Content

तस्य लाङ्गलहस्तन्य कर्षतः क्षेत्रमण्डलम्।

अहं किलोत्थिता भित्वा जगतीं नृपतेस्सुता।।2.118.28।।

Translation

तस्य his, लाङ्गलहस्तस्य of a man holding a plough in hand, क्षेत्रमण्डलम् the circular plot of land for performing sacrifice, कर्षतः while ploughing, अहम् I, नृपतेः king's, सुता as daughter, जगतीम् the earth, भित्वा breaking, उत्थिता किल arose, as they say.

When he was ploughing the circular plot of land for performing a sacrifice, it is said I emerged from the earth by breaking it and therefore I became his dauhghter.
Sanskrit Commentary by Govindaraja
सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया ।

प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ।। 2.118.1 ।।

नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे ।

विदितं तु ममाप्येतद्यथा नार्य्या: पतिर्गुरु: ।। 2.118.2 ।।

अथ सीतानसूयासंवादो ऽष्टादशोत्तरशततमे--सेति । अनसूया असूयारहिता । पातिव्रत्यधर्मोपदेशं गुणत्वेन गृहीतवतीत्यर्थ: ।। 2.118.12 ।।



यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जित: ।

अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ।। 2.118.3 ।।

किं पुनर्यो गुण: श्लाघ्य: सानुक्रोशो जितेन्द्रिय: ।

स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रिय: ।। 2.118.4 ।।

यद्यपीति । अद्वैधं द्वैधीभावरहितम् । उपचर्त्तव्य: गुणवत्त्वनिर्गुणत्वभेदं विहाय सम्यगुपचरणीय इत्यर्थ: । मातृवत्प्रिय: प्रियपरत्वात्, पितृवत्प्रिय: अत्यन्तहितपरत्वेन ।। 2.118.34 ।।



यां वृत्तिं वर्त्तते राम: कौसल्यायां महाबल: ।

तामेव नृपनारीणामन्यासामपि वर्त्तते ।। 2.118.5 ।।

सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सल: ।

मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ।। 2.118.6 ।।

यामिति । नृपनारीणा: सप्तम्यर्थे षष्ठी ।। 2.118.56 ।।



आगच्छन्त्याश्च विजनं वनमेवं भयावहम् ।

समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ।। 2.118.7 ।।

पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ ।

अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ।। 2.118.8 ।।

नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि ।

पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ।। 2.118.9 ।।

आगच्छन्त्या इति । श्वश्र्वा कौसल्यया यत्पातिव्रत्यधर्माचरणं समाहितम् उपदिष्टमित्यर्थ: ।। 2.118.79 ।।



सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।

तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ।। 2.118.10 ।।

वरिष्ठा सर्वनारीणामेषा च दिवि देवता ।

रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ।। 2.118.11 ।।

सावित्रीति । तथावृत्तिस्त्वं च दिवं यातेत्युक्ति: पातिव्रत्यतपोमाहात्म्येन स्वर्गस्य हस्तगतत्वात् ।। 2.118.1011 ।।



एवंविधाश्च प्रवरा: स्त्रियो भर्तृदृढव्रता: ।

देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ।। 2.118.12 ।।

ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वच: ।

शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ।। 2.118.13 ।।

एवंविधा इति । भर्तृदृढव्रता: अतिसङ्कटदशायामपि भर्तृविषयदृढव्रतयुक्ता: ।। 2.118.1213 ।।



नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।

तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ।। 2.118.14 ।।

उपपन्नं मनोज्ञं च वचनं तव मैथिलि ।

प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ।। 2.118.15 ।।

नियमैरिति । छन्दये वरं वृणीष्वेति प्रार्थये ।। 2.118.1415 ।।



तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया

कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ।। 2.118.16 ।।

मन्दविस्मया मन्दस्मितेत्यर्थ: ।। 2.118.16 ।।



सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् ।

सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ।। 2.118.17 ।।

इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।

अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ।। 2.118.18 ।।

मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।

अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ।। 2.118.19 ।।

अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।

शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ।। 2.118.20 ।।

सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा ।

मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ।। 2.118.21 ।।

प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी ।

श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ।। 2.118.22 ।।

प्रहर्षं ते तुभ्यं सफलं करोमि करिष्यामि । अङ्गराग: कुङ्कुमहरिचन्दनादि: । अनुलेपनं कर्पूरागरुकस्तूरीप्रमुखपरिमलमिलितम् । अनुरूपं त्वद्ग्रात्रानुरूपम् । असंक्लिष्टम् अबाधितशोभमित्यर्थ: । भर्तारं शोभयिष्यसीत्यन्ते इत्यब्रवीच्चेत्यध्याहार: । सा अनसूया प्रीततराभवत् शोभयिष्यसीत्यब्रवीच्चेति सबन्ध: ।। 2.118.1722 ।।



तथा सीतासुपासीनामनसूया दृढव्रता ।

वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ।। 2.118.23 ।।

प्रियकथामनु प्रियां कथामुद्दिश्य । सीतां प्रष्टुं वचनमारेभे वचनं वक्तुमारेभे इत्यर्थ: ।। 2.118.23 ।।



स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।

राघवेणेति मे सीते कथा श्रुतिमुपागता ।। 2.118.24 ।।

तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।

यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ।। 2.118.25 ।।

एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।

श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ।। 2.118.26 ।।

मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् ।

क्षत्त्रधर्मे ह्यभिरतो न्यायत: शास्ति मेदिनीम् ।। 2.118.27 ।।

श्रुतिमुपागता श्रुतिपथं प्राप्ता ।। 2.118.2427 ।।



तस्य लाङ्गलहस्तस्य कर्षत: क्षेत्रमण्डलम् ।

अहं किलोत्थिता भित्त्वा जगतीं नृपते: सुता ।। 2.118.28 ।।

तस्येति । कर्षत: "षड्गवेन कृषति" इति श्रुत्या शोधनं कुवर्त: । क्षेत्रमण्डलं यागोपयोगिक्षेत्रम्, चयनस्थानमित्यर्थ: ।। 2.118.28 ।।

स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्पर: ।

पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ।। 2.118.29 ।।

मुष्टिविक्षेपतत्पर: "या जाता ओषधय इति चतुर्दशभिरोषधीर्वपति" इत्युक्तप्रकारेण ओषधिमुष्टिविकिरणतत्पर: ।। 2.118.29 ।।



अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ।

ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातित: ।। 2.118.30 ।।

अनपत्येन च तेन स्नेहान्मामङ्कमारोप्य इयं मम तनयेति चोक्त्वा स्नेहो मयि निपातित: । अङ्कम् उत्सङ्गम् ।। 2.118.30 ।।



अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल ।

एवमेतन्नरपते धर्मेण तनया तव ।। 2.118.31 ।।

तत: प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिप: ।

अवाप्तो विपुलामृद्धिं मामवाप्य नराधिप: ।। 2.118.32 ।।

मा प्रति मामुद्दिश्य 'एवमेतन्नरपते धर्मेण तनया तव' इति अन्तरिक्षे अमानुषीवागुक्ता । यद्वा वागुक्ताप्रतिमेत्यत्र अप्रतिमेति च्छित्वा वाग्विशेषणतया वा योज्यम् ।। 2.118.3132 ।।



दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा ।

तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ।। 2.118.33 ।।

दत्तेति । इष्टवद्देव्यै इच्छावत्यै देव्यै । पुण्यकर्मणा अनवरतयज्ञादिकर्मयुक्तेन जनकेन ।

सम्भाविता संवर्द्धितेत्यर्थ: ।। 2.118.33 ।।



पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।

चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधन: ।। 2.118.34 ।।

पतिसंयोगसुलभमिति । पतिसंयोगे सति सुलभम् अन्यथा दुर्ल्लभमित्यर्थ: । पतिसंयोगं विना स्थातुमशक्ययौवनावस्थावदित्यर्थ: ।। 2.118.34 ।।



सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।

प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ।। 2.118.35 ।।

प्रधर्षणां तिरस्क्रियाम् ।। 2.118.35 ।।



तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिव: ।

चिन्तार्णवगत: पारं नाससादाप्लवो यथा ।। 2.118.36 ।।

अप्लव: प्लवरहित: ।। 2.118.36 ।।



अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् ।

सदृशं चानुरूपं च महीपाल: पतिं मम ।। 2.118.37 ।।

तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् ।

स्वयं वरं तनूजाया: करिष्यामीति धीमत: ।। 2.118.38 ।।

अयोनिजामिति । सदृशम् अभिजनवृत्तादिना तुल्यम् । अनुरूपं प्रादुर्भूतयौवनाप्रतिमरूपलावण्यादिना योग्यम् ।। 2.118.3738 ।।



महायज्ञे तदा तस्य वरुणेन महात्मना ।

दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ।। 2.118.39 ।।

असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ।

तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपा: ।। 2.118.40 ।।

तद्धनु: प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।

समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ।। 2.118.41 ।।

वरुणेन दत्तं वरुणेनातिसहकारिणा दत्तम् ।। 2.118.3941 ।।



इदं च धनुरुद्यम्य सज्यं य: कुरुते नर: ।

तस्य मे दुहिता भार्या भविष्यति न संशय: ।। 2.118.42 ।।

भविष्यति न संशय इत्यत्र इतिकरणं द्रष्टव्यम् ।। 2.118.42 ।।



तच्च दृष्ट्वा धनु: श्रेष्ठं गौरवाद्गिरिसन्निभम् ।

अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ।। 2.118.43 ।।

सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युति: ।

विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागत: ।

लक्ष्मणेन सह भ्रात्रा राम: सत्यपराक्रम: ।। 2.118.44 ।।

विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजित: ।

प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ।। 2.118.45 ।।

सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ ।

धनुर्दर्शय रामाय राजपुत्राय दैविकम् ।। 2.118.46 ।।

इत्युक्तस्तेन विप्रेण तद्धनु: समुपानयत् ।

निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ।। 2.118.47 ।।

ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ।। 2.118.48 ।।

तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनु: ।

तस्य शब्दो ऽभवद्भीम: पतितस्याशनेरिव ।। 2.118.49 ।।

ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना ।

निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ।। 2.118.50 ।।

तोलने चालने ।। 2.118.4350 ।।



दीयमानां न तु तदा प्रतिजग्राह राघव: ।

अविज्ञाय पितुश्छन्दमयोध्याधिपते: प्रभो: ।। 2.118.51 ।।

तत: श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् ।

मम पित्रा त्वहं दत्ता रामाय विदितात्मने ।। 2.118.52 ।।

मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।

भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ।। 2.118.53 ।।

एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे ।

अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ।। 2.118.54 ।।

दीयमानामिति । छन्दम् अभिप्रायम् । "वशाभिप्राययोश्छन्द:" इति वैजयन्ती ।। 2.118.5154 ।।



इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततम: सर्ग: ।। 118 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टादशोत्तरशततम: सर्ग: ।। 118 ।।