महाराज O king, चीरवल्कलधारिणौ wearing the bark robes, तौ वीरौ those heroes, जटाः matted hair, कृत्वा having made, गङ्गाम् the river Ganga, उत्तीर्य having crossed, प्रयागाभिमुखौ towards Prayaga, गतौ went.
O King the heroes in bark robes and with matted hair crossed the Ganga and proceeded towards Prayaga.
मया न मन्त्रकुशलैर्वृद्धै: सह समर्थितम् ।। 2.59.18 ।।
सुमन्त्रे पृष्टस्योत्तरमभिधाय ततोधिकं राज्यपुरुषक्षोभादिकं कथयति सति तन्ममाकृत्यकरणद्योतनार्थमिति बुद्ध्वाङ्गीकारेणोत्तरमाह--कैकेय्येति । विनियुक्तेन "प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि । अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ।।" इत्युक्तक्रमेण विशेषेण नियोगं प्रापितेनेत्यर्थ:। पापाभिजनभावया पापविषयजन्मभूम्यभिप्राययुक्तया। यद्वा पापो योऽभिजनभाव: कुलक्रमागतोऽभिप्राय: स यस्यास्तया "कुलेप्यभिजनो जन्मभूमौ" इत्यमर:। "शंस मे जीव वा मा वा न मामुपहसिष्यसि" इत्युक्तवत्या मात्रा तुल्यस्वभावयेत्यर्थ:। न समर्थितं न विचारितम् ।। 2.59.18 ।।
न सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा च नैगमै: ।
मयायमर्थ: सम्मोहात् स्त्रीहेतो: सहसा कृत: ।। 2.59.19 ।।
न सुहृद्भिरिति । निगम: पुरं "पुरं वणिक्पथो वेदो निगम:" इत्यमर: । तत्र भवा नैगमा: तै: । अत्रापि नेत्यनुषज्यते । अयमर्थ: रामप्रवासनरूपार्थ: । सुहृद्भिर्मन्त्रयित्वा न कृत: अमात्यैश्च मन्त्रयित्वा न कृत: नैगमैश्च मन्त्रयित्वा न कृत: किन्तु स्त्रीहेतो: सम्मोहात् सहसा कृत: ।। 2.59.19 ।।