Content

[Viswamitra obtains the title of Maharshi -- Menaka creates impediments to his penance -- Viswamitra performs intense austerities to obtain the rank of Brahmarshi.]

पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्।

अभ्यागच्छन् सुरास्सर्वे तप: फलचिकीर्षव:।।1.63.1।।

Translation

वर्षसहस्रे when thousand years, पूर्णे had been completed, सर्वे all, सुरा: devatas, तप: फलचिकीर्षव: desiring to bestow the fruits of his austerities, व्रतस्नातम् who had taken the ritual bath after completion of the ritual, महामुनिम् mighty ascetic, अभ्यागच्छन् approached.

All the gods wanted to bestow the fruits of austerties on the mighty ascetic (Viswamitra). They approached him after a thousand years of penace and his final ritual bath.
Sanskrit Commentary by Amruta Kataka
अथ त्रिषष्टितमः सर्गः

[मेनकया विश्वामित्रतपोभङ्गः]

 ।। 1.63.1 ।। पूर्णे वर्षसहस्रे तु 1व्रतस्नातं महामुनिम् ।

अभ्यागच्छन् सुराः सर्वे तपः फल2चिकीर्षवः ।। 1 ।।

अथ द्वितीयव्यूहदिशि पश्चिमायां काममोहेन तपोनाशनप्रतिपादनम्--पूर्ण इत्यादि । अम्भायास्सहस्ररश्मित्वाद्वर्षसहस्रप्रमाणेनैव विश्वामित्रस्याम्बापुरश्चरणोपक्रमसमाप्तिः सर्वदिक्षु । अत एव सहस्रावृत्तिरम्बायाश्श्रोत्रियब्राह्मणानामस्माकं । व्रतस्नातमिति । समाप्तपुरश्चरणमिति यावत् ।। 1 ।।

(1 विश्वामित्रंङ.)

(2 चिकीर्षयाङ) ।। 1.63.1 ।। 

 ।। 1.63.2 ।। अब्रवीत् सुमहातेजा ब्रह्मा 3सुरुचिरं वचः ।

ऋषिस्त्वमसि, भद्रं ते, स्वार्जितैः कर्मभिः शुभैः ।। 2 ।।

सुमहातेजा ब्रह्मेति । ब्रह्मविद्याधिदैवत्वतः तन्यैव तत्फलदातृत्वात् तदर्थं सुरुचिरं वचः भगवान् अब्रवीत् । ऋषिस्त्वमसीति । एतेन राजशब्दानुपादानेन क्षत्रत्वजातिविश्लेषः कियान्वा ऽभूदिति भगवता ऽनुगृहीतं वेदितव्यम् ।। 2 ।।

(3 सानुनयंङ) ।। 1.63.2 ।। 

 ।। 1.63.3,4 ।। तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् ।

विश्वामित्रो महातेजा भूयस्तेपे महत्तपः ।। 3 ।।

ततः कालेन महता मेनका परमा ऽप्सराः ।

पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे ।। 4 ।।

परमारूपादितः सर्वोत्तमा । अप्सरश्शब्द एकवचनान्तो ऽप्यस्ति ।। 4 ।।

(अप्सरा इत्यार्षंति. 'स्त्रियां बहुष्वप्सरसः' इति कोशात् अप्सरश्शब्दस्य नित्यबहुवचनान्तत्वमाशङ्क्याह--अप्सरश्शब्द इति ।) ।। 1.63.3,4 ।। 

 ।। 1.63.5,6 ।। तां ददर्श महातेजा मेनकां कुशिकात्मजः ।

रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ।। 5 ।।

दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् ।

अप्सरः स्वागतं ते ऽस्तु वस चेह ममाश्रमे ।। 6 ।।

अनुगृह्णीष्वेति । काममोहखिन्नस्य मे अनुकूला मत्तपि शमयेति यावत् ।। 1.63.6 ।। 

 ।। 1.63.7,8 ।। इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ।

तपसो हि महाविघ्नो विश्वामित्रमुपागतः ।। 7 ।।

तस्यां वसन्त्यां वर्षाणि पञ्च च राघव

विश्वामित्राश्रमे राम सुखेन व्यतिचक्रमुः ।। 8 ।।

वरारोहाउत्तमस्त्री । उपागत इति । तयेति शेषः । पञ्च पञ्च चेति । दशवर्षाणीति यावत् । 'षड्भ्यो लुक्' इति जसो लुक् ।। 1.63.8 ।। 

 ।। 1.63.9,10 ।। अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ।

सव्रीड इव संवृत्तः चिन्ताशोकपरायणः ।। 9 ।।

बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन

1सर्वं सुराणां कर्मैतत् तपो ऽपहरणं महत् ।। 10 ।।

सामर्षेति । अस्मत्तपः पुनः 2देवता विघ्नन्तीत्यमर्षसहिता ।। 10 ।।

(सामर्षादेवेषु विघ्नस्य तत्कृतत्वज्ञानात्ति.)

(1 सत्यं सुराणांङ.)

(2 देवाग.) ।। 1.63.10 ।। 

 ।। 1.63.11 ।। अहोरात्रापदेशेन गताः संवत्सरा दश ।

काममोहाभिभूतस्य विघ्नो ऽयं प्रत्युपस्थितः ।। 11 ।।

अहोरात्रापदेशेनएकाहोरात्रतुल्यतया ।। 11 ।।

(अहोरात्रव्याजेन दश संवत्सरा गता इति वा ऽर्थः । पश्यत एव एकैकदिनशः दश संवत्सरा गता इति तात्पर्यम् । प्रत्युपस्थित इत्यनन्तरं 'इति' इत्यध्याहार्यं इति बुद्धिस्समुत्पन्नेति पूर्वेणान्वयः ।) ।। 1.63.11 ।। 

 ।। 1.63.12 ।। विनिश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ।

भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् ।। 12 ।।

मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः ।

उत्तरं पर्वतं राम विश्वामित्रो जगाम ह ।। 13 ।।

मेनकां मधुरैर्वाक्यैर्विसृज्येति । मया कामतप्तेन प्रार्थितत्वात् योषितस्ते न कश्चनापचारः । अतस्त्वं यथासुखं गच्छेत्येवमादिरूपैर्वचनैरित्यर्थः ।। 1.63.13 ।। 

 ।। 1.63.14 ।। स कृत्वा नैष्ठिकीं बुद्धिं, जेतुकामो महायशाः ।

कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् ।। 14 ।।

नैष्ठिकीं । निष्ठाबिन्दुधारणरूपा मुख्या ब्रह्मचर्यनिष्ठा, तद्विषयिणीं बुद्धिंदृढनिश्चयम् । कौशिकीविश्वामित्रभगिनी नदी ।। 14 ।।

(नैष्ठिकीकामस्याप्यकरणं सङ्कल्प्य अत्युत्कृष्टब्रह्मचर्यविषयाम्ति.जेतुकामःकाममिति शेषः ।) ।। 1.63.14 ।। 

 ।। 1.63.15,16 ।। 1तस्य वर्षसहस्रं तु घोरं तप उपासतः ।

उत्तरे पर्वते, राम देवतानामभूत् भयम् ।। 15 ।।

आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः ।

महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः ।। 16 ।।

समागम्येति । भगवता ब्रह्मणेति शेषः । महर्षिशब्दं लभतामिति । भगवन्निति शेषः ।। 16 ।।

(भगवन्निति ब्रह्मणं प्रति देवानां सम्बोधनम् ।)

(1 तस्य वर्षसहस्राणि, तस्य वर्षसहस्रेणङ.ज)

(समागम्यसमुपसृत्येत्यर्थः ।) ।। 1.63.16 ।। 

 ।। 1.63.17 ।। देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।

अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ।। 17 ।।

महर्षे खागतं वत्स तपसोग्रेण तोषितः ।

महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक ।। 18 ।।

एवं देवतानां प्रार्थनया महर्षिशब्देनैव विश्वामित्रं सम्बोधयतिमहर्षे इत्यादि । महत्वमित्यस्यैव विवरणंऋषिमुख्यत्वमिति । पूर्वं दत्तर्षिशब्दस्य ते इदानीं महत्वविशिष्टर्षिशब्दवाच्यत्वं ददामीत्यर्थः ।। 1.63.18 ।। 

 ।। 1.63.19 ।। 2ब्रह्मणसस वचश्श्रुत्वा 3 विश्वामित्रस्तपोधनः ।

प्राञ्जलिः प्रणतो भूत्वा 5प्रत्युवाच पितामहम् ।। 19 ।।

एवं प्राप्तमहर्षित्वो विश्वामित्रो ऽकृतार्थ 4इत्याहब्रह्मण इत्यादि ।। 19 ।।

(2 एतदनन्तरं 'न विषण्णो न सन्तुष्टो विश्वामित्रस्तपोधनः' इत्यधिकंङ.झ.)

(3 सर्वलोकेश्वरस्य हङ.झ)

(5 सर्वलोकपितामहम्ङ.झ)

(4 आहग.) ।। 1.63.19 ।। 

 ।। 1.63.20 ।। 1ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः ।

यदि मे 2भगवान्नाह ततो ऽहं विजितेन्द्रियः ।। 20 ।।

यदि शब्दो हेतौ । अतुलंसर्वोत्तमं । ब्रह्मर्षिशब्दंब्रह्मसमा त्रिपदा ब्रह्मविद्या, तत्सिद्धः ऋषिः ब्रह्मर्षिः, तादृशं ब्रह्मर्षिशब्दं मदभीष्टं मां प्रति मे स्वार्जतैः शुभैः कर्मभिः सिद्ध यस्मात् नाह--नानुगृह्णीषे,ततः--तस्मात् अहं ब्रह्मर्षिशब्दसिद्धये विजेतेन्द्रियः अतः परमत्यन्त भविष्यामीति शेषः ।। 20 ।।

(यदि महर्षित्वं भवता दत्तं, ततो ऽहं विजितेन्द्रियश्चास्मीत्यर्थःगो. ब्रह्मर्षिशब्दं मदभीष्टं स्वार्जितैः शुभैः कर्मभिः प्राप्यं यदि--यतः भगवान्नाह--न वदति, ततो मन्ये ऽहं विजितेन्द्रियः अत्र काकुः, न विजितेन्द्रिय इत्यर्थःति. महर्षिशब्दं मे--मह्यं यदि भगवानाह, ततः--तस्माद्धेतोः अहं विजितेन्द्रियो ऽस्मीत्यर्थः । तेन तस्येन्द्रियजयजनितो गर्वो ध्वनितःशि.)

(1 महर्षिशब्दङ.ज.च)

(2 भगवानाह.ङ.च) ।। 1.63.20 ।। 

 ।। 1.63.21 ।। तमुवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः ।

3जयस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः ।। 21 ।।

तथा ऽनुतिष्ठेति भगवाननुगृह्णाति--तमित्यादि । ततः तस्य विश्वामित्रस्य 'सर्वथा विजितेन्द्रियो भविष्यामि' इत्युक्त्यनन्तरं विजितेन्द्रियत्वसिद्धिकालमनुगृह्णाति--न तावदिति । यावदहं त्वां ब्रह्मर्षिर्न ब्रवीमि, तावत् त्वं न विजितेन्द्रियःविजितेन्द्रियत्वं ब्रह्मर्षिशब्दार्हं तव नास्ति, अतस्त्वं जयस्वेन्द्रियाणि इत्युक्त्वा परं त्रिदिवं--ब्रह्मलोकं गतः इत्यर्थः ।। 21 ।।

( विकारहेतुसन्निधाने ऽपि यावन्न विकरोषि तावन्तं कालं त्वं न जितेन्द्रिय इत्यर्थःगो.)

(3 यतस्वङ.) ।। 1.63.21 ।। 

 ।। 1.63.22 ।। 4विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ।

ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन् ।। 22 ।।

घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः ।

शिशिरे 1सलिलस्थायी रात्र्यहानि तपोधनः ।। 23 ।।

घर्मःग्रीष्मकालः । आकाशसंश्रयःवर्षवारणरहितदेशस्थः । रात्रयश्चाहानि च रात्र्यहानि, कृत्स्नमपि दिनमित्यर्थः ।। 23 ।।

(4 संप्रस्थितेषुङ.)

(1 सलिले शायीङ.ज) ।। 1.63.23 ।। 

 ।। 1.63.24,25 ।। एवं वर्षसहस्रं हि तपो घोरमुपागमत् ।

तस्मिन् सन्तप्यमाने तु विश्वामित्रे महामुनौ ।। 24 ।।

संभ्रमः सुमहानासीत् सुराणां वासवस्य च ।

रम्भामप्सरसं शक्रः सह सर्वैर्मरुद्गणैः ।

उवाचात्महितं वाक्यमहितं कौशिकस्य च ।। 25 ।।

आत्महितमिति । आत्मन्शब्द इन्द्रार्थः । एवमादावस्थले सर्गोच्छेदादृप्युपदिष्टसर्गसङ्ख्यातो ऽप्यधिकदर्शनं ।। 25 ।।

(एवं कथयतो ऽप्यस्य व्याख्यातुः अत्र सर्गविच्छेदः सम्मत एव । यत उत्तरत्र तथैव सर्गान् गणयति । पूर्वं चाह--'काम्डे विलाद्ये संस्थानं (77) इति । सर्वेषु कोशेष्वप्येवमेव दृश्यते । अनन्तरश्लोके च 'तिष्ठतु वा सर्गोच्छेदः' इत्याह ।) ।। 1.63.25 ।। 

 ।। 1.63.26 ।। सुरकार्यमिदं रंभे कर्तव्यं सुमहत् त्वया ।

लोभनं कौशिकस्येह काममोहसमन्वितम् ।। 26 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिषष्टितमः सर्गः

--

किमुवाचेत्यतःसुरकार्यमित्यादि । तिष्ठतु वा सर्गोच्छेदः, न तेन काचन हानिरर्थसिद्धौ । । 26 ।।

(मातृकामु एतत्स्थ्ले सर्गविच्छेदो लिखितः । 'सुरकार्यमिदं' इत्यादेर्व्याख्यानं तु अनन्तरसर्गे लिखितम् ।) ।। 1.63.26 ।। 

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिषष्टितमः सर्गः



Sanskrit Commentary by Govindaraja
पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् ।

अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः ।। 1.63.1 ।।

पुत्रविषयक्रूरशापदानेन क्रोधनिर्जयाभावान्न ब्रह्मर्षित्वसिद्धिरित्याह त्रिषष्टितमे--पूर्ण इत्यादि । व्रतस्नातं व्रतान्ते स्नातम्, समाप्तपुरश्चरणमिति यावत् । तपःफलचिकीर्षवः तपःफलं दातुमिच्छवः ।। 1.63.1 ।।



अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः ।

ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ।। 1.63.2 ।।

अब्रवीदिति । ऋषिस्त्वमसि पूर्वतपसा राजर्षिरसि इदानीमृषिरेवासि, अनेन राजपदाप्रयोगेण क्षत्रियत्वविश्लेषः कियान् कृत इति गम्यते ।। 1.63.2 ।।



तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् ।। 1.63.3 ।।

विश्वामित्रो महातेजा भूयस्तेपे महत्तपः ।। 1.63.4 ।।

विश्वामित्रो महातेजा भूयस्तेपे महत्तप इति । अत्र गायत्रीतृतीयाक्षरम् ।। 1.63.3,4 ।।



ततः कालेन महता मेनका परमाप्सराः ।

पुष्करेषु नरश्रेष्ठस्नातुं समुपचक्रमे ।। 1.63.5 ।।

अथास्य जितेन्द्रियत्वाभावख्यापनाय कथान्तरं प्रस्तौति--ततः कालेनेत्यादि । अप्सरश्शब्द एकवचनान्तोप्यस्ति । देवप्रेषितेति सिद्धम् ।। 1.63.5 ।।



तां ददर्श महातेजा मेनकां कुशिकात्मजः ।

रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ।। 1.63.6 ।।

दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् ।। 1.63.7 ।।

तामिति । तत्र सरसि स्नान्ती मेनका जलदमण्डलमध्यवर्तिनी विद्युदिव स्थितेति भावः ।।

1.63.6,7 ।।



अप्सरः स्वागतं ते ऽस्तु वस चेह ममाश्रमे ।

अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् ।। 1.63.8 ।।

इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ।। 1.63.9 ।।

अनुगृह्णीष्व मत्कामतापं शमयेत्यर्थः ।। 1.63.8,9 ।।



तस्यां वसन्त्यां वर्षाणि पञ्चपञ्च च राघव ।

विश्वामित्राश्रमे राम सुखेन व्यतिचक्रमुः ।। 1.63.10 ।।

तस्यामिति । पञ्चपञ्चचेति दशेत्यर्थः । सुखेन वसन्त्यामित्यन्वयः ।। 1.63.10 ।।



अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ।

सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः ।। 1.63.11 ।।

अथेति । सव्रीड इवेत्यत्र इवशब्दो वाक्यालङ्कारे ।। 1.63.11 ।।



बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन ।

सर्वं सुराणां कर्मैतत्तपोपहरणं महत् ।। 1.63.12 ।।

अहोरात्रापदेशेन गताः संवत्सरा दश ।

काममोहाभिभूतस्य विघ्नो ऽयं प्रत्युपस्थितः ।। 1.63.13 ।।

बुद्धिरित्यादि द्विकम् । अहोरात्रापदेशेन अहोरात्रतुल्यतया । अन्ते इतिकरणमध्याहार्यम् । इति बुद्धिरुत्पन्नेत्यन्वयः ।। 1.63.12,13 ।।



विनिश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ।

भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् ।। 1.63.14 ।।

मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः ।

उत्तरं पर्वतं राम विश्वामित्रो जगाम ह ।। 1.63.15 ।।

विनिश्वसन्नित्यादि द्विकम् । वेपन्तीं वेपमानाम् । मधुरैः त्वया किं कृतम् ? कामपरतन्त्रस्य ममैवापराधो ऽयमित्येवंरूपैरित्यर्थः । उत्तरं पर्वतं हिमवन्तम् ।। 1.63.14,15 ।।



स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः ।

कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् ।। 1.63.16 ।।

तस्य वर्षसहस्रं तु घोरं तप उपासतः ।

उत्तरे पर्वते राम देवतानामभूद्भयम् ।। 1.63.17 ।।

आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः ।

महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः ।। 1.63.18 ।।

देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।

अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ।। 1.63.19 ।।

स इति । नैष्ठिकीं व्रतसमापनपर्यन्ताम् । जेतुकामः इन्द्रियाणीति शेषः ।। 1.63.1619 ।।



महर्षे स्वागतं वत्स तपसोग्रेण तोषितः ।

महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक ।। 1.63.20 ।।

ब्रह्मणस्स वचः श्रुत्वा सर्वलोकेश्वरस्य ह ।

न विषण्णो न सन्तुष्टो विश्वामित्रस्तपोधनः ।। 1.63.21 ।।

प्राञ्जलिः प्रणतो भूत्वा सर्वलोकपितामहम् ।

प्रत्युवाच ततो वाचं विश्वामित्रो महामुनिः ।। 1.63.22 ।।

महत्त्वमित्यस्य विवरणम्--ऋषिमुख्यत्वमिति ।। 1.63.2022 ।।



महर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः ।

यदि मे भगवानाह ततो ऽहं विजितेन्द्रियः ।। 1.63.23 ।।

ततो ऽहं विजितेन्द्रियः यदि महर्षित्वं भवता दत्तं ततो ऽहं विजितेन्द्रियश्चास्मीत्यर्थः ।। 1.63.23 ।।



तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः ।

यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः ।। 1.63.24 ।।

विप्रस्िथतेषु देवेषु विश्वामित्रो महामुनिः ।

ऊर्द्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन् ।। 1.63.25 ।।

न तावत्त्वं जितेन्द्रियः विकारहेतुसन्निधानेपि यावन्न विकरोषि तावन्तं कालं तव जितेन्द्रियत्वं नास्तीत्यर्थः ।। 1.63.24,25 ।।



घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः ।

शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः ।। 1.63.26 ।।

एवं वर्षसहस्रं हि तपो घोरमुपागमत् ।। 1.63.27 ।।

आकाशसंश्रयः वर्षावरणरहितदेशस्थः ।। 1.63.26,27 ।।



तस्मिन् सन्तप्यमाने तु विश्वामित्रे महामुनौ ।

सम्भ्रमः सुमहानासीत् सुराणां वासवस्य च ।। 1.63.28 ।।

सम्भ्रमः किमस्मत्पदं काङ्क्षत इति अस्थाने भयशङ्का ।। 1.63.28 ।।



रम्भामप्सरसं शक्रस्सह सर्वैर्मरुद्गणैः ।

उवाचात्महितं वाक्यमहितं कौशिकस्य च ।। 1.63.29 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिषष्टितमः सर्गः ।। 63 ।।

अहितं कौशिकस्य चेत्यनेन तद्विषयवैरनिर्यातनार्थं च रम्भाप्रेरणमित्यपि गम्यते ।। 1.63.29 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रिषष्टितमः सर्गः ।। 63 ।।



Sanskrit Commentary by Mahesvara Tirtha
पूर्ण इति । व्रतस्नातं व्रतान्ते स्नातम् । तपःफलचिकीर्षवः तद्दातुकामाः ।। 1.63.1।।



अब्रवीदिति । ऋषिः त्वमसि, पूर्वतपसा राजर्षिरसि, इदानीमृषिरेवासीति भावः ।। 1.63.23।।



गायत्र्यास्तृतीयाक्षरं विश्वामित्र इत्यस्य श्लोकस्य प्रथमाक्षरेण वीत्यनेन सङ्गृह्णाति

विश्वामित्रो महातेजा इति ।। 1.63.45।।



तामिति । विद्युतं जलदे यथा, सरसि स्रान्ती मेनका जलदमण्डलवर्तिनी विद्युदिव स्थितेति भावः ।। 1.63.69।।



तस्यामिति । पञ्च पश्च दशेत्यर्थः ।। 1.63.1011।।



बुद्धिरिति । अहोरात्रापदेशेन अहोरात्रच्छद्मना अहोरात्रसादृश्येनेति यावत् ।। 1.63.1213।।



विनिश्वसन्निति । वेपन्तीम् वेपमानाम् ।। 1.63.1415।।



स इति । नैष्ठिकिं व्रतसमापनपर्यन्ताम् बुद्धिं व्यवसायात्मिकाम् ।। 1.63.1622।।



महर्षीति । ततो ऽहं विजितेन्द्रियः यदि महर्षित्वं भवता दत्तं ततो ऽहं विजितेन्द्रियश्चास्मीत्यर्थः ।। 1.63.23।।



तमिति । न तावत्त्वं जितेन्द्रियः, विकारहेतुसन्निधाने ऽपि यावन्न विकरोषि तावन्तं कालं तव जितेन्द्रियत्वं नास्तीति भावः ।। 1.63.2425।।



घर्मे ग्रीष्मे । आकाशसंश्रयः अनावृतदेशस्थः ।। 1.63.2629।।



इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां त्रिषष्टितमः सर्गः ।। 63 ।।



Sanskrit Commentary by Nagesa Bhatta
व्रतस्नातम् समाप्तव्रतम् । तपःफलचिकीर्षवस्तपःफलं दातुकामाः ।। 1.63.1 ।।



ऋषिस्त्वमसि । अत्र राजशब्दानुपादानेन क्षत्रजातिविश्लेषः सूचितः ।। 1.63.2,3 ।।



परमा रूपादिभिः सर्वोत्तमा । अप्सरा इत्यार्षम् ।। 1.63.4 ।।



तत्र सरसि । जलदे विद्युतमिव ।। 1.63.5 ।।



कन्दर्पकृतो दर्पो मदः ।। 1.63.6 ।।



अनुगृह्णीष्व । भोगदानेनेति शेषः । वरारोहा श्रेष्ठजघना ।। 1.63.7 ।।



पञ्च पञ्च दशवर्षाणि ।। 1.63.8,9 ।।



सामर्षा । देवेषु, विघ्नस्य तत्कृतत्वज्ञानात् ।। 1.63.10 ।।



तदाह सर्वमिति । अहोरात्रापदेशेनैकाहोरात्रतुल्यतया ।। 1.63.11,12 ।।



वेपन्तीम् वेपमानाम् । मधुरैर्मत्प्रार्थनया स्थितासीति तव न कश्चन दोष इत्यादिवाक्यैः । क्रोधस्य सङ्कल्पपूर्वं त्यक्तत्वादत्र शापादानं तेनास्य क्रोधजयो जात इत्युक्तम् ।। 1.63.13 ।।



ततस्तत्र बहुविघ्नदर्शनादुत्तरगमनम् । नैष्ठीकीं कामस्याप्यकरणं सङ्कल्प्यात्युत्कटब्रह्मचर्यविषयां बुद्धिम् दृढनिश्चयम् । जेतुकामः । काममिति शेषः ।। 1.63.14 ।।



कौशिकी विश्वामित्रभगिनी नदी ।। 1.63.15 ।।



उत्तरे पर्वते इत्येतत्पूर्वान्वयि । समागम्य । ब्रह्मणेति शेषः ।। 1.63.16 ।।



लभताम् । भगवन्निति शेषः ।। 1.63.17 ।।



देवप्रार्थनया महर्षिशब्देनैव सम्बोधयति महर्षे इति ।। 1.63.18 ।।



महत्त्वस्य विवरणमृषिमुख्यत्वमिति ।। 1.63.19 ।।



प्रत्युवाचेति । पितामहमिति शेषः । अतुलं सर्वोत्तमं ब्रह्मर्षिशब्दं मदभीष्टं स्वार्जितैः कर्मभिः प्राप्यं यदि यतो भगवान्नाह न वदति, ततो मन्ये ऽहं विजितेन्द्रियः । अत्र काकुः । न विजितेन्द्रिय इत्यर्थः । न तावदिति । विकारहेतुसन्निधाने विकाराभावे हि तत्त्वमिति भावः । न तावदिति लोकोक्तौ ।। 1.63.2022 ।।



घर्मे ग्रीष्मे । आकाशम् निरावरणदेशः ।। 1.63.2325 ।।



आत्महितमात्मा इन्द्रः ।। 1.63.26 ।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे त्रिषष्टितमः सर्गः ।। 63 ।।



Sanskrit Commentary by Sivasahaya
पूर्ण इति । वर्षसहस्रे वर्षाणि सहस्राणि यस्मिन् तस्मिन् त्रिसहस्रात्मके समये पूर्णे सत्येव व्रतस्नातं व्रतान्तस्नानविशिष्टं महामुनिं विश्वामित्रं तप:फलचिकीर्षव: विश्वामित्रतप:फलदानेच्छावन्त: सर्वे ब्रह्मादय: सुरा: अभ्यगच्छन् विश्वामित्रसम्मुखं प्राप्नुवन् । तुशब्द एवार्थे ।। 1.63.1 ।।



अब्रवीदिति । सुमहातेजा: ब्रह्मा सुरुचिरमतिरमणीयं वचो ऽब्रवीत् । तद्वचनमेवाह स्वार्जितै: स्वसम्पादितै: शुभै: कर्मभि: त्वमृषि: असि अतस्ते भद्रं कल्याणं पूर्वं विश्वामित्रतपसि राजर्षिरित्युक्तमिदानीं ऋषिरित्येतावन्मात्रमुच्यते तेनैतत्तपसा त्वत्क्षत्रियत्वं विच्छिन्नमिति ध्वनितम् ।। 1.63.2 ।।



तमिति । देवेशो ब्रह्मा तं विश्वामित्रमेवमुक्त्वा त्रिदिवं पुनरभ्यगात् महर्षिर्विश्वामित्रस्तु भूयो महत्तपस्तेपे एतेन पूर्णा तदीप्सितसिद्धिर्न जातेति ध्वनितम् ।। 1.63.3 ।।



तत इति । हे नरश्रेष्ठ तत: विश्वामित्रमहातप:प्रारम्भानन्तरं मेनका तदभिधा परमाप्सरा: पुष्करेषु महता कालेन स्नातुं समुपचक्रमे आजगाम अप्सरश्शब्दस्यैकत्वं त्वेतत्प्रायोनिर्देशादेव साधु ।। 1.63.4 ।।



तामिति । महातेजा: कुशिकात्मजो विश्वामित्र: रूपेणाप्रतिमामप्रतिमरूपविशिष्टां तां मेनकां तत्र पुष्करे जलदे मेघे विद्युतमिव ददर्श ।। 1.63.5 ।।



कन्दर्पेति । कन्दर्पदर्पवशग: कन्दर्पजनितमदवशं प्राप्त: मुनिर्विश्वामित्रस्तां मेनकामिदं वचनमब्रवीत् । तद्वचनमेवाह हे अप्सर: ते तव इदं स्वागतमस्तु अत एवेहास्मिन्ममाश्रमे एव त्वं वस । चशब्द एवार्थे ।। 1.63.6 ।।



अन्विति । मदनेन विमोहितं मामनुगृह्णीष्व मदीप्सितं साधयेत्यर्थ: । ते भद्रं कल्याणमित्यनेन प्रकारेणोक्ता विश्वामित्रेण प्रार्थिता सा वरारोहा मेनका तत्र विश्वामित्राश्रमे एव वासमकरोत् । अथशब्द एवार्थे ।। 1.63.7 ।।



तपस इति । हे राघव हि अयं मेनकासमागम: तपस: विश्वामित्रतपश्चरणस्य महाविघ्नो विश्वामित्रमुपागमत् प्राप्नोत् अत एव हे राम विश्वामित्राश्रमे तस्यां मेनकायां वसन्त्यां सत्यां पञ्च पञ्च दशेति यावत् वर्षाणि सुखेन व्यतिचक्रमु: । सार्धश्लोक एकान्वयी ।। 1.63.8 ।।



अथेति । तस्मिन्दशवर्षात्मके काले गते सत्येव संवृत्त: राम्यक् वृत्तं वर्तनं यस्य स महामुनिर्विश्वामित्र: सव्रीड: अप्सर:सङ्गहेतुकव्रीडासहित: अत एव चिन्ताशोकपरायण आसेति शेष: । इवशब्द एवार्थे । हे रघुनन्दन अथानन्तरं मुनेर्विश्वामित्रस्य सामर्षा अमर्षसहिता बुद्धि: समुत्पन्ना । सार्धश्लोक एकान्वयी ।। 1.63.9,10 ।।



अमर्षसूचकं विश्वामित्रवचनं वर्णयन्नाह सर्वमिति । तपोपहरणं मत्तपोध्वंसकमेतत्सर्वं महत्कर्म सुराणामेव अत एव काममोहाभिभूतस्य कामजनिताविवेकाक्रान्तस्य मम दश संवत्सरा: अहोरात्रापदेशेन एकाहोरात्रतुल्यतया गता: तपोध्वंसकस्त्रीसङ्गेन व्यतीता: । अयं स्त्रीसङ्गेन कालापगम: विघ्न: प्रत्युपस्थित: प्राप्त: एवं पश्चात्तापेन स नि:श्वसन् मुनिवरो विश्वामित्र: दु:खित आसीदिति शेष: । श्लोकद्वयमेकान्वयि । सर्वं वाक्यं सावधारणं भवतीति न्यायादेवकारलाभ: ।। 1.63.11,12 ।।



भीतामिति । हे राम भीतां सम्भावितमुनिशापभयविशिष्टामत एव वेपन्तीं प्रकम्पविशिष्टामत एव प्राञ्जलिं प्रणतिसूचकबद्धयुगुलकरां स्थितां मेनकामप्सरसं दृष्ट्वा मधुरै: वाक्यै: तव नापराध इत्यादिवचनैर्विसृज्य कुशिकात्मजो विश्वामित्र: उत्तरं पर्वतं जगाम ह प्रसिद्धमेतत् । सार्धश्लोक एकान्वयी ।। 1.63.13 ।।



स इति । जेतुकाम: काममभिभवितुमिच्छु: महायशा: स विश्वामित्र: नैष्ठिकीमतिदृढां बुद्धिं कृत्वा कौशिकीतीरमासाद्य प्राप्य सुदारुणमतिदुष्करं तपस्तेपे । पूर्वोत्तरार्धोत्तरपूर्वार्धयोरेकत्रान्वय: ।। 1.63.14 ।।



तस्येति । हे राम उत्तरे पर्वते वर्षसहस्राणि घोरं तप उपासतस्तस्य विश्वामित्रस्य सम्बन्धि देवतानां देवताकर्तृकं भयमभूत् ।। 1.63.15 ।।



अत एव सर्षिगणा: ऋषिगणसहिता: सर्वे सुरा: आगम्य ब्रह्मसमीपं प्राप्पय आमन्त्रयन् प्रार्थयन्त ।। 1.63.16 ।।



तत्प्रार्थनामेवाह महर्षीति । अयं कुशिकात्मज: महर्षिशब्दं साधु यथा स्यात्तथा लभताम् एतेन महर्षिपदलाभमन्तरा एतत्तपोनिवृतिर्न भविष्यतीति देवतानां निश्चयो ध्वनित: । सर्वलोकपितामहो ब्रह्मा देवतानां वच: श्रुत्वा तपोधनं विश्वामित्रं मधुरं वाक्यमब्रवीत् ।। 1.63.17 ।।



तद्वचनमेवाह हे महर्षे हे वत्स स्वागतं तवात्रागमनं समीचीनमित्यर्थ: । अत एव हे कौशिक तवोग्रेण तपसा हर्षितो हर्षं प्रापितो ऽहं महत्त्वं यदृषिमुख्यत्वं तत्तुभ्यं ददामि । तवेत्युभयान्वयि पूर्वश्लोकोत्तरार्धोत्तरश्लोकपूर्वार्धयोरेकत्रान्वय: । एवं पूर्वत्रोत्तरत्रापि बोध्यम् ।। 1.63.18 ।।



बह्मण इति । तपोधनो महायशा: विश्वामित्र: ब्रह्मणो वच: श्रुत्वा प्राञ्जलि: प्रयतो नियतचित्तश्च भूत्वा पितामहं प्रत्युवाच पितामहमिति शेष: ।। 1.63.19 ।।



तद्वचनमेवाह महर्षीति । स्वार्जितै: स्वसम्पादितै: शुभै: कर्मभिरतुलं महर्षिशब्दं मे मह्यं यदि भगवानाह ततस्तस्माद्धेतो: अहं विजितेन्द्रियो ऽस्मीति शेष: । तेन तस्येन्द्रियजयजनितो गर्वो ध्वनित: ।। 1.63.20 ।।



तद्गर्वनिरासहेतुकां ब्रह्मोक्तिं वर्णयन्नाह तमिति । महातेजा: ब्रह्मा तं विश्वामित्रमुवाच । तद्वचनमेवाह हे नरशार्दूल तावत्पूर्वं विषयसान्निध्यसमये त्वं जितेन्द्रियो न अत: त्वं यतस्व इत्युक्त्वा त्रिदिवं गतो ब्रह्मेति शेष: ।। 1.63.21 ।।



विप्रेति । देवेषु ब्रह्मादिषु विप्रस्थितेषु सत्सुतपश्चरन् सन् ऊर्ध्वबाहु: निरालम्ब: गृहाद्यालम्बरहित: वायुभक्ष: वायुमात्रभक्षणकर्ता महामुनिर्विश्वामित्र आसीदिति शेष: ।। 1.63.22 ।।



तत्तप एव वर्णयन्नाह धर्म इति । तपोधन: विश्वामित्र: धर्मे ग्रीष्मे पञ्चतपा: भूत्वा वर्षासु आकाशसंश्रय: वृक्षाद्याश्रयरहित इत्यर्थ: । भूत्वा शिशिरे सलिले स्थायी च भूत्वा रात्र्यहानि निनायेति शेष: ।। 1.63.23 ।।



एवमिति । एवमनेन प्रकारेण वर्षसहस्राणि त्रिसहस्रवर्षपर्यन्तं घोरं तप उपागमत् अकरोत् ।। 1.63.24 ।।



तस्मिन्निति । महामुनौ तस्मिन् विश्वामित्रे तप: सन्तप्यमाने सति सुराणां वासवस्येन्द्रस्य च महान् सन्ताप आसीत् ।। 1.63.25 ।।



रम्भामिति । सर्वैर्मरुद्गणै: सह शक्र: इन्द्र: आत्महितं कौशिकस्य विश्वामित्रस्य अहितं हितभिन्नं च वाक्यमुवाच ।। 1.63.26 ।।



इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे त्रिषष्टितम: सर्ग: ।। 1.63 ।।