Content

Audio
[Valmiki composes the great epic--names it Ramayana--visualises the past events in detail.]

श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् ।

व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमत: ।।1.3.1।।

Translation

धर्मात्मा the righteous one, धर्मसंहितम् is endowed with righteousness, समग्रम् entire, तत् वस्तु that story of Rama, श्रुत्वा having heard from Narada, धीमत: of the intellectual, तस्य वृत्तम् history of Rama, यत् which, व्यक्तम् distinctly, भूय: still more, अन्वेषते searched for.

Hearing the entire story of Rama from the intellecual Narada, the righteous (Valmiki) sought to know clearly more about the history of Rama endowed with wisdom.
Sanskrit Commentary by Amruta Kataka
अथ तृतीयः सर्गः

 ।। 1.3.1 ।। श्रुत्वा वस्तु 1समाप्यं तत् धर्मात्मा धर्मसंहितम् ।

व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ।। 1 ।।

एवं नारदात् गुरोः श्रुतदिव्यकाव्यनायकचरतरूपकाव्यविषयकस्य च प्राप्तकाव्यविषयकभगवन्नियोगानुग्रहस्य च महर्षेर्भगवद्योगबलजभगवदनुग्रहात् यत् संक्षेपश्रुतादभ्यधिकं समग्रं रामचरितं दृष्टं तत्सर्वं सामान्यतो ऽनुक्रम्यते तृतीयेन--श्रुत्वेत्यादि । वस्तुकाव्यविषयकथाशरीरं नारदाच्छ्रुत्वा समाप्यंभगवन्नियोगात् सप्रपञ्चप्रतिपादनपूर्वं समापनीयत्वेन च प्राप्तम्, धीमतःरामस्य यद्वृत्तमस्ति, तत् व्यक्तं--प्रपञ्चनेन सुस्पष्टम्, धर्मसंहितप्रसङ्गतस्सकलवर्णाश्रमधर्मोपदेशोपबृह्मितम् यथा, भूयःअभ्यधिकम् । "बहोर्लोपो भू च बहोः" इति बहोर्भूभाव ईयसुनि ईकारलोपश्च । अव्युत्पन्नो भूयश्शब्दो ऽप्ययम् । प्रतिपादयितुं अन्वेषतेउद्युङ्क्ते स्म । एवमादौ भूतार्थसिद्धये सर्वतस्स्मशब्दो ऽध्याहार्य इति प्रागेवावादिष्म ।। 1 ।।

(पूर्वसर्गे 'चकार' (श्लोक 42) इत्युक्तमेवार्थमस्मिन् सर्गे विशदयति ।)

(1 समग्रंङ.च) ।। 1.3.1 ।। 

 ।। 1.3.2 ।। उपस्पृश्योदकं सम्यक् मुनिः स्थित्वा कृताञ्जलिः ।

प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ।। 2 ।।

उद्योगस्वरूप एवाभिनीयते--उपेति । 'उपस्पर्शस्त्वाचमनम्' इत्यमरः । 'सम्यक् हृदयङ्गमाभिरद्भिः त्रिः प्रोक्ष्य द्विः परिमृज्य' इत्यादिधर्मोपदिश्यमानरीत्या । प्राचीनेति । 'विभाषाञ्चेरदिक् स्त्रियाम्' इति स्वार्थे खः । दर्भेषु स्थित्वेति योजना । अम्बायोगजेनेति शेषः । धर्मेण गतिम्रामादीनां जन्मादिचरितरूपं अन्वेषते स्मचिन्तयति स्म ।। 1.3.2 ।। 

 ।। 1.3.3,4 ।। अन्विष्टकार्यसिद्धिरुच्यते :

रामलक्ष्मणसीताभी राज्ञा दशरथेन च ।

सभार्येण सराष्ट्रेण यत्प्राप्तं तत्र तत्त्वतः ।। 3 ।।

हसितं भाषितं चैव गतिर्यावच्च चेष्टितम् ।

तत्सर्वं धर्मवीर्येण यथावत्संप्रपश्यति ।। 4 ।।

भार्याः--राजभार्याः कौसल्याद्याः । रामादिसहितेन दशरथेन यद्वृत्तंराज्यपरिपालनादिरूपम् । प्राप्तंप्राप्तानुष्ठानम् । अन्ततो यच्च हसितादिकमपि तत्सर्वम्, धर्मवीर्येणभगवद्योगबलेन, तत्रसमाधौ, तत्वतः पश्यति स्म ।। 1.3.3,4 ।। 

 ।। 1.3.5 ।। स्त्रीतृतीयेन च तथा यत्प्राप्तं चरता वने ।

सत्यसन्धेन रामेण तत्सर्वं चान्ववैक्षत ।। 5 ।।

न केवलमेतावत् । अपि तु सलक्ष्मणस्य यस्य रामस्य स्त्रीसीता तृतीया सो ऽसौ स्त्रीतृतीयः ।। 5 ।।

(लक्ष्मणो द्वितीयः, सीता तृतीयेति यावत् ।) ।। 1.3.5 ।। 

 ।। 1.3.6 ।। ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः ।

पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ।। 6 ।।

समाधिदर्शनस्य च सन्ध्यादर्शनवत् द्राक् निमेषान्निवर्तनप्रसङ्गात् अकार्यकरतेत्याशङ्क्य भगवद्विशेषानुग्रहमूलत्वान्नैवमित्युच्यते--तत इति । सकलकालदेशसदाव्यापिभगवत्तादात्म्ययोगो योगस्सर्ववेदार्थसिद्धः । तत्रयोगे, पुरानिजकाव्यकृतिकालात्पुरा यद्वृत्तं रामादिविषयकं यच्चागामि वर्तमानं च तत्सर्वं करतलामलकवत् सुव्यक्तं सुदृढानुभवं च पश्यति स्म ।। 6 ।।

(सन्ध्या स्वप्नः) ।। 1.3.6 ।। 

 ।। 1.3.7 ।। तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः ।

अभिरामस्य रामस्य तत्सर्वं कर्तुमुद्यतः ।। 7 ।।

एवं चिकीर्षितकृतिकरणसामग्रीकत्वात्तत्र प्रवर्तत इत्युच्यते--तत्सर्वं कर्तुमिति । तत्सर्वं विषयीकृत्य काव्यं कर्तुमित्यर्थः ।। 1.3.7 ।। 

 ।। 1.3.8 ।। कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरं ।

समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ।। 8 ।।

न केवलं रामचरितं, अपि तु कामार्थःकामपुरुषार्थप्रयोजनो यो गुणो वर्णनीयधर्मः शृङ्गारलक्षणः, तेन संयुक्तम् । एतेन काव्यलक्षणयुक्तत्वं समर्थितम् । तथा धर्मार्थः धर्मपुरुषार्थसिद्धिप्रयोजनो यो गुणो वर्णनीयधर्मः तस्य विस्तरेण वर्णनोपेतं, बहुव्रीहिः । अत एव रत्नाढ्यं समुद्रमिव, धर्मप्रयोजनवर्णनान्येवेह रत्नानि । तदुपगतेत्याद्युक्तलक्षणकत्वेन सर्वेषां श्रुतिमनोहरम् । 1कश्चित्तु सर्वाभिष्षड्जातिसप्तस्वरसम्बन्धिनीभिः कान्ताभिः द्वाविंशतिश्रुतिभिः मनोहरम् । अत्र शाण्डिल्यः--'सम्प्रयुक्तो विधानेन तथा नाडीसमुद्रभवः । सुखहेतुर्ध्वनिर्यस्सः श्रुतिरित्यभिधीयते ।। कान्ता प्रभावती सिद्धा सुप्रबा चैव षड्जगाः । उग्रा शिखा च दीप्ता च स्युरेता ऋषभानुगाः ।। गान्धारानुगते द्वे तु नीह्रादिह्लादिनीति च । क्षान्तिस्सर्वसहा धीरा विभूतिर्मध्यमानुगाः ।। मालिनो चपला लोला सर्वरत्नप्रभावती । इमाश्चतस्रः श्रुतयः पञ्चमानुगताः स्मृताः ।। विकल्पिनी च शान्ता च हृदयोन्मालिनी तथा । एतास्तु तिस्रः श्रुतयो धैवतानुगमा मताः ।। विस्तारिणी प्रसन्ना(पञ्चा) च निषादानुगते उभे ।।' इतीत्यादि तत्रैव सुस्पष्टम् । तन्त्रीनाडीसमुत्पन्ना(त्थाना)दखिलधर्मैश्श्रुतितद्भेदैर्गतिविशेषोपयुक्तैः काव्यस्य मनोहरत्वम् । एवमधिकमसङ्गतमेव स्वकमिथ्यापण्डित्यप्रकटनाय वृथा ग्रन्थगौरवाय च ब्रूते । तथा प्रकृतिप्रत्ययविवेचनाबलादर्थविशेषसिद्धिस्थलेपि निस्सन्देहप्रकृतिप्रत्ययस्थलेपि व्याकरणं लिखति । पदार्थसन्देहरहितस्थलेपि निघण्टून् लिखति । मिथ्यापाण्डित्यप्रकटनायै(न एव)व, प्रकटयतु तत्प्रीतिमद्भयः ।। 8 ।।

(1 रामानुजः) ।। 1.3.8 ।। 

 ।। 1.3.9 ।। स यथा कथितं पूर्वं नारदेन महात्मना ।

रघुवंशस्य चरितं चकार भगवान्मुनिः ।। 9 ।।

स इति । रघुवंशस्येति बहुव्रीहिः । रामस्येति यावत् । चरितं--तद्विषयककाव्यं इत्यर्थः ।। 1.3.9 ।। 

 ।। 1.3.10 ।। जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् ।

लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ।। 10 ।।

अथ योगतस्स्वोपदृष्टो नारदश्रुतादभ्यधिको यो विशेषस्तदनुक्रमः क्रियते सामान्यतः काव्यप्रतिपाद्यार्थपरिज्ञानाय--जन्मेति । सुमहत् वीर्यं यस्मिन् जन्मनि तत्तथा । पुत्रकामेष्टिप्राजापत्योपनीतभगवद्ब्रह्मतेजोवशवीर्यरूपवीर्यमूलकं यद्रामस्य जन्मावतरणं योगदृष्टं तच्चाकारोत्तमे काव्ये इति सर्गान्तार्धेन सम्बन्धः । तथा तदन्तप्रतिपाद्यं सर्वं । तच्चकारेतितत्प्रतिपादनं चात्र चकारेत्यर्थः । सर्वानुकूलतां सर्वप्राणिनामिहामुत्रार्थानुकूलमनोवाक्कायव्यापारताम् । प्रत्येकं मामको मामक इति अभिस्नेहास्पदताम् । अत्र हेतुः--क्षान्त्यादित्रयम् । शक्यप्रतिक्रियापकारेष्वपि तदपकारोपेक्षा--क्षान्तिः । भृत्येष्वपि परुषवागादिराहित्यं सौम्यता । सत्यशीलतांसत्यवचनप्रधानसद्वृत्तताम् । "शीलं स्वभावे सद्वृत्ते" ।। 1.3.10 ।। 

 ।। 1.3.11 ।। नाना चित्राः कथाश्चान्या विश्वामित्रसमागमे ।

जानक्याश्च विवाहं च धनुषश्च विभेदनम् ।। 11 ।।

विश्वामित्रसमागमे नानाचित्रकथाः, लौकिक्यः । धनुर्भेदजानकीविवाहयोः क्रमेणान्वयो द्रष्टव्यः । तथाग्रेपि क्कचित् । जानक्याश्चेति चकारादूर्मिळादेर्विवाहः ।। 1.3.11 ।। 

 ।। 1.3.12,13 ।। रामरामविवादं च गुणान् दाशरथेस्तथा ।

रामेणभार्गवेण रामस्य विवादः । तथा गुणानिति भार्गवेणोपदिश्यमानपरमपुरुषत्वादिगुणान् अयोध्याकाण्डादौ वक्ष्यमाणान् राज्याभिषेकार्हगुणांश्च ।।

तथा ऽभिषेकं रामस्य कैकेय्या दुष्टभावताम् ।। 12 ।।

व्याघातं चाभिषेकस्य रामस्य च विवासनम् ।

व्याघातो विघ्नः ।। 1.3.12 ।। 

राज्ञः शोकविलापं च परलोकस्य चाश्रयम् ।। 13 ।।

प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।

प्रकृतीनां विसर्जनम् । विवासकाले स्वानुयायिपौराणां प्रतिनिवर्तनम् ।। 1.3.13 ।। 

 ।। 1.3.14,15,16 ।। निषादाधिपसंवादं सूतोपावर्तनं तथा ।। 14 ।।

गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम् ।

भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ।। 15 ।।

वास्तुकर्म निवेशं च भरतागमनं तथा ।

प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ।। 16 ।।

वास्तुकर्म--चित्रकूटे पर्णशालानिर्माणम् । तत्पूर्वकस्तत्र निवेशः । तथा प्रसादनं च रामस्येति । भरतेनेति शेषः ।। 1.3.14,15,16 ।। 

 ।। 1.3.17 ।। पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् ।

दण्डकारण्यगमनं विराधस्य वधं तथा ।। 17 ।।

पादुकयोरग्र्यसिद्धिकःस्ववत्पूज्यतासिद्धिकःअभिषेकः--स्वपादक्रमणरूपिणी अभिषेकभावना । तथानन्दिग्रामे निवासनमिति । भरतस्येति शेषः । स्वार्थे णिः । तथा ऽग्रे ऽपि ।। 1.3.17 ।। 

 ।। 1.3.18 ।। दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् ।

अनसूया समस्यामप्यङ्गरागस्य चार्पणम् ।। 18 ।।

अनसूयासमस्यांअनसूयया अत्रिपत्न्या समस्यासङ्गमः । सीताया विशिष्येति शेषः । 'परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्' इत्यादिशब्दादस्यतेः 'स्त्रियाम्' इति यक्प्रत्ययनिपातः ।। 1.3.18 ।। 

 ।। 1.3.19 ।। अगस्त्यवचनं चैव जटायोरभिसङ्गमम् ।

शूर्पणख्याश्च संवादं विरूपकरणं तथा ।। 19 ।।

अगस्त्यवचनमायुधदानादिविषयम् ।। 1.3.19 ।। 

 ।। 1.3.20 ।। वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।

मारीचस्य वधं चैव वैदेह्या हरणं तथा ।। 20 ।।

खरत्रिशिरसोरिति दूषणादेरप्युपलक्षकः । उत्थानंसीतापहारार्थोद्योगः ।। 1.3.20 ।। 

 ।। 1.3.21,22,23 ।। राघवस्य विलापं च गृध्रराजनिबर्हणम् ।

कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ।। 21 ।।

शबरीदर्शनं चैव फलमूलाशनं तथा ।

प्रलापं चैव पम्पायां हनूमद्दर्शनं तथा ।। 22 ।।

ऋश्यमूकस्य गमनं सुग्रीवेण समागमम् ।

प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ।। 23 ।।

प्रत्ययोत्पादनं--सालादिभेदेन सुग्रीवस्य विश्वासजननम् । सख्यमिति । रामसुग्रीवयोरिति शेषः । विग्रहमिति । युद्धं, वैरानुकथनमिति यावत् ।। 1.3.21,22,23 ।। 

 ।। 1.3.24 ।। वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ।

ताराविलापं समयं वर्षरात्रिनिवासनम् ।। 24 ।।

प्रतिपादनमिति । राज्ये स्थापनमिति यावत् । शरदि कार्यार्थोद्योगः कार्य इति रामसुग्रीवकृतस्सङ्केतःसमयः । वर्षरात्रिनिवासनमिति । विरहदुःखपीडया रामस्येति शेषः ।। 1.3.24 ।। 

 ।। 1.3.25 ।। कोपं राघवसिह्नस्य बलानामुपसंग्रहम् ।

दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ।। 25 ।।

पृथिव्याश्च निवेदनमिति । सीतादर्शनार्थमन्वेषणीयपृथिवीदेशविशेषोपदेशः सुग्रीवकृत इति शेषः ।। 1.3.25 ।। 

 ।। 1.3.26 ।। अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् ।

प्रायोपवेशनं चैव संपातेश्चापि दर्शनम् ।। 26 ।।

बिलदर्शनं हनूमदादेरिति शेषः । तथाग्रे ऽपि ।। 1.3.26 ।। 

 ।। 1.3.27 ।। पर्वतारोहणं चैव सागरस्यापि लङ्घनम् ।

समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ।। 27 ।।

समुद्रवनादिति । विश्रमार्थं प्रेषितस्येति शेषः ।। 1.3.27 ।। 

 ।। 1.3.28 ।। देवताभिप्रसादश्च छायाग्राहस्य दर्शनम् ।

सिह्निकायाश्च निधनं लङ्कामलयदर्शनम् ।। 28 ।।

देवतानामभिप्रसादो देवताभिप्रसादनम् । लङ्कामलयो नामलङ्काद्वीपगतः कश्चिद्गिरिः ।। 1.3.28 ।। 

 ।। 1.3.29 ।। रात्रौ लङ्काप्रवेशं च एकस्य च विचिन्तनम् ।

आपानभूमिगमनमवरोधस्य दर्शनम् ।। 29 ।।

एकस्यअसहायस्य । आपानंपानभूमिः, तद्गमनम् तथा । रावणस्येति शेषः । तथाग्रे ऽपि ।। 1.3.29 ।। 

 ।। 1.3.30,31 ।। दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् ।

अशोकवनिकायानं सीतायाश्चापि दर्शनम् ।। 30 ।।

अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् ।

राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ।। 31 ।।

अभिज्ञायते ऽनेनेत्यभिज्ञानंअङ्गुळीयकम् ।। 1.3.30,31 ।। 

 ।। 1.3.32 ।। मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ।

राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् ।। 32 ।।

मणिप्रदानमिति । रामं प्रतीति शेषः ।। 1.3.32 ।। 

 ।। 1.3.33 ।। ग्रहणं वायुसूनोश्च लङ्कादाहाभितर्जनम् ।

प्रतिप्लवनमेवाथ मधुनिर्यातनं तथा ।। 33 ।।

लङ्कादाहश्च अभितर्जनञ्च तथा । तत्र राक्षसानामिति शेषः । प्रतिप्लवनंपुनः सागरतरणम् । मधूनांक्षौद्राणाम् ।। 1.3.33 ।। 

 ।। 1.3.34 ।। राघवाश्वासनं चैव मणिनिर्यातनं तथा ।

सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम् ।। 34 ।।

निर्यातनंदानम् । नलबद्धोः यस्सेतुः स नलसेतुः ।। 1.3.34 ।। 

 ।। 1.3.35 ।। प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ।

विभीषणेन संसर्गं वधोपायनिवेदनम् ।। 35 ।।

प्रतारं--भावे घञ् । विभीषणसंसर्गः सेतुबन्धनात्पूर्वम् ।। 1.3.35 ।। 

 ।। 1.3.36 ।। कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् ।

रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ।। 36 ।।

विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ।

अरेः पुरे सीतावाप्तिं विभीषणाभिषेकं चेत्यन्वयः ।। 1.3.36 ।। 

 ।। 1.3.37,38 ।। अयोध्यायाश्च गमनं भरद्वाजसमागमम् ।

प्रेषणं वायुपुत्रस्य भरतेन समागमम् ।। 37 ।।

रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् ।

स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ।। 38 ।।

अभ्युदयः--उत्सवः ।। 1.3.37,38 ।। 

 ।। 1.3.39 ।। अनागतं च यत्किञ्चिद्रामस्य वसुधातले ।

तच्चकारोत्तमे काव्ये वाल्मीकिर्भगवानृषिः ।। 39 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे तृतीयः सर्गः

--

अनागतंब्राह्मणपुत्रोज्जीवनाश्वमेधयागादि । उत्तमे काव्य इति । समग्रकाव्यलक्षणलक्षितत्वात् काव्योत्तमे, पूर्वोत्तरविभागवतीति शेषः ।। 1.3.39 ।।  [एकोनचत्वारिंशत्]

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे तृतीयः सर्गः

-- ।।  ।। 

Sanskrit Commentary by Govindaraja
श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् ।

व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ।। 1.3.1 ।।

पूर्वस्मिन्सर्गे स्वग्रन्थस्यात्यन्तादरणीयत्वद्योतनाय परमात्मतत्त्वरूपं वक्तृवैलक्षण्यं प्राधान्येनोक्तम् । सम्प्रति तदर्थमेव विषयवैलक्षण्यं दर्शयति । विषयस्य वैलक्षण्यं नाम सम्यग्ज्ञानावधृतत्वं लोकोत्तरनायकगुणपरिष्कृतत्वं च । तत्र प्रथमं सम्यग्ज्ञानावधृतत्वं विवक्षंस्तद्वस्त्वन्वेषणमाह श्रुत्वेति । धर्मे आत्मा स्वभावो यस्यासौ धर्मात्मा, इत्यन्वेषणहेतूक्तिः । धर्मसंहितं धर्मसहितम् । "समोवाहितततयोः" इति विकल्पितत्वान्मकारलोपाभावः । समग्रं कृत्स्रम् । तत् नारदोक्तं वस्तु कथाशरीरं श्रुत्वा भूयस्ततो ऽधिकं धीमतो रामस्य यद्वृत्तं चरित्रमस्ति तद्व्यक्तं यथा भवति तथा अन्वेषते पर्यालोचयति स्म । "वर्तमानसामीप्ये वर्तमानवद्वा" इति लट् ।। 1.3.1 ।।



उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः ।

प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषत गतिम् ।। 1.3.2 ।।

धर्मात्मेत्यनेन सूचितमन्वेषणप्रकारमाह उपस्पृश्येति । मुनिः सम्यग्यथाशास्त्रमुदकमुपस्पृश्य, आचम्येत्यर्थः । "उपस्पर्शस्त्वाचमनम्" इत्यमरः । प्राचीनाग्रेषु दर्भेषु स्थित्वा निजगुरुमुद्दिश्य कृताञ्जलिः सन् । धर्मेण ब्रह्मप्रसादरूपश्रेयःसाधनेन । गतिं रामादिवृत्तम् अन्वेषते ।। 1.3.2 ।।



रामलक्ष्मणसीताभी राज्ञा दशरथेन च ।

सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ।। 1.3.3 ।।

गतिशब्दार्थं विवृण्वन्धर्मेण अन्वेषणफलमाह रामेति । रामादिभिर्यत्प्राप्तं तत्र विषये तत्त्वतः तत्त्वेन, सम्प्रपश्यति समन्तात्प्रकर्षेण पश्यति, तत्सर्वं विशदतरं पश्यतीत्यनुषज्यते ।। 1.3.3 ।।



हसितं भाषितं चैवं गतिर्या यच्च चेष्टितम् ।

तत्सर्वं धर्मवीर्येण यथावत् सम्प्रपश्यति ।। 1.3.4 ।।

किं प्राप्तम् ? तत्राह हसितमिति । पूर्वोक्तरामादीनां यद्धसितं हासः यच्च भाषितं भाषणम् । भावे क्तः । या च गतिर्गमनं यच्च चेष्टितं चेष्टा, युद्धादिकमिति यावत् । तत्सर्वं धर्मवीर्येण ब्रह्मवरप्रसादशक्त्या यथावृत्तं तत्त्वेन सम्प्रपश्यति । अत्र योगजधर्मस्थानीयत्वात् ब्रह्मप्रसादो धर्मशब्देनोच्यते । स च साक्षात्कारहेतुश्चक्षुरादिवदिति प्रमाणतो ऽध्यवसीयते ।। 1.3.4 ।।



स्त्रीतृतीयेन च तथा यत्प्राप्तं चरता वने ।

सत्यसन्धेन रामेण तत्सर्वं चान्ववेक्षितम् ।। 1.3.5 ।।

नगरनिवासकालिकचरितावलोकनमभिधाय वनवासकालीनवृत्तान्तनिरीक्षणमाचष्टे स्त्रीति । स्त्री तृतीया यस्य तेन, सीतालक्ष्मणसहितेनेत्यर्थः । वने दण्डकारण्ये चरता सत्यसन्धेन सत्यप्रतिज्ञेन रामेण यत्प्राप्तं तत्सर्वं चान्ववेक्षितं साक्षात्कृतम्, वाल्मीकिनेति शेषः । धर्मवीर्येणेति सिद्धम् ।। 1.3.5 ।।



ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः ।

पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ।। 1.3.6 ।।

एवं रामादिवृत्तान्तदर्शनस्य विशदतमत्वमाह तत इति । ततः अवेक्षणानन्तरम्, धर्मात्मा वाल्मीकिः योगं ब्रह्मप्रसादरूपोपायमास्थितः सन् । "योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु" इत्यमरः । तत्र रामादौ पुरा यन्निर्वृत्तं निष्पन्नं तत्सर्वं वृत्तं पाणौ आमलकमिव पश्यति स्म ।। 1.3.6 ।।



तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महाद्युतिः ।

अभिरामस्य रामस्य चरितं कर्त्तुमुद्यतः ।। 1.3.7 ।।

अथ दर्शनफलग्रन्थनिर्माणोद्योगमाह तदित्यादि, श्लोकद्वयमेकान्वयम् । महाद्युतिः रामगुणानुभवजनितहर्षप्रकर्षकृतद्युतियुक्तः स वाल्मीकिः । तत्सर्वं रामवृत्तान्तम्, तत्त्वतो धर्मेण पूर्वोक्तेन दृष्ट्वा । अभिरामस्य निरवधिकभोग्यस्य, चरितं चरितविषयप्रबन्धं कर्त्तुमुद्यतः उद्युक्तो ऽभूत् ।। 1.3.7 ।।

कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् ।

समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ।। 1.3.8 ।।

कीदृशं चरित्रमित्यत्राह कामार्थेति । कामश्चार्थश्च कामार्थौ, गुणशब्देनाप्राधान्यमुच्यते । अप्रधानाभ्यामर्थकामाभ्यां संयुक्तम्, त्याज्यताप्रदर्शनार्थं तत्र तत्रार्थकामप्रतिपादकमित्यर्थः । धर्मार्थयोर्धर्ममोक्षयोर्गुणो ऽतिशयस्तं विस्तृणातीति धर्मार्थगुणविस्तरम् । पचाद्यच् । प्राधान्येन धर्मापवर्गप्रतिपादकमित्यर्थः । "अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने" इति वैजयन्ती । अत एव रत्नाढ्यं समुद्रमिव स्थितम्, समुद्रो यथा शङ्खशुक्त्यादियुक्तो ऽपि प्राधान्येन रत्नानि वहति तथा स्थितमित्यर्थः । सर्वेषां जनानां श्रुतिमनसी श्रोत्रहृदये हरतीति सर्वश्रुतिमनोहरम्, शब्दमाधुर्याच्छ्रोत्राकर्षकम् अर्थसौष्ठवाच्चित्ताकर्षकमित्यर्थः ।। 1.3.8 ।।



स यथा कथितं पूर्वं नारदेन महर्षिणा ।

रघुवंशस्य चरितं चकार भगवानृषिः ।। 1.3.9 ।।

यथोद्योगं प्रबन्धनिर्माणमाह स इति । भगवान् स ऋषिः रघुवंशस्य रघुवंशोद्भवस्य रामस्य । चरितं पूर्वं नारदेन महर्षिणा यथा कथितं येन प्रकारेणोक्तं तथा चकार ।। 1.3.9 ।।



जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् ।

लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ।। 1.3.10 ।।

अथ विस्तरेण ब्रह्मोपदिष्टरीत्या रामचरितनिर्माणं दर्शयति जन्मेत्यादिना सर्गशेषेण । द्वितीयान्तानां तत्प्रतिपादकपरत्वं बोध्यम् । वाल्मीकिर्भगवान् ऋषिश्चकारेति वक्ष्यमाणे कर्तृक्रिये अनुषञ्जनीये । जन्मेति । जन्मनः सुमहत्त्वं दशरथमहातपोबललभ्यत्वं विष्णोरवतारत्वं च । वीर्यं ताटकाताटकेयादिहननक्षमं बलम् । सर्वानुकूलतां सर्वानुवर्तित्वम्, आर्जवमिति यावत् । लोकस्य प्रियतां प्रेमास्पदत्वम् । क्षान्तिं अपराधसहिष्णुताम् । सौम्यतां रम्यतामनुग्रतां वा । "सौम्यः पुमान् बुधे विप्रे त्रिषु स्यात्सोमदैवते । रम्ये ऽनुग्रे च" इति रत्नमाला । सत्यशीलतां सत्यस्वभावताम् । "शीलं स्वभावे सद्वृत्ते" इत्यमरः ।। 1.3.10 ।।



नानाचित्रकथाश्चान्या विश्वामित्रसमागमे ।

जानक्याश्च विवाहं च धनुषश्च विभेदनम् ।। 1.3.11 ।।

नानेति । विश्वामित्रसमागमे विश्वामित्रेण रामलक्ष्मणयोः संयोगे सति, अन्या रामचरितादन्याः । नाना नानाप्रकाराः चित्रकथाः आश्चर्यावहकथाश्च । जानक्याश्चेति चकारेणोर्मिलादयः समुच्चीयन्ते । धनुषो हरचापस्य विभेदनं भङ्गं च ।। 1.3.11 ।।



रामरामविवादं च गुणान् दाशरथेस्तथा ।

तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ।। 1.3.12 ।।

रामेति । रामेण परशुरामेण । रामस्य राघवस्य विवादम् । रामेण रामविवादमित्यत्र तृतीयेति योगविभागात्समासः । अतो नैकशेषप्रसक्तिः । दाशरथेर्गुणान् अयोध्याकाण्डादौ वक्ष्यमाणान् । तथेति समुच्चयार्थः सर्वत्र द्रष्टव्यः । रामस्याभिषेकम् अभिषेकोद्योगम्, कैकेय्या दुष्टभावतां दुष्टहृदयत्वं च ।। 1.3.12 ।।



विघातं चाभिषेकस्य रामस्य च विवासनम् ।

राज्ञः शोकविलापं च परलोकस्य चाश्रयम् ।। 1.3.13 ।।

विघातमिति । अभिषेकस्य रामाभिषेकस्य । विघातं कैकेयीदुष्टहृदयत्वकृतं विघ्नं च रामस्य विवासनं च राज्ञो दशरथस्य शोकेन विलापं प्रलापं च राज्ञः परलोकस्य स्वर्गस्याश्रयमाश्रयणं च ।। 1.3.13 ।।



प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।

निषादाधिपसंवादं सूतोपावर्तनं तथा ।। 1.3.14 ।।

प्रकृतीनामिति । प्रकृतीनां प्रजानां विषादं दुःखम् । प्रकृतीनां विसर्जनं वञ्चनेन निर्यापणं च । निषादाधिपसंवादं गुहेन सह सम्भाषणम् । सूतस्योपावर्तनं पुनरागमनं च ।। 1.3.14 ।।



गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम् ।

भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ।। 1.3.15 ।।

गङ्गायाश्चेति स्पष्टम् ।। 1.3.15 ।।



वास्तुकर्म विवेशं च भरतागमनं तथा ।

प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ।। 1.3.16 ।।

वास्त्विति । वास्तुकर्म शास्त्रोक्तप्रकारेण यथोचितमन्दिरनिर्माणम् । विवेशं शास्त्रोक्तवास्तुपूजादिपूर्वकं गृहे प्रविश्यावस्थानम् । रामस्य प्रसादनम्, भरतेनेति शेषः । सलिलक्रियां सलिलदानम् ।। 1.3.16 ।।



पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् ।

दण्डकारण्यगमनं विराधस्य वधं तथा ।। 1.3.17 ।।

पादुकेति । पादुकाग्र्ययोः पादुकाश्रेष्ठयोः । श्रैष्ठ्यं धृतत्वात् । अभिषेकं राज्यनियन्तृतया स्थापनम् । नन्दिग्रामे निवासनं निवसनम् । स्वार्थे ऽण् । पादुकयोः स्थापनं वा ।। 1.3.17 ।।



दर्शनं शरभङ्गस्य सुतीक्ष्णेनाभिसङ्गमम् ।

अनसूयासहास्यामप्यङ्गरागस्य चार्पणम् ।। 1.3.18 ।।

दर्शनमिति । अनसूयया अत्रिपत्न्या सहास्यां सहासनम्, सीताया इति शेषः । "आस्या त्वासनमासीनम् " इत्यमरः । यद्यप्येतद्विराधवधात्पूर्वमेव, तथापि अत्र सर्वत्र क्रमो न विवक्षितः, रामायणप्रतिपाद्यसङ्क्षेपमात्रे तात्पर्यात् । अङ्गरागस्य चन्दनस्य ।। 1.3.18 ।।



अगस्त्यदर्शनं चैव शूर्पणख्याश्च दर्शनम् ।

शूर्पणख्याश्च संवादं विरूपकरणं तथा ।। 1.3.19 ।।

अगस्त्येति । शूर्पणख्या इति ङीबत्रार्षः ।। 1.3.19 ।।



वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।। 1.3.20 ।।

खरत्रिशिरसोरिति दूषणादीनामुपलक्षणम् । उत्थानं निर्गमनम् ।। 1.3.20 ।।



मारीचस्य वधं चैव वैदेह्या हरणं तथा ।

राघवस्य विलापं च गृध्रराजनिबर्हणम् ।। 1.3.21 ।।

मारीचस्येति । एवकारः पादपूरणार्थः । एवमुत्तरत्र सर्वत्र द्रष्टव्यम् ।। 1.3.21 ।।



कबन्धदर्शनं चापि पम्पायाश्चापि दर्शनम् ।

शबर्या दर्शनं चैव हनूमद्दर्शनं तथा ।

विलापं चैव पम्पायां राघवस्य महात्मनः ।। 1.3.22 ।।

कबन्धेति । चापीत्येकनिपातः समुच्चयार्थः ।। 1.3.22 ।।



ऋश्यमूकस्य गमनं सुग्रीवेण समागमम् ।

प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ।। 1.3.23 ।।

ऋश्येति । ऋश्यमूकस्येति कर्मणि षष्ठी । प्रत्ययोत्पादनं सालभेदनादिभिः सुग्रीवस्य विश्वासजननम् । वालिसुग्रीवविग्रहं वालिसुग्रीवयुद्धं वालिसुग्रीवयोर्वैरानुकथनं वा ।। 1.3.23 ।।



वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ।

ताराविलापं समयं वर्षरात्रनिवासनम् ।। 1.3.24 ।।

वालीति । वालिप्रमथनं वालिवधम् । सुग्रीवप्रतिपादनं सुग्रीवाय राज्यप्रदानमित्यर्थः । ताराविलापं ताराप्रलापम् । समयं शरदि सीतान्वेष्टव्येति रामसुग्रीवयोः सङ्केतम् । "समयः कालसिद्धान्तप्रतिज्ञाशपथेषु च । सङ्केताचारयोश्च" इति रत्नमाला । ताराविलापसमयमिति पाठे "सर्वो द्वन्द्वो विभाषयैकवद्भवति" इत्येकवद्भावः । वर्षरात्रनिवासनं वर्षं वृष्टिस्तद्युक्ता रात्रयो वर्षरात्राः । "रात्राह्नाहाः पुंसि" इति पुँल्लिङ्गत्वम्, तेषु निवासनं निवसनम् । स्वार्थे ऽण् । वर्षदिनेष्वित्यर्थः । रात्रिशब्दस्य दिवसपरत्वं त्रिरात्रादौ दृष्टम् ।। 1.3.24 ।।



कोपं राघवसिंहस्य बलानामुपसङ्ग्रहम् ।

दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ।। 1.3.25 ।।

कोपमिति । राघवसिंहस्य राघवाणां श्रेष्ठस्य । कोपं सुग्रीवविषयक्रोधम्, बलानां सेनानामुपसङ्ग्रहं सम्मेलनम् । दिशः प्रति वानराणां प्रस्थापनम् । पृथिव्याश्च निवेदनम् पृथिव्याः द्वीपसमुद्रादिसन्निवेशकथनम् ।। 1.3.25 ।।



अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् ।

प्रायोपवेशनं चैव सम्पातेश्चैव दर्शनम् ।। 1.3.26 ।।

अङ्गुलीयकेति । अङ्गुलीयकदानम्, हनुमत इति शेषः । ऋक्षस्य बिलं स्वयम्प्रभाबिलम्, तस्य तथा सञ्ज्ञा । प्रायोपवेशनं प्रायाय मरणाय उपवेशनं शयनम् । सम्पातेर्जटाय्वग्रजस्य ।। 1.3.26 ।।



पर्वतारोहणं चैव सागरस्य च लङ्घनम् ।

समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ।। 1.3.27 ।।

पर्वतेति । पर्वतारोहणं समुद्रलङ्घनाय महेन्द्रपर्वतारोहणम् । समुद्रवचनाच्चेति चकारेण देवानुज्ञा समुच्चीयते । मैनाकस्य हिमवत्पुत्रस्य गिरेः ।। 1.3.27 ।।

सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ।

रात्रौ लङ्काप्रवेशं च एकस्य च विचिन्तनम् ।। 1.3.28 ।।

सिंहिकाया इति । सिंहिकाया असुरस्त्रियः । लङ्कामलयस्य लङ्काधारपर्वतैकदेशस्य । "मलयः पर्वतान्तरे । पर्वतांशे प्रियोद्याने" इति रत्नमाला । एकस्य हनुमतः ।। 1.3.28 ।।



आपानभूमिगमनमवरोधस्य दर्शनम् ।

दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् ।। 1.3.29 ।।

आपानेति । आपानभूमिः मद्यपानभूमिः । अवरोधस्यान्तःपुरस्य ।। 1.3.29 ।।



अशोकवनिकायानं सीतायाश्चैव दर्शनम् ।

अभिज्ञानप्रदानं च सीतायाश्चाभिभाषणम् ।। 1.3.30 ।।

अशोकेति । अशोकवनिकायानं हनुमतो अशोकवनिकागमनम् । अभिज्ञानप्रदानं सीतायै अङ्गुलीयकदानम् ।। 1.3.30 ।।



राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ।

मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ।। 1.3.31 ।।

राक्षसीति । राक्षसीनां तर्जनम् । सीतां प्रतीति शेषः । त्रिजटा विभीषणपुत्री, तस्याः स्वप्नदर्शनं रामश्रेयोविषयस्वप्नदर्शनम् । मणिप्रदानं हनुमते चूडामणिप्रदानम् । वृक्षभङ्गम् अशोकवनिकावृक्षभङ्गम् ।। 1.3.31 ।।



राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् ।

ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् ।। 1.3.32 ।।

राक्षसीविद्रवम् एकाक्ष्येककर्णीप्रभृतिराक्षसीनां पलायनम्, हनुमद्भयादिति शेषः । किङ्कराणां रावणभटानाम् । वायुसूनोर्हनुमतः । ग्रहणम्, इन्द्रजितेति शेषः । लङ्कादाहेनाभिगर्जनम्, राक्षसानामित्यर्थः ।। 1.3.32 ।।



प्रतिप्लवनमेवाथ मधूनां हरणं तथा ।

राघवाश्वासनं चैव मणिनिर्यातनं तथा ।। 1.3.33 ।।

प्रतिप्लवनं पुनः समुद्रलङ्घनम् । मधूनां मधुवनस्थमधूनां ग्रहणम्, वानरैरिति शेषः । मणिनिर्यातनं रामाय चूडामणिप्रदानम् ।। 1.3.33 ।।



सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम् ।

प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ।। 1.3.34 ।।

सङ्गमं चेति । नलसेतोः नलेन बन्धनीयसेतोः प्रतारं प्रतरणम् ।। 1.3.34 ।।



विभीषणेन संसर्गं वधोपायनिवेदनम् ।

कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् ।। 1.3.35 ।।

विभीषणेनेति । वधोपायनिवेदनम् इन्द्रजिदादिवधोपायदर्शनम् ।। 1.3.35 ।।



रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ।

विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ।। 1.3.36 ।।

अरेः पुर इति शौर्यातिशयोक्तिः, उत्तरत्र चान्वयः ।। 1.3.36 ।।



अयोध्यायाश्च गमनं भरतेन समागमम् ।

रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् ।

स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ।। 1.3.37 ।।

अयोध्यायाश्चेति । रामाभिषेकाभ्युदयं रामाभिषेकमहोत्सवम् । स्वराष्ट्रेत्यर्द्धमधिकम् । वैदेह्याश्च विसर्जनमित्यन्तं चकार भगवान् ऋषिः इति पूर्वेण सम्बन्धनीयम् ।। 1.3.37 ।।



अनागतं च यत्किञ्चिद्रामस्य वसुधातले ।

तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ।। 1.3.38 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे तृतीयः सर्गः ।। 3 ।।

सीताभूप्रवेशप्रभृत्युत्तरकाण्डकथामाह अनागतं चेति । वाल्मीकिनामा भगवान् ऋषिः रामस्य वसुधातले अनागतं भावि यत्किञ्चिच्चरितमस्ति ब्राह्मणपुत्रजीवनाश्वमेधादिकं तदुत्तरे काव्ये उत्तरकाण्डे चकार प्रतिपादितवान् । यत्किञ्चिदित्यनेन सीताविसर्जनात्पूर्वकालस्य भूयस्त्वमनन्तरकालस्याल्पत्वं च द्योत्यत इत्याहुः । एतदुत्तरकाण्डे विचारयिष्यते ।। 1.3.38 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने तृतीयः सर्गः ।। 3 ।।



Sanskrit Commentary by Mahesvara Tirtha
श्रुत्वेति । समग्रं वस्तु कृत्सं रामचरितम्, नारदोक्तं श्रीरामचरितरूपं वस्तु तत्त्वं श्रुत्वा प्रपञ्चेन वक्तुं यथा व्यक्तं भवति तथा अन्वेषते विचारयति स्म । लडार्षः ।। 1.3.1।।



उपस्पृश्येति । धर्मेण चतुर्मुखप्रसादरूपेण, गतिं रामवृत्तम् ।। 1.3.2।।



रामलक्ष्मणेत्यादि श्लोकद्वयमेकं वाक्यम् । राज्ञा तत्र राष्ट्रे । तत्त्वतः यद्वृत्तं जातं धर्मवीर्येण चतुर्मुखप्रसादबलेन यथावत् सम्प्रपश्यति ।। 1.3.34।।



अयोध्यानिवासकाले यद्वृत्तम् तन्निरीक्षणमभिधाय अयोध्यातो निर्गमनान्तरं वनवासे यद्वृत्तमस्ति तन्निरीक्षणमाह स्त्रीतृतीयेनेति । द्वितीयो लक्ष्मण इत्यवगम्यते ।। 1.3.5।।



रामवृत्तस्यान्यतो निरीक्षणमुक्त्वा तस्यैव प्रत्यक्षनिरीक्षणमाह तत इति । निर्वृत्तम् जातम् ।। 1.3.6।।



तदिति । (अर्थवित्) अभिरामस्येत्यनेन रामवृत्तकथनस्य रागप्राप्तत्वं द्योत्यते ।। 1.3.7।।



कामार्थेति । कामार्थगुणसंयुक्तम् कामप्रयोजकगुणसंयुक्तम् । धर्मार्थगुणविस्तरं धर्मार्थयोरौपयिका ये गुणास्तेषां विस्तरेण प्रतिपादकम् । रत्नाढ्यम् रत्नतुल्यैः पदैरर्थैराढ्यं सम्पूर्णम् । सर्वश्रुतिमनोहरम् सर्वाभिः षड्जादिस्वरसम्बन्धिनीभिः कान्ताप्रभावतीप्रभृतिभिः द्वाविंशतिश्रुतिभिर्मनोहरम्, श्रुतिशब्देन नाडीसमुद्भवस्सुखहेतुर्ध्वनिविशेष उच्यते । यद्वा सर्वश्रुतिमनोहरं सर्वेषां श्रुतीः श्रोत्राणि मनांसि च हरति स्वाभिमुखानि करोतीति तथा । यद्वा सर्वासां श्रुतीनामुपनिषदां

मनो हृदयं तात्पर्यं हरति गृह्णाति प्रतिपादयतीति तथा ।। 1.3.8।।



स यथेति । रघुवंशस्य रघुवंशे ऽवतीर्णस्य भगवतो रामस्य ।। 1.3.9।।



धर्मवीर्येण स्वेन दृष्टं कृत्स्नं रामचरितं प्रतिपादयिष्यन् "इष्टं हि विदुषां लोके समासव्यासधारणम्" इति न्यायेन प्रतिपत्तिसौकर्यार्थं सङ्क्षिप्य प्रतिपादयति जन्म रामस्येत्यादिना । वीर्यम् स्वयमक्षतस्य पराभिभवनसामर्थ्यम्, सर्वानुकूलतां इष्टानुवर्तनरूपाम्, प्रियतां विश्लेषासहत्वपर्यवसायिनीं प्रीतिविधेयताम्, क्षान्तिम् "उच्यमानो ऽपि परुषं नोत्तरं प्रतिपद्यते" इत्युक्तरूपाम्, सौम्यताम् निरतिशयप्रियदर्शनताम् ।। 1.3.1011।।



रामेति । अभिषेकम् अभिषेकसामग्रीम् ।। 1.3.1213।।



प्रकृतीनामिति । प्रकृतीनां वञ्चतीनां वञ्चनापूर्वकं विसर्जनं प्रकृतीर्विसर्जयित्वा गमनम्, निषादाधिपसंवादं गुहेन सह सम्भाषणम्, सूतोपावर्तनम् ।। 1.3.1415।।



वास्त्विति । वास्तुकर्म चित्रकूटे गृहनिर्माणम्, निवेशनम् तत्र गृहे ऽवस्थानम् ।। 1.3.16।।



पादुकेति । पादुकाग्र्याभिषेकम् पादुकाश्रेष्ठयोरभिषेचनम्, नन्दिग्रामनिवासनं नन्दिग्रामे भरतस्य निवसनम् ।। 1.3.1718।।



अगस्त्यसकाशाद्धनुषो ग्रहणम् ।। 1.3.1922।।



ऋश्यमूकस्येति । वालिसुग्रीवविग्रहं तयोर्युद्धम् ।। 1.3.23।।



वालिप्रमथनमिति । सुग्रीवप्रतिपादनम् सुग्रीवस्य राज्यसंस्थापनम् । 'ताराविलापं समयम्' इति पाठे शरदि दण्डयात्रा कर्तव्येति रामसुग्रीवयोः सङ्केतः ।। 1.3.24।।



कोपमिति । उपसङ्ग्रहम् वानरमेलनम्, पृथिव्यश्च निवेदनं सुग्रीवेण वानरान् प्रति पृथिवीसंस्थानकथनम् ।। 1.3.25।।



अङ्गुलीयकदानमिति । प्रायेण अनशनेन वानराणामुपवेशनम्, समुद्रसमीपे वासः ।। 1.3.2627।।



सिंहिकाया इति । लङ्कामलयदर्शनम् लङ्काद्वीपस्थमलयगिरिदर्शनमित्यर्थः । एकस्य विचिन्तनम् एकस्यासहायस्य विचिन्तनम् ।। 1.3.28।।



अवरोधस्य अन्तःपुरस्य ।। 1.3.29।।



अभिज्ञानप्रदानम् अभिज्ञायते ऽनेनेत्यभिज्ञानम् अङ्गुलीयकम्, अभिषेकाभ्युदयं रामाभिषेकोत्सवम् । 'जन्म रामस्य' इत्यादि वैदेह्याश्च विसर्जनम् इत्येतदन्तं चकार भगवानृषिः' इति पूर्वेण सम्बन्धनीयम् ।। 1.3.3037।।



अनागतं चेति । अनागतं यत्किञ्चिदित्यनेन सीताविसर्जनात्पूर्वकालस्य भूयस्त्वम् अनन्तरकालस्याल्पता द्योत्यते ।। 1.3.38।।



इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां तृतीयः सर्गः ।। 3 ।।





Sanskrit Commentary by Nagesa Bhatta
श्रुत्वेति । नारदात्काव्यविषयं रामचरितरूपं वस्तु श्रुत्वा समग्रं प्रकाशरहस्यसहितं कुर्विति च ब्रह्ममुखाच्छ्रत्वा तस्य धीमतो रामस्य यद्वृत्तं चरितं सरहःप्रकाशं तद्भूयः पुनर्व्यक्तं साक्षात्कारविषयो यथा भवति तथा कर्तुमन्वेषते उद्युङ्क्ते स्मेति शेषः । धर्मार्थेति त्रिवर्गोपलक्षणं फलत्वेन तत्सहितम् । हितम् मोक्षफलकम् ।। 1.3.1 ।।



उद्योगमेवाह उपेति । आचम्येत्यर्थः । सम्यक्स्मृत्युक्ताचमनरीत्या इदमन्येषामपि प्रायत्यसम्पादकानामुपलक्षणम् । प्रागग्रेषु दर्भेषु स्थित्वा धर्मेण योगजेन ब्रह्मप्रसादरूपेण च गतिं रामादीनां चरितरूपामन्वेषते ऽतियत्नेन पश्यति स्म ।। 1.3.2 ।।



रामेत्यादि । श्लोकद्वयमेकं वाक्यम् । भार्याकौसल्याद्यास्तत्सहितेन दशरथेन रामादिभिश्च यत्प्राप्तं सम्बद्धं चरितं राज्यपालनादिरूपं हसितादिरूपं च तत्सर्वं तत्र समाधौ तत्त्वतो धर्मवीर्येण योगजबलेन पश्यति स्म ।। 1.3.3,4 ।।



अयोध्यावासकालिकं वृत्तं निरीक्ष्य तदनन्तरं वनकालिकं च निरीक्षितमित्याह स्त्रीतृतीयेनेति । द्वितीयो लक्ष्मणः । तत्सर्वं चेति चस्य तदुत्तरकालिकमुत्तरकाण्डस्थं चेत्यर्थ इत्यपरे ।। 1.3.5 ।।



नेदं दर्शनं स्वप्नवदित्याह तत इति । पूर्वाचरितयोगाभ्यासादित्यर्थः । योगम् समाधिम् । तत्र समाधौ पुरा पश्यति अपश्यदित्यर्थः । यन्निर्वृत्तं जातम् इदमुपलक्षणम् । यच्च भावि तच्चरित्रं पश्यति स्मेति यावत् ।। 1.3.6 ।।



तदिति । धर्मेण योगजेन अत एव महामतिः । तत्सर्वमतीतमनागतं च तद्विषयं काव्यम् । अभिरामस्येत्यनेन तादृशकाव्यकरणस्य रागप्राप्तोक्ता ।। 1.3.7 ।।



कामेति । कामरूपो यो ऽर्थः पुरुषार्थस्तद्रूपेण गुणेन फलेन युक्तं धर्मार्थरूपपुरुषार्थफलेन विस्तरवत् विस्तरेण तदुभयप्रतिपादकं तद्दातृ चेत्यर्थः । रत्नैः काव्यगुणालङ्कारव्यङ्ग्यैराढ्यम् पूर्णम् । सर्वश्रुतीनां मनोभूताः सारभूता उपनिषदस्तासां हरं तदर्थप्रतिपादकम्, तेन मोक्षफलकत्वम् । व्याख्यानान्तरं त्वचमत्कारीत्युपेक्षितम् ।। 1.3.8 ।।



स इति । रघुवंशस्य तद्वंशावतीर्णरामस्य नारदकथनक्रमेणैव तच्चरितं तत्प्रतिपादकं काव्यं चकारेत्यर्थः ।। 1.3.9 ।।



विस्तरेण वर्णनीयानर्थान् "इष्टं हि विदुषां लोके समासव्यासधारणम्" इत्युक्तेः समासेन सङ्क्षेपेणाह जन्मेत्यादिना । वीर्यं स्वयमक्षतस्य पराभिभवसामर्थ्यम् । सर्वानुकूलतां सर्वेषामनुवर्तनरूपां प्रियतां विश्लेषासहत्वपर्यवसायिनी वस्तुसौन्दर्यबलाद्विषयलाभे ऽप्यनिवर्त्याविद्यमानानामपि दोषाणामदर्शनकरी, व्यसनसहस्रसम्पाते ऽप्यनिवर्त्या या अनुपस्कृतवस्तुमात्रालम्बिनीच्छा प्रेमपदवाच्या तद्विषयताम् । एवं भगवति रामे मायाशबले जातं प्रेम चित्तशुद्धिद्वारा शुद्धविषयं प्रेमोत्पाद्य निदिध्यासनद्वारा मुक्तिजनकज्ञानपर्यवसायीति बोध्यम् । क्षान्तिम् "उच्यमानो ऽपि परुषं नोत्तरं प्रतिपद्यते" इत्युक्तरूपाम् । सौम्यतामक्रूरदर्शनताम् ।। 1.3.10 ।।



नानेति । विश्वामित्रसहायने विश्वामित्रेण सह गमने तदुपस्थितिकाले सभायां मार्गे गमनकाले च चित्राः नाना कथाः अन्याश्च कथा योगवासिष्ठोक्ता ब्रह्मप्रतिपादिकाः कथा अत्र ग्रन्थे उक्ता गङ्गादिकथाश्चेत्यर्थः । एतेनात्र श्लोके नानेत्यन्या इति च व्यर्थमित्यपास्तम् । जानक्याश्चेति चेनोर्मिलादिसङ्ग्रहः ।। 1.3.11 ।।



रामेति । द्वितीयः परशुरामः । गुणान्विनयजयरूपान् ।। 1.3.12 ।।



विघातं चेति । विवासनम् वनं प्रति प्रस्थापनम् । परलोकस्य चाश्रयम् परलोकगमनम्, मरणमिति यावत् ।। 1.3.13 ।।



प्रकृतीनामिति । प्रकृतीनां वञ्चनपूर्वकविसर्जनमयोध्यां प्रति परावर्तनम् । निषादाधिपो गुहः । सूतः सुमन्त्रः ।। 1.3.14 ।।



गङ्गाया इति । अभ्यनुज्ञानम् सम्मतिः ।। 1.3.15 ।।



वास्त्विति । वास्तुकर्म चित्रकूटे गृहनिर्माणम् । निवेशम् तत्र गृहे ऽवस्थानम् । प्रसादनम् भरतकर्तृकम् ।। 1.3.16 ।।



पादुकेति । श्रेष्ठपादुकयोर्भरतकृतमभिषेकम् । नन्दिग्रामस्य नितरामतिशयेन वासनम्, भरते तत्र गते सर्वप्रजास्तत्रैव वासं कृतवत्य इत्यर्थः ।। 1.3.17 ।।



दर्शनमिति । अनसूयासमास्यामनसूयया सह सीतायाः समास्या सहासनम् । यद्यप्येतद्विराधवधात्पूर्वमेव तथापि क्रमे तात्पर्याभावाद्व्यत्ययेनाभिधानम् । अङ्गरागश्चन्दनादिः ।। 1.3.18 ।।



दर्शनमिति । अगस्त्यसकाशाद्धनुषो ग्रहणम् ।। 1.3.19 ।।



वधमिति । उत्थानम् जानकीहरणोद्योगम् ।। 1.3.2022 ।।



ऋष्येति । प्रत्ययोत्पादनम् शालभेदादिभिः सुग्रीवस्य विश्वासजननम् । विग्रहम् युद्धम् ।। 1.3.23 ।।



वालीति । सुग्रीवप्रतिपादनम् सुग्रीवस्य राज्ये स्थापनम् । समयम् शरदि यात्रा कर्तव्येति रामसुग्रीवयोः सङ्केतम् । वर्षेति । वर्षाकालिकवासाङ्गीकरणम् ।। 1.3.24 ।।



कोपमिति । उपसङ्ग्रहम् वानराणां मेलनम् । पृथिव्याश्च निवेदनम् सुग्रीवेण वानरान्प्रति पृथ्वीसंस्थानकथनम् ।। 1.3.25 ।।



अङ्गुलीयकदानम् रामकर्तकं हनुमति । प्रायोपवेशनं प्रायेणानशनेन वानराणामुपवेशनं समुद्रसमीपे वासः ।। 1.3.2628 ।।



एकस्यापि विचिन्तनमसहायस्य कर्तव्यार्थविचारं चेत्यर्थः । अवरोधो ऽन्तःपुरम् ।। 1.3.29 ।।



यानम् गमनम् ।। 1.3.30 ।।



अभिज्ञानम् रामदत्ताङ्गुलीयकम् ।। 1.3.31,32 ।।



ग्रहणमिति । लङ्काया दाहेन तत्रत्यानामाक्रन्दनं लङ्कादाहे हनुमद्गर्जनमित्यर्थो वा । "अभिमर्दनम्" इति पाठे लङ्काया दाहेनाभितो मर्दनमित्यर्थः । प्रतिप्लवनम् पुनः सागरोत्तरणम् ।। 1.3.33 ।।



मणिनिर्यातनम् सीताया दत्तस्य स्वशिरोरत्नस्य राघवे दानम् । नलसेतोर्नलनिर्मितसेतोः ।। 1.3.34 ।।



प्रतारम् । सेनाया इति शेषः ।। 1.3.35 ।।



निबर्हणम् मारणम् । अरे रावणस्य ।। 1.3.36 ।।



अयोध्यायाश्च गमनम् तदुद्देश्यकं गमनम् ।। 1.3.37 ।।



रामाभिषेकाभ्युदयम् रामाभिषेकोत्सवम् । सर्वत्र चकारेत्यनुकृष्यते ।। 1.3.38 ।।



अनागतं चेति । यत्किञ्चिदित्यनेन सीताविसर्जनात्पूर्वकालिकस्य भूयस्त्वमनन्तरकालस्याल्पता द्योत्यते तत्सर्वमुत्तरे सर्वतो विशिष्टे काव्ये चकार निबबन्धेत्यर्थः ।। 1.3.39 ।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे तृतीयः सर्गः ।। 3 ।।



Sanskrit Commentary by Sivasahaya
मुनिवृत्तमाह श्रुत्वेत्यादि । धर्मार्थसहितं धर्मो रघुनाथाश्रयणमेवार्थ: परमपुरुषार्थस्तेन सहितम् । अत एव हितं सर्वोपकारकं समग्रं सम्पूर्णं वस्तु श्रुत्वा नारदब्रह्मणोरुपदेशादवगत्य धीमत: समाधिकरहितबुद्धिविशिष्टस्य तस्य श्रुतितात्पर्ये विषयीभूतस्य रघुनाथस्य व्यक्तमिह लोके ऽपि प्रकटीभूतं यद्भूयो विस्तृतमाचरितं तदन्वेषते व्यचारयत् । 'वर्तमानसामीप्ये भूते भविष्यति च वर्तमानवद्वा' इति लट्प्रयोग: । एतेन तद्वस्तुनो दुर्बोधत्वं सूचितम् । 'धर्मात्मा धर्मसंहितम्' इति पाठे तु धर्मात्मेति मुनिविशेषणम् । धर्मसंहितमिति वस्तुविशेषणम् । रघुनाथा ऽ ऽचरितरूपधर्मविशिष्टमित्यर्थ: । "समो वा हितततयो:" इत्यत्र वाशब्दसत्वान्मकारस्थानिकानुस्वार: श्रुति: ।। 1.3.1 ।।



उपेति । मुनि: नारदोपदिष्टतत्त्वमननशीलो वाल्मीकि: सम्यग्यथाविधि उदकमुपस्पृश्य आचम्य प्राचीनाग्रेषु दर्भेषु स्थित्वा कृताञ्जलि: प्रार्थनासूचकबद्धयुगलकर: सन् धर्मेण वेदबोधितकर्मणोपलक्षितामित्यध्याहार: । गतिम् सीतारामाचरितमन्वेषते व्यचारयत् ।। 1.3.2 ।।



विचारोत्तरकाले विचारविषयीभूतवस्तुसाक्षात्कारो जात इत्याह रामेत्यादि श्लोकद्वयेन । रामलक्ष्मणसीताभिस्तत्रायोध्यायां प्राप्तं प्रकटितं यद्धसितं हसनं भाषितं वचनरचना गति: गमनम् अन्यच्च यावच्चेष्टितं दातृत्वादि तत्सर्वं धर्मवीर्येण रघुनाथस्मरणरूपबलेन यथावद्यथाकामं तत्त्वत: मायाराहित्येन सम्पश्यति सम्यगजानात् । सराष्ट्रेण राज्यसहितेन सभार्येण कौशल्यादिसहितेन दशरथेन राज्ञा च यत्प्रकटत: प्राप्तं हसितत्वादि भाषितं यथावत्सम्प्रपश्यति । पश्यतीत्युक्त्या पुनर्नतद्विस्मृतिरिति ध्वनितम् ।। 1.3.3,4 ।।



अयोध्यावृत्तसाक्षात्कारानन्तरं वनवृत्तविचारमाह स्त्रीतृतीयेनेति । स्त्री सीता तृतीया यस्य सीतालक्ष्मणसहितेनेत्यर्थ: । सत्या सन्धा प्रतिज्ञा यस्य तेन । वने चरता वनगमनशीलेन रामेण यत्प्राप्तं प्रकटीकृतं चरितं तत्सर्वं तथैव अन्ववेक्षितम् । वाल्मीकिना विचारितमित्यर्थ: चशब्द एवार्थे ।। 1.3.5 ।।



विचारोत्तरकाले तत्साक्षात्कारो जात इत्याह तत इत्यादिना । तत: विचारानन्तरं धर्मात्मा धर्मे रघुनाथोपासने आत्मा मनो यस्य । अत एव योगमुपासनोपायमास्थित: प्राप्त: मुनि: तत्र अयोध्यादौ यन्निर्वृत्तं लक्ष्मणसीतारामाचरितं तत्सर्वं पाणावामलकं यथा पाणिगतधात्रीफलमिव पुरा पूर्वं पश्यति तत्त्वतो ऽजानादित्यर्थ: ।। 1.3.6 ।।



रघुनाथवर्णनीयसर्ववृत्तसाक्षात्कारोत्तरकालिकं वृत्तमाह तदित्यादिना । महाद्युति: अतिप्रकाशयुक्त: स वाल्मीकि: अभिरामस्य सर्वाभिरामहेतो: रामस्य धर्मेण वेदबोधितकर्मत्वेन उपलक्षितमिति शेष: । तत्प्रसिद्धं सर्वं निवर्णयिष्यमाणनिखिलरघुनाथचरितं तत्त्वतो मायाराहित्येन दृष्ट्वा ज्ञात्वा कर्तुं चरितं वर्णयितुमुद्युक्त: उद्योगवानासीदित्यर्थ: । महाद्युतिरित्युक्त्या

रघुनाथसाक्षात्कारस्य प्रभावातिशय: सूचित: । महामतिरिति पाठे तु महती समाधिकशून्या मतिर्यस्येत्यर्थ: ।। 1.3.7 ।।



कामेति । रत्नाढ्यं रत्नपरिपूर्णं समुद्रमिव । रत्नपरिपूर्णसमुद्रसदृशमित्यर्थ: । कामार्थगुणसंयुक्तं कामार्थगुणै: कामश्च अर्थश्च गुणशब्देन कामार्थगुणवत्तासम्पादकोधर्म उच्यते स च ते कामार्थगुणा: तै: संयुक्तं यथाकामम् । कामार्थधर्मदायकमित्यर्थ: । धर्मार्थगुणविस्तरं धर्मार्थयोर्गुणत्वसम्पादको मोक्ष इत्यर्थ: । तं विस्तृणाति परिपूरयति तत् । सर्वश्रुति सर्वा: श्रुतयस्तात्पर्यवृत्त्या प्रतिपादकत्वेन यस्मिन् तत् । अत एव मनोहरं सदयहृदयापकर्षकं रघुवंशस्य चरितं महर्षिणा नारदेन यथा येन प्रकारेण पूर्वं कथितं तेन प्रकारेण ऋषिर्वेदतत्त्वज्ञ: अत एव भगवान् रघुनाथज्ञानरूपैश्वर्यविशिष्ट: स वाल्मीकिश्चकार । वर्णयामासेत्यर्थ: द्वयोरेकत्रान्वय: । समुद्रमिव रत्नाढ्यमित्युपमालङ्कारेण यथा समुद्रे रत्नानि सुकृतमहायत्नलभ्यानि तथा वेदे रघुनाथचरितान्यपि सुकृतमहायत्नलभ्यानीत्युपमालङ्कारो ध्वनित: । तेन रघुनाथाचरितं सद्गुरुकृपयैव लभ्यमिति सद्गुरुराश्रयणीय इति वस्तु व्यक्तम् ।। 1.3.8,9 ।।



रघुनाथचरितमेव सङ्क्षेपेणाह जन्मेत्यादिभिरासर्गम् । रामस्य साकेताधीशरघुनाथस्य जन्म ब्रह्मप्रार्थनाहेतुकं प्रादुर्भावं सुमहत्सुमहत्त्वम् । ईश्वरेश्वरत्वमित्यर्थ: । वीर्यं समातिशयशून्यपराक्रमं सर्वानुकूलतां सर्वहितकारकत्वं लोकस्य प्रियतां लोकनिष्ठप्रीतिविषयत्वं क्षान्तिं जनकृतापराधादर्शकत्वं सौम्यतां सर्वप्रियदर्शकत्वं सत्यशीलतां सत्यस्वभावत्वं वाल्मीकिश्चकार । वर्णयामासेत्यर्थ: । एकोनत्रिंशत्तमेनान्वय: । (चकार इति एकोनचत्वारिंशे श्लोके वर्तते ।) सुमहदिति भावप्रधानो निर्देश: ।। 1.3.10 ।।



नानेति । विश्वामित्रसमागमे विश्वामित्रेण साकं महाराजाधिराजदशरथादिसमागमे सति अन्या: रामजन्मादिभिन्ना: नानाचित्रकथा: नाना बहुविधानि चित्राणि आश्चर्याणि यासु ता एव कथा इति कर्मधारय: । महाराजदशरथचेष्टाविशिष्टाद्युपदेशाहल्यादिस्वरूपप्रापणादिका इत्यर्थ: । जानक्या जनकप्रादुर्भूतसीताया: चकारेणोर्मिलादीनां विवाहं च धनुष: तत्र स्थापितशिवचापस्य विभेदनं विवाहहेतुकधनुर्भङ्गं च । नाना चित्रा: कथा इति 'व्यस्त: सहायने' इति च भट्टसम्मत: पाठ: । अर्थे तु न वैलक्षण्यम् ।। 1.3.11 ।।



रामेति । रामेण दाशरथिरघुनाथेन सह रामविवादं परशुरामविवादं च । तृतीयेति योगविभागात्सम्बन्धसामान्ये षष्ठीं प्रकल्प्य षष्ठीति सूत्रेण वा समास: । दाशरथे: रामस्य गुणान् विनयविजयादिरूपांश्चेत्यर्थ: । तथेति चार्थे । एवमुत्तरत्रापि । रामस्याभिषेकम् । अभिषेकोद्योगमित्यर्थ: । केकय्या दुष्टभावतां प्रातिभासिकदुष्टस्वभावत्वम् ।। 1.3.12 ।।



विघातं चेति । अभिषेकस्य रामाभिषेकोद्योगस्य विघातं केकयीकृतविघ्नं रामविवासनं वनप्रेषणं च राज्ञो महाराजदशरथस्य शोकं प्रकटीभूतरामवियोगजनितशोचनं च विलापं तच्छोकजनितहारामेत्याद्युच्चारणं च परलोकस्य अप्रकटायोध्यापुरस्य आश्रयं स्थितिं च ।। 1.3.13 ।।



प्रकृतीनामिति । प्रकृतीनां प्रजानां विषादं रामवियोगजनितदु:खं प्रकृतीनां विसर्जनमयोध्यां प्रति परावर्तनं च निषादाधिपसंवादं गुहेन सम्भाषणं च सूतोपावर्तनमयोध्यां प्रति सूतपरावर्तनं च । तथेति समुच्चये ।। 1.3.14 ।।



गङ्गायाश्चेति । गङ्गाया: सन्तारं सन्तरणं च भरद्वाजस्य दर्शनं भरद्वाजकर्मकावलोकनं च । एवश्चार्थे । अपीति पाठे सो ऽपि तत्रैव भरद्वाजाभ्यनुज्ञानाद्भरद्वाजाज्ञात: चित्रकूटस्य

दर्शनमवलोकनं च ।। 1.3.15 ।।



वास्त्विति । वास्तुकर्म चित्रकूटे पर्णमयगृहरचनां निवेशं तत्र प्रवेशं च भरतागमनं भरतकर्तृकचित्रकूटप्राप्तिं च । तथेति चार्थे । रामस्य प्रसादनं रामकर्मकभरतकर्तृकप्रसादनं च पितु: महाराजाधिराजदशरथस्य सलिलक्रियां सलिलदानं च ।। 1.3.16 ।।



पादुकेति । पादुकयो: प्राक्चेतनत्वनित्यत्वाभ्यां सर्वपादुकाश्रेष्ठयो: अभिषेकं राज्यनियन्तृत्वेन स्थापनं च नन्दिग्रामनिवासनं भरतकर्तृकनन्दिग्रामनिवासं च । स्वार्थे णिच् प्रयोजकाविवक्षा वा । दण्डकारण्यगमनं रामकर्तृकदण्डकारण्यप्रवेशं च विराधस्य वधं च । रामेणेति शेष: । तथाशब्दश्चार्थे ।। 1.3.17 ।।



दर्शनमिति । शरभङ्गस्य ऋषे: दर्शनं शरभङ्गऋषिकर्मकावलोकनं सुतीक्ष्णेन ऋषिणाभिसङ्गमं सम्मेलनं च । क्वचित्सुतीक्ष्णेन समागममिति पाठ: । अर्थे तु न विशेष: । अनसूयासहास्यामनसूयया अत्रिपत्न्या सहास्यां सीताया: सहस्थितिमङ्गरागस्य चन्दनस्य अर्पणमनसूयाकर्तृकसीतोद्देश्यकसमर्पणं च । समास्यामिति भट्टसम्मतपाठे तु अनसूयया सह सम्यगासनमित्यर्थ: । अत्र क्रमो न विवक्षित: । अत एव विराधवधात्पूर्ववृत्तमनसूयावृत्तमुत्तरत्रोक्तम् । 'आस्या त्वासनमासीने' इत्यमर: ।। 1.3.18 ।।



दर्शनमिति । अगस्त्यस्य कुम्भोद्भवमुने: दर्शनमवलोकनं च । अपिना तत्पूजनादिकं च । धनुष: अगस्त्यसमर्पितवैष्णवचापस्य ग्रहणं रामकर्तृकस्वीकारं च । शूर्पणख्या: शूर्पणखाया: संवादं बहुविधकथनं च । विरूपकरणं शूर्पणखाया: कर्णनासिकाच्छेदनं च । अत्र नखमुखेति निषेधे ऽपि ङीष् आर्ष: । तथाशब्दौ चार्थकौ ।। 1.3.19 ।।



वधमिति । खरत्रिशिरसो: तदुपलक्षितखरत्रिशिरोदूषणादीनां वधं रामकर्तृकहननं च रावणस्योत्थानं शूर्पणखावाक्यात् मारीचसहितरावणकर्तृकरामाश्रमकर्मकगमनं च । मारीचस्य वधं रामकर्तृकहननं च । वैदेह्या हरणं रावणकर्तृकानयनं च एवतथाशब्दौ चार्थौ ।। 1.3.20 ।।



राघवश्चेति । राघवस्य रामस्य विलापं सम्भोगपोषकसीतावियोगहेतुकरामकर्तृकविलापं च । गृध्रराजनिबर्हणं गृध्रराजस्य जटायुष: निबर्हणं रावणकर्तृकहिंसनम् । अपिना तत्प्रमीतक्रियां च । कबन्धदर्शनं कबन्धकर्मकावलोकनं च । पम्पाया: तन्नामकसरस: दर्शनमवलोकनं च । एवश्चार्थे ।। 1.3.21 ।।



शबर्येति । शबर्या: तन्नामकश्रमण्या दर्शनं च । एतेन तत्समर्पितफलाशनं हनुमद्दर्शनं च । तथाशब्दश्चार्थे । महात्मन: मह्यते रमादिभि: पूज्यते इति महा सीता तत्रात्मा मनो यस्य तस्य राघवस्य पम्पायां पम्पासमीपे प्रलापं च । एतेन लक्ष्मणकृतप्रलापशामकोक्तिं च ।। 1.3.22 ।।



ऋष्येति । ऋष्यमूकस्य सुग्रीवाधिष्ठिततन्नामकपर्वतस्य गमनं प्राप्तिं च सुग्रीवेण समागमं तत्र सुग्रीवरामसम्मेलनं च प्रत्ययोत्पादनं रामसुग्रीवपरस्परविश्वासजननं च सख्यं तयो: परस्परं मित्रभावं च वालिसुग्रीवविग्रहं च सुग्रीवकर्तृकविग्रहहेतुकथनमित्यर्थ: ।। 1.3.23 ।।



वालीति । वालिप्रमथनं वालिकर्मकवधं च सुग्रीवप्रतिपादनं सुग्रीवस्य प्रतिपादनं रामकर्तृकराज्यस्थापनं च ताराविलापं वालिवधहेतुकशोकजनितताराकर्तृकप्रलापं च समयं वर्षर्त्वपाये सीतान्वेषणीयेति रामसुग्रीवकृतसङ्केतं वर्षरात्रनिवासनं वर्षो वृष्टियुक्त: काल: । चातुर्मास्यमित्यर्थ: । तस्य रात्रय: तेषु निवासनं निवासं च । एवश्चार्थे । सचावृत्त्या चहीनेष्वप्यन्वेति । वर्षरात्रेत्यत्राजिति योगविभागादच्प्रत्यय: । रात्राह्नेति पुंस्त्वम् । ताराविलापसमयमिति समस्तपाठे समाहारद्वन्द्वेनैकवद्भावो बोध्य: ।। 1.3.24 ।।



कोपमिति । राघवसिंहस्य राघवश्रेष्ठरामस्य कोपं सुग्रीवानवधानतानिवर्तकक्रोधाभासं बलानां सैन्यानामुपसङ्ग्रहं सुग्रीवकर्तृकसम्मेलनं च । दिश: प्रस्थापनं सर्वदिक्कर्मकवानरप्रेषणं च । पृथिव्या द्वीपसमुद्रादिरूपाया: निवेदनं अवयवांश: सुग्रीववर्णनं च । एवश्चार्थे ।। 1.3.25 ।।



अङ्गुलीयकेति । अङ्गुलीयकदानं हनुमत्सम्प्रदानकरामकर्तृकसीताप्रतीतिसम्पादकाङ्गुलीयकदानं च । ऋक्षस्य बिलदर्शनं ऋक्षस्य बिलं स्वयंप्रभाबिलं तस्य दर्शनं च । प्रायोपवेशनं प्रायाय प्राणत्यागाय उपवेशनमनशनतया स्थितिं च । सम्पाते: जटायुषो ज्येष्ठभ्रातु: दर्शनं च । अपिना तेन सह सम्भाषणम् । एवेति पाठे सोप्यर्थको बोध्य: ।। 1.3.26 ।।



पर्वतेति । पर्वतारोहणं च । एवेन हनुमत्कृतदेवप्रार्थनां सागरस्य लङ्घनं च । समुद्रवचनादेव उत्थितस्य मैनाकस्य दर्शनं च । चकारेण हनुमन्मैनाकसंवादम् । उत्थितस्येति शेष: । क्वचित्सागरस्यापीति पाठ: ।। 1.3.27 ।।



राक्षसीतर्जनमिति । राक्षस्यो: राक्षसीरूपधारिरक्ष:कुलोत्पन्नसुरसालङ्किन्यो: तर्जनं हनुमत्कर्मकभर्त्सनं च । छायाग्राहस्य सिंहिकाया: दर्शनं निधनं च । लङ्कामलयदर्शनं लङ्कामलयस्य लङ्काधिकरणीभूतपर्वतैकदेशस्य दर्शनं च । एवश्चार्थे ।। 1.3.28 ।।



रात्राविति । रात्रौ लङ्काप्रवेशं च । एकस्य वानरप्रधानीभूतहनुमत: विचिन्तनमापानभूमिगमनं राक्षसकर्तृकमद्यपानस्थलकर्मकहनुमत्कर्तृकप्राप्तिं च । अवरोधस्यान्त:पुरस्य दर्शनं च । एकस्यापीति पाठे अपिश्चार्थे ।। 1.3.29 ।।



दर्शनमिति । रावणस्य दर्शनं च पुष्पकस्य दर्शनं च अशोकवनिकायानं हनुमत्कर्तृकाशोकवनिकाप्राप्तिं च सीताया: दर्शनं च । अपी चार्थौ । क्वचित्सीतायाश्च प्रदर्शनमिति पाठ: ।। 1.3.30 ।।



अभिज्ञानेति । अभिज्ञानप्रदानं सीतासम्प्रदानकमुद्रिकाप्रदानं च सीताया: भाषणं च । अपिना हनुमतो भाषणं राक्षसीतर्जनं राक्षसीकर्तृकसीताकर्मकभर्त्सनं च त्रिजटा विभीषणसुता तस्या: स्वप्नदर्शनं रामशुभसूचकस्वप्नावलोकनं च । एवश्चार्थे ।। 1.3.31 ।।



मणिप्रदानमिति । सीताया: मणिप्रदानं हनुमद्द्वारा सीताकर्तृकरघुनाथोद्देश्यकचूडामणिसमर्पणं च वृक्षभङ्गं सीताश्रयीभूतशिंशपातिरिक्ताशोकवनिकोत्पाटनं च राक्षसीविद्रवं राक्षसीपलायनं च । तथाशब्देन राक्षसीकर्तृकहनुमद्वृत्तकथनं किङ्कराणां रावणभृत्यभटानां निबर्हणं नाशनं च । एवौ चार्थौ ।। 1.3.32 ।।



ग्रहणमिति । वायुसूनो: हनुमतो ग्रहणं रावणसभानयनं च लङ्कादाहाभिगर्जनं लङ्कादाहे हनुमदभिगर्जनं च । लङ्कादाहश्च अभिगर्जनं चेति समाहारद्वन्द्वो वा । अभिमर्दनमिति पाठे तु दाहेन राक्षसानां हिंसनं चेत्यर्थ: । अथानन्तरं प्रतिप्लवनं पुन: समुद्रसन्तरणं मधूनां मधुवनोद्भवक्षौद्राणां हरणं वानरकर्तृकादानं च । एवतथाशब्दौ चार्थौ ।। 1.3.33 ।।



राघवेति । राघवाश्वासनं 'दृष्टा सीतेति तत्त्वत:' इत्यादिना रामसमवधानीकरणं च मणिनिर्यातनं सीतासमर्पितचूडामणिसमर्पणं च । तथाशब्देन ससैन्यसुग्रीवरामगमनं समुद्रेण सङ्गमं रघुनाथकर्तृकसमुद्रसमागमं च नलसेतो: नलैकसाध्यसेतोर्बन्धनं च ।। 1.3.34 ।।



प्रतारमिति । समुद्रस्य प्रतारं सेतुनोत्तरणं च रात्रौ लङ्कावरोधनं च विभीषणेन संसर्गमाभाषणपूर्वकसम्बन्धं च वधोपायनिवेदनं विभीषणकर्तृकरावणादिवधयत्नकथनं च । आवृत्त्या चकार: चहीनेष्वप्यन्वेति ।। 1.3.35 ।।



कुम्भकर्णस्येति । कुम्भकर्णस्य निधनं वधं च मेघनादनिबर्हणं हिंसनं च रावणस्य विनाशं च सीतावाप्तिं च अरे: पुरे लङ्कायां विभीषणाभिषेकं च पुष्पकस्य रावणहृतकुबेरविमानस्य दर्शनं च ।। 1.3.36 ।।



अयोध्याया इति । अयोध्यायाश्च गमनं रामकर्तृकप्रस्थानं च भरद्वाजसमागमं च वायुपुत्रस्य हनुमत: प्रेषणं च । रघुनाथेन भरतं प्रतीति शेष: । भरतेन समागमं हनुमद्द्वारा साक्षाच्च भरतसम्मेलनं च ।। 1.3.37 ।।



रामेति । रामाभिषेकाभ्युदयं रामराज्याभिषेकोत्सवं सर्वसैन्यविसर्जनं स्वस्वस्थानं प्रति सुग्रीवादिप्रेषणं च स्वराष्ट्ररञ्जनं प्रजाप्रमोदनं च वैदेह्या: प्रकटरूपाया: विसर्जनं च । एवश्चार्थे ।। 1.3.38 ।।



अनागतमिति । वसुधातले रामस्य यत्किञ्चिच्चरितमनागतमप्रकटितम् । भविष्यत्कालिकमित्यर्थ: । तदेव उत्तरे काव्ये उत्तरे काण्डे भगवान्परममाहात्म्यवान् ऋषि: त्रिकालज्ञ: चकार वर्णयामास । भूतवर्तमानकालिकरामचरितानि षट्सु काण्डेषु वर्णितानि, भविष्यत्कालिकरामचरितानि उत्तरकाण्डे वर्णितानीत्यर्थ: । चशब्द एवार्थे ।। 1.3.39 ।।



इत्यार्षे श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे तृतीय: सर्ग: ।। 3 ।।