आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः।
शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया।।4.54.3।।
बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः।
शुश्रूषमाणं तारस्य शक्रस्येव पुरन्दरम्।।4.54.4।।
भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविदांवरम्।
अभिसन्धातुमारेभे हनूमानङ्गदं ततः।।4.54.5।।