Content

[Satananda completes his narration of how Viswamitra attains Brahmarshi status.]

अथ हैमवतीं राम दिशं त्यक्त्वा महामुनि:।

पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम्।।1.65.1।।

Translation

राम O Rama, अथ thereafter, महामुनि: great ascetic Visvamitra, हैमवतीम् relating to Himavat mountain, दिशम् quarter, त्यक्त्वा abandoning, पूर्वां दिशम् eastern quarter, अनुप्राप्य having reached, सुदारुणम् rigorous, तप: austerities, तेपे performed.

"O Rama thereafter the great ascetic (Viswamitra), abandoning the north of the Himavat mountain reached the eastern quarter and performed rigorous austerities.
Sanskrit Commentary by Amruta Kataka
अथ पञ्चषष्टितमः सर्गः

[ब्रह्मर्षित्वप्राप्तिः]

 ।। 1.65.1 ।। अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः ।

पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ।। 1 ।।

अथैवमुत्तरे ऽपि चतुर्थव्यूहप्रधानपूर्वमुखप्राधान्येन पूर्वस्यां दिशि तप उपदिश्यते--अथेत्यादि । हैमवतींहिमवदुत्तरपार्श्वगां ।। 1.65.1 ।। 

 ।। 1.65.2,3 ।। मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् ।

चकाराप्रतिमं राम तपः परमदुष्करम् ।। 2 ।।

पूर्णे वषसहस्रे तु काष्ठभूतं महामुनिम् ।

विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत् ।। 3 ।।

आधूतंकम्प्यमानम् । आन्तरं--अन्तःकरणम् । निश्चयं--क्रोधाकरणविषयकम् ।। 1.65.3 ।। 

 ।। 1.65.4,5 ।। स कृत्वा निश्चयं राम तप आतिष्ठदव्ययम् ।

तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः ।। 4 ।।

भोक्तुमारधवानन्नं तस्मिन् काले रघूत्तम

इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत ।। 5 ।।

तस्य वर्षसहस्रस्येति । व्यधिकरणे षष्ठ्यौ । सिद्धम्पक्कम् ।। 1.65.5 ।। 

 ।। 1.65.6 ।। तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः ।

निश्शेषिते ऽन्ने भगवानभूक्त्वै महातपाः ।। 6 ।।

निश्चित इति । तपस्सिद्धये सर्वथैव दातव्यमेवेति निश्चयवान् इत्यर्थः । अन्ने निश्शेषित इति । निश्शेषतो दत्त इति यावत् । अभुक्त्वैवेति । पुनः पक्त्वा ऽभुक्त्वैवेत्यर्थः ।। 1.65.6 ।। 

 ।। 1.65.7,8 ।। 1 नै किंचिदवदद्विप्रं मौनव्रतमुपस्थितः ।

अथ वर्षसहस्रं वै नोच्छ्वसन्मुनिपुङ्गवः ।। 7 ।।

तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ।

त्रैलोक्यं येन संभ्रान्तमा2दीपित इवाभवत् ।। 8 ।।

येनेति । धूमेनेत्यर्थः । आदीपितमिति । दीर्पर्ण्यन्तान्निष्ठा । यथा आदीपितःतापितः पुमान् सम्भ्रान्तो व्याकुलितो भवति, तद्वत्रैलोक्यं सम्भ्रान्तमभूदित्यर्थः ।। 8 ।।

(1 एतदनन्तरं 'तथैवासीत्पुनर्मौनमनुच्छ्वासं चकार सः' इत्यधिकंङ)

( धूम इति । धूमकेतुरित्यर्थःअग्निरिति यावत् । अत एवाग्रे 'आतापितमिव' इति वक्ष्यति । अयं शुद्धसत्त्वप्रभवो ऽग्निः इतरेषां रजस्तमः प्रधानानांदेवादीनां तापजनक इति बोध्यम्ति.)

(2 दीपितमिवाङ. तापितमिवाज) ।। 1.65.8 ।। 

 ।। 1.65.9 ।। ततो 1देवास्सगन्धर्वाः पन्नगासुरराक्षसाः ।

मोहिता2स्तपसा तस्य तेजसा मन्दरश्मयः ।। 9 ।।

कश्मलोपहताःदुःखोपहताः ।। 9 ।।

(1 देवर्षि गन्धर्वाः पन्नगोरगङ.)

(2 स्तेजसा तस्य तपसाङ.झ) ।। 1.65.9 ।। 

 ।। 1.65.10,11 ।। कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ।

बहुभिः कारणै3र्देव विश्वामित्रो महामुनिः ।। 10 ।।

लोभितः क्रोधितश्चैव तपसा चाभिवर्धते ।

न ह्यस्य वृजिनं किञ्चिद्दृश्यते सूक्ष्ममप्यथ ।। 11 ।।

लोभितः क्रोधितश्चैवेति । अथापि निर्विघ्न इति शेषः । वृजिनंपापं । सूक्ष्मं वृजिनं रागद्वेषरहितेन स्वतस्तत्त्वप्रतिष्ठालक्षणं सर्वभुवि साधारणं नीरागेद्वषनिजचित्तनिजतत्त्वब्रह्मप्रतिष्ठानमेव ब्रह्मलोकाधिकारिब्रह्मर्षिमुख्यलक्षणं, तदस्य संपन्नं अतो ब्रह्मर्षितानुमतिः कर्तव्याः अन्यथा लोकनाश इत्याहुः ।। 11 ।।

(3 देवैःङ) ।। 1.65.11 ।। 

 ।। 1.65.12 ।। न दीयते यदि त्वस्य तपसा यदभीप्सितम् ।

4 विनाशयति त्रैलोक्यं तपसा सचराचरम् ।। 12 ।।

न दीयत इत्यादि । विनाशयति त्रैलोक्यमिति वृत्तभङ्ग आर्षः ।। 12 ।।

(4 विनाशमेतिङ) ।। 1.65.12 ।। 

 ।। 1.65.13,14 ।। व्याकुलाश्च दिशस्सर्वा न च किञ्चित्प्रकाशते ।

सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ।। 13 ।।

प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः ।

ब्रह्मन् न प्रतिजानिमो नास्तिको जायते जनः ।। 14 ।।

ब्रह्मन्न प्रतिजानीम इति । प्रतिक्रियामिह न जानीम इत्यर्थः । नास्तिको जायत इति । उक्तरूपजगत्क्षोभवशान्नास्तिक इव कर्मानुष्ठानशून्यो जायत इत्यर्थः ।। 14 ।

(नास्ति कंसुखं यस्य सः, अत्यन्तव्याकुलत्वेन सुखरहित इत्यर्थःशि.) ।। 1.65.14 ।। 

 ।। 1.65.15 ।। संमूढमिव त्रैलोक्यं संप्रक्षुभितमानसम् ।

भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा ।। 15 ।।

उक्तार्थस्यैव अनुवादपूर्वकमनुष्ठेयांशमाहसंमूढमिवेति । संमूढमिवत्रैलोक्यमिति वृत्तभङ्गः प्राग्वत् ।। 15 ।।

( आर्ष इत्यर्थः ।) ।। 1.65.15 ।। 

 ।। 1.65.16 ।। बुद्धिं न कुरुते यावन्नाशे देव महामुनिः ।

तावत्प्रसाद्यो 1 भगवान् अग्निरूपो महाद्युतिः ।। 16 ।।

हे देव अतः परं विश्वामित्रो जगत्क्षये यावत् बुद्धिं न कुरुते तावत् प्रसाद्यःअनुग्राह्यः ।। 16 ।।

(1 भगवन्ङ.ज) ।। 1.65.16 ।। 

 ।। 1.65.17 ।। कालाग्निना यथापूर्वं त्रैलोक्यं दह्यते ऽखिलम् ।

देवराज्यं चिकीर्षेत दीयतामस्य 2यन्मतम् ।। 17 ।।

पूर्वमिति । युगान्तकाल इत्यर्थः । देवराज्यं चिकीर्षेतापि, हिरण्यादिवत्, तदप्यस्य मतंअभीष्टं दीयताम् ।। 17 ।।

( देवराज्यं चिकीर्षेतदेवानामाधिपत्यं कर्तुं इच्छेतापि)

(2 यन्मनःङ) ।। 1.65.17 ।। 

 ।। 1.65.18 ।। ततः सुरगणाः सर्वे पितामहपुरोगमाः ।

विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् ।। 18 ।।

स्वागतमिति । भद्रमित्यर्थः । स्मेति । सकारलोपश्छान्दसः ।। 18 ।।

( विसर्गलोप इत्यर्थः ।) ।। 1.65.18 ।। 

 ।। 1.65.19,20 ।। ब्रह्मर्षे स्वागतं ते ऽस्तु तपसा स्म सुतोषिताः ।

ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ।। 19 ।।

दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः ।

स्वस्ति प्राप्नुहि, भद्रं ते, गच्छ सौम्य 1यथासुखम् ।। 20 ।।

ब्राह्मण्यं प्राप्तवानसीति देवोक्त्यनन्तरमायुः प्रयच्छति भगवान्दीर्घमायुरित्यादि । यथासुखमिति । तपस उपरत इति शेषः ।। 20 ।।

(भवता एकेनैव अङ्गीकारे किं फलमित्यत्राहसमरुद्गण इति । अत एव उत्तरत्र 'देवताः' इत्युक्तिः सङ्गच्छते ।)

(1 यथा ऽ ऽगतम्ङ) ।। 1.65.19.20 ।। 

 ।। 1.65.21,22 ।। पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।

कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ।। 21 ।।

ब्रह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ।

ओङ्कराश्च वषट्कारो वेदाश्च वरयन्तु माम् ।। 22 ।।

ओङ्कारःब्रह्मविद्यासाधनम् । वषट्कारःयज्ञरूपब्रह्मकृत्यसाधनम् । वेदास्तु पूर्वापरविभागेन ब्रह्मकृत्यज्ञानापेक्षिताङ्गोपाङ्गसमस्तपरिकरप्रतिपादकाः । ते सर्वे यथा भगवन्मुखजं वसिष्ठवामदेवादिसहजब्रह्मकुलं वरयन्ति वृञ् श्नौ, श्नायां वृञ्, णौ वृञ् आवरणे, श्नायां वृङ् संभक्तौ, अतो वरतेः स्वार्थे णिः । वृण्वन्तुएवं स्वप्रतिष्ठात्वेनाङ्गीकुर्वन्तु--स्वेषामुपदेशाध्यापनयाजने ऽनुमतिं कुर्वन्त्वित्यर्थः ।। 22 ।।

( ब्राह्मणशब्दयोगार्थपौष्कल्ये ऽपि न हि मुख्यं ब्राह्मण्यं संभवेदित्यर्थः । ) ।। 1.65.22 ।। 

 ।। 1.65.23 ।। क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ।

ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः ।। 23 ।।

1 ब्रह्मानुग्रहे ऽपि ब्राह्मणैस्स्वकुलबहिष्कारे जातिब्राह्मण्याभावात् अन्वर्थब्राह्मण्यमप्यब्राह्मण्यकल्पमित्यभिप्रेत्यानादिब्राह्मणवसिष्ठेनापि ब्राह्मणस्वकुललक्षणब्राह्मणत्वानुमतिं प्रार्थयतेक्षत्रवेदेत्यादि । विवस्वन्तमारभ्य सूर्यवंशानादिपुरोहितत्वात् क्षत्रवैदविदां--क्षत्रियाणां शान्तिपुष्ट्यादिप्रयोजनानां अथर्ववेदधनुर्वेदादिविदुषां--श्रेष्ठः, ब्रह्मब्रह्मकुलनिजनित्यज्ञान2कर्मापेक्षित3वेदसारब्राह्मणत्रयी, तद्विदामपिश्रेष्ठः । उत्तरश्रैष्ठ्यबीजंब्रह्मपुत्र इति । एवमिति । ब्रह्मर्षिमिति यावत् । परमो ऽयं काम इति । वसिष्ठमुखेन ब्रह्मर्षित्वानुवादरूप इत्यर्थः । यदि कृतः तदैव मद्विषये कृतकृत्या यान्तु नान्यथा इत्यर्थः ।। 23 ।।

(ब्रह्मवेदविदांब्राह्मणैकवेद्यब्रह्मदण्डाभिधवेदाभिज्ञानामपिशि. ब्रह्मवेदाःब्रह्मप्रतिपादका वेदाः वेदान्ताः । यद्वा ब्राह्मणमात्रप्रवचनार्हा वेदाः त्रयीरूपाःगो)

(1 ब्राह्मा.ग)

(2 धर्माःग)

(3 वेदः सारब्राह्मणा त्रयी.) ।। 1.65.23 ।। 

 ।। 1.65.24 ।। यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ।

ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः ।। 24 ।।

ततःएवं विश्वामित्रोक्त्यनन्तरमित्यर्थः । प्रसादित इति । भगवता ब्रह्मणा सर्वैरस्माभिश्च लोकहितायानुमतत्वात् भवता ऽपि तद्ब्रह्मर्षित्वमनुमन्तव्यमित्यनु4नीत इत्यर्थः । जपतां वर इति सर्वतो वसिष्ठविशेषणं । 'छन्दोदृक्साधको मुनिः' इति रहस्यादनादितो ब्रह्मविद्यासाधकत्वलक्षणं ब्रह्मविद्याया ऋषित्वं सूचितम् । एवमुक्ताघोरशुद्धब्रह्मविद्याया वसिष्ठ एव ऋषिरद्यापि सघोरब्रह्मविद्याया एव विश्वामित्रस्साधक इति तस्या एवेदानीं विश्वामित्र ऋषिः । अथ देवैरनुनीतो वसिष्ठः एवमस्त्वित्यब्रवीत् । सख्यं च विश्वामित्रेम चकार । ब्रह्मर्षित्वत एव पुरा ऽपि विद्वेषरहितः, इदानीं उपेक्षामतिं हित्वा मदीय इति पर्यग्रहीदित्यर्थः ।। 24 ।।

(4 नीतवानिति मातुकासु ।) ।। 1.65.24 ।। 

 ।। 1.65.25 ।। सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ।

ब्रह्मर्षिस्त्वं न सन्देहः सर्वं सम्पत्स्यते तव ।। 25 ।।

सर्वंब्राह्मण्यं । जन्मसंस्कारजपध्यानसन्ताननिरन्तरोपासनजनितनिजतत्त्वानुसन्धानलक्षणैः श्रीमद्योगभानुप्रतिपादितैस्सर्वैः ब्राह्मण्यसाधनैस्सम्पन्नो भविष्यसीत्यर्थः । इत्युक्त्वेति । यथा वसिष्ठेन भगवतोक्तं, एवमेव देवताश्चोक्त्वेत्यर्थः ।। 25 ।।

(अनेन त्रिपुरषपर्यन्तं विश्वामित्रस्य ब्राह्मण्यलाभः सूचितः । एतच्च 'अनृष्यानन्तर्षे' इतिसूत्रे महाभाष्ये स्पष्टम्ति.(तथा हि भाष्यम्--'विश्वामित्रस्तपस्तेपे नानृषिः स्यामिति तत्रभवानृषिः संपन्नः, स पुनस्तपस्तेपेनानृषेः पुत्रः स्यामिति तत्रभवान् गाधिरपि ऋषिः संपन्नः, स पुनस्तपस्तेपे--नानृषेः पौत्रः स्यामिति तत्रभवान् कुशिको ऽपि ऋषिः संपन्नः' इति) ।। 1.65.25 ।। 

 ।। 1.65.26 ।। इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथा ऽ ऽगतम् ।

विश्वामित्रो ऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम् ।। 26 ।।

1 ब्रह्मर्षि पूजयामास वसिष्ठं जपतां वरम् ।

कृतकामो महीं सर्वां चचार तपसि स्थितः ।। 27 ।।

ब्रह्मर्षि पूजयामासेति । सपरिकरस्य मे सत्कारद्वारा ब्रह्मर्षिताप्राप्त्यनन्तरतपस्साधनौन्मुक्यसम्पादनेन कृतार्थितो ऽस्मि भवतेति पूजयामासेत्यर्थः । चचारेति विश्वामित्र इति शेषः ।। 27 ।।

(1 पूजयामास ब्रह्मर्षिर्वङ.)

( ससैन्यस्येत्यर्थः ।) ।। 1.65.27 ।। 

 ।। 1.65.28 ।। एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना ।

एष राम मुनिश्रेष्ठ एष 2विग्रहवांस्तपः ।। 28 ।।

अथ प्रकृते शतानन्दवचनंएवमित्यादि । एष धर्मपरो नित्यमिति । इदानीमपीति शेषः । वीर्यस्येति । तपोवीर्यस्येत्यर्थः ।। 28 ।।

(2 निग्रहवत्तपःङ.ज) ।। 1.65.28 ।। 

 ।। 1.65.2932 ।। एष धर्मपरो नित्यं वीर्यस्तैष परायणम् ।

एवमुक्त्वा महातेजा विरराम द्विजोत्तमः ।। 29 ।।

शतानन्दवचः श्रुत्वा रामलक्ष्मणसन्निधौ ।

जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम् ।। 30 ।।

धन्यो ऽस्म्यनुगृहीतो ऽस्मि यस्य मे मुनिपुङ्गव

यज्ञं काकुत्स्थसहितः प्राप्तवानसि धार्मिक ।। 31 ।।

पावितो ऽहं त्वया ब्रह्मन् दर्शनेन महामुने

विश्वामित्र महाभाग ब्रह्मर्षीणां वरोत्तम ।। 32 ।।

पावितःकृतपावनः ।। 1.65.32 ।। 

 ।। 1.65.33,34 ।। गुणा बहुविधाः प्राप्ताः तव सन्दर्शनात्मया ।

विस्तरेण च ते ब्रह्मन् कीर्त्यमानं महत्तपः ।। 33 ।।

श्रुतं मया महातेजः रामेण च महात्मना ।

सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः ।। 34 ।।

गुणाःकर्मज्ञाननिष्ठाविशेषलक्षणाः । सदस्याः--विधिदर्शिनः । तैश्च दैवात् सदः प्राप्य ते गुणाः श्रुताः ।। 34 ।।

(सदः प्राप्य स्थितैः सदस्यैश्च ते गुणाः श्रुताःगो.ति ) ।। 1.65.34 ।। 

 ।। 1.65.35 ।। अप्रमेयं 1तपस्तुभ्यं अप्रमेयं च ते बलम् ।

2 अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ।। 35 ।।

तुभ्यमिति । तवेति यावत् ।। 35 ।।

(1 तव तपःङ)

(2 एतदनन्तरंपितामहस्य च यथा यथा चैव ह्युमापतेः । इत्यधिकंङ) ।। 1.65.35 ।। 

 ।। 1.65.36 ।। तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो

कर्मकालः, मुनिश्रेष्ठ लम्बते रविमण्डलम् ।। 36 ।।

कथानां तृप्तिरिति । श्रवण इति शेषः । कर्मकाल इति । अतिवर्तत इति शेषः ।। 36 ।।

( 'पूरण गुण' इति तृत्तीयार्थे षष्ठीगो.) ।। 1.65.36 ।। 

 ।। 1.65.37,38 ।। श्वः प्रभाते महातेजः द्रष्टुमर्हसि मां पुनः ।

[रामेण रमणीयेन लक्ष्मणेन च सङ्गतः ।]

स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि ।। 37 ।।

एवमुक्तो मुनिवरः प्रशस्य पुरुर्षभम् ।

1 विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा ।। 38 ।।

स्वागतं भद्रमिति पर्यायः यथायोगं । अनुज्ञातुमर्हसीति । कर्मण इति शेषः ।। 38 ।।

(1 विससर्जाथङ.ज.) ।। 1.65.38 ।। 

 ।। 1.65.39,40 ।। एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः ।

प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः ।। 39 ।।

विश्वामित्रो ऽपि धर्मात्मा सरामः सहलक्ष्मणः ।

2स्ववाटमभिचक्राम पूज्यमानो महर्षिभिः ।। 40 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चषष्टितमः सर्गः

--

स्ववाटं--स्वनिवेशनम् । धन(40)मानः सर्गः ।। 40 ।।

(आशु इत्यनेनगृहं गत्वा कदा इमां कथां वर्णयिष्यामि--इत्यभिलाषातिशयः सूचितःशि. परन्तु--पूर्वश्लोके 'मुनिवरः जनकं आशु विससर्ज' इत्युक्तम् । तत्र मुनिवरस्य त्वरायां हेतुः 'एवमुक्तः' इत्यनेन सूचितः । तत्पूर्वं हि 'कर्मकालः अतिवर्तते' इति जनकेनोक्तं । तच्छ्रुत्वा विश्वामित्रः तत्वरे । तद्दृष्ट्वा जनको ऽपि तत्त्वरे, महर्षेस्तस्य अनुष्ठानकालातिक्रमणभयात् । जनको ऽपि हि कर्मठ इति प्रसिद्धम् । अतः 'आशु' इत्यनेन कालातिक्रमभयं सूच्यत इति युक्तम् ।)

(2 स्ववासमभिज)

( अत्र कग. मातृकाद्वये अङ्कसंख्यया 31. इति श्लोकानां निर्देशो दृश्यते तु 40 श्लोकाः । घ. पुस्तके 'धनमानः' इति दृश्यते । तत्र यथा श्रुते 40 इति सङ्ख्या विवक्षणीया । परन्तु कटपयादीनां व्यत्यासेन लेखनमेव सांप्रदायिकम् ।।) ।। 1.65.40 ।। 

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चषष्टितमः सर्गः



Sanskrit Commentary by Govindaraja
अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः ।

पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ।। 1.65.1 ।।

अथ विश्वामित्रस्य ब्रह्मर्षित्वप्राप्तिः पञ्चषष्टितमे--अथ हैमवतीमित्यादि ।। 1.65.1 ।।



मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् ।

चकाराप्रतिमं राम तपः परमदुष्करम् ।। 1.65.2 ।।

वर्षसहस्रस्य वर्षसहस्रसम्बन्धि, तत्साध्यमित्यर्थः । मौनव्रतं मौनरूपं व्रतम् । कृत्वा सङ्कल्प्येत्यर्थः ।। 1.65.2 ।।



पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् ।

विघ्नैर्बहुभि राधूतं क्रोधो नान्तरमाविशत् ।। 1.65.3 ।।

स कृत्वा निश्चयं राम तप आतिष्ठदव्ययम् ।। 1.65.4 ।।

काष्ठभूतं काष्ठवदवस्थितम् ।। आधूतं आकुलीकृतमपि । आन्तरं अन्तरवन्तम्, दृढान्तःकरणवन्तमिति यावत् । यद्वा तं प्रति क्रोधः अन्तरं अवकाशं नाविशत् ।। 1.65.3,4 ।।



तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः ।

भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम ।

इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत ।। 1.65.5 ।।

तस्य पूर्वसङ्कल्पितस्य । वर्षसहस्रस्य सम्बन्धिनि व्रते पूर्णे । तस्मिन् काले पारणकाले । सिद्धं पक्वम् । याचिर्द्विकर्मकः ।। 1.65.5 ।।



तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः ।

निःशेषिते ऽन्ने भगवानभुक्त्वैव महातपाः ।

न किञ्चिदवदद्विप्रं मौनव्रतमुपस्थितः ।। 1.65.6 ।।

अथ वर्षसहस्रं वै नोच्छ्वसन् मुनिपुङ्गवः ।। 1.65.7 ।।

निश्चितः तपःसिद्धये सर्वथैवान्नं दातव्यमिति निश्चयवानित्यर्थः । निश्चितः अशङ्कित इति वा । निःशेषित इत्यनेन सर्वमन्नमिन्द्रेण याचितमिति गम्यते । अभुक्त्वेति पुनः पाकार्हतण्डुलासम्पादनादिति भावः ।। 1.65.6,7 ।।



तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ।

त्रैलोक्यं येन सम्भ्रान्तमादीपितमिवाभवत् ।। 1.65.8 ।।

आदीपितं तापितम् ।। 1.65.8 ।।



ततो देवास्सगन्धर्वाः पन्नगासुरराक्षसाः ।

मोहितास्तेजसा तस्य तपसा मन्दरश्मयः ।

कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ।। 1.65.9 ।।

तत इत्यादि । तपसा तेजसा तपोरूपाग्निना । मोहिता मूर्च्छिताः । कश्मलोपहताः दुःखोपहताः ।। 1.65.9 ।।



बहुभिः कारणैर्देव विश्वामित्रो महामुनिः ।

लोभितः क्रोधितश्चैव तपसा चाभिवर्द्धते ।

न ह्यस्य वृजिनं किञ्चिद्दृश्यते सूक्ष्ममप्यथ ।। 1.65.10 ।।

लोभितः लोभकारणैः रम्भादर्शनादिभिः प्रलोभितः । क्रोधितः क्रोधकारणैर्वर्षसहस्रान्तसिद्धकृत्स्नान्नयाचनादिभिः क्रोधितः । वृजिनं पापं रागद्वेषादिलक्षण्ाम् । सूक्ष्मं स्वल्पम् ।। 1.65.10 ।।



न दीयते यदि त्वस्य मनसा यदभीप्सितम् ।

विनाशयति त्रैलोक्यं तपसा सचराचरम् ।। 1.65.11 ।।

विनाशयति विनाशयेत् । असाविति शेषः ।। 1.65.11 ।।



व्याकुलाश्च दिशः सर्वा न च किञ्चित्प्रकाशते ।

सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ।। 1.65.12 ।।

प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः ।

ब्रह्मन्न प्रतिजानीमो नास्तिको जायते जनः ।। 1.65.13 ।।

व्याकुला इत्यादि । न प्रतिजानीमः प्रतिक्रियामिति शेषः । नास्तिको जायत इति उक्तसङ्क्षोभवशान्नास्तिक इव कर्मानुष्ठानशून्यो जायत इत्यर्थः ।। 1.65.12,13 ।।



सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम् ।

भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा ।। 1.65.14 ।।

उक्तार्थानुवादपूर्वकमनुष्ठेयांश उच्यते सम्मूढमिवेत्यादि ।। 1.65.14 ।।



बुद्धिं न कुरुते यावन्नाशे देव महामुनिः ।

तावत्प्रसाद्यो भगवानग्निरूपो महाद्युतिः ।। 1.65.15 ।।

बुद्धिमिति । हे देव ब्रह्मन् । अतःपरं विश्वामित्रः नाशे जगत्क्षये यावत् बुद्धिं न कुरुते तावत्प्रसाद्यः अनुग्राह्यः ।। 1.65.15 ।।



कालाग्निना यथा पूर्वं त्रैलाक्यं दह्यते ऽखिलम् ।

देवराज्यं चिकीर्षेत दीयतामस्य यन्मतम् ।। 1.65.16 ।।

कालाग्निनेति । पूर्वं प्रलयकाले । कालाग्निना त्रैलोक्यं यथा अदह्यत तथैव त्रैलोक्यमनेन दह्यते धक्ष्यते । अयं देवराज्यं चिकीर्षेतापि अतः अस्य यत् ब्रह्मर्षित्वं मतम्, तद्दीयतामित्यर्थः ।। 1.65.16 ।।



ततः सुरगणाः सर्वे पितामहपुरोगमाः ।

विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् ।

ब्रह्मर्षे स्वागतं ते ऽस्तु तपसा स्म सुतोषिताः ।। 1.65.17 ।।

तत इत्यादि । ततः देवविज्ञापनानन्तरम् ।। 1.65.17 ।।



ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ।

दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः ।

स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् ।। 1.65.18 ।।

पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।

कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ।। 1.65.19 ।।

ब्राह्मण्यमित्यादि । ब्रह्मवचनं प्राधान्येन ।। 1.65.18,19 ।।



ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ।

ओङ्कारश्च वषट्कारो वेदाश्च वरयन्तु माम् ।। 1.65.20 ।।

वरयन्तु अध्यापनयाजनार्हा भवन्तु इत्यर्थः ।। 1.65.20 ।।



क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ।

ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः ।

यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ।। 1.65.21 ।।

ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः ।

सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ।। 1.65.22 ।।

ब्रह्मानुग्रहे ऽपि सजातीयपरिग्रहार्थमाह--क्षत्रेति । क्षत्रवेदाः क्षत्रियाणां शान्ति पुष्ट्यादिप्रयोजना आथर्वणवेदाः । तद्विदां श्रेष्ठः सूर्यवंशानादिपुरोहितत्वादिति भावः । ब्रह्मवेदाः ब्रह्मप्रतिपादका वेदाः, वेदान्ता इत्यर्थः । यद्वा ब्राह्मणमात्रप्रवचनार्हा वेदास्त्रयीरूपाः । एवं वदतु ब्रह्मर्षिरिति वदतु । यदीति । अयं कामः वसिष्ठमुखेन ब्रह्मर्षित्ववादरूपः कामः । यदि कृतः तदैव मद्विषये कृतकृत्या यान्तु नान्यथेत्यर्थः ।। 1.65.21,22 ।।



ब्रह्मर्षिस्त्वं न सन्देहः सर्वं सम्पत्स्यते तव ।

इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् ।। 1.65.23 ।।

एवमस्त्वित्यस्य विवरणम्--ब्रह्मर्षिस्त्वमिति । सर्वं ब्राह्मण्यं त्वद्वृतयाजनाध्यापनादिकं च ।। 1.65.23 ।।



एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना ।

एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः ।

एष धर्मपरो नित्यं वीर्यस्यैष परायणम् ।। 1.65.24 ।।

एवमुक्त्वा महातेजा विरराम द्विजोत्तमः ।। 1.65.25 ।।

शतानन्दवचः श्रुत्वा रामलक्ष्मणसन्निधौ ।

जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम् ।। 1.65.26 ।।

धन्यो ऽस्म्यनुगृहीतो ऽस्मि यस्य मे मुनिपुङ्गव ।

यज्ञं काकुत्स्थसहितः प्राप्तवानसि धार्मिक ।। 1.65.27 ।।

पावितो ऽहं त्वया ब्रह्मन् दर्शनेन महामुने ।

गुणा बहुविधाः प्राप्तास्तव सन्दर्शनान्मया ।। 1.65.28 ।।

विस्तरेण च ते ब्रह्मन् कीर्त्यमानं महत्तपः ।

श्रुतं मया महातेजो रामेण च महात्मना ।। 1.65.29 ।।

अथ शतानन्दवचनम्--एवमित्यादि । तप इत्यकारान्तपुँलिङ्गत्वमार्षम् ।। 1.65.2429 ।।



सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः ।। 1.65.30 ।।

सदस्यैरिति । सदः प्राप्य स्थितैः सदस्यैः ।। 1.65.30 ।।



अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम् ।

अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ।। 1.65.31 ।।

अप्रमेयाः इयत्तया ज्ञातुमशक्याः ।। 1.65.31 ।।



तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो ।

कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् ।। 1.65.32 ।।

श्वःप्रभाते महातेजो द्रष्टुमर्हसि मां पुनः ।

स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि ।। 1.65.33 ।।

एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम् ।

विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा ।। 1.65.34 ।।

एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः ।

प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः ।। 1.65.35 ।।

कथानामिति "पुरणगुण--" इति तृतीयार्थे षष्ठी । तृप्तिः अलम्बुद्धिः । स्वागतमिति । त्वदागमनं शुभकृज्जातमित्यर्थः ।। 1.65.3235 ।।



विश्वामित्रो ऽपि धर्मात्मा सरामः सहलक्ष्मणः ।

स्ववाटमभिचक्राम पूज्यमानो महर्षिभिः ।। 1.65.36 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चषष्टितमः सर्गः ।। 65 ।।

स्ववाटम् स्वनिवेशम् ।। 1.65.36 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ।। 65 ।।



Sanskrit Commentary by Mahesvara Tirtha
अथेति । अथ प्रतिज्ञोत्तरम् । हैमवतीं दिशम् उत्तराम् ।। 1.65.1।।



मौनमिति । वर्षसहस्रस्य वर्षसहस्रस्य सम्बन्धि, तत्साध्यमिति यावत् । मौनं मौनरूपं व्रतम् ।। 1.65.2।।



पूर्ण इति । काष्ठभूतं काष्ठवदवस्थितम् । आधूतम् आकुलीकृतमपि अन्तरम् अन्तरवन्तम्, धीरमिति यावत् । अर्श आदित्वादच् प्रत्ययः । यद्वा तं प्रति क्रोधः अन्तरमवकाशं नाविशत् ।। 1.65.34।।



तस्येति । अस्मिन् काले व्रतपारणकाले ।। 1.65.5।।



तस्मा इति । सिद्धं पक्वम् । निश्चितः अशङ्कितः ।। 1.65.6।।



अथेति । नोच्छ्वसत् नोपाश्वसत् ।। 1.65.7।।



तस्येति । येन धूमेन आदीपितमिव सन्तप्यमानमिव, सम्भ्रान्तं व्याकुलितम् ।। 1.65.8।।



तत इति । तपसा तेजसा तपोरूपेणाग्निना, मन्दरश्मयः क्षीणतेजस्काः । कश्मलोपहताः मोहाक्रान्ताः ।। 1.65.9।।



बहुभिरिति । कारणैर्लोभकारणैः । लोभितः क्रोधितः सन्नपि तपसाभिवर्धते अस्य सूक्ष्ममपि वृजिनं स्खलनं न दृश्यम् ।। 1.65.10।।



नेति । विनाशयति विनाशयेत् ।। 1.65.11।।



व्याकुला इति । नास्तिकः नास्ति परो लोक इति मन्यमानः, कार्याकार्यविवेकशून्यत्वात् न प्रतिजानीमः तत्प्रतीकारं न जानीमः ।। 1.65.1213।।



सम्मूढमिव सम्भ्रान्तमिव स्थितम् । सम्प्रक्षुभितमानसं व्याकुलीकृतचित्तम् ।। 1.65.14।।



बुद्धिमिति । देव ब्रह्मन् नाशे त्रैलोक्यनाशने ।। 1.65.15।।



कालाग्निनेति । पूर्वं कालाग्निना त्रैलोक्यं यथा अदह्यत इदानीमनेनैव तथा त्रैलोक्यं दह्यत, धक्ष्यत इत्यर्थः । देवराज्यं चिकीर्षेतापि अतः अस्य यत् ब्रह्मर्षित्वं मतं तद्दीयतामित्यर्थः । ब्रह्मर्षे इत्यादि ।। 1.65.1617।।



ब्राह्मण्यमिति । मां वरयन्तु स्वतः एवायान्तु ।। 1.65.1820।।



क्षत्रेति । क्षत्रवेदः अथर्वणवेदः, ब्रह्मवेदाः इतरवेदाः ।। 1.65.2123।।



एवमिति । तपः इत्ययं शब्दः अकारान्तत्वेन पुँल्लिङ्गोप्यस्तीति कृत्वा विग्रहवांस्तपः इति पाठः ।। 1.65.2429।।



सदस्यैरिति । सदः प्राप्य स्थितैः सदस्यैः ।। 1.65.30।।



अप्रमेयमिति । अप्रमेयाः इयत्तया ज्ञातुमशक्याः ।। 1.65.31।।



तृप्तिरिति । कथानां श्रवण इति शेषः । तृप्तिः अलम्बुद्धिः ।। 1.65.32।।



स्वागतम् त्वदागमनं स्वागतं जातमित्यर्थः ।। 1.65.3336।।



इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चषष्टितमः सर्गः ।। 65 ।।



Sanskrit Commentary by Nagesa Bhatta
अथ प्रतिज्ञोत्तरम् । हैमवतीमुत्तराम् ।। 1.65.1 ।।



मौनरूपं व्रतं वर्षसहस्रसम्बन्धि । मौनं चात्र काष्ठमौनम् ।। 1.65.2 ।।



आधूतमाकुलीकृतमप्यान्तरमन्तः करणम् ।। 1.65.3 ।।



निश्चयम् क्रोधाकरणविषयकम् । वर्षसहस्रसम्बन्धिनि व्रते पूर्णे सति ।। 1.65.4 ।।



तस्मिन्काले व्रतपारणाकाले ।। 1.65.5 ।।



सिद्धम् पक्वम् । निःशेषिते निरवशेषतो दत्ते । अभुक्त्वैव पुनः पाकाकरणादभुक्त्वैव ।। 1.65.6 ।।



मौनं कृत्वासीदित्यन्वयः ।। 1.65.7 ।।



नोच्छ्वसञ्श्वासोच्छ्वासरहितः । धूम इति । धूमकेतुरित्यर्थः । अग्निरिति यावत् । अत एवाग्ने "आतापितमिव" इति वक्ष्यति । अयं शुद्धसत्त्वगुणप्रभावो ऽग्निरितरेषां रजस्तमःप्रधानानां तन्मिश्रसत्त्वप्रधानानां च देवादीनां तापजनक इति बोध्यम् ।। 1.65.8 ।।



येन वह्निना । यथा तापितः पुमान्सम्भ्रान्तो व्याकुलो भवति, तद्वत्त्रैलोक्यं सम्भ्रान्तमभूदित्यर्थः ।। 1.65.9 ।।



तपसा तेजसा तपोरूपेण तेजसा । मोहिता विषयाग्रहितचित्ताः कृताः । मन्दरश्मयः क्षीणतेजसः । कश्मलम् दुःखम् ।। 1.65.10 ।।



तत्तद्विषयैर्लोभितः क्रोधितो ऽपि निर्विघ्नमेव तौ त्यक्त्वा तपसाभिवर्धत इत्यन्वयः ।। 1.65.11 ।।



सूक्ष्ममपि वृजिनमल्पमपि कामक्रोधरूपम् । यदभीप्सितम् ब्रह्मर्षित्वम् ।। 1.65.12 ।।



अन्यथा लोकनाश इत्याह विनाशयतीति । तेर्लघुतरपाठान्नच्छन्दोभङ्गः । नाशप्रकारमाह व्याकुला इति ।। 1.65.13,14 ।।



न प्रतिजानीमः प्रतिक्रियां न जानीम इत्यर्थः । नास्तिको जायते । जगत्क्षोभवशान्नास्तिक इव कर्मानुष्ठानशून्य इत्यर्थः । तदाह सम्मूढमिवेति । सम्प्रक्षुभितमानसम् व्याकुलचित्तम् ।। 1.65.15 ।।



नाशे जगन्नाशे ।। 1.65.16 ।।



पूर्वम् युगान्तकाले ।। 1.65.17 ।।



यद्यसौ देवराज्यमपि चिकीर्षेत तदा तदप्यस्य दीयतामित्यर्थ इति केचित् । यद्यस्याभीष्टं न दीयते तदासौ देवराज्यं चिकीर्षेत, अतो ऽस्य यन्मनस्तत्स्थं ब्रह्मर्षित्वं तद्दीयतामित्यर्थः इत्यन्ये ।। 1.65.18 ।।



स्वागतम् भद्रम् । स्मेति विसर्गलोप आर्षः ।। 1.65.19 ।।



दीर्घायुर्दानम् स्वदर्शनफलम् ।। 1.65.20 ।।



स्वस्ति सुखम् । यथासुखम् । तपस उपरत इति शेषः ।। 1.65.21 ।।



यदि इत्यसन्दिग्धवचनम्, वेदाः प्रमाणं चेदितिवत् ।। 1.65.22 ।।



ओमिति ब्रह्मज्ञानसाधनम् । वषडिति यज्ञसाधनम् । वेदाश्च तदपेक्षिताङ्गोपाङ्गादिप्रतिपादकाः । वरयन्तु । यथा वसिष्ठादीन्सहजब्राह्मणान्वरयन्ति तथा वरणं चाध्यापनयाजनयोरनुमतिः । ब्रह्माद्यनुग्रहे ऽपि जातिब्राह्मण्याभावाद्वसिष्ठेनानङ्गीकारे व्यर्थमेव सर्वम्, अत आह क्षत्रेत्यादि । सूर्यवंशानादिपुरोहितत्वात्तदध्यापकत्वाच्च तेषां युद्धजयादिप्रयोजनसम्पत्तये क्षत्रवेदविदामुक्तप्रयोजनधनुर्वेदविदां श्रेष्ठः । ब्रह्मवेदा वेदचतुष्ठयी । ब्रह्मप्रतिपादकोपनिषद्भागवत्त्वात् ।। 1.65.23 ।।



अन्यदपि श्रैष्ठ्यबीजम् । ब्रह्मपुत्र इति । एवं ब्रह्मर्षे इति । एवं वसिष्ठमुखेन ब्रह्मर्षित्ववादरूपे मम परमः कामो मनोरथो मदि कृतस्तदा मद्विषये कृतकृत्याः सुरर्षभा यान्तु नान्यथेति भावः । अन्यथा पुनस्तपश्चरिष्यामीति तात्पर्यम् ।। 1.65.24 ।।



ततो विश्वामित्रोक्त्यनन्तरम् । प्रसादितो विश्वामित्रस्य ब्रह्मर्षित्वानुमतये । एवम् ब्रह्मर्षित्वम् । सख्यम् विश्वामित्रेण ।। 1.65.25 ।।



सर्वं ब्राह्मण्यप्रयोजकं ब्राह्मणाज्जन्म तत्संकारादि सम्पद्यते सम्पन्नम् । अनेन त्रिपुरुषपर्यन्तं विश्वामित्रस्य ब्राह्मण्यलाभः सूचितः । एतच्च "अनृष्यानन्तर्ये" इति सूत्रे महाभाष्ये स्पष्टम् । इति वसिष्ठोक्तं देवता अप्युक्त्वा जग्मुरित्यन्वयः ।। 1.65.26 ।।



पूजयामास । सपरिवारस्य मम सत्कारकरणेन ब्रह्मर्षिताप्रापकसाधनौन्मुख्यसम्पादनेन कृतार्थीकृतो ऽस्मि भगवतेति पूजयामासेत्यर्थः ।। 1.65.27 ।।



चचारेति । विश्वामित्र इति शेषः । अथ प्रकृतशतानन्दवचनम् एवं त्वित्यादि ।। 1.65.28 ।।



नित्यमिदानीमपि । वीर्यस्य तपोवीर्यस्य ।। 1.65.2931 ।।



पावितः पवित्रः कृतः ।। 1.65.32 ।।



गुणाः कर्मश्रैष्ठ्यज्ञातिश्रैष्ठ्यलक्षणाः ।। 1.65.33 ।।



महातेज इति सम्बुद्धिः । मया जनकेन रामेण च सदः प्राप्य स्थितैः सदस्यैश्च ते गुणाः श्रुताः ।। 1.65.34 ।।



तुभ्यमिति तवेत्यर्थे । अप्रमेयमियत्ताज्ञानाविषयम् ।। 1.65.35 ।।



कथानामिति । शृण्वत इति शेषः । कर्मकाल इति । अतिवर्तत इति शेषः । तदेवाह लम्बत इति ।। 1.65.36 ।।



स्वागतम् भद्रम् । अनुज्ञातुम् । कर्मण इति शेषः ।। 1.65.3739 ।।



स्ववासम् स्वनिवेशम् । "स्ववाटम्" इति पाठे ऽप्ययमेवार्थः ।। 1.65.40 ।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे पञ्चषष्टितमः सर्गः ।। 65 ।।



Sanskrit Commentary by Sivasahaya
प्रतिज्ञाकारणानन्तरकालिकं वृत्तमाह अथेति । हे राम महामुनि: विश्वामित्र: अथ तपोनिश्चयानन्तरं हैमवतीमुत्तरां दिशं त्यक्त्वा पूर्वां दिशमनुप्राप्य सुदारुणं तपस्तेपे ।। 1.65.1 ।।



तप:प्रकारं वर्णयन्नाह मौनमिति । हे राम अनुत्तमं सर्वोत्कृष्टं मौनं व्रतं वर्षसहस्रस्य सहस्रवर्षसम्बन्धीत्यर्थ: । मौनं व्रतं कृत्वा अप्रतिममनुपमं परमदुष्करं तपश्चकार ।। 1.65.2 ।।



पूर्ण इति । हे राम यो विश्वामित्रो निश्चयं कृत्वा अव्ययं तप आतिष्ठत तं काष्ठभूतमपराधादिसहनेन काष्ठसदृशं बहुभिर्विघ्नैराधूतमवधूतत्वेनेष्यमाणं महामुनिं विश्वामित्रं वर्षसहस्रे पूर्णे तुशब्देनापूर्णे ऽपि स क्रोध: अन्तरं नाविशत् । सार्धश्लोक एकान्वयी ।। 1.65.3,4 ।।



तस्येति । हे रघूत्तम तस्य विश्वामित्रस्य वर्षसहस्रस्य व्रते पूर्णे सति महाव्रतो विश्वामित्रो ऽन्नं

भोक्तुमारब्धवान् तस्मिन्काले भोजनप्रारम्भसमये द्विजातिर्भूत्वा इन्द्रस्तं विश्वामित्रं सिद्धमन्नमयाचत ।। 1.65.5 ।।



तस्मै इति । तदा याचनसमये विप्राय विप्ररूपाय तस्मै याचमानाय सर्वं सिद्धमन्नं दत्त्वा अन्ने नि:शेषिते सति निश्चित: निर्गतं चितं सञ्चयो यस्यान्नान्तरसञ्चयरहित इत्यर्थ: । किञ्च निश्चित: याचको न प्रत्याख्येय इति निश्चयं प्राप्त: । अत एव अभुक्त्वैव विद्यमानो भगवान् अतिसामर्थ्यविशिष्ट: महातपा: मौनं व्रतमुपास्थितो विश्वामित्र: विप्रं न किञ्चिदवदत् ।। 1.65.6,7 ।।



तथेति । मुनिपुङ्गवो विश्वामित्र: अनुड्वासमुच्छ्वासरहितं मौनं पुनश्चकार आरेभे । अथ तादृशमौनव्रतप्रारम्भानन्तरं वर्षसहस्रं नोच्छ्वासन् उच्छ्वासरहित: सन्नेव तथैव वक्रोच्चारादिरहित एवासीत् । ह प्रसिद्धमेतत् । वैशब्द एवार्थे ।। 1.65.8 ।।



तस्येति । अनुच्छ्वसमानस्य उच्छ्वासराहित्यं प्राप्नुवतस्तस्य विश्वामित्रस्य मूर्ध्नि धूमो व्यजायत येन धूमेन सम्भ्रान्तमुद्वेगं प्रापितं त्रैलोक्यमादीपितं सन्तापितमेवाभवत् । इवशब्द एवार्थे ।। 1.65.9 ।।



तत इति । तत: विश्वामित्रमूर्धोत्थितधूमदर्शनानन्तरं तस्य विश्वामित्रस्य तपसा तपोजनितेन तेजसा मोहिता: वैचित्यं प्राप्ता: अत एव मन्दरश्मय: हीनतेजस: अत एव कश्मलोपहता: दु:ख्ाव्याप्तचित्ता: सर्वे देवर्षिगन्धर्वा: पन्नगोरगराक्षसाश्च पितामहं ब्रह्माणमब्रुवन् । अथशब्दश्चार्थे । सार्धश्लोक एकान्वयी ।। 1.65.10 ।।



बहुभिरिति । हे देव बहुभि: कारणैस्तपोभ्रंसनहेतुभि: लोभित: क्रोधितश्च महामुनिर्विश्वामित्रस्तपसा स्वतप:प्रभावेणैव अभिवर्धते एव लोभादयस्तस्मिन्न याता इत्यर्थ: । चशब्द एवार्थे ।। 1.65.11 ।।



नेति । अस्य विश्वामित्रस्य सूक्ष्ममल्पमपि किञ्चिद्वृजिनमस्मत्कृतविघ्नजनितदु:खं नैव दृश्यते अत एव अस्य मनसा यदभीप्सितं तद्यदि न दीयते तर्हि सचराचरं चराचरसहितं त्रैलोक्यं तपसा विनाशयति विनाशयिता । हिशब्द एवार्थे । अथशब्दो हेत्वर्थे तुशब्दस्तर्हीत्यर्थे । सार्धश्लोक एकान्वयी ।। 1.65.13 ।।



त्रैलोक्यविनाशहेतुं वर्णयन्त आहु: व्याकुला इत्यादिभि: । सर्वा: दिश: व्याकुला: अन्धकारादिव्याप्ता: अत एव किञ्चिदपि न प्रकाशते सर्वे सागरा: क्षुभिता: क्षोभं प्राप्ता: सर्वे पर्वतास्तु विशीर्यन्ते स्फुटिता भवन्तीत्यर्थ: । एकश्चो हेतौ द्वितीयो ऽप्यर्थे तृतीयस्त्वर्थे । सर्वे इत्युभयान्वयि ।। 1.65.14 ।।



प्रकम्पते इति । पृथिवी प्रकम्पते भृशाकुल: अत्यन्ताकुलताविशिष्ट: वायुश्च वाति अत एव नास्तिक: नास्ति कं सुखं यस्य स: अत्यन्तव्याकुलत्वेन सुखरहित इत्यर्थ: नर: सर्वो जनो जायते अतो हे ब्रह्मन् न प्रतिजानीम: एतद्दु:खप्रतिक्रयां न निश्चिनुम: । चस्त्वर्थे ।। 1.65.15 ।।



समिति । संप्रक्षुभितमानसमत्यन्तक्षोभविशिष्टमानसविशिष्टं त्रैलोक्यं सम्मूढं कर्तव्याकर्तव्यविवेकरहितमस्तीति शेष: । अतो हे देव हे भगवन् महामुनि: विश्वामित्रो नाशे जगत्क्षये यावद्बुद्धिं निश्चयं न कुरुते तावदेवाग्निरूप: प्रलयाग्निसदृशरूपविशिष्ट: अत एव महाद्युति: विश्वामित्र: प्रसाद्य: प्रसादयितुं योग्य: । सार्धश्लोक एकान्वयी । इवशब्द एवार्थे । मानसमित्येतदग्रे 'भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा' इति श्लोकार्धमपि भट्टटीकाङ्कितपुस्तकेषु दृश्यते ।। 1.65.16 ।।



प्रसादनविलम्बे दोषं वदन्त आहु: कालेति । यथा येन प्रकारेणाखिलं त्रैलोक्यं पूर्वं

कालाग्निना दह्यते तथा ऽनेनापि धक्ष्यते इति शेष: । किञ्च अयथा यथोक्तप्रसादनाभावे कालाग्निना कालाग्निसदृशेन विश्वामित्रेण अखिलं सर्वं पूर्वं पौर्वकालिकं त्रैलोक्यं दह्यते धक्ष्यति "वर्तमानसामीप्ये" इति भविष्यति लट् ।। 1.65.17 ।।



नन्वदेयवस्त्वभिलाषश्चेदयं तददाने कथं प्रसादं प्राप्स्यतीत्यत आहु: देवेति । यद्यस्मिन् ब्रह्मऋषित्वे ऽस्यमनोभिलाषस्तद्दीयतां देवराज्यं चिकीर्षेत चेत्तदपि दीयताम् । ततो देवप्रार्थनानन्तरं पितामहपुरोगमा: सर्वे सुरगणा: महात्मानं विश्वामित्रं मधुरं वाक्यमब्रुवन् । पूर्वोत्तरार्धोत्तरपूर्वार्धयोरेकत्रान्वय: ।। 1.65.18 ।।



तद्वचनमेवाह ब्रह्मर्षे इति । हे ब्रह्मर्षे ते तव अत्रागमनं स्वागतं शोभनमागनमस्तु लडर्थे लोट् । तत्र हेतु: यतस्तपसा त्वत्कर्तृकतपश्चरणेन वयं सुतोषिता: स्म । विसर्गाभाव आर्ष इति भट्ट: । किञ्च स्मेत्येवार्थकमव्ययम् । तपसैव तोषिता इत्यर्थ: ।। 1.65.19 ।।



ब्राह्मण्यमिति । हे कौशिक उग्रेण तपसा ब्राह्मण्यं स्वेप्सितब्रह्मर्षिपदं त्वं प्राप्तवानसि तव प्रार्थितं ब्रह्मर्षिपदं भवत्तपस्तोषितेन मया दत्तमित्यर्थ: । अप्रार्थितमपि ददामीत्याह हे ब्रह्मन् समरुद्गण: मरुद्गणसहितो ऽहं ते तुभ्यं दीर्घमायुश्च ददामि । समरुद्गण इत्युक्त्या यावद्वायुसञ्चारमीदृक् ते ख्यातिर्भविष्यतीति सूचितम् ।। 1.65.20 ।।



स्वस्तीति । हे सौम्य स्वस्ति वाञ्छितप्राप्तिजनितसुखं प्राप्नुहि ते तव भद्रं कल्याणम् । अत: यथासुखं सुखमनतिक्रम्य गच्छ स्वगृहमिति शेष: । अर्धं पृथक् पितामहेति पितामहवच: श्रुत्वा सर्वेषां ब्रह्मसहितानां त्रिदिवौकसां प्रणामं च कृत्वा मुदितो महामुनिर्विश्वामित्र: व्याजहार कथयामास ।। 1.65.21 ।।



तद्वचनमेवाह ब्राह्मण्यमिति । दीर्घं चिरकालिकमायुस्तथैव ब्राह्मण्यं ब्रह्मर्षिपदं च यदि मे मया प्राप्तं भवत्प्रसादाल्लब्धमित्यर्थ: । तर्हि कार: प्रणवं कारयति प्रकटयति स्वनियम्यब्रह्मद्वारेति कारो रघुनाथ: वषट्कार: वषडुपलक्षितस्वाहादे: कार: करणमुच्चारणमिति यावत् यस्मिन्स रामोद्देश्यकसाङ्गसकलयाग: वेदा: उक्तोभयसूचकसाङ्गसामादयश्च मां वरयन्तु वशिष्ठादिष्विव मयि साक्षात्कारा भवन्त्वित्यर्थ: । अथशब्दश्चार्थे ।। 1.65.22 ।।



भवद्दत्तवरे वशिष्ठस्यापि सम्मति: स्यादिति बोधयन्नाह क्षत्रेति । हे देवता: क्षत्रवेदविदां धनुर्वेदादिज्ञातृ़णां ब्रह्मवेदविदां ब्राह्मणैकवेद्यब्रह्मदण्डाभिधवेदाभिज्ञानामपि श्रष्ठ: ब्रह्मपुत्रो वशिष्ठ: एवमनेन भवदुक्तब्राह्मण्येन रूपेण मां वदतु । एतेन परमाचार्यभूतवशिष्ठप्रसादमन्तरा रामप्रीतिर्न भवतीति ध्वनितम् । तेन रामप्रीतिकामैर्वसिष्ठो ऽवश्यं प्रसादयितव्य इति व्यक्तम् । तत्र प्रमाणम् "आचार्यवान् पुरुषो वेद" इत्यादि ।। 1.65.23 ।।



यदीति । परम उत्कृष्ट: कामो मदिच्छाविषयीभूत: अयं मत्प्रार्थितो यदि कृतो भवद्भि: सम्पादितस्तर्हि हे सुरर्षभा: भवन्तो यान्तु । ततो विश्वामित्रप्रार्थनानन्तरं देवै: प्रसादित: प्रसन्नतां प्रापित: जपतां वरो ब्रह्मर्षिर्वसिष्ठ: एवमस्तु इत्यब्रवीत् सख्यं च चकार विश्वामित्रेण सहेति शेष: । सार्धश्लोक एकान्वयी ।। 1.65.24 ।।



सख्यसम्पत्त्युत्तरकालिकं देवतावचनमाह ब्रह्मर्षिरिति । त्वं ब्रह्मर्षि: अत्र सन्देहो न वशिष्ठसख्यप्राप्त्या संशयो ध्वस्त इत्यर्थ: अतस्तव सर्वं कार्यं सम्पत्स्यते सेत्स्यति इति सर्वा देवता: पुनरुक्त्वा यथागतमेव जग्मु: । चशब्द: पुनरर्थे अपिरेवार्थे ।। 1.65.25 ।।



धर्मात्मा विश्वामित्रो ऽपि उत्तमं ब्राह्मण्यं लब्ध्वा जपतां वरं ब्रह्मर्षिं वशिष्ठं पूजयामास । तपसि स्थित: अत एव कृतकामो विश्वामित्र: सर्वां महीं चचार यथेच्छं गमनं चकारेत्यर्थ: ।। 1.65.26,27 ।।

एवमिति । हे राम महात्मनानेन विश्वामित्रेण एवमुक्तप्रकारेणैव ब्राह्मण्यं प्राप्तमजो हे राम एष विश्वामित्रो मुनिश्रेष्ठ: एष विग्रहवत् शरीरधारि तपश्च । तुशब्द एवार्थे ।। 1.65.28 ।।



एष: नित्यं धर्मपर: एष: वीर्यस्य पराक्रमस्य परायणम् अर्धं पृथक् । शतानन्दवच:श्रवणानन्तरकालिकं वृत्तमाह शतानन्देति रामलक्ष्मणसन्निधौ शतानन्दवच: श्रुत्वा प्राञ्जलिर्जनक: कुशिकात्मजं वाक्यमुवाच ।। 1.65.29 ।।



तद्वाक्यमेवाह धन्य इति । हे धार्मिक हे ब्रह्मन् हे महामुने यस्य मे यज्ञं काकुत्स्थसहित: यो मुनिपुङ्गवस्त्वं प्राप्तवानसि तेन त्वया दर्शनेन सो ऽहं पावित: अस्मि अत एव अनुगृहीतो ऽस्मि अत एव धन्यो ऽस्मि ।। 1.65.30,31 ।।



गुणा इति । हे ब्रह्मन् हे महातेज: तव सन्दर्शनात् त्वत्कर्मकसन्दर्शनत: बहुविधा: अनेकप्रकारा: गुणा: चित्तप्रसादप्रतिष्ठितत्वसुखादय: मया प्राप्ता: यत: सद: यागसभां प्राप्य महात्मना रामेण सदस्यैश्च सहितेन मया विस्तरेण कीर्त्यमानं शतानन्देन वर्ण्यमानं ते तव महत्तप: श्रुतं ते तव बहवो ऽनेकविधा गुणा: तपोजनितप्रभावाश्च श्रुता: । एकश्चो हेतौ ।। 65.32,33 ।।



तत्तपआदीनां महत्वं बोधयन्नाह अप्रमेयमित्यादित्रयेण । यद्यपि हे कुशिकात्मज तुभ्यं तव तप: अप्रमेयं प्रमातुमशक्यमत एव ते बलं चाप्रमेयमत एव नित्यं विद्यमानास्ते गुणाश्चाप्रमेया: अत एव हे विभो हे मुनिश्रेष्ठ आश्चर्यभूतानां ते कथानां श्रृण्वतो मे तृप्तिर्नास्ति अत एव स्वागतं तवागमनमतिमङ्गलप्रदमित्यर्थ: । तथापि रविमण्डलं लम्बते अस्तं गच्छति अत: कर्मकाल: सम्प्राप्त इति शेष: । अत: हे जपतां श्रष्ठ मामनुज्ञातुं गृहगमनायाज्ञापयितुं त्वमर्हसि मां तु श्व: प्रभाते द्रष्टुमर्हसि एतेन त्वमपि स्वस्थानं गच्छेति बोधितम् । एवो यद्यपीत्यर्थे । अत्र विवेकिशिरोमणिजनकस्य समस्तकर्मकाण्डफलभूतमहात्मकथाविरामप्रार्थनया ऽध्व श्रमविशिष्टरामचिरकालस्थित्यसहिष्णुत्वं सूचितं तेन रामस्य सुकुमारातिशय: सूचित: । श्लोकत्रयं सम्मिलितान्वयि ।। 1.65.35,36 ।।



एवमिति । तदा जनकप्रार्थनाकाले एवमनेन प्रकारेण उक्त: मुनिवर: प्रीतमना: विश्वामित्र: पुरुषर्षभं पुरुषश्रेष्ठं प्रीतं जनकं प्रशस्य अथ विससर्ज मङ्गलविसर्जनं चकारेत्यर्थ: ।। 1.65.37 ।।



विश्वामित्रोक्तिं संवर्ण्य जनकवृतमाह एवमिति । मिथिलाधिप: सोपाध्याय: सबान्धव: वैदेहो जनक: मुनिश्रेष्ठं विश्वामित्रमेवमुक्त्वा आशु प्रदक्षिणं चकार । आशु इत्यनेन गृहं गत्वा कदा इमां कथां वर्णयिष्यामीत्यभिलाषातिशय: सूचित: ।। 1.65.38 ।।



विश्वामित्र इति । धर्मात्मा सराम: रामसहित: सहलक्ष्मण: लक्ष्मणसहित: महर्षिभि: सह पूज्यमान: विश्वामित्रो ऽपि स्ववाटं स्ववासस्थानमभिचक्राम ।। 1.65.39 ।।



इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे पञ्चषष्टितम: सर्ग: ।। 1.65 ।।