Content

सुमित्रया तु सहिता कौसल्या पतितं पतिम्।

उत्थापयामास तदा वचनं चेदमब्रवीत्।।2.57.28।।

Translation

तदा then, सुमित्रया सहिता together with Sumitra, कौशल्या Kausalya, पतितम् fallen on the ground, पतिम् husband, उत्थापयामास lifted him up, इदम् these, वचनम् words, अब्रवीत् said.

Having seen her husband collapsed on the ground, Kausalya assisted by Sumitra lifted him up and said to him thus:
Sanskrit Commentary by Govindaraja
कथयित्वा सुदु:खार्त: सुमन्त्रेण चिरं सह ।

रामे दक्षिणकूलस्थे जगाम स्वगृहं गुह: ।। 2.57.1 ।।

एवं रामस्य चित्रकूटगमनपर्यन्तवृत्तान्तमभिधाय गुहसुमन्त्रादिवृत्तान्तमृषि: प्रस्तौति--कथयित्वेति । गुहो रामे दक्षिणकूलस्थे सति सुदु:खार्त्तस्सन् सुमन्त्रेण सह चिरं कथयित्वा यावद्रामो ऽक्षिपथमतिक्रामति तावत्पर्यन्तं तत्रैव स्थित्वा रामगुणान् कथयित्वेत्यर्थ: । स्वगृहं जगाम तेन सह स्वगृहं जगामेत्यर्थ: ।। 2.57.1 ।।



भरद्वाजाभिगमनं प्रयागे च सहासनम् ।

आगिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम् ।। 2.57.2 ।।

भरद्वाजाभिगमनमिति । तेषां रामादीनाम् । भरद्वाजाभिगमनं भरद्वाजसेवनम् । प्रयागे भरद्वाजेन सहासनम् । आगिरेश्चित्रकूटपर्यन्तं गमनं च तत्रस्थै: श्रृङ्गिबेरपुरस्थैश्चारैरभिलक्षितं निवेदितम्, सुमन्त्रेण सम्यग्विदितमित्यर्थ: । गङ्गोत्तरणदिवसनिशा वनस्पतिमूले, द्वितीया भरद्वाजाश्रमे, तृतीया यमुनातीरे, चतुर्थे ऽहनि चित्रकूटगमनम्, पञ्चमे पुनरागम्य चारैर्निवेदनम् ।। 2.57.2 ।।



अनुज्ञात: सुमन्त्रो ऽथ योजयित्वा हयोत्तमान् ।

अयोध्यामेव नगरीं प्रययौ गाढदुर्मना: ।। 2.57.3 ।।

अनुज्ञात इति । अथ रामवृत्तान्तश्रवणानन्तरम् । अनुज्ञात:, गुहेनेति शेष: । गाढदुर्मना: अत्यन्तदुर्मना: ।। 2.57.3 ।।



स वनानि सुगन्धीनि सरितश्च सरांसि च ।

पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ।। 2.57.4 ।।

स वनानीति । ग्रामाणि ग्रामान् ।। 2.57.4 ।।



तत: सायाह्नसमये तृतीये ऽहनि सारथि: ।

अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ।। 2.57.5 ।।

स शून्यामिव नि:शब्दां दृष्ट्वा परमदुर्मना: ।

सुमन्त्रश्चिन्तयामास शोकवेगसमाहत: ।। 2.57.6 ।।

कच्चिन्न सगजा साश्वा सजना सजनाधिपा ।

रामसन्तापदु:खेन दग्धा शोकाग्निना पुरी ।। 2.57.7 ।।

तत इति । तत: ग्रामनगरातिक्रमणानन्तरम् । तृतीये ऽहनि श्रृङ्गिबेरपुरान्निर्गमापेक्षया तृतीयादिवसे । यद्वा अहनि तृतीये सायाह्नसमये । अह्न: तृतीयकालभूते सायाह्नकाले । अयोध्यां समनुप्राप्य निरानन्दां तां ददर्श ।। 2.57.57 ।।



इति चिन्तापर: सूतो वाजिभि: शीघ्रपातिभि: ।

नगरद्वारमासाद्य त्वरित: प्रविवेश ह ।। 2.57.8 ।।

सुमन्त्रमभियान्तं तं शतशो ऽथ सहस्रश: ।

क्व राम इति पृच्छन्त: सूतमभ्यद्रवन्नरा: ।। 2.57.9 ।।

इतीति । त्वरित: प्रविवेश । नगरं जनसञ्चारशून्यं नि:शब्दं वर्त्तते । राजा कामवस्थां प्राप्त इति ज्ञातुं त्वरित: प्रविष्टवानित्यर्थ: ।। 2.57.89 ।।



तेषां शशंस गङ्गायामहमापृच्छ्य राघवम् ।

अनुज्ञातो निवृत्तो ऽस्मि धार्म्मिकेण महात्मना ।। 2.57.10 ।।

तेषामिति । गङ्गायां गङ्गातीरे । निवृत्तो ऽस्मीति तेषां शशंसेति सम्बन्ध: ।। 2.57.10 ।।



ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जना: ।

अहो धिगिति निश्वस्य हा रामेति च चुक्रुशु: ।। 2.57.11 ।।

त इति । ते रामादय: ।। 2.57.11 ।।

शुश्राव च वचस्तेषां वृन्दंवृन्दं च तिष्ठताम् ।

हता: स्म खलु येनेह पश्याम इति राघवम् ।। 2.57.12 ।।

शुश्रावेति । वृन्दंवृन्दं च तिष्ठतां सङ्घश: तिष्ठताम् । हता इति ये वयम् इह अस्मिन् रथे राघवं न पश्याम: इति अस्माद्धेतो: ते हता: स्मेति सम्बन्ध: ।। 2.57.12 ।।



दानयज्ञविवाहेषु समाजेषु महत्सु च ।

न द्रक्ष्याम: पुनर्जातु धार्मिकं राममन्तरा ।। 2.57.13 ।।

दानयज्ञविवाहेष्विति । दानादिषु अन्तरा मध्ये नायकमणिवत् वर्तमानं रामम् पुन: जातु कदाचिदपि न द्रक्ष्याम: किमिति काकु: । येन केनापि दाने क्रियमाणे राम: स्वयं तत्र गत्वा तिष्ठति । किमर्थम् ? देशे काले पात्रे च दापयितुम् । यज्ञेपि गच्छति । किमर्थम् ? न्यायार्जितधनै: कारयितुं तत्तत्कर्मसन्देहविच्छेदविस्मृतज्ञापनादिकं कर्तुं च । विवाहे च मध्ये गच्छति । किमर्थम् ? उभयवर्गसङ्घटनायासंमतानामभिमतद्रविणप्रदानाय अस्खलितं कर्मणामनुष्ठापनाय च । समाजेषु महत्सु अन्यत्रापि महासदस्सु, दीर्घसत्रेष्वपीत्यर्थ: । यत्रकुत्राप्यदृष्टकार्येष्विति वा । अत्र सर्वत्र हेतुर्धार्मिकमिति ।। 2.57.13 ।।



किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् ।

इति रामेण नगरं पितृवत्परिपालितम् ।। 2.57.14 ।।

किमिति । अस्य जनस्य किं समर्थं किं क्षेमंकरं वस्तु किं प्रियं किं सुखावहमिति, रामेण तत्तदभिमतवस्तुप्रदात्रा रामेण पित्रेव नगरं परिपालितम् । नगरशब्देन नगरस्थजना लक्ष्यन्ते । इति वच: शुश्रावेति पूर्वेण सम्बन्ध: ।। 2.57.14 ।।



वातायनगतानां च स्त्रीणामन्वन्तरापणम् ।

रामशोकाभितप्तानां शुश्राव परिदेवनम् ।। 2.57.15 ।।

वातायनगतानामिति । अन्वन्तरापणं शुश्राव । उभयपार्श्वस्थानामापणानां मध्येमध्ये शुश्रावेत्यर्थ: । विभक्त्यर्थे ऽव्ययीभाव: ।। 2.57.15 ।।



स राजमार्गमध्येन सुमन्त्र: पिहितानन: ।

यत्र राजा दशरथस्तदेवोपययौ गृहम् ।। 2.57.16 ।।

स राजमार्गमध्येनेति । पिहितानन: जनदर्शनाक्षमतया ।। 2.57.16 ।।



सो ऽवतीर्य्य रथाच्छीघ्रं राजवेश्म प्रविश्य च ।

कक्ष्या: सप्ताभिचक्राम महाजनसमाकुला: ।। 2.57.17 ।।

सो ऽवतीर्येति । राजनिर्गमाभावेन महाजनसङ्कुलत्वम् ।। 2.57.17 ।।



हर्म्यैर्विमानै: प्रासादैरवेक्ष्याथ समागतम् ।

हाहाकार कृता नार्यो रामादर्शनकर्शिता: ।। 2.57.18 ।।

हर्म्यैरिति । हर्म्यैर्धनिनां वासै: । विमानै: सप्तभूमिगृहै: । "विमानो ऽस्त्री देवयाने सप्तभूमिगृहे ऽपि च" इति वैजयन्ती । प्रासादै: महाराजार्हगृहविशेषै: । उपलक्षिता: नार्य: समागतं रामेण विना समागतं सुमन्त्रमवेक्ष्य हाहाकारकृता: कृत हाहाकारा:, बभूवुरिति शेष: ।। 2.57.18 ।।



आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतै: ।

अन्योन्यमभिवीक्षन्ते ऽव्यक्तमार्ततरा: स्त्रिय: ।। 2.57.19 ।।

ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्तत: ।

रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ।। 2.57.20 ।।

आयतैरिति । अव्यक्तम् अस्पष्टमिति क्रियाविशेषणम् ।। 2.57.1920 ।।



सह रामेण निर्यातो विना राममिहागत: ।

सूत: किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ।। 2.57.21 ।।

यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् ।

आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ।। 2.57.22 ।।

सत्यरूपं तु तद्वाक्यं राज्ञ: स्त्रीणां निशामयन् ।

प्रदीप्त इव शोकेन विवेश सहसा गृहम् ।। 2.57.23 ।।

सह रामेणेत्यादिश्लोकत्रयमेकं वाक्यम् । यत्रेति । विभक्तिप्रतिरूपको निपात: प्रथमार्थे वर्त्तते । यथा "क इत्था वेद यत्र स:" इत्यत्र यथा येन प्रकारेण । अस्मज्जीवितं दुर्जीवं दु:खेन जीवनार्हं मन्ये, एवमेव कौसल्या, पुत्रे निर्याते सति आच्छिद्य प्रसह्य जीवति यत्र जीवतीति यत् तत् न सुकरं दुस्सम्पादं ध्रुवं मन्य इत्येकैकव्यक्त्यपेक्षया एकवचनम्, विभक्तिप्रतिरूपकमव्ययं वा । निशामयन् निशमयन् । दीर्घश्छान्दस: । श्रृण्वन्नित्यर्थ: ।। 2.57.2123 ।।



स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम् ।

पुत्रशोकपरिद्यूनमपश्यत् पाण्डरे गृहे ।। 2.57.24 ।।

अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च ।

सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ।। 2.57.25 ।।

स प्रविश्येति । परिद्यूनं क्षीणम् । "दिवो विजिगीषायाम्" इति निष्ठानत्वम् । पाण्डर इति विशेषणाद्राजलक्ष्मीर्नास्तीत्युच्यते ।। 2.57.2425 ।।



स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतन: ।

मूर्च्छितो न्यपतद्भूमौ रामशोकाभिपीडित: ।। 2.57.26 ।।

स तूष्णीमिति । तूष्णींभावे हेतु: विभ्रान्तचेतन इति ।। 2.57.26 ।।



ततो ऽन्त:पुरमाविद्धं मूर्च्छिते पृथिवीपतौ ।

उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ।। 2.57.27 ।।

सुमित्रया तु सहिता कौसल्या पतितं पतिम् ।

उत्थापयामास तदा वचनं चेदमब्रवीत् ।। 2.57.28 ।।

तत इति । आविद्धं शोकेनाभिहतम्, अभूदिति शेष: । मूर्च्छिते आविद्धमासीत् पतिते बाहू उद्धृत्य चुक्रोशेति विशेष: ।। 2.57.2728 ।।



इमं तस्य महाभाग दूतं दुष्करकारिण: ।

वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ।। 2.57.29 ।।

इममिति । दूतं सन्देशहरम् । दुष्करकारिण: दुष्करकार्य्यकारिण: ।। 2.57.29 ।।



अद्येममनयं कृत्वा व्यपत्रपसि राघव ।

उत्तिष्ठ सुकृतं ते ऽस्तु शोके न स्यात् सहायता ।। 2.57.30 ।।

अद्येममिति । इममनयं पुत्रविवासनम् । सुकृतं शोभनम् । शोके विषये सहायता न स्यात्, शोकानुवर्तनं मा कृथा इत्यर्थ: ।। 2.57.30 ।।



देव यस्या भयाद्रामं नानुपृच्छसि सारथिम् ।

नेह निष्ठति कैकेयी विस्रब्धं प्रतिभाष्यताम् ।। 2.57.31 ।।

व्यसनानुशयकृततूष्णींभावे हेत्वन्तरं कल्पयति--देवेति । कैकेयी, सेति शेष: । विस्रब्धं सविश्वासम्, नि:शङ्कमिति यावत् ।। 2.57.31 ।।



सा तथोक्त्वा महाराजं कौसल्या शोकलालसा ।

धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ।। 2.57.32 ।।

सेति । बाष्पेण विप्लुतं विलुप्तं सगद्गदं यथा भवति तथा भाषिणी ।। 2.57.32 ।।



एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि ।

पतिं चावेक्ष्य ता: सर्वा: सुस्वरं रुरुदु: स्त्रिय: ।। 2.57.33 ।।

एवमिति, पतितमिति शेष: ।। 2.57.33 ।।



ततस्तमन्त:पुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाश्च मानवा: ।

स्त्रियश्च सर्वा रुरुदु: समन्तत: पुरं तदासीत् पुनरेव सङ्कुलम् ।। 2.57.34 ।।

तत इति । समीक्ष्नय श्रुत्वा । पुनरेव सङ्कुलं रामगमनकाल इव व्याकुलमासीत् ।। 2.57.34 ।।



इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तपञ्चाश: सर्ग: ।। 57 ।।

इति श्रीगोविन्दराज0 श्रीरामायणभूष0 पीता0 अयोध्याकाण्डव्याख्याने सप्तपञ्चाश: सर्ग: ।। 57 ।।