Content

व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया।

यथा स्वयंवरं वृत्तं तत्सर्वं हि श्रुतं मया।।2.119.2।।

रमेऽहं कथया ते तु दृढं मधुरभाषिणि।

Translation

त्वया by you, व्यक्ताक्षरपदम् with each word and each syllable uttered clearly, चित्रम् wonderful, मधुरम् sweet, भाषितम् spoken, स्वयंवरम् the ceremony in which the bride chooses the groom of her own accord, यथा as, वृत्तम् it happened, तत्सर्वं all that, मया by me, श्रुतं हि has been heard, मधुरभाषिणि O sweetspeaking, Sita, ते your, कथया in the story, अहम् I, दृढम् रमे I enjoy greatly.

You have related wonderfully and sweetly your Swayamvara with each word and each syllable uttered clearly. I have heard everything as it happened. O sweetspeaking Sita, I have greatly enjoyed your story.
Sanskrit Commentary by Govindaraja
अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।

पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ।। 2.119.1 ।।

व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।

यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया ।

रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ।। 2.119.2 ।।

अथात्र्याश्रमे रजनीमुषित्वा प्रातर्निर्गम एकोनविंशत्युत्तरशततमे--अनसूयेत्यादि ।। 2.119.12 ।।



रविरस्तं गत: श्रीमानुपोह्य रजनीं शिवाम् ।

दिवसं प्रतिकीर्णानामाहारार्थं पतत्ित्रणाम् ।

सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनि: ।। 2.119.3 ।।

रविरित्यादि । उपोह्य समीपं प्रापय्य स्वसंचाराद् विमुक्तं प्रदेशं प्रापय्येत्यर्थ: ।। 2.119.3 ।।



एते चाप्यभिषेकार्द्रा मुनय: कलशोद्यता: ।

सहिता उपवर्तन्ते सलिलाप्लुतवल्कला: ।। 2.119.4 ।।

एत इति । कलशोद्यता: उद्यतकलशा: ।। 2.119.4 ।।



ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ।

कपोताङ्गारुणो धूमो दृश्यते पवनोद्धत: ।। 2.119.5 ।।

कपोताङ्गारुण: कपोतकन्धरावदव्यक्तराग: । "अव्यक्तरागस्त्वरुण:" इत्यमर: ।। 2.119.5 ।।



अल्पपर्णाहि तरवो घनीभूता: समन्तत: ।

विप्रकृष्टेपि देशे ऽस्मिन्न प्रकाशन्ति वै दिश: ।। 2.119.6 ।।

विप्रकृष्टेपि देशे अल्पपर्णा: ये तरवस्तेपि समन्तत: घनीभूताहि अव्यक्तपर्णान्तरालत्वात् सान्द्रीभूता इव । तत्र हेतुमाह न प्रकाशन्ति वै दिश इति ।। 2.119.6 ।।



रजनीचरसत्त्वानि प्रचरन्ति समन्तत: ।

तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ।। 2.119.7 ।।

सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता ।

जोत्स्नाप्रावरणश्चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ।। 2.119.8 ।।

रजनीचरेति । वेदितीर्थेषु वेद्यवतरणप्रदेशेषु । "तीर्थं मन्त्राद्युपाध्यायशास्त्रेष्वम्भसि पावने । पात्रोपधावतरणेषु" इति वैजयन्ती ।। 2.119.78 ।।



गम्यतामनुजानामि रामस्यानुचरी भव ।

कथयन्त्या हि मधुरं त्वयाहं परितोषिता ।। 2.119.9 ।।

अनुजानामि अनुमतिं करोमि । अनुचरी भवेति पाठ: ।। 2.119.9 ।।



अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ।

प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ।। 2.119.10 ।।

सा तथा समलंकृत्य सीता सुरसुतोपमा ।

प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ।। 2.119.11 ।।

तथा तु भूषितां सीतां ददर्श वदतां वर: ।

राघव: प्रीतिदानेन तपस्विन्या जहर्ष च ।। 2.119.12 ।।

अलङ्कुर्विति । अलङ्कुरु आत्मानमिति शेष: ।। 2.119.1012 ।।



न्यवेदयत्तत: सर्वं सीता रामाय मैथिली ।

प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ।। 2.119.13 ।।

प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथ: ।

मैथिल्या: सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ।। 2.119.14 ।।

ततस्तां शर्वरीं प्रीत: पुण्यां शशिनिभानन: ।

अर्चितस्तापसै: सिद्धैरुवास रघुनन्दन: ।। 2.119.15 ।।

न्यवेदयदिति । प्रीत्या दीयत इति प्रीतिदानम् । कर्मणि ल्युट् । वसनाभरणस्रजां समाहारोवसनाभरणस्रजम् "द्वन्द्वाच्चुदषहान्तात्समाहारे" इति समासान्तष्टच् । वसनाभरणस्रजामितिपाठे प्रीतिदानमिति भावे ल्युट् ।। 2.119.1315 ।।



तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ।

आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ।। 2.119.16 ।।

तस्यामिति । अभिषिच्य हुताग्निकान् स्नात्वा कृतहोमान् ।। 2.119.16 ।।



तावूचुस्ते वनचरास्तापसा धर्मचारिण: ।

वनस्य तस्य सञ्चारं राक्षसै: समभिप्लुतम् ।। 2.119.17 ।।

ताविति । वनस्य सञ्चारं कन्दमूलफलाद्यहरणार्थं सञ्चारम् । राक्षसै: समभिप्लुतं सम्यक् उपद्रुतमूचु: ।। 2.119.17 ।।



रक्षांसि पुरुषादानि नानारूपाणि राघव ।

वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशना: ।। 2.119.18 ।।

उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ।

अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ।। 2.119.19 ।।

एष पन्था महर्षीणां फलान्याहरतां वने ।

अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ।। 2.119.20 ।।

रक्षांसीति । व्याला: हिंस्रपशव: । "सर्प्पहिंस्रपशू व्यालौ" इत्यमर: ।। 2.119.1820 ।।



इतीव तै: प्राञ्जलिभिस्तपस्विभिर्द्विजै: कृत: स्वस्त्ययन: परं तप: ।

वनं सभार्य्य: प्रविवेश राघव: सलक्ष्मण: सूर्य्यमिवाभ्रमण्डलम् ।। 2.119.21 ।।

इतीवेति । तै: प्राञ्जलिभि: तपस्विभि: द्विजै:कृतस्वस्त्ययन: कृतमङ्गलाशीर्वचन: ।। 2.119.21 ।।



इत्यार्षे श्रीरामायणे श्रीवाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदयोध्याकाण्डे एकोनविंश्ात्युत्तरशततम: सर्ग: ।। 119 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनविंशत्युत्तरशततम: सर्ग: ।। 119 ।।



इत्ययोध्याकाण्ड: ।। 2 ।।

इत्थं श्रीमच्छठारेश्चरणसरसिजद्वन्द्वनिर्द्वन्द्वसेवानिर्द्धूताशेषमोहो निरुपमधिषण: कौशिकानां कुलेन्दु: । गोविन्दार्य्यो ऽनिवार्य्यप्रतिकथकगजस्तोमपञ्चास्यरूपष्टीकां पीताम्बराख्यां व्यतनुत विपुलां साधुसाकेतकाण्डे ।। 1 ।।

अयोध्याकाण्ड: समाप्त: ।। 2 ।।