Content

एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः।

जटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन्।।2.19.2।।

Translation

एवम् अस्तु be it so अहम् I, राज्ञः king's, प्रतिज्ञाम् promise, अनुपालयन् while obeying, जटाजिनधरः wearing matted locks and deer skin , इतः from here, वनम् to the forest, वस्तुम् to live, गमिष्यामि shall go.

Be it so I shall go from here to the forest and live there with matted hair and deerskin to keep the promise of the king.
Sanskrit Commentary by Govindaraja
तदप्रियममित्रघ्नो वचनं मरणोपमम् ।

श्रुत्वा न विव्यथे राम: कैकेयीं चेदमब्रवीत् ।। 2.19.1 ।।

तदिति । मरणोपममिति लोकदृष्ट्या ।। 2.19.1 ।।



एवमस्तु गमिष्यामि वनं वस्तुमहं त्वित: ।

जटाजिनधरो राज्ञ: प्रतिज्ञामनुपालयन् ।। 2.19.2 ।।

एवमिति । इत: अस्मान्नगरात् ।। 2.19.2 ।।



इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपति: ।

नाभिनन्दति दुर्द्धर्षो यथापुरमरिन्दम: ।। 2.19.3 ।।

इदं त्विति । यद्यप्येतेन कारुण्येन समाप्लुत इत्यनभिनन्दने हेतुरुक्त: । तथापि मत्स्वभावं जानन् किमर्थं नाभिनन्दतीत्याहेति बोध्यम् । यथापुरं यथापूर्वम् ।। 2.19.3 ।।



मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रत: ।

यास्यामि भव सुप्रीता वनं चीरजटाधर: ।। 2.19.4 ।।

मन्युरिति । मन्यु: दैन्यम् । "मन्युर्दैन्ये क्रतौ क्रुधि" इत्यमर: । ब्रूमि ब्रवीमि ।। 2.19.4 ।।



हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च ।

नियुज्यमानो विस्रब्ध: किं न कुर्यामहं प्रियम् ।। 2.19.5 ।।

हितेनेति । हितेन हितपरेण । गुरुणेत्यनेन रामस्य तस्मान्मन्त्रविशेषस्वीकारो ऽस्तीति गम्यते । कृतज्ञेन स्वकृतवरप्रदानाभिज्ञेन ।। 2.19.5 ।।



अलीकं मानसं त्वेकं हृदयं दहतीव मे ।

स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् ।। 2.19.6 ।।

अलीकमिति । अलीकम् अप्रियम् । मानसं मनसि वर्त्तमानम् ।। 2.19.6 ।।



अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च ।

हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदित: ।। 2.19.7 ।।

तवाप्रीतिर्भविष्यतीति नोक्तवानित्याशङ्क्याह--अहं हीति । सीतां धनुर्भङ्गकाल इति भाव: ।। 2.19.7 ।।



किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदित: ।

तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ।। 2.19.8 ।।

किं पुनरिति । पित्रा प्रयोदितस्तव प्रियकामार्थं प्रतिज्ञामनुपालयंश्च दद्यामिति किं पुन: ।। 2.19.8 ।।



तदाश्वासय हीमं त्वं किं न्विदं यन्महीपति: ।

वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ।। 2.19.9 ।।

गच्छन्तु चैवानयितुं दूता: शीघ्रजवैर्हयै: ।

भरतं मातुलकुलादद्यैव नृपशासनात् ।। 2.19.10 ।।

तदिति । इमं राजानं त्वमाश्वासय अश्रूणि मुञ्चतीति यत् इदं किंनु, निर्हेतुकमित्यर्थ: ।। 2.19.910 ।।



दण्डकारण्यमेषो ऽहमितो गच्छामि सत्वर: ।

अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ।। 2.19.11 ।।

सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी ।

प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् ।। 2.19.12 ।।

एवं भवतु यास्यन्ति दूता: शीघ्रजवैर्हयै: ।

भरतं मातुलकुलादुपावर्त्तयितुं नरा: ।। 2.19.13 ।।

दण्डकेति । पितुर्वाक्यमविचार्य वनं गच्छेति पित्रा नोक्तमिति विचारमकृत्वेत्यर्थ: । समा:संवत्सरान् ।। 2.19.1113 ।।



तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् ।

राम तस्मादित: शीघ्रं वनं त्वं गन्तुमर्हसि ।। 2.19.14 ।।

अयं यावद्भरतागमनं विलम्बिष्यते चेन्महाननय: स्यात्, भरतस्य ज्येष्ठभ्रातृभक्तत्वादिति मत्वाह--तव त्विति । उत्सुकस्य भरताभिषेकदर्शनोत्सुकस्य गमनोत्सुकस्य वा ।। 2.19.14 ।।



व्रीडान्वित: स्वयं यच्च नृपस्त्वां नाभिभाषते ।

नैतत्किञ्चिन्नरश्रेष्ठ मन्युरेषोपनीयताम् ।। 2.19.15 ।।

यावत्त्वं न वनं यात: पुरादस्मादभित्वरन् ।

पिता तावन्न ते राम स्नास्यते भोक्ष्यते ऽपि वा ।। 2.19.16 ।।

व्रीडान्वित इति । नृपो व्रीडान्वित: सन् स्वयं नाभिभाषत इति यत् एतत् न किञ्चिद्विचारानर्हं व्रीडां विना कारणान्तराभावात् । मन्यु: स्वयं नाभिभाषत इत्याग्रह: दैन्यं वा ।। 2.19.1516 ।।



धिक्कष्टमिति निश्वस्य राजा शोकपरिप्लुत: ।

मूर्च्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते ।। 2.19.17 ।।

धिगिति । उक्तासत्यवचनं श्रुत्वेति भाव: ।। 2.19.17 ।।



रामोप्युत्थाप्य राजानं कैकेय्याभिप्रचोदित: ।

कशये वाहतो वाजी वनं गन्तुं कृतत्वर: ।। 2.19.18 ।।

तदप्रियमनार्याया वचनं दारुणोदयम् ।

श्रुत्वा गतव्यथो राम: कैकेयीं वाक्यमब्रवीत् ।। 2.19.19 ।।

राम इति । कृतत्वर: अभूदिति शेष: ।। 2.19.1819 ।।



नाहमर्थपरो देवि लोकमावस्तुमुत्सुहे ।

विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् ।। 2.19.20 ।।

नेति । लोकमावस्तुं लोके वस्तुम् । "उपान्वध्याङ्वस:" इतिकर्मत्वम् । धर्मम् आस्थितम् आश्रितम् । अनेन राज्याय भरतागमनं प्रतीक्षते राम इति कैकेयीशङ्का वारिता ।। 2.19.20 ।।



यदत्रभवत: किञ्चिच्छक्यं कर्तुं प्रियं मया ।

प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ।। 2.19.21 ।।

यदिति । अत्रभवत: पूज्यस्य पितु: कृतमेवेति विद्धीति शेष: ।। 2.19.21 ।।



न ह्यतो धर्मचरणं किञ्चिदस्ति महत्तरम् ।

यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ।। 2.19.22 ।।

अनुक्तोप्यत्रभवता भवत्या वचनादहम् ।

वने वत्स्यामि विजने वर्षाणीह चतुर्दश ।। 2.19.23 ।।

न हीति । शुश्रूषा पादसंवाहनादि: । वचनक्रिया वचनकरणम् ।। 2.19.2223 ।।



न नूनं मयि कैकेयि किञ्चिदाशंससे गुणम् ।

यद्राजानमवोचस्त्वं ममेश्वरतरा सती ।। 2.19.24 ।।

नेति । गुणम् आर्जवौदार्यादिगुणम् । नाशंससे न जानीष इत्यर्थ: । ईश्वरतरा अत्यन्तनियन्त्री ।। 2.19.24 ।।



यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् ।

ततो ऽद्यैव गमिष्यामि दण्डकानां महद्वनम् ।। 2.19.25 ।।

अद्यैव गन्तव्यमित्युक्तम्, तत्र यत्किञ्चिद्विलम्बं याचते--यावदिति । मातरं यावदापृच्छे सीतां चानुनयामि तावदनुज्ञां कुर्विति शेष: । तत: तदनन्तरम् । अद्यैव दिने । दण्डकानां महद्वनं दण्डो नामेक्ष्वाकुसुतस्तस्य राष्ट्रं शुक्रशापात्पांसुवर्षेण विनाशितं सदरण्यमभूत् तद्राष्ट्रं तन्नाम्ना दण्डकमित्युच्यते । "संज्ञायां कन्" इतिकन्प्रत्यय: । प्रदेशभेदात् बहुवचनम् ।। 2.19.25 ।।



भरत: पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा ।

तथा भवत्या कर्त्तव्यं स हि धर्मस्सनातन: ।। 2.19.26 ।।

भरत इति । धर्म: सनातन इत्यत्र धर्मापेक्षया पुँल्लिङ्गत्वम् ।। 2.19.26 ।।



स रामस्य वच: श्रुत्वा भृशं दु:खहत: पिता ।

शोकादशक्नुवन् बाष्पं प्ररुरोद महास्वनम् ।। 2.19.27 ।।

स इति । बाष्पमशक्नुवन्, निरोद्धुमिति शेष: ।। 2.19.27 ।।



वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तथा ।

कैकेय्याश्चाप्यनार्याया निष्पपात महाद्य़ुति: ।। 2.19.28 ।।

स राम: पितरं कृत्वा कैकेयीं च प्रदक्षिणम् ।

निष्क्रम्यान्त: पुरात्तस्मात् स्वं ददर्श सुहृज्जनम् ।। 2.29.29 ।।

तं बाष्पपरिपूर्णाक्ष: पृष्ठतो ऽनुजगाम ह ।

लक्ष्मण: परमक्रुद्ध: सुमित्रानन्दवर्द्धन: ।। 2.19.30 ।।

वन्दित्वेति । निष्पपात निर्जगाम ।। 2.19.2830 ।।



आभिषेचनिकं भाण्डं कृत्वा राम: प्रदक्षिणम् ।

शनैर्जगाम सापेक्षो हृष्टिं तत्राविचालयन् ।। 2.19.31 ।।

आभिषेचनिकमिति । आभिषेचनिकम् अभिषेकप्रयोजनकम् । भाण्डम् उपकरणजातम् । प्रदक्षिणकरणं "प्रशस्तमाङ्गल्यदेवतायतन च तुष्पथादीन् प्रदक्षिणमावर्त्तयेत्" इत्यादिधर्मशास्त्रोल्लङ्घनभयात् न तु तदासक्त्या । दृष्टिं तत्राविचालयन् स्वयं तत्र निरपेक्ष इत्यर्थ: । सापेक्ष: भरतस्यानेनाभिषेकोस्त्विति प्रार्थनासहित: शनैर्जगाम, तत्र देवतासान्निध्यसम्भवादिति भाव: ।। 2.19.31 ।।



न चास्य महतीं लक्ष्मीं राज्यनाशो ऽपकर्षति ।

लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षपा ।। 2.19.32 ।।

न चेति । लक्ष्मीं मुखविकासम् । राज्यनाश: राज्यभ्रंश: ।। 2.19.32 ।।



न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् ।

सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ।। 2.19.33 ।।

रामस्य मुखवैवर्ण्यादिशरीरविकाराभावमभिधाय मानसविकाराभावमप्याह--न वनमिति । सर्वलोकातिगस्य तुल्यमानावमानस्य, परमयोगीश्वरस्येत्यर्थ: ।। 2.19.33 ।।



प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते ।

विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ।। 2.19.34 ।।

प्रतिषिध्येत्यादि । व्यजने वालव्यजने ।। 2.19.34 ।।



धारयन् मनसा दु:खमिन्द्रियाणि निगृह्य च ।

प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान् ।। 2.19.35 ।।

धारयन्निति । रामस्य परदु:खासहिष्णुत्वाद्दु:खशब्देन सुहृज्जनदु:खदर्शनजं दु:खमुच्यते । अप्रियशंसिवान् अप्रियमभिधातुकाम: । क्वसु: समासाभ्यासलोप आर्ष: ।। 2.19.35 ।।



सर्वो ह्यभिजन: श्रीमान् श्रीमत: सत्यवादिन: ।

नालक्षयत रामस्य किञ्चिदाकारमानने ।। 2.19.36 ।।

सर्व इति । आकारं विकृताकारम् । श्रीमान् रामाभिषेकार्थं कृतालङ्कार: ।। 2.19.36 ।।



उचितं च महाबाहुर्न जहौ हर्षमात्मन: ।

शारद: समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम् ।। 2.19.37 ।।

उचितमिति । उचितं योग्यम्, सहजमित्यर्थ: ।। 2.19.37 ।।



वाचा मधुरनया राम: सर्वं सम्मानयन् जनम् ।

मातु: समीपं धीरात्मा प्रविवेश महायशा: ।। 2.19.38 ।।

एतादृशदुर्दशायामपि रमयितृत्वरूपं रामशब्दार्थं प्रकटयति--वाचेति ।। 2.19.38 ।।



तं गुणै: समतां प्राप्तो भ्राता विपुलविक्रम: ।

सौमित्रिरनुवव्राज धारयन् दु:खमात्मजम् ।। 2.19.39 ।।

तमिति । गुणै: सुखदु:खादिभि: । समतां प्राप्त:, समानसुखदु:ख इत्यर्थ: ।। 2.19.39 ।।



प्रविश्य वेश्मातिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिमागताम् ।

न चैव रामो ऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया ।। 2.19.40 ।।

प्रविश्येति । अर्थविपत्तिं अर्थनाशम् । सुहृज्जनस्य आत्मविपत्तिशङ्कया प्राणनाशशङ्कया, विक्रियां न जगाम । स्वविक्रियास्फुरणे सुहृज्जनो नश्येदिति शङ्कया स्वविक्रियां राज्यनाशजां नादर्शयदित्यर्थ: ।। 2.19.40 ।।



इत्यार्षे श्रीरामायणे वाल्मीकाये आदि0 श्रीमदयोध्याकाण्डे एकोनविंश:सर्ग: ।। 19 ।।

इति श्रीगोविन्दाराजविरचिते श्रीरामायणभूषणे पीताम्बराव्याख्याने अयोध्याकाण्डव्याख्याने एकोनविंश: सर्ग: ।। 19 ।।