तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्4.26.23।।
शुक्ले च वालव्यजने हेमदण्डे यशस्करे।
तथा सर्वाणि रत्नानि सर्वबीजौषधीरपि4.26.24
सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च।
शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्4.26.25।।
सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च।
चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून्4.26.26।।
अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी।
दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ4.26.27।।
समालम्भनमादाय रोचनां समनश्शिलाम्।
आग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश4.26.28।।