Content

एवं वर्षसहस्रस्य दीक्षां स मुनिपुङ्गव:।।1.64.20।।

चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन।

Translation

रघुनन्दन O Rama, स: मुनिपुङ्गव: that eminent ascetic, एवम् in this way, लोके in this world, अप्रतिमाम् unparalleled, वर्षसहस्रस्य दीक्षाम् religious practices for a thousand years, प्रतिज्ञां vow, चकार made.

"O Descendant of Raghu in this way that eminent ascetic took an unprecedented vow to practise penance for a thousand years".
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे चतुष्षष्टितमस्सर्ग:।।
Thus ends the sixtyfourth sarga of Balakanda of the holy Ramayana the first epic composed by sage Valmiki.
Sanskrit Commentary by Amruta Kataka
अथ चतुष्षष्टितमः सर्गः

[रम्भाशापः]

 ।। 1.64.1 ।। सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया ।

लोभनं कौशिकस्येह काममोहसमन्वितम् ।। 1 ।।

लोभनंप्रतारणम् । काममोहेन--कामजनितचित्तवैवश्येन समन्वितम् ।। 1.64.1 ।। 

 ।। 1.64.2 ।। तथोक्ता सा ऽप्सरा राम सहस्राक्षेण धीमता ।

व्रीळिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् ।। 2 ।।

व्रीळितेति । अशक्यार्थतो ऽसमार्थ्यवचननिमित्ता व्रीळा ।। 1.64.2 ।। 

 ।। 1.64.3 ।। अयं सुरपते घोरो विश्वामित्रो महामुनिः ।

क्रोधमुत्सृजते घोरं मयि देव न संशयः ।। 3 ।।

प्रसादमिति । एवमनियोगरूपमित्यर्थः ।। 1.64.3 ।। 

 ।। 1.64.4 ।। 1ततो हि मे भयं, देव प्रसादं कर्तुमर्हसि ।

तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् ।। 4 ।।

माभैषी रम्भे भद्रमिति । गुरुरार्षः ।। 4 ।।

(1 एतदनन्तरं--एवमुक्तस्तया राम रम्भया भीतया तदा ।। इत्यधिकंङ.ज) ।। 1.64.4 ।। 

 ।। 1.64.5 ।। 2मा भैषी रम्भे भद्रं ते, कुरुष्व मम शासनम् ।

कोकिलो हृदयग्राही 3माधवे रुचिरद्रुमे ।। 5 ।।

अहं कोकिलो भूत्वा माधवे--वसन्ते, स्थिते सतीति शेषः ।। 5 ।।

(2 माभैषीरत्वं वरारोहेझ.)

( 'मा भैषि रंभे' इत्यत्र आर्षो ह्रस्वःगो) ।। 1.64.5 ।। 

 ।। 1.64.6 ।। अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः ।

त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् ।। 6 ।।

रूपंसौन्दर्यं बहुभिः--1हावभावादिभिः गुणैरुपेतं, मत्वथर्यियो ऽजन्तः । भेदयस्वकाममोहोत्पादनेन तपसश्चित्तं चालय ।। 6 ।।

(1 हासभावाक.ग) ।। 1.64.6 ।। 

 ।। 1.64.7 ।। तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम् ।

सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् ।। 7 ।।

ललितासुन्दरी ।। 1.64.7 ।। 

 ।। 1.64.8 ।। 2लोभयामास ललिता विश्वामित्रं शुचिस्मिता ।

कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् ।। 8 ।।

विश्वामित्रसंप्रहर्षःकोकिलस्वनानुभवजसन्तोषः । ततःतस्मादेव हेतोः ।। 8 ।।

(2 एतदनन्तरं--कोकिलो रुचिरग्राही भेदयामास वै मुनिम्--इत्यधिकंझ) ।। 1.64.8 ।। 

 ।। 1.64.9 ।। संप्रहृष्टेन मनसा तत एनामुदैक्षत ।

अथ तस्य च शब्देन गीतेनाप्रतिमेन च ।। 9 ।।

तस्यकोकिलस्य वसन्तरूपस्य । सन्देहमिति । इयं स्वेच्छया समागता आहोस्विदिन्द्रादिप्रेरिता वेत्येवं रूपम् ।। 9 ।।

(पूर्वं मेनकाविषयानुभवात्, किमियं मत्तपोनाशनोद्देशेनैव समागता स्यादिति संशयः) ।। 1.64.9 ।। 

 ।। 1.64.10 ।। 3दर्शनेन च रम्भाया मुनिः सन्देहमागतः ।

सहस्राक्षस्य 1तत्कर्म विज्ञाय मुनिपुङ्गवः ।। 10 ।।

तत्कर्मतस्या लोभनादिकर्म सहस्राक्षस्य प्रेरणामूलमिति विज्ञाययुक्त्या निश्चित्य रम्भां शशापेति ।। 10 ।।

(एतेनरंभाया इन्द्रस्य प्राणप्रियात्वेन तच्छापतो इन्द्रस्यापि दुःखं सूचितमितिशि.)

(1 तत्सर्वंङ) ।। 1.64.10 ।। 

 ।। 1.64.11 ।। रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः ।

यन्मां 2लोभयसे रम्भे कामक्रोधजयैषिणम् ।। 11 ।।

शैलीशिलाप्रतिमा ।। 11 ।।

(2 क्रोधयसेङ) ।। 1.64.11 ।। 

 ।। 1.64.12 ।। दश वर्षसहस्राणि शैली स्थास्यसि दुर्भगे

ब्राह्मणः सुमहातेजाः तपोबलसमन्वितः ।। 12 ।।

ननु स्वस्वामिनियोगतः प्रवृत्तायाः रम्भायाः को ऽपराधः ? उच्यते । अत एव सो ऽपि अज्ञानात् बतैवं वृथा शापः प्रवृत्त इति पश्चात्तापसहितस्तामनुगृह्णाति--ब्राह्मण इत्यादि । ब्रह्मपुत्रः, वसिष्ठ इति यावत् ।। 12 ।।

(गोविन्दराजीयानुरोधेनैवमुक्तम्) ।। 1.64.12 ।। 

 ।। 1.64.13 ।। उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् ।

एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः ।। 13 ।।

सन्तापंशापनिमित्तपश्चात्तापम् ।। 13 ।।

(तोव्ययजन्यदुःखेन संतापंति) ।। 1.64.13 ।। 

 ।। 1.64.14 ।। अशक्नुवन् धारयितुं 3क्रोधं, सन्तापमागतः ।

तस्य शापेन महता रम्भा शैली तदा ऽभवत् ।। 14 ।।

अथ कन्दर्पः तस्य महर्षेः वचनं श्रुत्वा निर्गतः, स इन्द्रश्च महर्षेः वचनं श्रुत्वेति शेषः, निर्गतः ।। 14 ।।

(3 कोपसंतापङ) ।। 1.64.14 ।। 

 ।। 1.64.15 ।। वचः श्रुत्वा च कन्दर्पो महर्षेः, स च निर्गतः ।

कोपेन सुमहातेजास्तपो ऽपहरणे कृते ।। 15 ।।

इन्द्रियैरजितैरिति । उक्तरीत्या कामक्रोधाभ्यां 2हृत्वादेवाजितत्वं । तैर्हेतुभिरित्यर्थः । शान्तिंनीरागद्वेषनिजात्मप्रतिष्ठालक्षणां ।। 15 ।।

(मेनकाप्रसङ्गे कामः, रंभाप्रसङ्गे क्रोध इत्यर्थः ।)

(2 हतत्वाग.) ।। 1.64.15 ।। 

 ।। 1.64.16 ।। 1इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः ।

बभूवास्य 3पुनश्चिन्ता तपो ऽपरहणे कृते ।। 16 ।।

4 नैव क्रोधं गमिष्यामि न च वक्ष्ये कथञ्चन ।

अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि ।। 17 ।।

न च वक्ष्य इति । शापवचनमिति शेषः ।। 17 ।।

(1 इन्द्रियैः क्षुभितंङ)

(3 मनश्चिन्ताङ)

(4 नैवंङ.ज) ।। 1.64.17 ।। 

 ।। 1.64.18 ।। अहं विशोषयिष्यामि ह्यात्मानं विजितेन्द्रियः ।

तावत्, यावद्धि मे प्राप्तं ब्राह्मण्यं 5तपसा ऽ ऽर्जितम् ।। 18 ।।

आत्मानमिति । सेन्द्रियग्रामं शरीरमित्यर्थः ।। 18 ।।

(5 तपसोर्जितम्ङ.ज) ।। 1.64.18 ।। 

 ।। 1.64.19 ।। अनुच्छ्वसन्नभुञ्जानः तिष्ठेयं शाश्वतीस्समाः ।

न हि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः ।। 19 ।।

मूर्तयःशिरःकरचरणाद्यवयवाः न क्षयं यास्यन्ति अनुच्छ्वासाभोजनयोः तपो ऽर्थत्वात् तद्बलेन स्थास्यन्त्येवेति शेषः ।। 1.64.19 ।। 

 ।। 1.64.20 ।। एवं वर्षसहस्रस्य दीक्षां स मुनिपुङ्गवः ।

चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन ।। 20 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुष्षष्टितमः सर्गः

--

एवं दीक्षामिति । अनुछ्वासाभोजनसङ्कल्पमुद्दिश्येति शेषः । अप्रतिमां--निस्तुलां प्रतिज्ञां सर्वथा एवं करिष्यामीत्यध्यवस्यति स्मेत्यर्थः । नख (20) मानः सर्गः ।। 20 ।।

( वर्षसहस्रस्यवर्षसहस्रसम्बन्धिनीं दीक्षांगो. वर्षसहस्रस्य दीक्षां निर्वर्तयितुं अप्रतिमां प्रतिज्ञां चकारशि. अप्रतिमां प्रतिज्ञां दीक्षां च चकार इति वा ऽर्थः ।) ।। 1.64.20 ।। 

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुष्षष्टितमः सर्गः



Sanskrit Commentary by Govindaraja
सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया ।

लोभनं कौशिकस्येह काममोहसमन्वितम् ।। 1.64.1 ।।

अथ रम्भया तपोविघ्नश्चतुःषष्टितमे--सुरकार्यमित्यादि । लोभनं प्रलोभनम् । काममोहेन कामकृतवैचित्त्येन । समन्वितं युक्तम् । इह अस्मिन् काले । कौशिकप्रलोभनरूपं सुमहत् सुरकार्यं

कर्त्तव्यमित्यन्वयः ।। 1.64.1 ।।



तथोक्ता साप्सरा राम सहस्राक्षेण धीमता ।

व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् ।। 1.64.2 ।।

व्रीडिता अशक्यार्थवचननिमित्तलज्जावती ।। 1.64.2 ।।

अयं सुरपते घोरो विश्वामित्रो महामुनिः ।

क्रोधमुत्सृजते घोरं मयि देव न संशयः ।। 1.64.3 ।।

ततो हि मे भयं देव प्रसादं कर्तुमर्हसि ।

एवमुक्तस्तया राम रम्भया भीतया तदा ।

तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् ।। 1.64.4 ।।

उत्सृजते उत्स्रक्ष्यति । ततः तस्मात् क्रोधोत्सर्जनात् । मे मम । भयं भीतिः । प्रसादं नियोगनिवृत्तिरूपम् ।। 1.64.3,4 ।।



मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम् ।। 1.64.5 ।।

माभैषि रम्भे इत्यत्र आर्षो ह्रस्वः ।। 1.64.5 ।।



कोकिलो हृदयग्राही माधवे रुचिरद्रुमे ।

अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः ।। 1.64.6 ।।

कोकिल इति । अहं कोकिलो भूत्वा माधवे वसन्ते सति स्थास्यामि ।। 1.64.6 ।।



त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् ।

तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम् ।। 1.64.7 ।।

रूपं सौन्दर्यम् । बहुगुणं बहवः शृङ्गारचेष्टारूपा गुणा यस्य तथोक्तम् । भेदयस्व चलचित्तं कारय ।। 1.64.7 ।।



सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् ।

लोभयामास ललिता विश्वामित्रं शुचिस्मिता ।। 1.64.8 ।।

सेति । ललिता सुन्दरी ।। 1.64.8 ।।



कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् ।

सम्प्रहृष्टेन मनसा तत एनामुदैक्षत ।। 1.64.9 ।।

वल्गु मनोहरम् । सम्प्रहृष्टेन कोकिलरवश्रवणजसन्तोषवता ।। 1.64.9 ।।



अथ तस्य च शब्देन गीतेनाप्रतिमेन च ।

दर्शनेन च रम्भाया मुनिः सन्देहमागतः ।। 1.64.10 ।।

अथेति । तस्य कोकिलस्य । गीतेन रम्भाया इत्यनुषज्यते । सन्देहं सहस्राक्षप्रेरिता स्वयमागता

वेति ।। 1.64.10 ।।



सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुङ्गवः ।

रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः ।। 1.64.11 ।।

तत् रम्भाप्रलोभनम् । सहस्राक्षस्य कर्मेति विज्ञाय सङ्गीतादिप्रलोभनेन हेतुना निश्चित्य ।। 1.64.11 ।।



यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् ।

दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ।। 1.64.12 ।।

शैलीशिलाप्रतिमा । दुर्भगे दुष्टप्रयत्ने "भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु" इत्यमरः ।। 1.64.12 ।।



ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः ।

उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् ।। 1.64.13 ।।

स्वामिपरतन्त्रायाः किमस्याः शापेनेति पश्चात्तापेनानु गृह्णाति--ब्राह्मण इति । ब्राह्मणो ब्रह्मपुत्रो वसिष्ठ इत्याहुः ।। 1.64.13 ।।



एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः ।

अशक्नुवन् धारयितुं क्रोधं सन्तापमागतः ।। 1.64.14 ।।

तस्य शापेन महता रम्भा शैली तदाभवत् ।। 1.64.15 ।।

सन्तापं शापनिमित्तपश्चात्तापम् ।। 1.64.14,15 ।।



वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः ।। 1.64.16 ।।

वचः रम्भाशापरूपम् । स च इन्द्रश्च ।। 1.64.16 ।।



कोपेन सुमहातेजास्तपोपहरणे कृते ।

इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः ।। 1.64.17 ।।

इन्द्रियैरजितैरिति । उक्तरीत्या कामक्रोधाहतत्वादिति भावः । इन्द्रियैः हेतुभिः आत्मनः मनसः । शान्तिं दुःखोपशमम् ।। 1.64.17 ।।



बभूवास्य मनश्चिन्ता तपोपहरणे कृते ।। 1.64.18 ।।

बभूवेति । मनश्चिन्ता सङ्कल्पः ।। 1.64.18 ।।



नैव क्रोधं गमिष्यामि न च वक्ष्ये कथञ्चन ।

अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि ।। 1.64.19 ।।

नैवेत्यादि । न च वक्ष्ये कथञ्चन मौनमेव करिष्यामीत्यर्थः । नोच्छ्वसिष्यामि केवलं कुम्भकं करिष्यामीत्यर्थः । उच्छ्वासेन खलु क्रोधादयो भविष्यन्तीति भावः ।। 1.64.19 ।।



अहं विशोषयिष्यामि ह्यात्मानं विजितेन्द्रियः ।

तावद्यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम् ।

अनुच्छ्वसन्नभुञ्जानस्तिष्ठेयं शाश्वतीः समाः ।। 1.64.20 ।।

अहमिति । यावत्पर्यन्तं ब्राह्मण्यं प्राप्तं भविष्यति तावत्पर्यन्तम्, आत्मानं शरीरं शोषयिष्यामि ।। 1.64.20 ।।



न हि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः ।। 1.64.21 ।।

न हीति । मूर्तयः शरीरावयवाः । क्षयं न यास्यन्ति, तपःप्रभावादिति भावः ।। 1.64.21 ।।



एवं वर्षसहस्रस्य दीक्षां स मुनिपुङ्गवः ।

चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन ।। 1.64.22 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःषष्टितमः सर्गः ।। 64 ।।

एवमिति । वर्षसहस्रस्य वर्षसहस्रसम्बन्धिनीं वर्षसहस्रानुयायिनीम् । दीक्षाम् अनुच्छ्वासाभोजनसङ्कल्पम् उद्दिश्येति शेषः । अप्रतिमां निस्तुलाम् । प्रतिज्ञां एवमेव सर्वदा करिष्यामीत्यध्यवसायं चकार ।। 1.64.22 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुःषष्टितमः सर्गः ।। 64 ।।



Sanskrit Commentary by Mahesvara Tirtha
सुरकार्यमिति । लोभनं प्रलोभनम् । कामजनितेन मोहेन आन्ध्येन समन्वितः ।। 1.64.12।।



अयमिति । उत्सृजते उत्स्रक्ष्यते ।। 1.64.3।।



ततः क्रोधात् मे भयं भीतिः ।। 1.64.45।।



कोकिल इति । हृदयग्राही कोकिलः । माधवे वसन्ते सति ।। 1.64.6।।



त्वमिति । रूपं सोन्दर्यम् । बहुगुणं लोकोत्तरम् । भेदयस्व प्रलोभयस्व ।। 1.64.78।।



कोकिलस्येति । वल्गु मनोहरम् ।। 1.64.9।।



अथेति । तस्य कोकिलस्य शब्देन कूजितेन च रम्भाया गीतेन दर्शनेन च सन्देहम् एतत् किन्निमित्तमिति संशयं गतः ।। 1.64.1011।।



यदिति । शैली शिलारूपा दुर्भगे दुष्टप्रयत्ने ।। 1.64.1213।।



अशक्रुवन् क्रोधं धारयितुं शमयितुमशक्तः सन्, शप्त्वा सन्तापं गतः ।। 1.64.1415।।



वच इति । महर्षेर्वचः रम्भाशापवचः श्रुत्वा कन्दर्पः स च इन्द्रश्च निर्गतः ।। 1.64.16।।



कोपेनेति । अजितैरिन्द्रिर्यैर्हेतुभिः आत्मनः मनसः, शान्तिं दुःखोपशमनम् । न लेभे ।। 1.64.1719।।



अहमिति । आत्मानं देहम् । तावद्विशोषयिष्यामि यावत् यावता कालेन ब्राह्मण्यं प्राप्तं भविष्यति । अनुच्छ्वसन् उच्छ्वासमकुर्वन्, शाश्वतीः समाः बहून् संवत्सरान् तिष्ठेयमिति, मनश्चिन्ता मनःसङ्कल्पो बभूवेत्यन्वयः ।। 1.64.20।।



न हीति । मूर्तयः अवयवाः ।। 1.64.21।।



एवमिति । वर्षसहस्रस्य दीक्षां वर्षसहस्रानुवर्तिनीं दीक्षाम् अनुच्छ्वसनादिव्रतसङ्कल्परूपाम् ।

प्रतिज्ञां प्रतिज्ञाताम्, चकार ।। 1.64.22।।



इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां चतुःषष्टितमः सर्गः ।। 64 ।।



Sanskrit Commentary by Nagesa Bhatta
लोभनम् प्रतारणम् । काममोहेन कामज्वलितचित्तवैवश्येन समन्वितम् युक्तम् ।। 1.64.1 ।।



व्रीडिता असामर्थ्यवचननिमित्ता व्रीडा ।। 1.64.2 ।।



"उत्सृज्यते" इति पाठे ऽप्युत्स्रक्ष्यत इत्येवार्थः ।। 1.64.3 ।।



हि यतो ऽतः प्रसादमेवंनियोगाभावरूपम् ।। 1.64.4,5 ।।



माधवे वसन्ते कोकिलो भूत्वाहमित्यन्वयः ।। 1.64.6 ।।



बहुगुणम् हावभावादिगुणोपेतम् । रूपम् रूपपरिष्कारम् । भेदयस्व कामोत्पादनेन तपसश्चालय ।। 1.64.7 ।।



ललिता ललिताख्यभावयुक्ता ।। 1.64.8 ।।



वल्गु मनोहरम् । कमनीयविषयलाभाच्चेतसो हर्षः ।। 1.64.9 ।।



तस्य कोकिलस्य । गीतेन । रम्यया इति शेषः । सन्देहं स्वत एवास्या यदृच्छयागमनम्, उतेन्द्रप्रेरिताया मत्तपोभङ्गार्थमित्येवंरूपम् ।। 1.64.10 ।।



तत्सर्वं रम्भागमनं तत्कृतप्रलोभनं च सहस्राक्षप्रेरणामूलमिति युक्त्या ध्यानेन च विज्ञाय निश्चित्य रम्भां शशापेत्यन्वयः ।। 1.64.11 ।।



शैली शिलाप्रतिमारूपा ।। 1.64.12 ।।



यद्यपि स्वामिनियोगतः प्रवृत्ताया रम्भायाः शापदानमनुचितम्, इन्द्र एव तद्दानमुचितम्, तथापि क्रोधावेशेन युक्तायुक्तविवेकाभावः । अत एव पश्चाद्विवेकं लब्ध्वा तामनुगृण्हाति ब्राह्मण इति । वसिष्ठ इत्यर्थ इति कतकः । एतेन कामादपि क्रोधो दुर्जय इति सूचितम् ।। 1.64.13 ।।



आत्मनः कोपं धारयितुमशक्नुवंस्तां शप्त्वा तपोव्ययजन्यदुःखेन सन्तापं पश्चात्तापमुपागत इति शेषः ।। 1.64.14 ।।



महर्षेर्वचः श्रुत्वा कन्दर्पः स च इन्द्रश्च निर्गत इत्वन्वयः ।। 1.64.15 ।।



कोपेन चात्कामेन च तपोपहरणे कृते सति कामक्रोधहतत्वादेवाजितैरिन्द्रियैरित्यन्वयः । आपाततो रम्भादर्शनप्रवृत्त्या कामेनातितपःक्षयः । आत्मनो मनसः शान्तिम् दुःखोपशमम् ।। 1.64.16 ।।



न च वक्ष्ये । शापादिवचनमिति शेषः ।। 1.64.17 ।।



आत्मानम् शरीरम् ।। 1.64.18 ।।



यावद्यावता कालेन ब्राह्मण्यं प्राप्तं भवेत्तावच्छाश्वतीः समा बहून्वत्सरान् ।। 1.64.19 ।।



मूर्तयः शरीरावयवाः । तपोर्थत्वादनुच्छ्वासाभोजनयोस्तद्बलेन स्थास्यन्त्येवेति भावः । दीक्षामनुच्छ्वासाभोजने उद्दिश्य । अप्रतिमां प्रतिज्ञां सर्वथैवं करिष्य इत्यध्यवसायम् ।। 1.64.20 ।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे चतुःषष्टितमः सर्गः ।। 64 ।।



Sanskrit Commentary by Sivasahaya
इन्द्रवचनमेवाह सुरेति । हे रम्भे इहास्मिन् समये काममोहसमन्वितं कामजनितवैचित्यविशिष्टं यथा भवति तथा कौशिकस्य लोभनं वञ्चनमिदं सुमहत् सुरकार्यं त्वया कर्तव्यम् ।। 1.64.1 ।।



तथेति । हे राम धीमता सहस्राक्षेण तथा तेन प्रकारेण उक्ता व्रीडिता अशक्यकार्यकर्मकाप्रत्याख्यातव्येन्द्रज्ञापनेन लज्जिता सा रम्भा अप्सरा: अप्सरस: प्राञ्जलिर्भूत्वा सुरेश्वरं प्रत्युवाच ।। 1.64.2 ।।



तद्वचनमेवाह अयमिति । हे सुरपते हे देव घोर: अतितीक्ष्णस्वभावो ऽयं महामुनिर्विश्वामित्र: मयि घोरं क्रोधमुत्स्रक्ष्यते संशय: अस्मिन् विषये सन्देहो न कार्य: । 'उत्सृजते' इति भूषणकृत्पाठ: ।। 1.64.3 ।।



तत इति । हे देव ततस्तच्छापादेव मे भयमस्त्यत: प्रसादमकर्तव्यनियोगापनयनेन प्रसन्नतां कर्तुं त्वमर्हसि । हे राम भीतया तया रम्भया एवमनेन प्रकारेण सभयं यथा स्यात्तथोक्त: सहस्राक्ष: इन्द्र: वेपमानां कृताञ्जलिं तां रम्भां तदा तत्प्रार्थनोत्तरसमये उवाच । सार्ध: श्लोक एकान्वयी ।। 1.64.4 ।।



तद्वचनमेवाह मेति । हे रम्भे त्वं मम शासनं कुरुष्व मा भैषी: भयं न प्राप्नुहि ते भद्रम् । भयाभावे हेतुं वदन्नाह कोकिल इति । माधवे वसन्ते रुचिरद्रुमे रमणीयतरौ हृदयग्राही चित्तापकर्षक: कोकिल: स्थास्यतीति शेष: । एतेन वसन्तर्तुरपि तदानीं स्थित: प्राप्स्यति वेति ध्वनितम् । अर्धद्वयमेकान्वयि ।। 1.64.5 ।।



अहमिति । कन्दर्पसहितो ऽहं तव पार्श्वत: त्वत्समीपे स्थास्यामि अत: बहुगुणमनेकविधकटाक्षादिविशिष्टमत एव परमभास्वरं रूपं स्वशरीरं कृत्वा तपस्विनं तमृषिं कौशिकं हे रम्भे त्वं भेदयस्व तच्चित्तापकर्षणं कुरुष्वेत्यर्थ: । सार्धश्लोक एकान्वयी ।। 1.64.6,7 ।।



सेति । तस्येन्द्रया वचनं श्रुत्वा अत एवानुत्तमं रूपं कृत्वा ललिता अतिसौन्दर्यविशिष्टा शुचिस्मिता सा रम्भा विश्वामित्रं लोभयामास ।। 1.64.8 ।।



कोकिलस्येति । व्याहरत: कूजत: कोकिलस्य वल्गुस्वनं मनोहरशब्दं स विश्वामित्र: शुश्राव । ततस्तच्छब्दश्रवणानन्तरमेनां रम्भां सम्प्रहृष्टेनात्यन्तहर्षविशिष्टेन मनसा उदैक्षत अपश्यत् ।। 1.64.9 ।।



अथेति । अथ रम्भादर्शनानन्तरमेव तस्य कोकिलस्य शब्देन अप्रतिमेनोपमारहितेन रम्भाया गीतेन च दर्शनेन च मुनिर्विश्वामित्र: सन्देहं स्वतो ऽस्या आगमनं परतो वेति संशयपूर्वकविचारम् आगत: प्राप्त: । एकश्चशब्द एवाथे ।। 1.64.10 ।।



सहस्राक्षस्येति । सहस्राक्षस्य तत् रम्भाप्रेषणादि कर्म विज्ञाय क्रोधसमाविष्ट: कुशिकात्मज: मुनिपुङ्गवो विश्वामित्र: रम्भां शशाप । एतेन रम्भावियोगे इन्द्रस्या ऽप्यतिदु:खं भविष्यतीति हेतुर्ध्वनित: तेन रम्भाया इन्द्रप्राणप्रियात्वं व्यक्तम् ।। 1.64.11 ।।



तच्छापमेवाह यदिति । हे रम्भे हे दुर्भगे कामक्रोधजयैषिणं मां यत्त्वं लोभयसे तस्मात् दशवर्षसहस्राणि शैली शिलामूर्ति: सती त्वं स्थास्यसि ।। 1.64.12 ।।



शापदानोत्तरं शान्तिप्राप्त्या तामनुगृह्णन्नाह तपोबलसमन्वित: अत एव महातेजा: स प्रसिद्धो ब्राह्मणो ब्रह्मपुत्रो वशिष्ठ: हे रम्भे मत्क्रोधकलुषीकृतां मत्क्रोधाय कलुषीकृतं कलुषीकरणं

पापाचरणमिति यावत् यस्यास्ताम् । किञ्च मत्क्रोधेन कलुषीकृतां पापाचरणफलं प्रापितां त्वामुद्धरिष्यति त्वत्स्वरूपं प्रापयिता ।। 1.64.13 ।।



एवमिति । कोपं धारयितुं नियन्तुमशक्नुवन् महातपा विश्वामित्र: एवमुक्त्वा शप्त्वेत्यर्थ: सन्तापं तपोध्वंसनहेतुकपश्चात्तापमागत: प्राप्त: ।। 1.64.14 ।।



तस्येति । तस्य विश्वामित्रस्य महता शापेन रम्भा तदा शाकाले शैली अभवत् । स कन्दर्प: चकारेण इन्द्र: महर्षेर्वच: श्रुत्वैव निर्गत: तदाश्रमात् पलायित: । एकश्च एवार्थे ।। 1.64.15 ।।



कोपेनेति । हे राम कोपेन तपोपहरणे कृते सति महातेजा अपि विश्वामित्र: अजितै: एतत्कर्तृकातिजयरहितै: इन्द्रियै: आत्मन: शान्तिं न लेभे ।। 1.64.16 ।।



बभूवेति । तपोपहरणे कृते सति अस्य विश्वामित्रस्य मनश्चिन्ता विचार: बभूव । चिन्तोत्तरकालिकं स्वनिश्चयमाह अहमेवं क्रोधं न गमिष्यामि प्राप्स्यामि अत एव कथञ्चनापि न वक्ष्ये दुर्वचनमिति शेष: । चो ऽप्यर्थे ।। 1.64.17 ।।



अथेति । अथानन्तरं संवत्सरशतानि वर्षशतत्रयपर्यन्तं नैवोच्छ्वसिष्यामि अत एव विजितेन्द्रियो ऽहमात्मानं क्रोधजनकस्वस्वभावं शोषयिष्याम्येव । अपिवाशब्दा एवार्थौ हिर्हेतौ ।। 1.64.18 ।।



ननु वर्षशतत्रयपर्यन्तं तादृक्स्थित्यापि यदीप्सितसिद्धिर्न भविता तदा किं कर्तासीत्यत आह तावदिति । यावत् कालं तपसोर्जितं मे ब्राह्मण्यं प्राप्तं स्यात्तावत्कालमनुश्छ्वसन् अछ्वासं निरुन्धन् अभुञ्जानो ऽहं तिष्ठेयम् । ननु चिरकालं तादृक्स्थित्या देहपात: स्यात्तदा कथमीप्सितसिद्धिरित्यत आह शाश्वती: समास्तप्यमानस्य मे मूर्तय: देहाकृतय: क्षयं नैव यास्यन्ति एतेनास्य त्रिकालज्ञत्वं व्यक्तम् । हिरेवार्थे सार्धश्लोक एकान्वयी ।। 1.64.19 ।।



एवमिति । हे रघुनन्दन स मुनिपुङ्गव: एवमनेन प्रकारेण वर्षसहस्रस्य दीक्षां निर्वर्तयितुं लोके अप्रतिमामनुपमां प्रतिज्ञां चकार । शब्दाध्याहारान्न चतुर्थीप्रसक्ति: । किञ्च अप्रतिमां वर्षसहस्रस्य दीक्षां दीक्षाकारणीभूतां प्रतिज्ञां चकार ।। 1.64.20 ।।



इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे चतु: षष्टितम: सर्ग: ।। 1.64 ।।