Content

[Rama enters to the inner apartment of his mother Kausalya--informs her of his exile to the forest--lamentations of Kausalya.]

तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ।

आर्तशब्दो महान् जज्ञे स्त्रीणामन्तःपुरे तदा।।2.20.1।।

Translation

तदा then, पुरुषव्याघ्रे tiger among men, तस्मिन् that Rama, कृताज्ञलौ with folded palms, निष्क्रामति while (he was) leaving, अन्तःपुरे in the inner apartment, स्त्रीणाम् women's, महान्
great, आर्तशब्दः cries of distress, जज्ञे arose.

When the tiger among men (Rama) was coming out with folded palms, there arose a huge cry of distress among the ladies of the harem:
Sanskrit Commentary by Govindaraja
तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ ।

आर्त्तशब्दो महान् जज्ञे स्त्रीणामत:पुरे तदा ।। 2.20.1 ।।

तस्मिन्निति । आर्तशब्द: आर्तानां यादृश: शब्दस्तादृश इत्यर्थ: ।। 2.20.1 ।।



कृत्येष्वचोदित: पित्रा सर्वस्यान्त:पुरस्य च ।

गतिर्य: शरणं चापि स रामो ऽद्य प्रवत्स्यति ।। 2.20.2 ।।

कृत्येष्विति । अन्त:पुरस्य कृत्येषु कर्त्तव्येषु विषये । गति: कर्तृत्वेन प्राप्य: । शरणं रक्षिता । "शरणं गृहरक्षित्रो:" इत्यमर: ।। 2.20.2 ।।



कौसल्यायां यथा युक्तो जनन्यां वर्त्तते सदा ।

तथैव वर्तते ऽस्मासु जन्मप्रभृति राघव: ।। 2.20.3 ।।

कौसल्यायामिति । युक्त: सावधान: । वर्तते शुश्रूषते ।। 2.20.3 ।।



न क्रुध्यत्यभिशप्तो ऽपि क्रोधनीयानि वर्ज्जयन् ।

क्रुद्धान् प्रसादयन् सर्वान् स इतो ऽद्य प्रवत्स्यति ।। 2.20.4 ।।

न क्रुध्यतीति । य: अभिशप्तो ऽपि परुषमुक्तो ऽपि न क्रुद्ध्यति । क्रोधनीयाने क्रोधहेतुकर्माणि वर्जयन् क्रुद्धान् केवलमाग्रहेण कुपितान् प्रसादयंश्च वर्त्तते, स: इत: अस्माद्देशात्प्रवत्स्यति । हन्तेति शेष: ।। 2.20.4 ।।



अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम् ।

यो गतिं सर्वलोकानां परित्यजति राघवम् ।। 2.20.5 ।।

अबुद्धिरिति । य: सर्वभूतानां गतिं राघवं परित्यजति स नो राजा अबुद्धि: सन् लोकान् चरति भक्षयति नाशयतीत्यर्थ: । "चर गतिभक्षणयो:" इति धातु: ।। 2.20.5 ।।



इति सर्वा महिष्यस्ता विवत्सा इव धेनव: ।

पतिमाचुक्रुशुश्चैव सस्वरं चापि चुक्रुशु: ।। 2.20.6 ।।

इतीति । आचुक्रुशु: निन्दति स्म । चुक्रुशु: रुरुदु: ।। 2.20.6 ।।



स हि चान्त:पुरे घोरमार्त्तशब्दं महीपति: ।

पुत्रशोकाभिसन्तप्त: श्रुत्वा व्यालीयतासने ।। 2.20.7 ।।

स इति । व्यालीयत लज्जादु:खभरेण शय्यायां विलीनो ऽभूदित्यर्थ: ।। 2.20.7 ।।



रामस्तु भृशमायस्तो निश्वसन्निव कुञ्जर: ।

जगाम सहितो भ्रात्रा मातुरन्त:पुरं वशी ।। 2.20.8 ।।

राम इति । भृशमायस्त: 'व्यसनेषु मनुष्याणां भृशं भवति दु:खित:' इत्युक्तगुणवत्तयान्त:पुरार्तस्वनश्रवणेनातिशयेन सञ्जातदु:ख: । निश्वसन्निव कुञ्जर: परदु:खस्यापरिहार्यतां मत्वा गुप्तदु:खस्सन्, कुञ्जर इव निश्वसन्नित्यर्थ: । वशी स्वायत्तीकृतेन्द्रिय: ।। 2.20.8 ।।



सो ऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् ।

उपविष्टं गृहद्वारि तिष्ठतश्चापरान् बहून् ।। 2.20.9 ।।

स इति । पुरुषं द्वारपालाध्यक्षम् ।। 2.20.9 ।।



दृष्टैव तु तदा रामं ते सर्वे सहसोत्थिता: ।

जयेन जयतां श्रेष्ठं वर्द्धयन्ति स्म राघवम् ।। 2.20.10 ।।

प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श स: ।

ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान् ।। 2.20.11 ।।

प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श स: ।

स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्परा: ।। 2.20.12 ।।

दृष्ट्वेति । जयेन विजयस्वेति जयाशिषा ।। 2.20.1012 ।।



वर्द्धयित्वा प्रहृष्टास्ता: प्रविश्य च गृहं स्त्रिय: ।

न्यवेदयन्त त्वरिता रामामतु: प्रियं तदा ।। 2.20.13 ।।

वर्धयित्वेति । वर्द्धयित्वा जयाशिषेति शेष: ।। 2.20.13 ।।



कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता ।

प्रभाते त्वकरोत् पूजां विष्णो: पुत्रहितैषिणी ।। 2.20.14 ।।

कौसल्येति । रात्रिं रात्रौ "कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया । समाहिता नियमयुक्ता ।। 2.20.14 ।।



सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा ।

अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला ।। 2.20.15 ।।

सेति । जुहोति हावयति, अत एव हावयन्तीमिति वक्ष्यति । ब्राह्मणैरिति शेष: ।। 2.20.15 ।।



प्रविश्य च तदा रामो मातुरन्त:पुरं शुभम् ।

ददर्श मातरं तत्र हावयन्तीं हुताशनम् ।

देवकार्यनिमित्तं च तत्रापश्यत् समुद्यतम् ।। 2.20.16 ।।

प्रविश्येत्यादि । देवकार्यनिमित्तमिति द्रव्यजातमिति शेष: ।। 2.20.16 ।।



दध्यक्षतं घृतं चैव मोदकान् हविषस्तथा ।। 2.20.17 ।।

दधीत्यादि । हविष: हवींषि ।। 2.20.17 ।।



लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा ।

समिध: पूर्णकुम्भाश्च ददर्श रघुनन्दन: ।। 2.20.18 ।।

लाजानिति । कृसरं तिलौदनम् । दध्यक्षतमित्यारभ्य वाक्यान्तरम्, अतो न क्रियाद्वयविरोध: । पूर्वं देवकार्यनिमित्तमिति द्रव्याणि सामान्येनोक्तानि । अथ विशेषेणेति विवेक: ।। 2.20.18 ।।



तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम् ।

तर्पयन्तीं ददर्शाद्भिर्देवतां देववर्णिनीम् ।। 2.20.19 ।।

तामिति । तर्प्पयन्तीं प्रीणयन्तीम् ।। 2.20.19 ।।



सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् ।

अभिचक्राम संहृष्टा किशोरं वडवा यथा ।। 2.20.20 ।।

सेति । अभिचक्राम अभिमुखं जगाम । किशोरम् अश्वबालकम् । वडवा अश्वस्त्री ।। 2.20.20 ।।



स मातरमभिक्रान्तामुपसंगृह्य राघव: ।

परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्द्धनि ।। 2.20.21 ।।

तमुवाच दुराधर्षं राघवं सुतमात्मन: ।

कौसल्यां पुत्रवात्सल्यादिदं प्रियहितं वच: ।। 2.20.22 ।।

वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् ।

प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले ।। 2.20.23 ।।

स इति । उपसंगृह्य अभिवाद्य । स्थित इति शेष: ।। 2.20.2123 ।।



सत्यप्रतिज्ञं पितरं राजानं पश्य राघव ।

अद्यैव हि त्वां धर्मात्मा यौवराज्ये ऽभिषेक्ष्यति ।। 2.20.24 ।।

सत्यप्रतिज्ञमिति । अभिषेक्ष्यतीत्यत्र हेतु: । इदानीमप्यभिषेको नारब्ध इति नाशङ्कनीयमिति भाव: । पश्य जानीहि ।। 2.20.24 ।।



दत्तमासनमालभ्य भोजनेन निमन्त्रित: ।

मातरं राघव: किञ्चिद्व्रीडात्प्राञ्जलिरब्रवीत् ।। 2.20.25 ।।

दत्तमित्यादि श्लोकद्वयमेकान्वयम् । स राघव: । भोजनेन निमन्त्रित: सन् दत्तमासनम् । आलभ्य स्पृष्ट्वा । दण्डकारण्यं प्रस्थितो ऽहम् आप्रष्टुं गमनं निमन्त्रयितुम् । उपचक्रमे उद्योगमकार्षमिति मातरमब्रवीदितिसम्बन्ध: । यद्वा दत्तमिति भोजनेन निमन्त्रित: भोजनार्थं निमन्त्रित: । भोजनार्थं दत्तमासनमालभ्य तिष्ठन् दत्तासने उपवेशनाभावेपि स्पर्शमात्रं कार्यमित्यागमात् किञ्चिद्व्रीडात् एवं ब्रुवन्त्यै मात्रे कथं मया प्रस्थानं कथनीयमिति लज्जया अब्रवीत् ।। 2.20.25 ।।



स स्वभावविनीतश्च गौरवाच्च तदानत: ।

प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ।। 2.20.26 ।।

किमर्थमासनमुपलभ्य नोपविष्टवानित्यत्राह--स इति । गौरवात् मातरि बहुमानात् । प्रस्थित: प्रस्थातुमुद्यत: । आप्रष्टुम् अनुज्ञां कारयितुम् । उपचक्रमे उपक्रान्तवान् ।। 2.20.26 ।।



देवि नूनं न जानीषे महद्भयमुपस्थितम् ।

इदं तव च दु:खाय वैदेह्या लक्ष्मणस्य च ।। 2.20.27 ।।

अब्रवीदित्युक्तमाह--देवीत्यादि । भयं तवेति शेष: । इदं वक्ष्यमाणं वचनं दु:खाय, तथापि वक्ष्यामीत्यर्थ: ।। 2.20.27 ।।



गमिष्ये दण्डकारण्यं किमनेनासनेन मे ।

विष्टरासनयोग्यो हि कालो ऽयं मामुपस्थित: ।। 2.20.28 ।।

इदंशब्दार्थमाह--गमिष्य इति । अनेन रत्नमयेन । विष्टरेत्यादि । विष्टरो नाम पञ्चविंशतिदर्भनिर्मितस्तापसासनविशेष: । "पञ्चाशद्भिर्भवेद्ब्रह्मा तदर्द्धेन तु विष्टर:" इति स्मृते: ।। 2.20.28 ।।



चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।

मधुमूलफलैर्जीवन् हित्वा मुनिवदामिषम् ।। 2.20.29 ।।

चतुर्दशेति । मुनिवत् वत्स्यामीति सम्बन्ध: । अत्रामिषशब्देन सूदै: संस्कृतं मांसमुच्यते । केवलं मांसस्वीकारस्योत्तरत्र वक्ष्यमाणत्वात् "इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना" इति ।। 2.20.29 ।।



भरताय महाराजो यौवराज्यं प्रयच्छति ।

मां पुनर्दण्डकारण्ये विवासयति तापसम् ।। 2.20.30 ।।

कुत एवामित्यत्राह--भरतायेति ।। 2.20.30 ।।



स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने ।

आसेवमानो वन्यानि फलमूलैश्च वर्त्तयन् ।। 2.20.31 ।।

स इति । सो ऽहमित्यर्थ: । लघुत्वप्रदर्शनाय षट् चाष्टौ चेत्युक्तम् । चतुर्दशेत्युक्ते हि गौरवं गम्यते । वन्यानि वनसम्बन्धीनि । वानप्रस्थयोग्यकर्माणीति यावत् । आसेवमान: आचरन् । वर्त्तयन् जीवनं कुर्वन् ।। 2.20.31 ।।



सा निकृत्तेव सालस्य यष्टि: परशुना वने ।

पपात सहसा देवी देवतेव दिवश्च्युता ।। 2.20.32 ।।

सेति । सा पुत्रोक्तं श्रुतवती । सालस्य वृक्षस्य "अनोकह: कुट: साल:" इत्यमर: । परशुनेति हठात् छेदनज्ञापनाय, नगरे तथा छेदनाभावात् वन इत्युक्तम् ।। 2.20.32 ।।



तामदु:खोचितां दृष्ट्वा पतितां कदलीमिव ।

रामस्तूत्थापयामास मातरं गतचेतसम् ।। 2.20.33 ।।

तामिति । गतचेतसं मूर्च्छिताम् ।। 2.20.33 ।।



उपावृत्त्योत्थितां दीनां वडवामिव वाहिताम् ।

पांसुकुण्ठितसर्वाङ्गीं विममर्श च पाणिना ।। 2.20.34 ।।

उपावृत्त्येति । उपावृत्त्योत्थितां श्रमनिवृत्त्यर्थं भुवि वेष्टनं कृत्वोत्थिताम् । वाहितां भारवहनं प्रापिताम् ।। 2.20.34 ।।



सा राघवमुपासीनमसुखार्त्ता सुखोचिता ।

उवाच पुरुषव्यार्घमुपशृण्वति लक्ष्मणे ।। 2.20.35 ।।

सेति । असुखार्ता दु:खार्ता ।। 2.20.35 ।।



यदि पुत्र न जायेथा मम शोकाय राघव ।

न स्म दु:खमतो भूय: पश्येयमहमप्रजा: ।। 2.20.36 ।।

यदीति । हे पुत्र त्वं यदि न जायेथा:, अत: अजननात् । भूय: अतिशयितम् । दु:खम् इष्टपुत्रविश्लेषजम् न पश्येयम् । अप्रजा: वन्ध्या ।। 2.20.36 ।।



एक एव हि वन्ध्याया: शोको भवति मानस: ।

अप्रजास्मीति सन्तापो न ह्यन्य: पुत्र विद्यते ।। 2.20.37 ।।

इदमेवोपपादयति--एक इति । अन्य: विश्लेषज:, भूलुण्ठनादि: कायिकश्च । अप्रजास्मीत्यसिजभावआर्ष: ।। 2.20.37 ।।



न दृष्टपूर्वं कल्याणं सूखं वा पतिपौरुषे ।

अपि पुत्रे तु पश्येयमिति राम स्थितं मया ।। 2.20.38 ।।

नेति । पतिपौरुषे सत्यपि कल्याणं ज्येष्ठपत्नीत्वोचितग्रामाभरणाद्यैश्वर्यरूपं शुभम् । सुखं वा भर्तृसम्माननादिजनितसौख्यं वा । अपि पुत्र इति अपि:सम्भावनायाम् । पुत्रे सति तद्बलात् पश्येयमिति मया स्थितमित्यर्थ: ।। 2.20.38 ।।



सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् ।

अहं श्रोष्ये सपत्नीनामवराणां वरा सती ।। 2.20.39 ।।

भूतदु:खमुक्त्वा भविष्यद्दु:खमाह--सेति । सा एवं सुखमलभमाना । बहूनीत्युक्ते: पूर्वमपि स्वल्पानि सन्तीति गम्यते । अमनोज्ञानि परुषाणि । परुषाणीत्युक्ते मनोज्ञमिश्रत्वमपि प्रतीयेत । वाक्यानि न तु सूचकपदानि । हृदयच्छिदां भर्त्तृहृदयवैकल्यकारिणीनाम् । अवराणां स्वेनैव तथा वक्तुमुचितानां सपत्नीनां न तु स्वाधीनानाम् । वरा सती स्वस्याप्यवरत्वे न किञ्चिद्दु:खमिति भाव: । क्रोधेन सपत्नीनामिति बहुवचनोक्ति: । तत्र हठात् स्वगृहं मा गच्छेत्युक्ति:, कोपेन भर्त्तृसकाशात् निर्याहीत्युक्ति:, अपुत्राया: किमुत्सवेनेत्युक्ति: इत्येवमादीनि सपत्नीवाक्यानि बोद्ध्यानि ।। 2.20.39 ।।



अतो दु:खतरं किन्नु प्रमदानां भविष्यति ।

मम शोको विलापश्च यादृशो ऽयमनन्तक: ।। 2.20.40 ।।

अत इति । अत: सपत्नीवाक्यश्रवणजाद्दु:खात् । प्रमदानां किं नु दु:खतरम्, तस्मान्मम शोको विलापश्च यादृश: इयत्तया वक्तुमशक्य: । अनन्तक: दुष्पार: ।। 2.20.40 ।।



त्वयि सन्निहितेप्येवमहमासं निराकृता ।

किं पुन: प्रोषिते तात ध्रुवं मरणमेवमे ।। 2.20.41 ।।

उक्तं दु:खं निदर्शयति--त्वयीति । बलवति त्वयि सन्निहिते ऽपि, एवं भवदनुभूतप्रकारेण, निराकृता । त्वयि प्रोषिते किं पुन: अतो मे मरणं ध्रुवमिति योजना ।। 2.20.41 ।।



अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमतन्त्रिता ।

परिवारेण कैकेय्या: समा वाप्यथवा वरा ।। 2.20.42 ।।

अत्यन्तमिति । भर्त्तु: भर्त्रा निगृहीता अहं अतन्त्रिता अप्रधानीकृतास्मि । "तन्त्रं प्रधाने सिद्धान्ते" इति निघण्टु: । अत: कैकेय्या: परिवारेण दासीजनेन समा कृतास्मि । अथवा विचार्यमाणे अवरा न्यूना कृतास्मि ।। 2.20.42 ।।



यो हि मां सेवते कश्चिदथवाप्यनुवर्त्तते ।

कैकेय्या: पुत्रमन्वीक्ष्य स जनो नाभिभाषते ।। 2.20.43 ।।

दु:खान्तरमाह--य इति । त्वयि प्रोषिते य: स्वजन: मां सेवते परिचरति । अनुवर्त्तते प्रियोक्तिं करोति । सो ऽपि कैकेय्या: पुत्रं भरतमन्वीक्ष्य तद्भयादित्यर्थ: । नाभिभाषते नाभिभाषेत ।। 2.20.43 ।।



नित्यक्रोधतया तस्या: कथं नु खरवादि तत् ।

कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता ।। 2.20.44 ।।

नित्यक्रोधतयेति । खरवादि परुषवचनशीलम् । तत् पूर्वानुभूतम् । दुर्गता अगतिका ।। 2.20.44 ।।



दश सप्त च वर्षाणि तव जातस्य राघव ।

आसितानि प्रकांक्षन्त्या मया दु:खपरिक्षयम् ।। 2.20.45 ।।

दशेति । तव जातस्य त्वयि जाते सति । दश सप्त च वर्षाणि दु:खपरिक्षयं प्रकाङ्क्षन्त्या तव यौवराज्येनेति भाव: । मया सुखमासितानि आस्थितानि । ननु "ऊनषोडशवर्षो मे रामो राजीवलोचन:" इति विश्वामित्रं प्रति दशरथवचनात् विवाहानन्तरम् "उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने" इत्युपरि सीतया वक्ष्यमाणत्वाच्च रामस्याष्टाविंशतिवर्षाणि वर्त्तन्ते । तत्कथं दश सप्त च वर्षाणीत्युच्यते इति चेत्, नैष दोष: । अत्र जातस्येत्युक्ति: द्वितीयजन्मापेक्षया "गर्भैकादशेषु राजन्यम्" इति बहुवचने गर्भनवममारभ्य क्षत्र्रियस्योपनयनकालत्वोक्ते: । "वयसा पञ्चविंशक:" इति सीतावचनात् वचनान्तरविरोधपरिहारादिकं बालकाण्ड एव कृतम् 'ऊनषोडशवर्षो मे' इत्यत्र ।। 2.20.45 ।।



तदक्षयमहं दु:खं नोत्सहे सहितुं चिरम् ।

विप्रकारं सपत्नीनामेवं जीर्णापि राघव ।। 2.20.46 ।।

तदिति । सहितुं सोढुं चिरं नोत्सहे । जीर्णापि सपत्नीदुर्वाक्यश्रवणदु:खेन जीर्णापि । विप्रकारम् अपकाररूपं दु:खमित्यन्वय: ।। 2.20.46 ।।



अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम् ।

कृपणा वर्तयिष्यामि कथं कृपणजीविकाम् ।। 2.20.47 ।।

अपश्यन्तीति । कृपणजीविकां दीनजीवनम् । वर्तयिष्यामि करिष्यामीत्यर्थ: । "आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने" इत्यमर: ।। 2.20.47 ।।



उपवासैश्च योगैश्च बहुभिश्च परिश्रमै: ।

दु:खसंवर्द्धितो मोघं त्वं हि दुर्गतया मया ।। 2.20.48 ।।

स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते ।

प्रावृषीव महानद्या: स्पृष्टं कूलं नवाम्भसा ।। 2.20.49 ।।

ममैव नूनं मरणं न विद्यते न चावकाशो ऽस्ति यमक्षये मम ।

यदन्तको ऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीमिव ।। 2.20.50 ।।

उपवासैरिति । योगै: देवताध्यानै: । परिश्रमै: व्रतै: । मोघं निष्फलं यथा भवति तथा । दुर्गतया भाग्यरहितयेति यावत् ।। 2.20.4850 ।।



स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्भुवि नावदीर्यते ।

अनेन दु:खेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते ।। 2.20.51 ।।

स्थिरं हीति । अनेन दु:खेन अर्पितम् आहतम् मम हृदयं न भिद्यते इति यत् अत: स्थिरं हि नाशरहितमेव । देहं च नावदीर्यत इति यत् अत: आयसम् अयोनिर्मितम्, नूनम् । तथाहि अकाले अविहितकाले मरणं न विद्यते ध्रुवम् ।। 2.20.51 ।।



इदं तु दु:खं यदनर्थकानि मे व्रतानि दानानि न संयमाश्च हि ।

तपश्च तप्तं यदपत्यकारणात् सुनिष्फलं बीजमिवोप्तमूषरे ।। 2.20.52 ।।

इदं त्विति । इदं वक्ष्यमाणं दु:खं तु पूर्वदु:खेभ्यो विलक्षणम् । तदेवाह यदिति । यस्मान्मे अपत्यकारणात् कृतानि व्रतानि दानानि, संयमा:ध्यानानि च अनर्थकानि जातानि । "सामान्ये नपुंसकम्" इति नपुंसकत्वम् । तप्तं तपश्च ऊषरे उप्तं बीजमिव सुनिष्फलमासीत् । इदन्तु दु:खमित्यन्वय: ।। 2.20.52 ।।



यदि ह्यकाले मरणं स्वयेच्छया लभेत कश्चिद्गुरुदु:खकर्शित: ।

गताहमद्यैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै ।। 2.20.53 ।।

'ध्रुवं ह्यकाले मरणं न विद्यते' इत्येतत् सकार्यं दर्शयति--यदि हीति । यदि लभेत तदाहं परेतसंसदं यमसभां गता स्यामित्यन्वय: ।। 2.20.53 ।।



अथापि किञ्जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ ।

अनुव्रजिष्यामि वनं त्वयैव गौ: सुदुर्बला वत्समिवानुकांक्षया ।। 2.20.54 ।।

अथेति । अथापि अकालमरणाभावेपि । किञ्जीवितं कुत्सितजीवितम् वृथा सुदुर्बला, अधीरेति यावत् । अनुकाङ्क्षया वात्सल्येन ।। 2.20.54 ।।



भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम् ।

व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किन्नरी ।। 2.20.55 ।।

भृशमिति । असुखं दु:खम् । अमर्षिता सोढुमशक्ता । व्यसनं रामविश्लेषभवं व्यसनम् । उपनिशाम्य आलोच्य ।। 2.20.55 ।।



इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे विंश: सर्ग: ।। 20 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने विंश: सर्ग: ।। 20 ।।