Content

[Kausalya condemns Dasaratha's action -- Dasaratha loses his senses out of intense grief.]

वनं गते धर्मपरे रामे रमयतां वरे।

कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत्।।2.61.1।।

Translation

धर्मपरे dutiful, रमयताम् pleasing others, वरे greatest, रामे Rama, वनम् forest, गते had gone, कौशल्या Kausalya, स्वार्ता in bitter anguish, रुदती sobbing, भर्तारम् to her husband, इदम् these words, अब्रवीत् said.

When Rama, the greatest among those who please the people, he who was conscious of his duty left for the forest. Kausalya, sobbing in bitter anguish, said to her husband:
Sanskrit Commentary by Govindaraja
वनं गते धर्मपरे रामे रमयतां वरे ।

कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् ।। 2.61.1 ।।

वनमिति । स्वार्ता सुतरामार्ता ।। 2.61.1 ।।



यद्यपि त्रिषु लोकेषु प्रथितं ते महद्यश: ।

सानुक्रोशो वदान्यश्च प्रियवादी च राघव: ।। 2.61.2 ।।

कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया ।

दु:खितौ सुखसंवृद्धौ वने दु:खं सहिष्यत: ।। 2.61.3 ।।

यद्यपीति । राघव: दशरथ: । सानुक्रोश: वदान्यश्च प्रियवादी चेति ते महद्यश: त्रिषु लोकेषु प्रथितम् । यद्यपि तथापि अतिशयितापयशस्करं कृत्यं कृतमिति वाक्यशेष: । तथापि दु:खितौ मार्गे दु:खितौ तौ वने कथं दु:खं सहिष्यत इति वक्ष्यमाणेनान्वयो वा । यद्वा वार्द्धके नानाव्रतोपवासादिमहाप्रयासलब्धं ज्येष्ठमपि पुत्रमभिषेककाले त्यक्त्वापि प्रतिज्ञां निरूढवानिति ते महद्यशस्त्रिषु लोकेषु यद्यपि प्रथितं भवति । राघवश्च वदान्यतया दयया प्रियवचनशीलतया मह्यं वाचा पूर्वं दत्तं राज्यं न त्यजामीतिवक्तुमक्षमतया च राज्यं दत्तवान् अतस्तस्यापि महद्यश इति युवयोरिदं युक्तमस्तु, तथापि तौ कथं दु:खं सहिष्यत इति योजना ।। 2.61.23 ।।



सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता ।

कथमुष्णञ्च शीतञ्च मैथिली प्रसहिष्यते ।। 2.61.4 ।।

सा नूनमिति । तरुणी आरब्धयौवना । श्यामा यौवनमध्यस्था । एतत्पदद्वयोपादानेनेषन्न्यूनयौवनमध्यं प्राप्तेत्यवगम्यते । (पाठभेद: । श्यामा तरुणी यौवनमध्यस्था तरुणी नतु यौवनारम्भस्था तरुणीत्यर्थ:) ।। 2.61.4 ।।



भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् ।

वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ।। 2.61.5 ।।

भुक्त्वाशनमिति । सूपदंशान्वितं शोभनव्यञ्जनसहितम् । नैवारं नीवारसम्बन्धिनम् ।। 2.61.5 ।।



गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता ।

कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् ।। 2.61.6 ।।

क्रव्यादा: मांसभक्षका: ।। 2.61.6 ।।



महेन्द्रध्वजसङ्काश: क्वनु शेते महाभुज: ।

भुजं परिघसङ्काशमुपधाय महाबल: ।। 2.61.7 ।।

महेन्द्रध्वजसङ्काश इति । महेन्द्रध्वजोनाम--इन्द्रधनु: कदाचित् ध्वजाकारेण परमाभ्युदयनिमित्ततया प्रतिभातीत्याहु: ।। 2.61.7 ।।



पद्मवर्णं सुकेशान्तं पद्मनिश्वासमुत्तमम् ।

कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ।। 2.61.8 ।।

पद्मवर्णमिति । पद्मवर्णं पद्मपत्रवर्णम् । पद्मनिश्वासं पद्मगन्धिनिश्वासम् ।। 2.61.8 ।।



वज्रसारमयं नूनं हृदयं मे न संशय: ।

अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा ।। 2.61.9 ।।

वज्रसारमयमिति । न फलति न स्फुटति । "ञिफला विशरणे" इति धातु: ।। 2.61.9 ।।



यत्त्वया ऽकरुणं कर्म व्यपोह्य मम बान्धवा: ।

निरस्ता: परिधावन्ति सुखार्हा: कृपणा वने ।। 2.61.10 ।।

यत्त्वयेति । त्वया निरस्ता: मम बान्धवा: रामादय: । व्यपोह्य नगरं त्वक्त्वा वने परिधावन्तीति यत् एतत् अकरुणं कर्म, करुणाराहित्येन कृतं कर्मेत्यर्थ: ।। 2.61.10 ।।



यदि पञ्चदशे वर्षे राघव: पुनरेष्यति ।

जह्याद्राज्यञ्च कोशञ्च भरतेनोपभुज्यते ।। 2.61.11 ।।

चतुर्दशवर्षानन्तरं रामो राज्यं प्राप्स्यतीत्याशङ्क्य परिहरति--यदीति । पञ्चदशे वर्षे राघवो यदि पुनरेष्यति तथापि राज्यं कोशञ्च जह्यात् त्यजेत् । कुत: ? यस्मात् कारणात् भरतेनोपभुज्यते भरतेनोपभुक्ततया तेन पुनर्दत्तमपि राज्यं रामस्त्यजेदित्यर्थ: । भरतो नोपलक्ष्यत इति पाठान्तरम् । राज्यं कोशं च भरतो जह्यात् इदं तु नोपलक्ष्यते यद्राम: पुनर्भरतदत्तं राज्यं प्रतिगृह्णीयादिति । यद्वा यदि राघव: पुनरेष्यति । तदा भरत: राज्यं कोशं च जह्यादिति नोपलक्ष्यते । करस्थराज्यत्यागस्यासम्भावितत्वादित्यर्थ: । भरतो यदि भोक्ष्यत इति च पाठ: ।। 2.61.11 ।।



भोजयन्ति किल श्राद्धे केचित् स्वानेव बान्धवान् ।

तत: पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ।। 2.61.12 ।।

तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातय: ।

न पश्चात्ते ऽभिमन्यन्ते सुधामपि सुरोपमा: ।। 2.61.13 ।।

भरतेनोपभुक्ततया पुनर्दत्तमपि राज्यं रामो न भोक्ष्यत इत्यत्र दृष्टान्तमाह--भोजयन्तीत्यादिना । किलेति वार्तायाम् । लोके केचित् ब्राह्मणा: विद्यागुण वयोभ्यधिकेषु विप्रेषु विद्यमानेषु दक्षिणाविशेषप्रापणलोभेन स्वानेव बान्धवान् श्राद्धे भोजयन्ति । तत: पश्चात्तदनन्तरं कृतकार्या: कृतश्राद्धकार्य्या: सन्द: श्राद्धावसाने द्विजर्षभान् पूर्वभुक्तविप्रापेक्षया विद्यावृत्तवयोभि: श्रेष्ठान् समीक्षन्ते इष्टपङ्क्तौ भोजयितुमिच्छन्ति । तत्र तदानीं ये गुणवन्त: वृत्तवन्तो विद्वांस: विद्यावन्त: सुरोपमा: देववत्पूज्यतमा: वृद्धा: द्विजातय: ते पश्चादिष्टपङ्क्तौ सुधामपि अमृततुल्यान्नमपि नाभिमन्यन्ते नाद्रियन्ते ।। 2.61.1213 ।।



ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुं द्विजर्षभा: ।

नाभ्युपैतुमलं प्राज्ञा: शृङ्गच्छेदमिवर्षभा: ।। 2.61.14 ।।

ननु कुतो नाद्रियन्ते ब्राह्मणशेषभोजने शूद्रशेषवन्निषेधाभावादित्यत्राह--ब्राह्मणेष्वित्यादिना ।

तृप्तेष्वपि ब्राह्मणेषु पूर्वभक्तानां ब्राह्मणत्वेपीत्यर्थ: । प्राज्ञा: द्विजर्षभा: ऋषभा: श्रृङ्गच्छेदमिव निजावमानहेतुं पश्चाद्भोक्तुमिच्छाम् अभ्युपैतुम् नालम्, न क्षमन्त इत्यर्थ: । यद्वा श्रृङ्गमग्रं श्रृङ्गे च्छेदो यस्य तत् श्रृङ्गच्छेदं छिन्नाग्रं तृणम् । यथा वृषभा वृषभान्तरजग्धाग्रं तृणं भोक्तुं नालम्, तद्वदित्यर्थ: । श्रृङ्गच्छेदमिति वृषभभक्षिताग्रतृणनामेत्यप्याहु: ।। 2.61.14 ।।



एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते ।

भ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते ।। 2.61.15 ।।

उक्तमर्थं दार्ष्टान्तिके योजयति--एवमित्यादिना । एवं पूर्वोक्तद्विजर्षभवत् । कनीयसा कनिष्ठेन । विशांपते हे

प्रजानाथ वरिष्ठ: गुणै: श्रेष्ठ: । किमर्थं नावमंस्यते कस्मैप्रयोजनाय न तिरस्करिष्यति । सर्वात्मना तिरस्करिष्यत्येवेत्यर्थ: ।। 2.61.15 ।।



न परेणाहृतं भक्ष्यं व्याघ्र: खादितुमिच्छति ।

एवमेव नरव्याघ्र: परलीढं न मन्यते ।। 2.61.16 ।।

न परेणेति । परेण अन्येन वृकगोमाय्वादिना आहृतं भक्षितशेषत्वेनानीतम् । परलीढं परेणास्वादितम् । परभुक्तशेषमिति यावत् । न मन्यते न बहुमन्यते ।। 2.61.16 ।।



हविराज्यं पुरोडाश: कुशा यूपाश्च खादिरा: ।

नैतानि यातयामानि कुर्वन्ति पुनरध्वरे ।। 2.61.17 ।।

हविरिति । हवि: चरुप्रमुखम्, पुरोडाशा: पिष्टादिविकारा: । खादिरा इत्येतत् पालाशादीनामुपलक्षणम् । यातयामानि परिभुक्तानि यागे विनियुक्तानीति यावत् । "जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्" इत्यमर: । अध्वरे यागान्तरे । पुनर्न कुर्वन्ति न विनियुञ्जते । "मन्त्रा: कृष्णाजिनं दर्भा:" इत्याद्ययातयामत्वबोधकवचनेषु दर्भादिशब्दा: कुशादिव्यतिरिक्तपरा: ।। 2.61.17 ।।



तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव ।

नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् ।। 2.61.18 ।।

तथेति । आत्तम् उपभुक्तपूर्वम् । हृतसारां गृहीतसारांशाम् । अभिमन्तुम् अभिलषितुम् । नष्टसोममिवाध्वरमिति अन्येन सोमपाने कृते सत्ररूपमध्वरं तदक्षमतायां यथान्यो नाभिलषति तद्वदित्यर्थ: ।। 2.61.18 ।।



नैवंविधमसत्कारं राघवो मर्षयिष्यति ।

बलवानिव शार्दूलो वालधेरवमर्शनम् ।। 2.61.19 ।।

नैवंविधमिति । वालधे: पुच्छस्य अवमर्शनम् अवमत्यस्पर्शनम् ।। 2.61.19 ।।



नैतस्य सहिता लोका भयं कुर्युर्महामृधे ।

अधर्मं त्विह धर्मात्मा लोकं धर्मेण योजयेत् ।। 2.61.20 ।।

ननु वयं किं कुर्म: पौरुषधर्मबलाभ्यां हीन: स्वयमेव गत इत्यत्राह--नैतस्येति । सहिता: मिलिता: लोका: चतुर्दशभुवनस्था: सुरासुरादय: । महामृधे महायुद्धे । एतस्य रामस्य भयं न कुर्यु:, भयं कर्तुं न शक्नुयुरित्यर्थ: । किन्तु अधर्मम् अधर्ममार्गस्थं लोकं जनं धर्मेण योजयेत् । "चातुर्वर्ण्यञ्च लोके ऽस्मिन् स्वेस्वे धर्मे नियोक्ष्यति" इत्युक्तो राम: स्वयमधर्मं कथं कुर्यादित्यर्थ: ।। 2.61.20 ।।



नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुज: ।

युगान्त इव भूतानि सागरानपि निर्दहेत् ।। 2.61.21 ।।

नन्विति । युगान्त: युगान्तकाल: । भूतानि पञ्चमहाभूतानि ।। 2.61.21 ।।



स तादृश: सिंहबलो वृषभाक्षो नरर्षभ: ।

स्वयमेव हत: पित्रा जलजेनात्मजो यथा ।। 2.61.22 ।।

स तादृश इति । तादृश: अवाङ्मनसगोचरपराक्रमयुक्त: । जलजेन मत्स्येन । मत्स्यो ह्यात्मजानेव भक्षयतीति प्रसिद्धम् ।। 2.61.22 ।।



द्विजातिचरितो धर्म: शास्त्रदृष्ट: सनातन: ।

यदि ते धर्मनिरते त्वया पुत्रे विवासिते ।। 2.61.23 ।।

इयता प्रबन्धेनोक्तमुपसंहरति--द्विजातिचरित इति । धर्मनिरते पुत्रे त्वया विवासिते सति । द्विजातिचरित: शिष्टत्रैवर्णिकाचरित: शास्त्रदृष्ट: सनातनो धर्म: ते यदि अस्ति किमित्यर्थे ऽव्ययमिदम् ।। 2.61.23 ।।



गतिरेका पतिर्नार्या द्वितीया गतिरात्मज: ।

तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते ।। 2.61.24 ।।

एवं राजकृतानीत्या स्वहानिमाह--गतिरित्यादि । एका मुख्या, प्रथमेत्यर्थ: । द्वितीया भर्त्रभावो गतिरित्यर्थ: । ज्ञातय: पित्रादय: तृतीया भर्तृपुत्राभावे गतिरित्यर्थ: । चतुर्थी स्वातन्त्र्यरूपा । तथाच स्मृति: "पिता रक्षति कौमारे भर्ता रक्षति यौवने । वार्द्धके तनयो रक्षेन्न स्त्री स्वातन्त्र्यमर्हति ।।" इति ।। 2.61.24 ।।



तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रित: ।

न वनं गन्तुमिच्छामि सर्वथा निहता त्वया ।। 2.61.25 ।।

तत्रेति । तत्र तासुगतिषु त्वं भर्ता न भवसि, सपत्नीपरतन्त्रत्वात् । मे ज्ञातिरपि नास्ति । दूरस्थत्वादिति भाव: । न वनं गन्तुमिच्छामि सभर्तृकत्वात् । निहता अस्मीति शेष: ।। 2.61.25 ।।



हतं त्वया राज्यमिदं सराष्ट्रंहतस्तथात्मा सह मन्त्रिमिश्च ।

हता सपुत्रास्मि हताश्च पौरा: सुतश्च भार्या च तव प्रहृष्टौ ।। 2.61.26 ।।

न केवलमहमेका हता अन्येपीत्याह--हतमिति । राज्यं कोसलराज्यम् । राष्ट्राणि अन्यानित्वन्मित्रपालितानि । सुत: भरत: । तत्रैव तव सुताभिमानात् । भार्या कैकेयी, तद्वचनकरणात् ।। 2.61.26 ।।



इमां गिरं दारुणशब्दसंश्रितां निशम्य राजापि मुमोह दु:खित: ।

तत: स शोकं प्रविवेश पार्थिव: स्वदुष्कृतं चापि पुनस्तदा स्मरन् ।। 2.61.27 ।।

इमामिति । प्रविवेश तत्र मग्न इत्यर्थ: । दुष्कृतं स्मरन् एतादृशदु:खस्य निदानभूतं किं कर्म पूर्वं कृतमिति स्मरन्नित्यर्थ: ।। 2.61.27 ।।



इत्यार्षे श्रीरामायणे वाल्मीकीये0 श्रीमदयोध्याकाण्डे एकषष्टितम: सर्ग: ।। 61 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकषष्टितम: सर्गः ।। 61 ।।