Content

[Sumantra describes the shadow of sorrow over Ayodhya -- withering plants and flowers, driedup ponds, immobile animals -- Dasaratha pines for Rama.]

इति ब्रुवन्तं तं सूतं सुमन्त्रं मन्त्रिसत्तमम्।

ब्रूहि शेषं पुनरिति राजा वचनमब्रवीत्।।2.59.1।।

Translation

राजा king, इति thus, ब्रुवन्तम् while speaking, सूतम् charioteer, मन्त्रिसत्तमम् best of ministers, तं सुमन्त्रम् that Sumantra, शेषम् the rest, पुनः again, ब्रूहि tell, इति thus, वचनम् words, अब्रवीत् said.

Listening to the charioteer, the best of ministers (Sumantra), the king asked him to tell the rest.
Sanskrit Commentary by Govindaraja
[इति ब्रुवन्तं तं सूतं सुमन्त्रं मन्त्रिसत्तमम् ।

ब्रूह्यशेषं पुनरिति राजा वचनमब्रवीत् ।। 2.59.1 ।।

तस्य तद्वचनं श्रुत्वा सुमन्त्रो बाष्पविक्लव: ।

कथयामास भूयो ऽपि रामसन्देशविस्तरम् ।। 2.59.2 ।।

जटा: कृत्वा महाराज चीरवल्कलधारिणौ ।

गङ्गामुत्तीर्य्य तौ वीरौ प्रयागाभिमुखौ गतौ ।। 2.59.3 ।।

अग्रतो लक्ष्मणो यात: पालयन् रघुनन्दनम् ।

अनन्तरं च सीताथ राघवो रघुनन्दन: ।

तांस्तथा गच्छतो दृष्ट्वा निवृत्तोस्म्यवशस्तदा ।। 2.59.4 ।।]



मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि ।

उष्णमश्रु प्रमुञ्चन्तो रामे सम्प्रस्थिते वनम् ।। 2.59.1 ।।

ममेति । मम वर्त्मनि मत्सम्बन्धिनि मार्गे । न प्रावर्त्तन्त, नववियोगक्लेशादिति भाव: ।। 2.59.1 ।।



उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमञ्जलिम् ।

प्रस्थितो रथमास्थाय तद्दु:खमपि धारयन् ।। 2.59.2 ।।

उभाभ्यामिति । राजपुत्राभ्यामिति चतुर्थी । तद्दु:खं तादृशं दु:खम् ।। 2.59.2 ।।



गुहेन सार्धं तत्रैव स्थितो ऽस्मि दिवसान् बहून् ।

आशया यदि मां राम: पुन:शब्दापयेदिति ।। 2.59.3 ।।

मुहेन सार्धं तत्स्नेहितजनसन्दर्शनमपि क्लेशावहमिति भाव: । तत्रैव नतु वर्त्मनि । दिवसानिति बहुवचनेन कपिञ्जलाधिकरणन्यायेन त्रित्वसिद्धिरित्येके । वस्तुवस्तु वनस्पतिमूले एकदिनं भरद्वाजाश्रमे द्वितीयं यमुनातीरे तृतीयं चतुर्थे चित्रकूटप्रवेश: पञ्चमे गुहचारैस्तत्सर्वं निवेदितं षष्ठे सूतनिर्गम: । यद्वा द्वितीयदिने भरद्वाजाश्रमे रामस्य चित्रकूटगमनव्यवसायात् । तृतीयदिने चारैर्निवेदनं चतुर्थे सूतनिर्गम: अत: त्रीन् दिवसान् गङ्गाकूले स्थितोस्मीत्यर्थ: । बहूनिति विशेषणात् रामवियोगेन एकैकस्य दिवसस्य कल्पवत् प्रतिभानमिति दर्शितम् । पुन:शब्दापयेत् पुनराह्वयेत् । वनचरमुखेनेति हृदयम् । शब्दशब्दाण्णौ तत्कृतापुगन्तोप्ययमस्ति । अतो ऽङ्कापयतीत्यादिवत् सिद्धम् ।। 2.59.3 ।।



विषये ते महाराज रामव्यसनकर्शिता: ।

अपि वृक्षा: परिम्लाना: सपुष्पाङ्कुरकोरका: ।। 2.59.4 ।।

अथ रामस्य सर्वान्तर्यामितादात्म्यं सूचयितुं सर्वेषां रामविरहक्लेशं वर्णयति । यद्वा कैकेयीप्रियार्थमविचारेण सहसाकृतं कार्यं सर्वक्षोभनिमित्तमभूदित्याद--विषय इत्यादि । विषये देशे । "देशविषयौ तूपवर्तनम्" इत्यमर: । अपिशब्देन लतादय: समुच्चीयन्ते । व्याध्यादिना एकदेशग्लानिं व्यावर्तयितुं सपुष्पेत्यादि । सपुष्पाङ्कुरकोरका: पुष्पाणि अभिनवविकसितानि, अङ्कुरा: शाखासु नवपल्लवोद्भेदा:, कोरका: कलिका: "कलिका कोरक: पुमान्" इत्यमर: । तै: सहिता वृक्षा अपि परिम्लाना:, कठिनकोमलविभागमन्तरेणापि सर्वमेकदैव परिम्लानमभूदित्यर्थ: ।। 2.59.4 ।।



उपतप्तोदका नद्य: पल्वलानि सरांसि च ।

परिशुष्कपलाशानि वनान्युपवनानि च ।। 2.59.5 ।।

उपतप्तोदका इति । अकार्त्स्न्येनोपतप्तत्वव्युदासायोदकपदम्, तेनातपकार्योपतापव्यावृत्ति: । पल्वलानि सरांसि च । पल्वलानीति दृष्टान्तार्थम् । एवं वनानीत्यपि । अनेनाल्पाधिकविभागमन्तरेण परितप्तत्वं द्योत्यते । उपतप्तोदका इति पदं लिङ्गविपरिणामेन पल्वलादौ योजनीयम् । वनानि सन्ततजलसेकमन्तरेण प्रवृद्धानि कठिनाकाराणि । उपवनानि जलसेकेन प्रवृद्धान्यतिकोमलानि । परिशुष्कपलाशानि एकरूपेण शुष्कपत्राणि "पत्रं पलाशम्" इत्यमर: ।। 2.59.5 ।।



न च सर्पन्ति सत्त्वानि व्याला न प्रचरन्ति च ।

रामशोकाभिभूतं तन्निष्कूजमभवद्वनम् ।। 2.59.6 ।।

नेति । न सर्पन्ति न गच्छन्ति किन्तु स्तब्धतया तिष्ठन्ति । सत्त्वानि जन्तव: । व्याला: हिंस्रपशव: सर्वदा संचारस्वभावा गजा वा । न प्रचरन्ति आहारार्थमपि न सञ्चरन्तीत्यर्थ: । गमनवच्छब्दोपि नास्तीत्याह निष्कूजमिति । निष्कूजं निश्शब्दम् ।। 2.59.6 ।।



लीनपुष्करपत्राश्च नरेन्द्र कलुषोदका: ।

सन्तप्तपद्मा: पद्मिन्यो लीनमीनविहङ्गमा: ।। 2.59.7 ।।

लीनपुष्करपत्रा: ग्लान्यतिशयेन जलान्तर्विलीनपद्मपत्रा: लीना: सञ्चाररहिता: विहङ्गमा: जलकाकादय: ।। 2.59.7 ।।



जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।

नाद्य भान्त्यल्पगन्धीनि फलानि च यथापुरम् ।। 2.59.8 ।।

जलजानीति । माल्यानि पुष्पाणि । "माल्यं पुष्पे पुष्पदाम्नि" इति वैजयन्ती । यथापुरं यथा पूर्वम् । अल्पगन्धीनीति मत्वर्थीय इनि: । स्वभावस्य दुस्त्यजत्वादल्पत्वम् । फलानि रसालपनसादीनि ।। 2.59.8 ।।



अत्रोद्यानानि शून्यानि प्रलीनविहगानि च ।

न चाभिरामानारामान् पश्यामि मनुजर्षभ ।। 2.59.9 ।।

प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति ।

नरा राममपश्यन्तो निश्वसन्ति मुहुर्मुहु: ।। 2.59.10 ।।

अत्रेति । उद्यानानि आक्रीडा: "पुमानाक्रीड उद्यानम्" इत्यमर: । शून्यानि निर्जनानि । प्रलीना: नीडेषु मूर्च्छिताः विहगा: शुकपिकशारिकादय: येषु तानि तथोक्तानि । आरामान् कृत्रिमवनानि "आराम: स्यादुपवनं कृत्रिमं वनमेव यत्" इत्यमर: । न चाभिरामान् किन्तु नि:श्रीकान् पश्यामीत्यर्थ: ।। 2.59.910 ।।



देव राजरथं दृष्ट्वा विना राममिहागतम् ।

दु:खादश्रुमुख: सर्वो राजमार्गगतो जन: ।। 2.59.11 ।।

देवराजरथमिति । देवराजरथमित्यत्र देवेति सम्बोधनम् ।। 2.59.11 ।।



हर्म्यैर्विमानै: प्रासादैरवेक्ष्य रथमागतम् ।

हाहाकारकृता नार्यो रामादर्शनकर्शिता: ।। 2.59.12 ।।

आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतै: ।

अन्योन्यमभिवीक्षन्ते ऽव्यक्तमार्ततरा: स्त्रिय: ।। 2.59.13 ।।

हर्म्यैरित्यादिश्लोकद्वयमेकान्वयम् । हाहाकारकृता: कृतहाहाकारा: । आयतैरित्यश्रुवेगातिशयोक्त्यर्थ: । निरञ्जनत्वं द्योतयितुं विमलैरित्युक्तम् । अभिवीक्षन्तेव्यक्तमित्यत्र अव्यक्तमिति पदच्छेद: ।। 2.59.1213 ।।



नामित्राणां न मित्राणामुदासीनजनस्य च ।

अहमार्ततया किञ्चिद्विशेषमुपलक्षये ।। 2.59.14 ।।

नामित्राणामिति । उदासीनेत्यत्रापि नञनुषच्यते । अमित्राणां तवेति शेष: । रामस्यामित्रप्रसङ्गाभावात् । यद्वा पौरजनस्यामित्राणां पौरजनस्य मित्राणाञ्च उदासीनजनस्य उदासीनजनापेक्षया आर्ततया हेतुना विशेषं नोपलक्षये ।

कुत्रचित्पुरुषे मित्राणि च न स्वकार्य्याणि कुर्वन्ति नापि शत्रवोपीति भाव: ।। 2.59.14 ।।



अप्रहृष्टमनुष्या च दीननागतुरङ्गमा ।

आर्तस्वरपरिम्लाना विनिश्वसितनिस्वना ।। 2.59.15 ।।

निरानन्दा महाराज राम प्रव्राजनातुरा ।

कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा ।। 2.59.16 ।।

सूतस्य वचनं श्रुत्वा वाचा परमदीनया ।

बाष्पोपहतया राजा तं सूतमिदमब्रवीत् ।। 2.59.17 ।।

अप्रहृष्टमनुष्येत्यादि श्लोकद्वयमेकान्वयम् । विनिश्वसितनिस्वना दीर्घनिश्वासस्वनयुक्ता: । यद्वा विनिश्वसितस्येव निस्वनो यस्या: सा । व्याधिविशेषोपरुद्धनिश्वासजनवदविरतहाहाकारयुक्तेत्यर्थ: । सन्निहितत्वेन कौसल्यां दृष्टान्तीकरोति । पुत्रहीना पुत्रवियुक्ता । एतावता प्रबन्धेन रामस्य सर्वात्मकता ऋषिणा ऽनुसंहितेति प्रबन्धगतवस्तुध्वनि: ।। 2.59.1517 ।।



कैकेय्या विनियुक्तेन पापाभिजनभावया ।

मया न मन्त्रकुशलैर्वृद्धै: सह समर्थितम् ।। 2.59.18 ।।

सुमन्त्रे पृष्टस्योत्तरमभिधाय ततोधिकं राज्यपुरुषक्षोभादिकं कथयति सति तन्ममाकृत्यकरणद्योतनार्थमिति बुद्ध्वाङ्गीकारेणोत्तरमाह--कैकेय्येति । विनियुक्तेन "प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि । अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ।।" इत्युक्तक्रमेण विशेषेण नियोगं प्रापितेनेत्यर्थ:। पापाभिजनभावया पापविषयजन्मभूम्यभिप्राययुक्तया। यद्वा पापो योऽभिजनभाव: कुलक्रमागतोऽभिप्राय: स यस्यास्तया "कुलेप्यभिजनो जन्मभूमौ" इत्यमर:। "शंस मे जीव वा मा वा न मामुपहसिष्यसि" इत्युक्तवत्या मात्रा तुल्यस्वभावयेत्यर्थ:। न समर्थितं न विचारितम् ।। 2.59.18 ।।



न सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा च नैगमै: ।

मयायमर्थ: सम्मोहात् स्त्रीहेतो: सहसा कृत: ।। 2.59.19 ।।

न सुहृद्भिरिति । निगम: पुरं "पुरं वणिक्पथो वेदो निगम:" इत्यमर: । तत्र भवा नैगमा: तै: । अत्रापि नेत्यनुषज्यते । अयमर्थ: रामप्रवासनरूपार्थ: । सुहृद्भिर्मन्त्रयित्वा न कृत: अमात्यैश्च मन्त्रयित्वा न कृत: नैगमैश्च मन्त्रयित्वा न कृत: किन्तु स्त्रीहेतो: सम्मोहात् सहसा कृत: ।। 2.59.19 ।।



भवितव्यतया नूनमिदं वा व्यसनं महत् ।

कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ।। 2.59.20 ।।

भवितव्यतयेति । अथवा इदं व्यसनं यदृच्छया दृष्टहेतुं विना भवितव्यतया पापेन प्राप्तमिति सम्बन्ध: ।। 2.59.20 ।।



सूत यद्यस्ति ते किञ्चिन्मया तु सुकृतं कृतम् ।

त्वं प्रापयाशु मां रामं प्राणा: संत्वरयन्ति माम् ।। 2.59.21 ।।

सूतेति । ते तुभ्यं सुकृतमुपकार: । संत्वरयन्ति निर्जिगमिषन्तीत्यर्थ: ।। 2.59.21 ।।



यद्यद्यापि ममैवाज्ञा निवर्त्तयतु राघवम् ।

न शक्ष्यामि विना रामं मुहूर्त्तमपि जीवितुम् ।। 2.59.22 ।।

अथवापि महाबाहुर्गतो दूरं भविष्यति ।

मामेव रथमारोप्य शीघ्रं रामाय दर्शय ।। 2.59.23 ।।

यदीति । अद्यापि अस्यां विपद्यपि, ममैवाज्ञा यदि प्रवर्तते तदा राघवं निवर्तय । तुशब्दो ऽवधारणे ।। 2.59.2223 ।।



वृत्तदंष्ट्रो महेष्वास: क्वासौ लक्ष्मणपूर्वज: ।

यदि जीवामि साध्वेनं पश्येयं सीतया सह ।। 2.59.24 ।।

वृत्तदंष्ट्र: इति । वृत्तदंष्ट्र: कुन्दकुड्मलाकारदंष्ट्र: । यदि पश्येयं जीवामीति सम्बन्ध: ।। 2.59.24 ।।



लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम् ।

रामं यदि न पश्येयं गमिष्यामि यमक्षयम् ।। 2.59.25 ।।

लोहिताक्षमिति । आमुक्तमणिकुण्डलं धृतरत्नकुण्डलम् ।। 2.59.25 ।।



अतो नु किं दु:खतरं योहमिक्ष्वाकुनन्दनम् ।

इमामवस्थामापन्नो नेह पश्यामि राघवम् ।। 2.59.26 ।।

हा राम रामानुज हा हा वैदेहि तपस्विनि ।

न मां जानीत दु:खेन म्रियमाणमनाथवत् ।। 2.59.27 ।।

अतो न्विति । न पश्यामीति यत् अत: अदर्शनात् दु:खतरं किं तु किमपि दु:खतरं नास्तीत्यर्थ: ।। 2.59.2627 ।।



स तेन राजा दु:खेन भृशमर्पितचेतन: ।

आवगाढ: सुदुष्पारं शोकसागरमब्रवीत् ।। 2.59.28 ।।

स तेनेति । दु:खेन तप्ताय: पिण्डस्थानीयेन अर्पितचेतन: व्याप्तचित्त: । अवगाढ: प्रविष्ट: ।। 2.59.28 ।।



रामशोकमहाभोग: सीताविरहपारग: ।

श्वसितोर्मिमहावर्त्तो बाष्पफेनजलाविल: ।। 2.59.29 ।।

बाहुविक्षेपमीनौघो विक्रन्दितमहास्वन: ।

प्रकीर्णकेशशैवाल: कैकेयीवडवामुख: ।। 2.59.30 ।।

ममाश्रुवेगप्रभव: कुब्जावाक्यमहाग्रह: ।

वरवेलो नृशंसाया रामप्रव्राजनायत: ।। 2.59.31 ।।

अनुभूयमानस्वशोकस्यापरिमेयत्वात्तं सागरत्वेन रूपयति--रामशोकमहाभोग इत्यादिना । रामशोक एव महान् आभोगो वैपुल्यं यस्य स तथा । सीता विरहरूपं पारं गच्छतीति तथा । अश्रुवेगस्य प्रभवो मूलहेतु: । सागरो हि वर्षस्य निदानं महाग्रह: महाग्राह: । अनेन कुब्जावाक्यमेव रामप्रवासनमूलमिति राज्ञा ज्ञातमित्यवगम्यते । नृशंसाया: कैकेय्या: वर एव वेला जलवृद्धिर्यस्य । रामप्रव्राजनमेवायतमायामो दैर्ध्यं यस्य स तथा ।। 2.59.2931 ।।



यस्मिन् बत निमग्नो ऽहं कौसल्ये राघवं विना ।

दुस्तरो जीवता देवि मयायं शोकसागर: ।। 2.59.32 ।।

सागरत्वरूपणप्रयोजनमाह--यस्मिन्नित्यादिश्लोकेन ।। 2.59.32 ।।



अशोभनं यो ऽहमिहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम् ।

इतीव राजा विलपन् महायशा: पपात तूर्णं शयने स मूर्च्छित: ।। 2.59.33 ।।

अशोभनमिति । न लभ इति यत् इदमशोभनमित्यन्वय: । कविनापि वक्तुमशक्यत्वादिवेत्युक्तम् ।। 2.59.33 ।।



इति विलपति पार्थिवे प्रणष्टे करुणतरं द्विगुणं च रामहेतो: ।

वचनमनुनिशम्य तस्य देवी भयमगमत् पुनरेव राममाता ।। 2.59.34 ।।

इतीति । इति उक्तप्रकारेण । रामहेतो: करुणतरं यथातथा द्विगुणं विलपति पार्थिवे प्रणष्टे मूर्च्छिते सति । देवी पुनरेव भयमगमत् पूर्वं रामस्य किं भविष्यतीति इदानीं भर्तुरपि किं भविष्यतीति भयमगमदित्यर्थ: ।। 2.59.34 ।।



इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनषष्टितम: सर्ग: ।। 59 ।।

इति श्रीगोविन्द0 श्रीरामा0 पीता0 अयोध्या0 एकोनषष्टितम: सर्ग: ।। 59 ।।