Content

[Rama convinces Lakshmana that destiny is allpowerful--cancels all arrangements for his consecration ceremony.]

अथ तं व्यथया दीनं सविशेषममर्षितम्।

श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम्।।2.22.1।।

आसाद्य रामस्सौमित्रिं सुहृदं भ्रातरं प्रियम्।

उवाचेदं स धैर्येण धारयन्सत्त्वमात्मवान्।।2.22.2।।

Translation

अथ thereafter, आत्मवान् selfpossessed, सः रामः that Rama, धैर्येण with fortitude, सत्त्वम् composure, धारयन् holding, व्यथया with mental agony, दीनम् miserable, सविशेषम् especially, अमर्षितम् indignant, नागेन्द्रमिव like a king cobra, श्वसन्तम् hissing, रोषविस्फारितेक्षणम् eyes widened with wrath, सुहृदम् to the intimate, प्रियं भ्रातरम् beloved brother, सौमित्रिम् to Lakshmana, आसाद्य having approached, इदम् these words, उवाच said.

The selfpossessed Rama held his composure and approached his beloved, intimate brother Lakshmana who was (looking) miserable with his mental agony. To him, who was hissing like a king cobra, he said:
Sanskrit Commentary by Govindaraja
अथ तं व्यथया दीनं सविशेषममर्षितम् ।

श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम् ।। 2.22.1 ।।

आसाद्य राम: सौमित्रिं सुहृदं भ्रातरं प्रियम् ।

उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान् ।। 2.22.2 ।।

अथ राम: सौमित्रे: कैकेयीविषयं रोषमुपशमयति--अथेत्यादिश्लोकद्वयमेकं वाक्यम् । सविशेषमन्तरङ्गजनापेक्षया सातिशयम् । अमर्षितं प्राप्तासहनम् । रोषविस्फारितेक्षणं क्रोधविस्तारितनयनम् । आसाद्य अभिमुखीकृत्य । सुहृत्त्वादिविशेषणं कोपेप्यनुपेक्षणीयत्वाय । सत्त्वं सर्वविषयकं स्वं बलम् । धैर्येण धारयन् अप्रकटयन् । आत्मवान् प्रशस्तमना:, वश्यमनस्क इत्यर्थ: ।। 2.22.12 ।।



निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम् ।

अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् ।। 2.22.3 ।।

उपक्लृप्तं हि यत्किञ्चिदभिषेकार्थमद्य मे ।

सर्वं विसर्जयक्षिप्रं पुरु कार्यं निरत्ययम् ।। 2.22.4 ।।

निगृह्येत्युपक्लृप्तमिति च श्लोकद्वयमेकान्वयम् । रोषं पित्रादि विषयम् । शोकं मद्विषयम् । रोषशोकयोर्निग्रहे हेतुमाह धैर्ममाश्रित्येति । केवलमिति धैर्यनैरन्तर्यमुच्यते । अवमानम् आरब्धाभिषेकत्यागपूर्वकवनगमनम् । निरस्य निजदौर्बल्यकृतत्वाभावान्निवार्य । उत्तमं हर्षं सत्यपरिपालनेन पितरं तारयिष्याम इति बुद्धिजन्यम् । मे ऽभिषेकार्थमुपक्लृप्तं सम्पादितं यत्किञ्चिदलङ्कारादिकं तत्सर्वं विसर्ज्जय । निरत्ययं निरपायं, सत्यपरिपालनोपयुक्तं । कार्यं वल्कलधारणादिकं कुरु ।। 2.22.34 ।।



सौमित्रे यो ऽभिषेकार्थे मम सम्भारसम्भ्रम: ।

अभिषेकनिवृत्त्यर्थे सो ऽस्तु सम्भारसम्भ्रम: ।। 2.22.5 ।।

सौमित्र इति । सम्भारसम्भ्रम: सम्भारसम्पादनविषयोत्साह: । अभिषेकनिवृत्त्यर्थे अभिषेकनिवृत्तिरूपवनवासार्थे । स सम्भारसम्भ्रमो ऽस्तु वनवासोचितसाधनसम्पादनविषयो भवत्वित्यर्थ: ।। 2.22.5 ।।



यस्या मदभिषेकार्थे मानसं परितप्यते ।

माता मे सा यथा न स्यात् सविशङ्का तथा कुरु ।। 2.22.6 ।।

यस्या इति । मदभिषेकार्थे मदभिषेकप्रयोजनविषये । माता कैकेयी सविशङ्का लक्ष्मणेन सम्मन्त्र्य राज्यं पुन: किं रामो ग्रहिष्यतीति शङ्कावती ।। 22.22.6 ।।



तस्या: शङ्कामयं दु:खं मुहूर्त्तमपि नोत्सहे ।

मनसि प्रतिसञ्जातं सौमित्रे ऽहमुपेक्षितुम् ।। 2.22.7 ।।

तस्या: कैकेय्या: । शङ्कामयं शङ्कारूपम् । स्वार्थे मयट् । प्राचुर्ये वा ।। 2.22.7 ।।



न बुद्धिपूर्वं नाबुद्धंस्मरामीह कदाचन ।

मातृ़णां वा पितुर्वाहं कृतमल्पं च विप्रियम् ।। 2.22.8 ।।

नेति । मातृ़णां पितुर्वा विषये कदाचन कृतं बुद्धिपूर्वमपि विप्रियं न स्मरामि । अबुद्धम् अबुद्धिपूर्वकमपि विप्रियं न स्मरामि ।। 2.22.8 ।।



सत्य: सत्याभिसन्धश्च नित्यं सत्यपराक्रम: ।

परलोकभयाद्भीतो निर्भयो ऽस्तु पिता मम ।। 2.22.9 ।।

सत्य इति । सत्य: सत्यवचन: । सत्याभिसन्ध: सत्यप्रतिज्ञ: । सत्यपराक्रम: अमोघपराक्रम: । परलोकभयात् परलोकसम्बन्धिभयहेतो:, परलोकहानेरिति यावत् । निर्भयो ऽस्तु प्रतिष्ठितसत्यत्वादिति भाव: ।। 2.22.9 ।।



तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते ।

सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् ।। 2.22.10 ।।

तस्येति । तस्य दशरथस्यापि । अस्मिन्नभिषेककर्मणि । अप्रतिसंहृते अनिवर्तिते सति । सत्यं नेति मम वरदानविषयसत्यं नेति मनस्तापो भवेत्, तस्य ताप: मां तपेत् तापयेदित्यर्थ: ।। 2.22.10 ।।



अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण ।

अन्वगेवाहमिच्छामि वनं गन्तुमित: पुन: ।। 2.22.11 ।।

अभिषेकेति । अन्वक् अनुपदमेव । "अन्वगन्वक्षमनुगेनुपदम्" इत्यमर: । इत: अस्मान्नगरात् ।। 2.22.11 ।।



मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा ।

सुतं भरतमव्यग्रमभिषेचयिता तत: ।। 2.22.12 ।।

अभिषेचयिता । लुट् ।। 2.22.12 ।।



मयि चीराजिनधरे जटामण्डलधारिणि ।

गते ऽरण्यं च कैकेय्या भविष्यति मनस्सुखम् ।। 2.22.13 ।।

मयीति । स्पष्टम् ।। 2.22.13 ।।



बुद्धि: प्रणीता येनेयं मनश्च सुसमाहितम् ।

तं तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि माचिरम् ।। 2.22.14 ।।

बुद्धिरिति । येन मया इयं बुद्धि: वनवासबुद्धि: । प्रणीता शिक्षिता । मनश्च सुसमाहितं स्थिरीकृतम् । तं मां संक्लेष्टुं क्लेशयितुं नार्हामि, अत: प्रव्रजिष्यामि माचिरं मास्तु विलम्ब: ।। 2.22.14 ।।



कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने ।

राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ।। 2.22.15 ।।

पूर्वसर्गे धर्मो ऽस्तीत्युक्तम्, अधुना प्रसङ्गाद्धर्मातिरिक्तं दैवं किञ्चिदस्ति फलप्रदमिति दर्शयन् अस्मत्प्रवासे न कैकेयीनिमित्तम्, अत: सा न निन्दितव्येत्याहकृतान्त इत्यादिना । कृतान्त: दैवम् । "कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु" इति निघण्टु: । दैवं च प्राक्तनाहृष्टमित्येके । ईश्वर एवेत्याचार्या: । द्रष्टव्य: कारणत्वेनेति शेष: । वितीर्णस्य दत्तस्य ।। 2.22.15 ।।



कैकेय्या: प्रतिपत्तिर्हि कथं स्यान्मम पीडने ।

यदि भावो न दैवो ऽयं कृतान्तविहितो भवेत् ।। 2.22.16 ।।

कृतान्त एवत्येव कारव्यवच्छेद्यमाह--कैकेय्या इति । दैव: देवीसम्बन्धी कैकेयीसम्बन्धी । अयं भाव: अयमभिप्राय: । कृतान्तविहितो यदि न भवेत् तदा मम पीडने कैकेय्या: प्रतिपत्ति: बुद्धि: कथं स्यात् । पीडनमिति लक्ष्मणबुद्ध्या ।। 2.22.16 ।।



जानासि हि यथा सौम्य न मातृषु ममान्तरम् ।

भूतपूर्वं विशेषो वा तस्या मयि सुते ऽपि वा ।। 2.22.17 ।।

जानासीति । हे सौम्य अपि । मयि वा सुते भरते वा विशेषो यथा न भूतपूर्व: तथा जानासि हि ।। 2.22.17 ।।



सोभिषेकनिवृत्त्यर्थै: प्रवासार्थैश्च दुर्वचै: ।

उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये ।। 2.22.18 ।।

स इति । सो ऽहम् एवमनुभूततद्वात्सल्यो ऽहम् । वाक्यैरिति हेतौ तृतीया । दैवादन्यत् बुद्धिभेदकारणं न समर्थये न निश्चिनोमि ।। 2.22.18 ।।



कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा ।

ब्रूयात् सा प्राकृतेव स्त्री मत्पीडां भर्तृसन्निधौ ।। 2.22.19 ।।

कथमिति । प्रकृति: साधुस्वभाव: । "प्रकृति पञ्चभूतेषु स्वभावे मूलकारणे" इति निघण्टु: । प्रकृतिसम्पन्ना साधुस्वभावसम्पन्ना । राजपुत्री महाकुलप्रसूता । तथागुणा पूर्वानुभूतदयादिसद्गुणा । सा कैकेयी प्राकृतेव स्त्री दुष्प्रकृतिका दुष्कुला गुणलेशशून्या क्षुद्रा स्त्रीव । भर्तृसन्निधौ न तु यस्य कस्यचित् सन्निधौ, न तु दूत्यादिमुखेन । मत्पीडां मम निरवधिकस्नेहपात्रस्य पीडां, न त्वप्रियमात्रं कथं ब्रूयात् व्यक्तं वदेत् न तु सूचयेत्, तस्माद्दैवमेवात्र कारणमिति ।। 2.22.19 ।।



यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते ।

व्यक्तं मयि च तस्यां च पतितो हि विपर्यय: ।। 2.22.20 ।।

यदिति । यदचिन्त्यम् अचिन्त्यप्रभावं दैवं । तदेव सर्वेष्यपि भूतेषु न हन्यते सर्वत्राप्यप्रतिहतफलप्रदानस्वभावं वर्तते व्यक्तम् अत्र संशयो नास्ति । अत एव हि मयि तस्यांच विपर्यय: वैपरीत्यम् । मयि हस्तगतराज्यभ्रंशरूप:, तस्यां पूर्वस्थितवात्सल्यापगमरूप: । पतित: प्राप्त: ।। 2.22.20 ।।



कश्च दैनेव सौमित्रे योद्धुमुत्सहते पुमान् ।

यस्य न ग्रहणं किञ्चित् कर्मणो ऽन्यत्र दृश्यते ।। 2.22.21 ।।

एवं प्रबलमपि दैवं पौरुषेण निवर्त्यतामित्यत्राह--क इति । क्रियत इति कर्म कार्यम् । फलरूपकार्यतो ऽन्यत्र यस्य ग्रहणं ज्ञानसाधनम् । न दृश्यते कार्यैकानुमेयं यस्य स्वरूपमित्यर्थ: । तेन फलात्पूर्वमज्ञायमानेन दैवेन । क: पुमान् योद्धुमुत्सहते, कस्तं निवारयितुं समर्थ इत्यर्थ: ।। 2.22.21 ।।



सुखदु:खे भयक्रोधौ लाभालाभौ भवाभवौ ।

यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म तत् ।। 2.22.22 ।।

ननु कर्मणो ऽन्यत्रेत्युक्तं किं तत्कर्म तत्राह--सुखदु:खे इति । अत्र भयशब्देन शान्तिरुच्यते । भवाभवौ उत्पत्तिविनाशै । यच्च किञ्चित्तथाभूतम् अचिन्त्यकारणकं लोके दृश्यते । तत्सर्वं दैवस्य कर्म कार्यम् ननु हीत्यर्थ: ।। 2.22.22 ।।



ऋषयोप्युग्रतपसो दैवेनाभिप्रपीडिता: ।

उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभि: ।। 2.22.23 ।।

दैवप्राबल्यमेव दृढयति--ऋषय इति । ऋषय: विश्वामित्रादय: । नियमान् व्रतोपवासादीन् । काममन्युभिरिति व्यक्तिबहुत्वात् बहुवचनम् । भ्रश्यन्ते, ऋषित्वादिति शेष: ।। 2.22.23 ।।



असङ्कल्पितमेवेह यदकस्मात् प्रवर्त्तते ।

निवर्त्त्यारम्भमारब्धं ननु दैवस्य कर्म तत् ।। 2.22.24 ।।

यच्च किञ्चित्तथाभूतमित्येतद्विशदयति--असङ्कल्पितमिति । इह अस्मिन् लोके । आरब्धम् उपक्रान्तम् । आरम्भं कार्यं निवर्त्य असङ्कल्पितम् अचिन्तितमेव यत्कार्यम् अकस्मात् झटिति प्रवर्त्तते तद्दैवस्य कर्म ।। 2.22.24 ।।



एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना ।

व्याहते ऽप्यभिषेके मे परितापो न विद्यते ।। 2.22.25 ।।

तस्मादपरिताप: संस्त्वमप्यनुविधाय माम् ।

प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम् ।। 2.22.26 ।।

उपदेशफलमाह--एतयेत्यादिश्लोकद्वयेन । तत्त्वया अबाधितया एतया बुद्ध्या । आत्मानम् अन्त:करणम् । आत्मना स्वयमेव उपदेशं विनेत्यर्थ: । संस्तभ्य निश्चलीकृत्य । स्थितस्य मे अभिषेके व्याहतेपि परितापो न विद्यते । तस्मात् तत्त्वस्यैवंरूपत्वात् । अनुविधाय अनुसृत्य । आभिषेचनिकीम् अभिषेकप्रयोजनिकां क्रियाम् अलङ्करणादि । प्रतिसंहारय निवर्त्तय ।। 2.22.2526 ।।



एभिरेव घटै: सर्वैरभिषेचनसम्भृतै: ।

मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति ।। 2.22.27 ।।

एभिरिति । तापस्ये तापसयोग्ये कर्मणीत्यर्थ: । अभिषेचनसम्भृतै: अभिषेचनाय सम्पादितै: ।। 2.22.27 ।।



अथवा किं ममैतेन राजद्रव्यमतेन तु ।

उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति ।। 2.22.28 ।।

घटस्थजलै: तापस्यव्रतस्नाने क्रियमाणेपि राज्यलिप्सया स्नानं कृतवानिति कैकेय्या: शङ्का माभूदिति स्नानं निषेधति--अथवेति । राजद्रव्यमतेन राजद्रव्यत्वेन सम्मतेन । राज्यद्रव्यमयेनेतिपाठे--राज्यार्थमङ्गलद्रव्यप्रचुरेणेत्यर्थ: । व्रतादेशं व्रतनियमम् ।। 2.22.28 ।।



मा च लक्ष्मण सन्तापं कार्षिर्लक्ष्म्या विपर्यये ।

राज्यं वा वनवासो वा वनवासो महोदय: ।। 2.22.29 ।।

मा चेति । राज्यं वा वनवासो वा उभावपि तुल्यौ । विचार्यमाणे वनवास एव महोदय: महाफल:, राज्यव्यापारक्लेशाभावात् अपूर्वदर्शनसौख्याच्चेति भाव: ।। 2.22.29 ।।



न लक्ष्मणास्मिन् खलु कर्मविघ्ने माता यवीयस्यतिशङ्कनीया ।

दैवाभिपन्ना हि वदत्यनिष्टं जानासि दैवं च तथा प्रभावम् ।। 2.22.30 ।।

महता प्रबन्धेनोक्तं संग्रहेण दर्शयति--नेति । यवीयसी कनिष्ठा । कानिष्ठ्यं महिषीत्रयापेक्षया, न ते ऽम्बा मध्यमेत्यत्र मध्यमात्वं सर्वराजपत्न्यपेक्षया । दैवाभिपन्ना दैवाविष्टा । तथाप्रभावं तादृशप्रभावयुक्तम्, अप्रतिहतप्रभावमित्यर्थ: ।। 2.22.30 ।।



इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वाविंश: सर्ग: ।। 22 ।।

इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्वाविंश: सर्ग: ।। 22 ।।