर्षयितुमिच्छति ।। 1.25.9 ।।

शापप्रकारमाह सुन्दे त्विति । निहते, अगस्त्येनेति शेषः । प्रधर्षयितुं हन्तुम् । इच्छति ऐच्छत् ।। 1.25.9 ।।



भक्षार्थं जातसंरम्भा गर्जन्ती सा ऽभ्यधावत ।। 1.25.10 ।।

भक्षेति । जातसंरम्भा स्वभर्तृवधजनितकोपा अत एव भक्षार्थमभ्यधावत । अर्द्धम् ।। 1.25.10 ।।



आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ।

राक्षसत्वं भजस्वेति मारीचं व्याजहार सः ।। 1.25.11 ।।

आपतन्तीमिति । स्पष्टम् ।। 1.25.11 ।।



अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् ।। 1.25.12 ।।

अगस्त्य इत्यर्द्धम् ।। 1.25.12 ।।



पुरुषादी महायक्षी विरूपा विकृतानना ।

इदं रूपं विहाया ऽथ दारुणं रूपमस्तु ते ।। 1.25.13 ।।

पुरुषादीति । पुरुषादी मनुष्यभक्षिणी । त्वमिदं रूपं विहाय पुरुषादीत्यादिविशेषणयुक्ता भव । अथ ते दारुणं क्रूरं रूपं शरीरम् अस्तु ।। 1.25.13 ।।



सैषा शापकृतामर्षा ताटका क्रोधमूर्च्छिता ।

देशमुत्सादयत्येनमगस्त्यचरितं शुभम् ।। 1.25.14 ।।

सैषेति । अगस्त्यचरितम्, तदानीमिति शेषः ।। 1.25.14 ।।



एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् ।

गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ।। 1.25.15 ।।

एनामिति । जहि नाशय ।। 1.25.15 ।।



न ह्येनां शापसंस्पृष्टां कश्चिदुत्सहते पुमान् ।

निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ।। 1.25.16 ।।

न हीति । शापसंस्पृष्टां शापयुक्ताम् ।। 1.25.16 ।।



न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम ।

चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना ।। 1.25.17 ।।

न हीति । ते त्वया । घृणा जुगुप्सा । कर्तव्यम्, कर्मेति शेषः ।। 1.25.17 ।।



नृशंसमनृशंसं वा प्रजारक्षणकारणात् ।

पातकं वा सदोषं वा कर्तव्यं रक्षता सताम् ।। 1.25.18 ।।

नृशंसमिति । नृशंसं क्रूरकर्म । सदोषं सापवादं कर्म । रक्षता राजपुत्रेण । प्रजारक्षणकारणात्कर्त्तव्यम् ।। 1.25.18 ।।



राज्यभारनियुक्तानामेष धर्मः सनातनः ।

अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्या न विद्यते ।। 1.25.19 ।।

राज्येति । सनातनः नित्यः । अधर्म्याम् अधर्मादनपेताम् । एतदेवाह धर्म इति ।। 1.25.19 ।।



श्रूयते हि पुरा शक्रो विरोचनसुतां नृप ।

पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ।। 1.25.20 ।।

स्त्रीवधस्य कर्तव्यत्वे इतिहासद्वयमाह श्रूयत इत्यादिना । मन्थरां मन्थराभिधानाम् ।। 1.25.20 ।।



विष्णुना च पुरा राम भृगुपत्नी दृढव्रता

अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ।। 1.25.21 ।।

विष्णुनेति । काव्यमाता शुक्रमाता । इयं कथा मत्स्यपुराणे दर्शिता स्वपुत्रे शुक्रे देवशिक्षार्थं रुद्रसमीपे तपस्यति सति देवपीडिता असुराः शुक्रमातरं भृगुपत्नीं शरणमगच्छन् । सा चासुररक्षणार्थं देवान् हन्तुम़ुद्युक्ता । तां चेन्द्रप्रार्थितो विष्णुरासाद्य तस्याः शिरश्चिच्छेदेति ।। 1.25.21 ।।



एतैश्चान्यैश्च बहुभी राजपुत्र महात्मभिः ।

अधर्मसहिता नार्यो हताः पुरुषसत्तमैः ।। 1.25.22 ।।

[तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप ।]

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चविंशः सर्गः ।। 25 ।।

एतैः एतादृशैरित्यर्थः ।। 1.25.22 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने

पञ्चविशः सर्गः ।। 25 ।।



Sanskrit Commentary by Mahesvara Tirtha
अत तस्येति । अप्रमेयस्य अप्रमेयप्रभावस्य ।। 1.25.1।।



अल्पेति । यदा यक्षास्सृष्टाः ते तदाप्रभृत्यल्पवीर्याः श्रूयन्ते, अबला यक्षी नागसहस्रस्य बलं कथं धारयति केन कारणेन धारयति । पाठान्तरे यदा यस्माद्यक्षी अल्पवीर्या श्रूयते तस्मादबला नागसहस्रबलं कथं धारयति केन कारणेन धारयति ।। 1.25.2।।



विश्वामित्र इति । अत्र बलमात्रेप्युत्तरत्वेन वक्तव्ये वीर्यस्याभिधानं वीर्यशौर्यादयो ऽन्येपि गुणाः सन्तीति ज्ञापयितुम् ।। 1.25.3।।



वरप्रदानमेव विवृणोति पूर्वमासीदित्यादिना ।। 1.25.46।।



तामिति । विवर्द्धन्तीं विवर्द्धमानाम्, भार्यां भार्यात्वेन ददावित्यर्थः ।। 1.25.7।।



कस्यचित्त्विति । दुर्धर्षं दुरासदम् ।। 1.25.8।।



सुन्द इति । निहते । अगस्त्येनेति शेषः । प्रधर्षयितुं हन्तुम् ।। 1.25.910।।



आपन्तीमिति । स्पष्टो ऽर्थः ।। 1.25.1112।।



पुरुषादीत्यादौ राक्षसत्वं भजस्वेति चैतौ शब्दावनुषज्येते । यतः पुरुषादनादिगुणयुक्ता अतो राक्षसत्वं भजस्वेति शप्तवान् । विहाय त्यक्त्वा ।। 1.25.13।।



सैषेति । अमर्षा असहमाना ।। 1.25.1415।।



नेति । शापसंस्पृष्टां शापेन व्याप्ताम् ।। 1.25.16।।



न हीति । स्त्रीवधकृते स्त्रीवधकरणे । घृणा जुगुप्सा । न कार्या

प्रजारक्षणकारणादित्युत्तरेणान्वयः ।। 1.25.17।।



नृशंसमिति । कर्तव्यं कर्मेति शेषः । सदोषं सापवादम् ।। 1.25.18।।



राज्येति । सनातनः नित्यः ।। 1.25.1921।।



एतैरिति । एतैरेतादृशैः ।। 1.25.22।।



इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चविंशः सर्गः ।। 25 ।।





Sanskrit Commentary by Nagesa Bhatta
अथेति । अप्रमेयस्याप्रमेयप्रभावस्य । शार्दूलः श्रेष्ठः ।। 1.25.1 ।।



यदा यतः । यक्षी यक्षजातिः । श्रूयते पुराणादाविति शेषः । अबलेति साभिप्रायम् ।। 1.25.2,3 ।।



वीर्यम् शौर्यादि । बलमात्रप्रश्ने वीर्याभिधानं शौर्यादयो ऽन्ये ऽपि गुणास्तस्यां सन्तीति ज्ञापनार्थम् ।। 1.25.4 ।।



वरप्राप्तिमूलमाह पूर्वमित्यादि ।। 1.25.5 ।।



कन्यारत्नम् दिव्यरूपवतीं कन्याम् ।। 1.25.6 ।।



तदभिसंहितगुणवता पुत्रेणात्यन्तं जनपीडा भवेदिति विचार्य पुत्रं न ददौ ।। 1.25.7 ।।



विवर्धन्तीम् वर्धमानाम् । जम्भपुत्रायेत्यत्र "खञ्जुपुत्राय" इति पाठे खञ्जोः पुत्रः खञ्जुपुत्रः । असुरयक्षयोर्देवयोनित्वेनोचितः सम्बन्धः ।। 1.25.8 ।।



व्यजायत प्रासोष्टासूत ।। 1.25.9 ।।



शापं दर्शयति सुन्दे त्विति । निहते । अगस्त्येन शापं दत्त्वेति शेषः । इच्छतीच्छति स्म ।। 1.25.10 ।।



जातसंरम्भा स्वभर्तृवधजकोपवती ।। 1.25.11 ।।



भजस्व शुद्धदेवयोनिस्वरूपं मुक्त्वेति शेषः । शप्तवान्राक्षसत्वं भजस्वेति ।। 1.25.12 ।।



तदेव विस्तरेणाह पुरुषादीति । भवेति शेषः । तदेवोपपादयति इदमिति । इदं रूपं यक्षिणीरूपं विहाय त्याजयित्वा दारुणं रूपं राक्षसीरूपमस्तु भवतु । एतदेवाभिप्रेत्य पाद्मे उक्तम् "तौ रामलक्ष्मणौ वीरावायान्तीं पथि राक्षसीम् । ताटकां नाम घोरां तां सुन्दभार्यां सुकेतुजाम्" इति ।। 1.25.13 ।।



अमर्षादसहनात् । देशोत्सादने हेतुगर्भं विशेषणम् अगस्त्याचरितमिति । अगस्त्यतपःस्थानमित्यर्थः ।। 1.25.14 ।।



गोब्राह्मणहितार्थायेति स्त्रीवधशङ्कानिरासाय । तद्धिताय क्रियमाणं पापवदाभासमानमपि धर्मायेति भावः ।। 1.25.15 ।।



शापसंसृष्टामगस्त्यशापव्याप्ताम् ।। 1.25.16 ।।



हे नरोत्तम ते स्त्रीवधनिमित्ता घृणा न कार्या । अत्र नरोत्तमेत्यनेन पुरुषोत्तमेश्वररूपत्वात्तव पापसम्बन्धाभाव इति ध्वनितम् । चातुर्वर्ण्यहितार्थम् तद्धिताय । कर्तव्यमित्यस्य नृशंसमित्याद्युत्तरेणान्वयः ।। 1.25.17 ।।



वाशब्द इवार्थे । अनृशंसमिव नृशंसं क्रूरमपि कार्यमित्यर्थः । प्रजारक्षणकारणात्प्रजारक्षणाद्धेतोः । रक्षता सदेति । रक्षाधर्मसमृद्धिशेषत्वनेति भावः । पातकं वा मुख्यपातकं वा सदोषं वा यज्ञादिवत्सदोषम् । ईषत्पापयुतं धर्मं वा । सदोषवधरूपमिति यावत् ।। 1.25.18 ।।



एष धर्म इति । एष धर्ममूलकत्वादिति भावः । अतोप्यस्या वधो न्याय्य इत्याह अधर्म्यामिति । धर्मादपेताम् । तदेवोपपादयति धर्मो हीति ।। 1.25.19 ।।



अधर्म्यः स्त्रीवधो ऽपि धर्म एवेत्यर्थं सम्मतिभिरुपपादयति श्रूयते इति । पृथिवीम् तदधिष्ठात्रीं देवताम् । यद्वा तस्याः प्रजा इत्यर्थः ।। 1.25.20 ।।



अनिद्रम् निद्रासुखरहितम् । "अनिन्द्रम्" इति पाठे इन्द्ररहितम् । काव्यः शुक्रः ।। 1.25.21 ।।



एतैरेतादृशैः । यद्वा आर्षं बहुत्वम् । एताभ्याम् । शक्रविष्णुभ्यामित्यर्थः । मच्छासनादिति । यथा परशुरामस्य यमदग्नेर्गुरोराज्ञया मातृवधे ऽपि न दोषस्तथा बलादिदातृत्वेन गुरोर्ममाज्ञया स्त्रीवधे तव न दोष इति भावः ।। 1.25.22 ।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे पञ्चविंशः सर्गः ।। 25 ।।



Sanskrit Commentary by Sivasahaya
मुनिवचनश्रवणानन्तरकालिकं वृत्तमाह अथेति । पुरुषशार्दूल: महापुरुष: अप्रमेयस्य इयत्तारहितप्रभावस्य तस्य मुने: विश्वामित्रस्य अथ मङ्गलमूलमुत्तमं वचनं श्रुत्वा शुभां गिरं प्रत्युवाच ।। 1.25.1 ।।



तदुक्तिमेवाह अल्पवीर्येति । हे मुनिपुङ्गव यदा यत: यक्षी ताटका अबला श्रूयते भवदुक्त्या ज्ञायते अत: अल्पवीर्या भवितुमर्हतीति शेष: । अत: नागसहस्रस्य बलं कथं धारयति ।। 1.25.2 ।।



इतीति । अमितौजस: इयत्तारहितबलविशिष्टस्य राघवस्य इति अनेन प्रकारेण उक्तं वचनं श्रुत्वा येन हेतुना बलोत्कटा तं हेतुं त्वं शृणु इति वाक्यं विश्वामित्रो ऽब्रवीत् । अमितौजस इत्यस्याग्रे 'हर्षयन् श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम्' इत्यपि श्लोकार्धं क्वचिद्दृश्यते ।। 1.25.3 ।।



विश्वामित्रवाक्यमेवाह वरेति । अबला ताटका वरदानकृतं बलं वीर्यं शौर्यं च धारयति । तद्वरप्रदानकारणमुपन्यस्यन्नाह वीर्यवान् अतिवीर्यविशिष्ट: अनपत्य: अपत्यरहित शुभाचार: यथोक्ताचारविशिष्ट: महायक्ष: य: सुकेतुर्नाम पूर्वमेवासीत् स: महत्तपस्तेपे । चशब्द एवार्थे । अनपत्यस्तेपे इत्यनेन अपत्यार्थमेव तस्य तप इति ध्वनितम् ।। 1.25.4 ।।



पितामह इति । हे राम तदा तपश्चरणसमये एव सम्प्रीत: पितामहस्ताटकां नाम कन्यारत्नं तस्य तपोनिरतस्य यक्षपते: सुकेतोर्ददौ । नामत: प्रसिद्धमेतत् । प्रथमान्तात्तसि: । तुशब्द एवार्थे । यक्षपतेरित्यत्र सम्बन्धसामान्ये षष्ठी ।। 1.25.5 ।।



ददाविवि । पितामहो ब्रह्मा अस्या: ताटकाया एव नागसहस्रस्य सहस्रसङ्ख्याकगजस्य बलमिव बलं ददौ । महायशा: ब्रह्मा यक्षाय सुकेतवे पुत्रं नैव ददौ । पुत्रं नैव ददावित्यनेनास्य पुत्रो यदि स्यात्तर्हि महान्तं लोकोपद्रवं करिष्यतीति हेतु: सूचित: । चशब्द इवार्थक: । तुशब्द एवार्थक: ।। 1.25.6 ।।



तामिति । जातां सुकेतोरुत्पन्नां विवर्धन्तीं विवर्धमानां रूपयौवनशालिनीं यशस्विनीं ताटकां भार्यां पाणिगृहीतीं जम्भपुत्राय सुन्दाय ददौ । तुशब्द एवार्थे । शाटकं वयेतिवत् भार्यां ददाविति प्रयोग: । क्वचित्तु 'तां तु बालां विवर्धन्तीम्' इति पाठ: । जम्भपुत्रायेत्यत्र खञ्जुपुत्रायेति पाठे खञ्जो: पुत्र: ख्ाञ्जुपुत्र: । असुरयक्षयोर्देवयोनित्वेनोचित: सम्बन्ध इति नागोजिभट्टा: । अत्र पाठे खञ्जुरिति जम्भस्यैव नामान्तरं बोध्यम् ।। 1.25.7 ।।



कस्यचिदिति । कस्यचित्कालस्य अपगमे सतीति शेष: । यक्षी यक्षकुलोत्पन्ना ताटका य: शापादेव राक्षसो ऽभवत् तं दुर्धर्षं धर्षयितुमशक्यं मारीचं नाम पुत्रं व्यजायत अजनयत् । तुशब्द एवार्थे ।। 1.25.8 ।।



शापकारणं वदन्नाह सुन्द इति । हे राम सुन्दे ताटकापतौ निहते अगस्त्यशापेन मृते सत्येव पुत्रेण सह सहिता सा ताटका मुनिपुङ्गवमगस्त्यं प्रधर्षयितुं हिंसितुमिच्छति । "वर्तमानसामीप्ये"

इति भूते लट् । तुशब्द एवार्थे ।। 1.25.9 ।।



प्रधर्षणप्रकारं वदन्नाह भक्षार्थमिति । जातसंरम्भा स्वपतिवधजनितकोपविशिष्टा अत एव गर्जन्ती सा ताटका भक्षार्थमगस्त्यभक्षणाय अभ्यधावत । तुना मारीचोप्यभ्यधावत भगवान्समर्थ: ऋषि: सर्वज्ञ: अगस्त्य: आपतन्तीं तान्तदुपलक्षितमापतन्तं मारीचं च दृष्ट्वा राक्षसत्वं भजस्व प्राप्नुहीति मारीचं व्याजहार । स: मारीचशापदाता परमक्रुद्ध: अगस्त्य: ताटकामपि शप्तवान् । ताटकाया: सुन्दवच्छापेन प्राणवियोगाकरणं तु स्त्रीत्वेनानर्हत्वात् । मारीचस्य तथात्वं तु बालत्वेन ज्ञातत्वात् ।। 1.25.1011 ।।



शापस्वरूपमाह पुरुषादीति । महायक्षी त्वमिदं रूपं यक्षीस्वरूपं विहाय त्यक्त्वा विरूपा कूत्सितस्वरूपा विकृतानना विकारविशिष्टाननविशिष्टा पुरुषादी पुरुषभक्षणशीला राक्षसी भवेति शेष: । अथ अत: दारुणं क्रूरं रूपं स्वरूपं ते ऽस्तु ।। 1.25.12 ।।



सेति । शापकृतामर्षा शापेन कृत: उत्पादित: अमर्षो यस्यामत एव क्रोधमूर्छिता सा प्राप्तशापा एषा ताटका शुभं मङ्गलमगस्त्यचरितमगस्त्येनाचरितमगस्त्यकर्तृकाचरणविशिष्टं पौर्वकालिकागस्त्याश्रमवन्तमित्यर्थ: एनं देशमुत्सादयति पीडयति । अत्र शापानन्तरमगस्त्यभक्षणान्निवृत्त्या तदा तयोर्भीत्यतिशय: सूचित: ।। 1.25.13 ।।



एषा देशपीडानिवृत्ति: त्वया कर्तव्येति बोधयन्नाह एनामिति । हे राघव दुर्धर्षामन्यकर्तृकधर्षणानर्हां परमदारुणामतिक्रूरां दुष्टपराक्रमां दुष्ट: गोब्राह्मणादिहिंसाहेतुत्वेन दोषविशिष्ट: पराक्रमो यस्या: तामेनां यक्षीं ताटकां गोब्राह्मण्ाहितार्थाय गोब्राह्मणहितार्थं साधयितुं जहि । मालाहत इव द्विप इत्यादाविव ताडनार्थो ऽत्र हन्ति: । किञ्च अत्र शिखी नष्ट इत्यादाविव विशेषणीभूतदुष्टपराक्रममात्रनिवर्तने तात्पर्यमत एव परमधर्मज्ञरामस्य 'वचनं कौशिकस्येति कर्तव्यमविशङ्कया' इति प्रतिज्ञानान्तरं 'नह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम्' इत्युक्ति: सङ्गच्छते । अत एव 'रामो द्विर्नाभिभाषते' इत्याद्युक्ति: सानुकूला । तथा च मीमांसा 'सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामत: सति विशेष्ये बाधे' ।। 1.25.14 ।।



त्वदन्य: कश्चिन्नास्या: नियन्तेति बोधयन्नाह नेति । हे रघुनन्दन शापसंस्पृष्टां शापयुक्तामेनां ताटकां निहन्तुं त्वामृते विना त्रिषु लोकेषु कश्चित्पुमान्नैवोत्सहते । हिशब्द एवार्थे । शापसंसृष्टामिति भट्टपाठ: ।। 1.25.15 ।।



ननु स्त्रीनिष्ठदुष्टपराक्रमनाशो ऽपि कथं मया कार्य इत्यत आह नहीति । हे नरोत्तम स्त्रीवधकृते स्त्रीकर्तृकहिंसानिवृत्तये ते तव घृणा स्त्रीनिष्ठदुष्टपराक्रमविघातविषयकदयालुता नैव कार्या । तत्र हेतु: राजसूनुना राजपुत्रेण चातुर्वर्ण्यहितार्थं कर्तव्यमेव स्त्रीवधादिकमपीति शेष: । हिशब्दावेवार्थौ ।। 1.25.16 ।।



तदेव विशदयन्नाह नृशंसमिति । प्रजारक्षणकारणात्प्रजारक्षणहेतोरेव पातकमन्येषां पातकावहं नृशंसं क्रुरं कर्म असदोषं सदोषरहितमनृशंसमक्रूरकर्म वा रक्षता प्रजापालनकर्त्रा सदेव कर्तव्यम् । वाशब्दावेवार्थौ ।। 1.25.17 ।।



राज्येति । हे काकुत्स्थ एष: अन्येषां दोषावह: राज्यभारनियुक्तानां राज्ञां सनातन: नित्यो धर्म: । अत: हेतो यत: अस्या: ताटकाया: धर्मो न विद्यते अत: अधर्म्यां धर्मादपेतां ताटकां जहि । तद्दुष्टतां निवर्तयेत्यर्थ: । हिर्हेतौ ।। 1.25.18 ।।



स्त्र्यादिवधे शिष्टाचारं प्रमाणयन्नाह श्रूयते इत्यादिश्लोकद्वयेन नृप हे राजन् शक्र: इन्द्र:

पृथिवीं हन्तुमिच्छन्तीं विरोचनसुतां मन्थरां मन्थराख्यामभ्यसूदयत् इति श्रूयते । हिशब्द इत्यर्थे ।।

1.25.19 ।।

विष्णुनेति । हे राम दृढव्रता अप्रच्युतसङ्कल्पा अनिद्रं निद्रानन्दरहितं लोकमिच्छन्ती काव्यमाता शुक्राचार्यजननी भृगुपत्नी पुरा विष्णुना निषूदिता इत्यपि श्रूयते इत्यनुकृष्यते । एतेन यदि विशिष्टहति: वृद्धव्यवहारसिद्धा तर्हि विशेषणमात्रहतिरिति किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनित: । चकार इत्यपीत्यर्थे अनिन्द्रमिति पाठे इन्द्ररहितमिति भट्टा: । शुक्रे तपश्चरणार्थं गते सति देवपीडितदैत्यप्रार्थितां देवहननोद्योगवतीं शुक्रमातरं भृगुपत्नीमिन्द्रप्रार्थितो विष्णुर्जघानेति मत्स्यपुराणे प्रसिद्धम् ।। 1.25.20 ।।



तदेवोपसंहरन्नाह एतैरिति । एतै: शक्रादिभि: अन्यै: महात्माभ: बहुभि: पुरुषसत्तमै: राजुपत्रै 'अधर्मसहिता नार्यो हता एव महात्माभिः' इत्यादिविशेषणैस्तेषां परमाप्तत्वं ध्वनितम् । तेन विशेषणमात्रनिवर्तने संशयो न कार्य इति ध्वनितम् । एकश्चशब्द एवार्थे ।। 1.25.21 ।।



प्रकृतमाह तस्मादिति । हे नृप तस्मात् आप्तैराचरितत्वात् घृणामबला न हन्तव्येत्याकारिकां करुणां त्यक्त्वा मच्छासनात्समुचितमदाज्ञात: एनां ताटकां जहि ।। 1.25.22 ।।



इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे पञ्चविंश: सर्ग: ।। 25 ।।