ततो निर्धूय सहसा शिरो निश्श्वस्य चासकृत्।
पाणौ पाणिं विनिष्पिष्य दन्तान् कटकटाप्य च ।।2.35.1।।
लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत्।
कोपाभिभूतस्सहसा सन्तापमशुभं गतः।।2.35.2।।
मनः समीक्षमाणश्च सूतो दशरथस्य सः।
कम्पयन्निव कैकेय्या हृदयं वाक्छरैश्शितैः ।।2.35.3।।
वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुभैः।
कैकेय्या स्सर्वमर्माणि सुमन्त्रः प्रत्यभाषत।।2.35.4।।