Content

स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः।

अर्थितो मानुषे लोके जज्ञे विष्णुस्सनातनः।।2.1.7।।

Translation

सनातन: the eternal, विष्णु: Visnu, उदीर्णस्य रावणस्य arrogant Ravana's, वधार्थिभि: by those desirous of slaying, देवै: by devatas, अर्थित: entreated, मानुषे लोके in the mortal world, स: he (Rama), जज्ञे हि was born indeed.

Entreated by the devatas desirous of slaying arrogant Ravana, the eternal Visnu was indeed born in the mortal world as Rama.
Sanskrit Commentary by Govindaraja


श्रीमद्वाल्मीकीयरामायणम्

अयोध्याकाण्डम्



श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेतश्रीरघुनन्दनपरब्रह्मणे नमः ।। श्रीमते रामानुजाय नमः।।

श्रावंश्रावं शठारेः शमदमवपुषः फुल्लवक्रारविन्दादालोच्यालोच्य वाचा प्रकृतिमधुरया प्रोच्य विद्वज्जनेभ्यः ।

गोविन्दार्यः सुधीशः कुशिककुलमणिर्गूढगाढाशयाढ्यं सम्यक् साकेतकाण्डं सरसजनमुदे सादरं व्याकरोति ।।



प्रथमे काण्डे "एतस्मिन्नन्तेर विष्णुः" इत्यादिना "यतो वा इमानि " इत्यादिश्रुतिप्रतिपादितं जगत्कारणत्वम् "अहं वेद्मि महात्मानम् " इत्यादिना पुरुषसूक्तोक्तमहापुरुषत्वम् "त्वमनादिरनिर्द्देश्यः " इत्यादिना अचिन्त्यवैभवत्वम् इत्येवं सर्वस्मात्परत्वमुक्तम् "अधिकं मेनिरे विष्णुम् " इत्यादिना तदितरेषामपरत्वं च । सम्प्रति तस्य हेयप्रत्यनीककल्याणैकतानता प्रतिपाद्यते द्वितीयकाण्डेन । अथवा पूर्वं वक्ष्यमाणधर्मानुष्ठानोपयोगितया रामायणपुरुषाणां महाकुलप्रसूतत्वमहागुरुकृपालब्धधनुर्वेदरहस्य त्वतत्संवादभूतताटकाताटकेयादिनिरासहरधनुर्भङ्गवैष्णवचापपरिग्रहप्रभृतिगुणाः सहधर्मचारिणीयोगश्च सप्रपञ्चं दर्शिताः । अथ तदनुष्ठिताः पितृवचनपरिपालनादिसामान्यधर्माः भगवच्छेषत्वपारतन्त्र्यभागवताभिमाननिष्ठारूपविशेषधर्माश्च प्रतिपाद्यन्ते । पूर्वकाण्डे लक्ष्मीयोगो दर्शितः । अत्र भूमियोगः प्रदर्शित इत्यपि ब्रुवते । पूर्वं परत्वमुक्तम् अत्र सौलभ्यमीत्यप्याहुः । पूर्वं लक्ष्मीविशिष्टं प्राप्यस्वरूपमुक्तम्, प्राप्तृरूपजीवस्वरूपमत्र निरूप्यते । तत्र प्रथममतिरहस्यतयावश्यविज्ञातव्यां लघूपपादनां भागवताभिमाननिष्ठां शत्रुघ्नानुष्ठानमुखेन दर्शयति-- गच्छतेति ।



गच्छता मातुलकुलं भरतेन तदानघः ।

शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ।। 2.1.1 ।।

गच्छता वर्तमाननिर्देशेन शत्रुघ्नगमनस्य भरतगमनेनैककालत्वावगमादसिवसनादिवत्तस्य तदेकपारतन्त्र्यं गम्यते । मातुलकुलं मातुलगृहम् । द्वितीयया भरतोद्देशस्यैव शत्रुघ्नोद्देश्यत्वावबोधनाच्छेष्युद्देश्योद्देश्यकत्वरूपं पारतन्त्र्यमुच्यते । भगवत्पारतन्त्र्यरूपं भागवतत्वमाह भरतेनेति । भरत इति राज्यस्य भरणादिति सहस्रानीकनिर्वहणात् । रामे वनं गते तदुसारिणि च लक्ष्मणे राजनि च त्रिदशसदनमुपसेदुषि केवलरामाज्ञया प्राज्यराज्यभारनिर्वाहकरणेनेत्यर्थः । तदा तद्गमनकाल एव । अनेन स्वानुकूलचन्द्रताराबलाद्यनपेक्षणोक्त्या पारतन्त्र्यमेव विशेषितम् । अनघः अस्मिन् प्रकरणे अघशब्देन केवलरामभक्तिरुच्यते, स्वशेषिभूतभरतोद्देश्यताकारेण हि शत्रुघ्नस्य रामभक्तिरुद्देश्या अत एव वक्ष्यति-- "नाहं स्वपिमि जागर्मि तमेवार्यं विचिन्तयन्" इति. जग्राह भरतो रश्मीन् शत्रुघ्नश्छत्रमाददे " इति च । अनिष्टावहस्य पापशब्दवाच्यत्वात् स्वशेषिभरतोद्देश्यत्वाकारं विना रामभक्तेरनिष्टावहत्वात्तस्याघत्वम् "न सुकृतं न दुष्कृतं सर्वे पाप्मानो ऽतो निवर्त्तन्ते " इति श्रुतौ सुकृतस्य मुमुक्षोरनिष्टावहत्वेन पाप्मत्वव्यपदेशात् । शत्रुघ्नः शत्रून् लवणासुरादीन्हनिष्यत्ययमिति भाविप्रतिसन्धानेन शत्रुघ्न इति वसिष्ठेन कृतनामधेयः । नित्यशत्रुघ्नः नित्यशत्रवो ज्ञानेन्द्रियाणि , शरीरे नित्यं सन्निधाय विषयान्तरप्रावण्यरूपविपरीतकार्यकारित्वात् तान् हन्तीति नित्यशत्रुघ्नः । इन्द्रियनिग्रहवानित्यर्थः । पुंसां दृष्टिचित्तापहारिण्यपि न मग्नेन्द्रियः, रामविषयभक्तिः स्वाधिकारविरुद्धेति तन्निवर्त्तनमस्य कार्य्यमेव । नीत इत्युक्तं न तु ययाविति, तेनाचिद्वत्पारतन्त्र्यमुक्तम् । प्रीतिपुरस्कृतः किं करोमि ज्येष्ठानुवर्त्तनं कनिष्ठेन कार्यमितिविधिपरतन्त्रो न गतः, अपि तु प्रीतिप्रेरितो ऽगच्छदित्युक्तम्, तेनाचितो व्यावृत्तिरुक्ता । प्रीतिरेव ह्यचेतनापेक्षया चेतनस्य विशेषः । भगवत्पारन्त्र्यं तु चेतनाचेतनसाधारणमेव, यद्यत्यन्तसारग्राही पुरुषः स्यात्तदा शत्रुघ्नवद्भागवतपरतन्त्रतया वर्त्तितव्यमिति व्यञ्जितम् । व्यञ्जनावृत्त्याभिमतार्थप्रदर्शनं ह्युत्तमकाव्यकृत्यम् ।। 2.1.1 ।।



स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः ।

मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ।। 2.1.2 ।।

रामभक्तो भरतः कथं तं विहाय मातुलकुले न्यवसदित्यपेक्षायां रामाभिमानविषयभूतशत्रुघ्नसहवासादित्याह--स इति । सः भरतः । तत्र मातुलगृहे । अश्वपतिना युधाजिता । सत्कारसत्कृतः जात्यश्वप्रदानादिना पूजितो ऽपि पुत्रस्नेहेन पुत्रविषयस्नेहतुल्यस्नेहेन लालितः । विशिष्टभोजनाच्छादनाभरणप्रदानादिभिरुपलालितो ऽपि सन् भ्रात्रा शत्रुघ्नेन सह न्यवसत् भ्रातृस्नेहेनैव तत्र स्थितः, न तु मातुलोपलालनमात्रादिति भावः । यद्वा सः शत्रुघ्नः भ्रात्रा सह लालित इत्यन्वयः । "सहयुक्ते ऽप्रधाने" इति तृतीया । अश्वपतिः स्वस्त्रीयादपि शत्रुघ्नमतिशयेन लालितवानित्यर्थः । अथवा भ्रात्रा सह न्यवसत् रामेण सह न्यवसत्, सदा रामचिन्तया तेन सह वर्त्तमान इव स्थित इत्यर्थः ।। 2.1.2 ।।



तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।

भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ।। 2.1.3 ।।

तत्रापीति । तत्र सर्वोपलालनभूयिष्ठे मातुलगृहे । निवसन्तावपि कामतः काम्यमानसर्वाभिमतवस्तुभिः । तृतीयार्थे तसिः । तर्प्यमाणौ च सन्तोष्यमाणावपि । वीरौ महोत्साहौ । तौ भ्रातरौ भरतशत्रुघ्नौ । वृद्धं नृपं जीर्णं महीपतिं दशरथं स्मरतां अस्मरताम् " अनित्यमागमशासनम् " इत्यडभावः । दशरथो वृद्धो ऽभून्न राज्यभरणे सम्यक् क्षमते अपीदानीं रामं युवराजं कारयेदिति आचिन्तयतामिति भावः ।। 2.1.3 ।।



राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।

उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ।। 2.1.4 ।।

राजापीति । महातेजाः सत्पुत्रलाभकृतनिरवधिकतेजस्कः । राजा दशरथः । महेन्द्रवरूणोपमौ तद्वन्निरपायमैत्रीसम्पन्नौ । प्रोषितौ देशान्तरगतौ । निरवधिकप्रीतिविषयभूतौ उभौ भरतशत्रुघ्नौ सुतौ सस्मार, सर्वसंपत्समृद्धस्यापि मे पुत्रद्वयासन्निधानमेव न्यूनतेत्यस्मरदिति भावः । उभाविति स्मृतिविषये तारतम्याभावोक्तिः ।। 2.1.4 ।।



सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः ।

स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ।। 2.1.5 ।।

रामलक्ष्मणसन्निधाने कथमितरपुत्रस्मरणमित्यत्राह--सर्व इति । तुशब्द उक्तशङ्काव्यावृत्त्यर्थः । चत्वारः चतुर्धावस्थिताः । पुरुषर्षभाः पुरुषोत्तमाः । सर्वे अविशेषेण तस्य दशरथस्य शरीराद्विनिर्वृत्ताः निष्पन्नाः । चत्वारो बाहव इव इष्टाः प्रिया एवासन् । अभूतोपमा । अयोगव्यवच्छेदार्थे एवकारः । लोके कस्यचिच्चतुर्षु बाहुषु सत्सु यथा तस्यैकोपि नाप्रियो भवति, एवं तेषु पुत्रेष्वेकोपि नानिष्टो ऽभूदित्यर्थः । उपमाने स्वशरीरविनिर्वृत्तत्वोक्त्या एतेषु राज्ञः स्वशरीरविनिर्वृत्तत्वाभिमानमात्रमित्युक्तम् ।। 2.1.5 ।।



तेषामपि महातेजा रामो रतिकरः पितुः ।

स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ।। 2.1.6 ।।

एवं चतुर्णां प्रियत्वाविशेषे ऽपि रामे गुणातिरेककृतप्रीतिविशेषो ऽस्तीत्याह--तेषामिति । तेषामिति निर्धारणे षष्ठी । भूतानां प्राणिनां मध्ये स्वयम्भूः ब्रह्मेव । तेषां पुत्राणां मध्ये गुणवत्तरः अतिशयेन गुणवान् । महातेजाः तादृग्गुणप्रकाशकनिरवधिकतेजस्कः रामः पितू रतिकरो बभूव । निरतिशयप्रीतिः रतिः ।। 2.1.6 ।।



स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः ।

अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ।। 2.1.7 ।।

कथमितरापेक्षया गुणवत्तरत्वमित्यपेक्षायां विष्णोः प्रधानावतारत्वादित्याह-- स हीति । हीति " अजायमानो बहुधा विजायते " इति श्रुतिप्रसिद्धिं द्योतयति । देवैः न ह्यनन्यप्रयोजनैरर्थितः किंतु प्रयोजनान्तरपरैः, न केवलं प्रयोजनान्तरपरैः अपितु "ईश्वरो ऽहमहं भोगी " इत्येवं दुरभिमानिभिः, मदो ऽपि दीव्यतिधातोरर्थ एव । नरकासुरवधे स्वकार्यनिष्पत्यनन्तरं पारिजातनिमित्तं कृष्णेनैव योद्धुमुपक्रान्तैरित्यर्थः । उदीर्णस्य उद्भटस्य । "उदीर्ण उद्भटः " इत्याद्यमरः । नैसर्गिकगर्वेण सर्वं जगद्विनाशयत इत्यर्थः । वधस्यार्थत्वे हेतुरयम् । रावणस्य यैर्वरो दत्तस्तानेव निलयान्निष्कासयत इत्यर्थः ।वधार्थिभिः एकस्य संहारेण राज्यमखिलं सुखेन वर्तिष्यत इति प्रपन्नैः । अर्थितः प्रार्थितः, नोपासितः । मानुषे लोके यत्र देवा अपि मनुष्यगन्धमसहमानाश्छर्दनपूर्वकं कुत्सयन्तो योजनादुपरि स्थित्वा हविराददते तेपि यस्य मनुष्यस्थानीयाः सो ऽस्मिन् मानुषे लोके जातः, हन्त किमिदं सौलभ्यमिति भावः । जज्ञे न नृसिंहादिवदाविर्भूतः । स जज्ञे रामो जज्ञे । लोको हि दशमासान् गर्भे ऽवस्थाय जायते, अयं तु "ततश्च द्वादशे मासे " इत्युक्तरीत्या ततोप्यधिककालं गर्भे स्थित्वा जज्ञे । विष्णुः व्यापकं वस्तु व्याप्यैकदेशस्य मत्पुत्रो ऽयमित्यभिमान्यमभूत् । सनातनः नित्यवस्त्वेवमात्मानमन्यथाचकार ।। 2.1.7 ।।



कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ।

यथा वरेण देवानामदितिर्वज्रपाणिना ।। 2.1.8 ।।

न केवलं पितुरेवानन्दकरः मातुरपीत्याह--कौसल्येति । अमिततेजसा अपरिमितपराक्रमेण । तेन रामेण पुत्रेण । कौसल्या देवानां वरेण वज्रपाणिना इन्द्रेण अदितिर्यथा अदितिरिव शुशुभे बभौ । तेन सन्तुष्टासीदित्यर्थः ।। 2.1.8 ।।



स हि रूपोपपन्नश्च वीर्य्यवाननसूयकः ।

भूमावनुपमः सूनुर्गुणैर्दशरथोपमः ।। 2.1.9 ।।

गुणवत्तर इत्युक्तं प्रपञ्चयति-- स हीत्यादिना । सः रामः रूपोपपन्नः सौन्दर्ययुक्तः, चकारेण रूपौदार्यगुणैः' इत्युक्तौदार्य्यादिकं समुच्चीयते । वीर्यवान् मृगनाभिगन्धवत् स्वयमविकृत एव परेषां विकारकारी अनसूयकः । गुणेषु दोषाविष्करणमसूया अविद्यमाना असूया यस्यासावनसूयकः । भूमावनुपमः सूनुः भूमावेव तत्तुल्यः पुत्रः । कौसल्यातिरिक्तायाः कस्याश्चिदपि नास्तीत्यर्थः । दिवि तु अदितेर्वज्रपाणिरस्त्येवेति भावः । गुणैराकारेङ्गितचेष्टाभिः दशरथोपमः । दीपादुत्पन्नप्रदीपवत् ।। 2.1.9 ।।



स तु नित्यं प्रशान्तात्मा मृदुपूर्वं प्रभाषते ।

उच्यमानो ऽपि परुषं नोत्तरं प्रतिपद्यते ।। 2.1.10 ।।

अथ दशरथादाधिक्यमाह स इति । तुशब्देन दशरथाद्वैलक्षण्यमुच्यते । सः रामः । परुषं परुषवचनं केनचिदुच्यमानो ऽपि । उत्तरम् उत्तरवचनं प्रतिपद्यते, न वदतीत्यर्थः । अपिशब्देन तद्वक्तृत्वप्रसक्तिरेव नास्तीति गम्यते । उत्तराप्रतिपत्तौ हेतुः नित्यं प्रशान्तात्मेति । अक्रोधनस्वभाव इत्यर्थः । न केवलमुत्तराप्रतिपत्तिः किंतु तं परुषवक्तारं प्रति मृदुपूर्वं सान्त्वपूर्वं च भाषते ।। 2.1.10 ।।



कथञ्चिदुपकारेण कृतेनैकेन तुष्यति ।

न स्मरत्यपकाराणां शतमप्यात्मवत्तया ।। 2.1.11 ।।

अथास्य कृतज्ञत्वामाह-- कथञ्चिदिति । कथञ्चित्कृतने "यथा तथा वापि " इत्युक्तरीत्या कृतेन ।। यद्वा यादृच्छिकप्रासङ्गिकतया कृतेन । यद्वा "साङ्केत्यं पारिहास्यं वा स्तोमं हेलनमेव वा" इत्येवं कृतेन उपकारेण अण्वपि महत्त्वेनाभिमन्यमानस्य भगवतोभिप्रायेणोपकारेणेत्युक्तम् । कृतेन कर्त्तुमीप्सितेन । "आशंसायां भूतवच्च" इति क्तः । एकेन सकृत्कृतेन । तुष्यति सदा प्रीतिं प्राप्नोति । तोषफलस्य कदाचिदपि न क्षय इति भावः । एवमुपकारेण तुष्यन्नपकारेणापि किं कुप्यति? नेत्याह न स्मरतीति । अपकाराणां सम्यक्कृतापराधानाम् । शतमपि असङ्ख्येयमपि "शतं सहस्रमयुतं सर्वमानन्त्यवाचकम्" उत्युक्तेः । न स्मरति न चिन्तयति, कः पुनः कोपस्यावकाश इति भावः । उभयत्र हेतुमाह आत्मवत्तयेति । वशीकृतमनस्कतयेत्यर्थः । यद्वा आत्मवत्तया ज्ञानवत्तया "उदाराः सर्व एवैते । न कश्चिन्नापराध्यति" इत्येवमध्यवसायवत्तयेत्यर्थः ।। 2.1.11 ।।



शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ।

कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि ।। 2.1.12 ।।

अथास्य गुणवर्द्धकं सत्सङ्गमाह--शीलवृद्धैरिति । शीलं सदाचारः, सज्जनैरिति त्रिष्वप्यनुषज्यते । शीलवृद्धैः सदाचारसम्पन्नैः सज्जनैः कथयन्नास्त । तैस्सह सूक्ष्मतराचारविशेषान् प्रतिपादयन्नास्तेत्यर्थः । ज्ञानवृद्धैः परिपक्वमोक्षविषयिभिः । "मोक्षे धीर्ज्ञानम् " इत्यमरः । तादृशैः सज्जनैः कथयन्नास्त, तैर्वेदान्तरहस्यमुद्घाटयन्नास्तेत्यर्थः । वयोवृद्धैः सज्जनैः कथयन्नास्त क्रमागतसम्प्रदायविशेषान् कथयन्नास्तेत्यर्थः ।

सज्जनैरिति सामान्योक्त्या ग्रामकुलादितारतम्यं न तेनादृतमित्युच्यते । तृतीयया तेषामप्रधानत्ववगमात्स्वयमेव तेषामर्थविशेषं दर्शयतीति सूचितम् । नित्यमित्यनेन नेदं कादाचित्कमित्युच्यते । विशेषणत्रयान्तचकारेण ज्ञानशीलवयोवृद्धैः शीलज्ञानवृद्धैः ज्ञानवयोवृद्धैः शीलवयोवृद्धैश्चेति समुच्चीयते । नेदं नित्याग्निहोत्रवत् क्वचित्समय इत्याह अस्त्रेति । अस्त्राणां योग्यः अभ्यासः योग्यो गुणनिकाभ्यासः' इति वैजयन्ती । तस्यान्तरेषु अवकाशेष्वपि । अपिशब्देन समयान्तरे तत्कथनं किं पुनर्न्यायसिद्धमित्युक्तम्,सत्सङ्गतिं विना क्षणमपि न तिष्ठतीत्यर्थः ।। 2.1.12 ।।



बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियम्वदः ।

वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ।। 2.1.13 ।।

परायत्तसकलव्यापारत्वमाह बुद्धिमानिति । बुद्धिमान् प्रशस्तबुद्धिः । कथं सर्वे जनाः सुखं वसेयुरित्येवं सर्वदा लोकसंरक्षणचिन्तापर इत्यर्थः । मधुराभाषी मधुरभाषणशीलः । यद्यद्वक्ति तन्मधुरमेव वदतीत्यर्थः । पूर्वभाषी अतिनीचं प्रत्यपि स्वयमेव पूर्वं भाषमाण इत्यर्थः । प्रियंवदः प्रियवाग्वचनशीलः । "प्रियवशे वदः खच् " इति ताच्चील्ये खच् । "खित्यनव्ययस्य " इति ह्रस्वः । "अरुर्द्विषदजन्तस्य--" इति मुमागमः । शत्रुविषयेपि प्रियवचनशीलः । वीर्यवान् आश्रितविरोधिनिरसनक्षमः । पूर्वं वीर्यवानित्यविकृतत्वमुक्तमिति न पुनरुक्तिः । महता स्वेन वीर्येण न विस्मितः आश्रितसकलविरोधिनिरसने कृते ऽपि "नातिस्वस्थमनाययौ " इत्युक्तरीत्या किं कृतं मयेत्यपर्याप्त एव स्थितः । " गर्वः स्याद्विस्मयो मदः" इत्यमरः । वर्त्तत इति शेषः ।। 2.1.13 ।।



न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः ।

अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरञ्जते ।। 2.1.14 ।।

न चेति । स इति शेषः । स रामः अनृतकथो न भवति, कथा प्रबन्धकल्पना अनृता असत्या कथा यस्य सः तथा । कल्पितेतिवृत्तकासत्काव्यालापवर्जित इत्यर्थः । वेत्तीति विद्वान् । विदेः शतुर्वसुः । अनृतकथाभावश्च न तदज्ञानात्, किन्तु तद्वर्ज्यत्वज्ञानादित्यर्थः । वृद्धानां पूर्वोक्तत्रिविधवृद्धानाम् । प्रतिपूजकः प्रत्युद्गम्यपूजकः । ब्राह्मणप्रतिपूजक इति पाठे-- बालवृद्धसाधारण्येन ब्राह्मणमातर्पूजापरः । "दशवर्षश्च ब्राह्मणः शतवर्षश्च क्षत्रियः । पितापुत्रौ स्मृतौ विद्धि " इत्यापस्तम्बः । प्रजाभिः पण्डितपामराविशेषेण सर्वाभिः प्रजाभिः अनुरक्तः अनुरागविषयीकृतः । तत्र हेतुमाह प्रजाश्चाप्यनुरञ्जते, अनुरञ्जयतीत्यर्थः । अन्तर्भावितण्यन्तो ऽयम् । स्वयं पूर्वं प्रजा रञ्जयित्वा ततस्ताभिरनुरक्तो भवतीत्यर्थः । चापयः सर्वत्रोक्तगुणसमुच्चयार्थाः ।। 2.1.14 ।।



सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ।

दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः ।। 2.1.15 ।।

सानुक्रोशेति । सानुक्रोश सदयः "कृपा दयानुकम्पा स्यादनुक्रोशः" इत्यमरः । दया हि नाम परदुःखासहिष्णुत्वम् । जितक्रोधः वशीकृतकोपः । न त्ववशेन क्रोध उत्पद्यत इत्यर्थः । ब्रह्म वेदः तद्विदन्तीति ब्राह्मणाः । "तदधीते तद्वेद "इत्यण् । प्रत्युद्गम्यपूजकः । ब्राह्मणानां प्रतिपूजक इति याजकादित्वात् षष्टीसमासः । दीनानुकम्पी दीनेषु विशेषतो ऽनुकम्पावान् । विशेषो नाम यत्र दीनो दृष्टः तत्रैव स्थित्वा दानमानादिकरणम् ।

धर्मज्ञः सामान्यविशेषधर्म्मज्ञः । प्रग्रहवान् नियमवान् । "अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम " इति वक्ष्यति । शुचिः परस्वानाकांक्षी । " यो ऽर्थे शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः " इति मनुस्मरणात् ।। 2.1.15 ।।



कुलोचितमतिः क्षात्रं धर्मं स्वं बहु मन्यते ।

मन्यते परया कीर्त्या महत् स्वर्गफलं ततः ।। 2.1.16 ।।

कुलोचितमतिरिति । कुलोचितमतिः इक्ष्वाकुवंशोचितदयादाक्षिण्यशरणागतसंरक्षणादिधर्मैकप्रवणबुद्धिः । स्वं क्षात्रं धर्मं दुष्टनिग्रहपूर्वकं प्रजापरिपालनरूपम् । बहुमन्यते गौरवेण जानाति । "श्रेयान् स्वधर्मः" इति श्रवणात् । परत्वापादकधर्मेभ्योपि जनित्वार्जितं क्षत्रधर्मं गौरवेण पश्यतीत्यर्थः । बहुमाने हेतुमाह मन्यत इति । ततः क्षत्रधर्मात् परया कीर्त्या महत् स्वर्गफलं भवतीति मन्यते जानाति । स्ववर्णस्वाश्रमोचितधर्मः कीर्तिद्वारा स्वर्गसाधनमिति ज्ञात्वा क्षत्रधर्मं विशिष्यानुतिष्ठतीत्यर्थः ।। 2.1.16 ।।



नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः ।

उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ।। 2.1.17 ।।

नेति अश्रेयसि निष्फले कर्मणि । न रतः न सक्तः,कादाचित्कलीलाकर्म न दुष्यतीति भावः । द्यूतादिषु न सक्त इत्यर्थः । तत्र हेतुर्विद्वानिति । न विरूद्धकथारुचिः धर्मविरुद्धग्राम्यालापादिषु रुचिरहितः । उत्तरोत्तरयुक्तौ लौकिकवैदिकविषयोत्तरोत्तरयुक्तिकक्ष्यायां वाचस्पतिर्यथा बृहस्पतिरिव । वक्ता अप्रतिहतवाग्व्यवहारः ।। 2.1.17 ।।



अरोगस्तरुणो वाग्ग्मी वपुष्मान् देशकालवित् ।

लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः ।। 2.1.18 ।।

अरोग इति ।। " युवा स्यात् साधु युवाध्यायकः । आशिष्टो द्रढिष्ठो बलिष्ठः " इत्यादिश्रुत्यर्थो ऽनेन प्रतिपाद्यते । अरोगः आधिव्याधिरहितः, अनेन आशिष्ठइत्युक्तमशनसामर्थ्यमाशीर्वादविषयत्वं चोक्तम् । तरुणः युवा । वाग्ग्मी प्रशस्तवाक् । अनेन युवाध्यायक इत्युक्तमुक्तम् । वपुष्मान् प्रशस्तशरीरः, अनेन बलिष्ठ इत्युक्तं कायबलमुक्तम् । देशकालवित् अध्ययनदेशकालज्ञः, अनेन साधुशब्दार्थो विवृतः । पुरुषसारज्ञः सकृद्दर्शनमात्रेण पुरुषत्दृदयसर्वस्वज्ञः । "सारो बले स्थिरांशे च" इत्यमरः । लोके एकः अद्वितीयः । साधुरिति विनिर्मितः निश्चितः । "अपकारिषु यः साधुः स साधुरिति कीर्तितः" इत्युक्तसाधुविशेषत्वज्ञापनम् ।। 2.1.18 ।।



स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।

बहिश्चरः इव प्राणो बभूव गुणतः प्रियः ।। 2.1.19 ।।

स इति । श्रेष्ठैः उक्तैरन्यैश्च गुणैर्युक्तः । पार्थिवात्मजः बहिश्चरः प्राण इव प्रजानां गुणतः गुणैः प्रियो बभूव ।। 2.1.19 ।।



सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् ।

इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ।। 2.1.20 ।।

सम्यगिति । केचिद्विद्यामात्रेण स्नाताः, केचिद्व्रतमात्रेण स्राताः, रामस्तु विद्याव्रताभ्यां स्नातः । "अधीत्य स्नायात् " इति स्मृत्युक्तरीत्या सम्यग्वेदानधीत्य व्रतानि च कृत्वा कृतसमावर्तन इत्यर्थः । यथावत् तत्त्वतः साङ्गवेदवित् साङ्गवेदार्थज्ञः । अनया पृथगुक्त्या अध्ययनमक्षरराशिग्रहणफलमित्यवगम्यते । इषवः अमन्त्रकाः शराः, अस्त्राणि समन्त्रकाः । सेनाङ्गत्वादेकवद्भावः । इष्वस्त्रविषये पितुर्दशरथात् श्रेष्ठः, दशरथादवराः खल्वितरे धन्विन इति भावः । भरताग्रजः अस्मिन्नर्थे भरतेन निरूपणीयो रामः । " महेष्वासे महाप्राज्ञे भरते स्वयमागते" इति रामस्य वचनात् ।। 2.1.20 ।।



कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ।

वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ।। 2.1.21 ।।

कल्याणेति । अभिजनः मातृपितृवंशः कल्याणः शोभनः अभिजनो येन स तथा । तत्र हेतुः साधुरिति ।

निर्दोष इत्यर्थः । अदीनः क्षोभहेतुषु सत्स्वप्यक्षोभ्यान्तःकरणः । सत्यवाक् अतिकृच्छेपि सत्यवचननिरतः । ऋजुः स्वाराध्यः । अभिविनीतः सुशिक्षितः ।। 2.1.21 ।।



धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।

लौकिके समयाचारे कृतकल्पो विशारदः ।। 2.1.22 ।।

धर्मेति । धर्मकामार्थतत्त्वज्ञः " न पूर्वाह्णमध्याह्नापराह्णनफलान् कुर्यात् " इति स्मृत्युक्तरीत्या पूर्वाह्णादिषु कालेषु कर्त्तव्यधर्मार्थकामज्ञ इत्यर्थः । स्मृतिमान् ज्ञातार्थविषये विस्मरणरहितः । प्रतिभानवान् "प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः " इति प्रोक्तलक्षणप्रतिभानयुक्तः । लौकिके लोकैकप्रमाणके । समयाचारे साङ्केतिकाचारे । "सङ्केतस्तु समयः " इत्यमरः । कृतकल्पः कृतसंस्थापनः । विशारदः तदाचरणसमर्थः ।। 2.1.22 ।।



निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् ।

अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ।। 2.1.23 ।।

निभृत इति । निभृतः विनीतः । "वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः" इत्यमरः । संवृताकारः हृदिस्थितकर्त्तव्यार्थव्यञ्जकेङ्गिताकारगोपनचतुरः । संवृतत्वं गूढत्वं, गुप्तमन्त्रः फलपर्यन्तमन्यैरविदितमन्त्र इत्यर्थः । सहायवान् प्रशस्तमन्त्रयुक्तः । अमोघ क्रोधहर्षः फलपर्यवसायिकोपसन्तोषः । त्यागसंयमकालवित् वस्तुत्यागतत्संग्रहणकालवित् ।। 2.1.23 ।।



दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः ।

निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ।। 2.1.24 ।।

दृढभक्तिरिति । दृढभक्तिः देवगुर्वादिषु निश्चलभक्तिः । स्थिरप्रज्ञः भक्तिजन्याप्रकम्प्यतत्त्वज्ञानः, अतएव नासद्ग्राही नासदर्थग्राही ।असज्जनसंग्रहणरहितो वा । न दुर्वचाः न परुषभाषी । निस्तन्द्रिः आलस्यरहितः, सर्वदा शास्त्रपरिशीलनपर इत्यर्थः । अतएवाप्रमत्तः शास्त्रार्थष्वनवधानरहितः । स्वदोषपरदोषवित् लोके कश्चित् पश्यति परदोषं आत्मदोषं न पश्यति अयं तु न तथा, परदोषवत्स्वदोषं च पश्यत्येव । वक्ष्यति भरतं प्रति " शिरसा याचतस्तस्य वचनं न कृतं मया " इति ।। 2.1.24 ।।



शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः ।

यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ।। 2.1.25 ।।

शास्त्रज्ञ इति । शास्त्रज्ञः साङ्गवेदातिरिक्तविद्यास्थानज्ञः । कृतं कृतान्तं सिद्धान्तं जानातीति कृतज्ञः । अतः कथंचिदुपकारेण कृतेनैकेन तुष्यतीत्यनेन न पुनरुक्तिः । पुरुषाणामन्तरं तारतम्यं तत्र कोविदः पण्डितः । पुरुषदर्शनमात्रेणायं साधुरयमसाधुरिति तत्तत्स्वरूपविशेषज्ञ इत्यर्थः । यः प्रसिद्धः । प्रग्रहः मित्रादिस्वीकारः, अनुग्रहः स्वीकृतपरिपालनम् । तयोः यथान्यायं यथाशास्त्रं विचक्षणः समर्थः, शास्त्रमर्यादामनतिक्रम्य मित्रस्वीकारादिकृदित्यर्थः । "सुप्सुपा " इति समासः ।। 2.1.25 ।।



सत्सङ्ग्रहप्रग्रहणे स्थानविन्निग्रहस्य च ।

आयकर्मण्युपायज्ञः सन्दृष्टव्ययकर्मवित् ।। 2.1.26 ।।

सदिति । सतां संग्रहे स्वीकारे प्रग्रहणे परिपालने च, विचक्षण इति शेषः । निग्रहस्य असन्निग्रहस्य च स्थानवित् अवकाशवित् । " अवकाशे स्थितौ स्थानम् " इत्यमरः । आयकर्मणि न्यायप्राप्तधनार्ज्जनकर्मणि । उपायज्ञः पुष्पेभ्यो मधु मधुकर इव अपीडनेन प्रजाभ्यो धनमादातुं चतुर इत्यर्थः । संदृष्टव्ययकर्मवित् "कश्चिदायस्य चार्द्धेन चतुर्भागेन वा पुनः । पादभागैस्त्रिभिर्वापि व्ययः संचोद्यते बुधैः ।।" इत्यादिशास्त्रावगतव्ययमर्मज्ञः।। 2.1.26 ।।



श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ।

अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ।। 2.1.27 ।।

श्रैष्ठ्यमिति । शास्त्रसमूहेषु वेदवेदाङ्गेषु श्रैष्ठ्यं महातात्पर्यज्ञत्वं प्राप्तः । व्यामिश्रकेषु संस्कृतभाषात्मककाव्यनाटकालङ्कारादिषु च श्रैष्ठ्यं प्राप्त इत्यनुषङ्गः । अर्थधर्मौ संगृह्य सुखतन्त्रः सुखपरतन्त्रः । अर्थधर्मसंग्रहणपूर्वकमेव सुखसेवी, न तु केवलकामपरतन्त्र इत्यर्थः । न चालसः अर्थधर्मसंग्रहे निरालस्यः ।। 2.1.27 ।।



वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् ।

आरोहे विनये चैव युक्तो वारणवाजिनाम् ।। 2.1.28 ।।

वैहारिकाणामिति । वैहारिकाणां विहारप्रयोजनानां "तदस्य प्रयोजनम् " इति ठक् । शिल्पानां गीतवादित्राणां चित्रकर्मादीनां च विज्ञाता विशेषज्ञः । अर्थविभागवित् "धर्माय यशसे ऽर्थाय आत्मने स्वजनाय च । पञ्चधा विभजन् वित्तमिहामुत्र च शोभते ।।" इत्युक्त विभागवित्। वारणवाजिनां गजनामश्वानां च। आरोहे आरोहणे, विनये आरुह्य शिक्षणे च युक्तः समर्थः।। 2.1.28 ।।



धनुर्वेदविदां श्रेष्ठो लोके ऽतिरथसम्मतः ।

अभियाता प्रहर्त्ता च सेनानयविशारदः ।

अप्रधृष्यश्च सङ्ग्रामे क्रुद्धैरपि सुरासुरैः ।। 2.1.29 ।।

धनुरित्यर्धाधिकः । धनुरादिस्वरूपप्रतिपादको वेदो धनुर्वेदः, उपवेदत्वाद्धनुर्वेदस्य वेदत्वम् तद्विदां मध्ये श्रेष्ठः, समर्मधनुर्वेदविदित्यर्थः । लोके सर्वत्र अतिरथानां अप्रतिहतरथगतीनां सम्मतः पूजितः । " मतिबुद्धि--" इत्यादिना क्तः । "क्तेन च पूजायाम् " इति समासप्रतिषेधाभावः आर्षः । अभियाता शत्रुसमागमानन्तरं न प्रहर्त्तुमिच्छति किंतु स्वयमेव यत्र शत्रवस्तत्र गच्छति, तत्रापि न दुर्गप्रदेशावलम्बनेन याति किन्त्वभियाता अभिमुखं याता । प्रहर्त्ता च अभिगम्य न योधैर्योधयति किन्तु स्वयमेव नासीरे स्थित्वा प्रथमं प्रहरति । सेनानयविशारदः स्वयं प्रहरन्नपि न स्वसेनां छेदयति किन्तु परदुरवगाह चक्रव्यूहादिविभागेन सेनाप्रापणसमर्थः । अप्रधृष्यश्च प्रधर्षयितुमशक्यः, सर्वथा विजयीत्यर्थः । संग्रामे प्रणत्या तु जेतुं शक्य इत्यर्थः । न केवलं मनुष्यैः, सुरासुरैः परस्परविरोधं विहाय मिलितैरपि न चोपशान्तैः क्रुद्धैः क्रोधपरवशैः ।। 2.1.29 ।।



अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ।

न चावमन्ता भूतानां न च कालवशानुगः ।। 2.1.30 ।।

एवं कल्याणगुणपरिपूर्णत्वमुक्तम् । अथ हेयप्रत्यनीकत्वमाह---- अनसूय इति । अनसूय असूयारहितः । जितक्रोधः क्रोधपारवश्यरहितः । न दृप्तः न गर्विष्ठः । न च मत्सरी परसम्पद्विषये द्वेषरहितः " मत्सरो ऽन्यशुभद्वेषे " इत्यमरः । न च कालवशानुगः सत्त्वरजस्तमःप्रधानकालानुगुणसत्त्वरजस्तमोगुणो न भवति, केवलसत्त्वमूर्तिरित्यर्थः ।। 2.1.30 ।।



एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः ।

सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः ।

बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ।। 2.1.31 ।।

उक्तगुणोपसंहारपूर्वकं गुणान्तराण्याह-- एवमिति । एवम् उक्तप्रकारेण । पार्थिवात्मजः रामः । प्रजानां मध्ये श्रेष्ठैर्लोकोत्तरैर्गुणैर्युक्तः । त्रिषु लोकेषु सम्मतः पूजितः । क्षमागुणैः क्षमारूपगुणैः । बहुवचनं प्रकारभेदाभिप्रायेण । वसुधायाः भूमेस्तुल्य इति वक्ष्यमाणमनुषज्यते ।। 2.1.31 ।।



तथा सर्वप्रजाकान्तैः प्रीतिसञ्जननैः पितुः ।

गुणैर्विरुरुचे रामो दीप्तः सूय इवांशुभिः ।। 2.1.32 ।।

उपसंहरति-- तथेति । तथा पूर्वोक्तरीत्या । सर्वप्रजाकान्तैः स्त्रीबालयुववृद्धानां प्रियैः । पितुः प्रीतिसञ्जननैः, दृष्टान्तार्थमिदम् । पितुरिव सर्वेषां प्रियैरित्यर्थः । एवंभूतैर्गुणैः रामः स्वतः सुन्दरः स्वतो दीप्तः सूर्यों ऽशुभिरिव विरुरुचे बभौ ।। 2.1.32 ।।



तमेवं व्रतसम्पन्नमप्रधृष्यपराक्रमम् ।

लोकपालोपमं नाथमकामयत मेदिनी ।। 2.1.33 ।।

एवं रामगुणान् प्रदर्श्य तत्कृतं भूम्युपलक्षितकललोकप्रावण्यं दर्शयति-- तमेवमिति । एवङ्गुणसम्पन्नत्ववत्, व्रतसम्पन्नं आश्रितसंरक्षणरूपव्रतसंपन्नम् । अप्रधृष्यपराक्रमं अकुण्ठपराक्रमम् । सर्वे लोकपाला उपमा यस्य तं रामं मेदिनी नाथं अकामयत भूमेर्नाथत्वोचितो ऽभूदित्यर्थः । अथवा एवं बालकाण्डोक्तरीत्या व्रतसम्पन्नं रामस्तु सीतया सार्द्धम् " इत्युक्तरीत्या क्रीडारससम्पन्नम् । अप्रधृष्यपराक्रमं विरोधिवर्गं निवर्त्य सात्म्यभोगप्रदम् । लोकान् पालयतीति लोकपालः, समस्तोपभोगसाधनसम्पन्न इत्यर्थः । उप समीपे मा लक्ष्मीः सीतारूपा यस्य सः उपमः । लोकपालश्चासावुपमश्चेति समासः । तं लक्ष्म्या भोगाननुभवन्तं रामं मेदिन्यपि नाथकमकामयत, स्वयंवरेण कण्ठे मालिकां दातुमैच्छदित्यर्थः ।। 2.1.33 ।।



एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ।

दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः ।। 2.1.34 ।।

न केवलं लोकस्तं नाथमकामयत राजापीत्याह--एतैरिति । एतैः पूर्वोक्तैः । बहुभिः असङ्ख्येयैः अनुपमैः लोके कुत्राप्येतादृशगुणादर्शनादसदृशैः गुणैः युक्तं सुतं दृष्ट्वा राजा राज्यमभरणश्रान्तः । परंतपः शत्रुसंहारव्यग्रः दशरथः । चिन्तां मनोरथं चक्रे ।। 2.1.34 ।।



अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ।

प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ।। 2.1.35 ।।

तामेव चिन्तां स्पष्टयति अथेत्यादिना स्वर्गमवाप्नुयामित्यन्तेन अथेति । अथ रामगुणदर्शनाननम्तरम् । चिरजीविनः वृद्धस्य, वयोवृद्धस्येति ज्ञानवृद्धव्यावृत्तिः । वृद्धत्वात् प्रीतिरित्युच्यते । एवम्-- एवं प्रकारेणेत्यर्थः । मयि जीवति रामः कथं राजा स्यादित्येषा प्रीतिर्बभूव । अत्र कथमित्युक्तिः कैकेयीवरदानकृतविघ्नशङ्काप्रतिसन्धानेन ।। 2.1.35 ।।



एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ।

कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।। 2.1.36 ।।

प्रीतेरौत्कट्यमाह-- एषेति । अत्रान्ते इतिकरणं द्रष्टव्यम् । द्रक्ष्यामि इत्येषा परा निरतिशया प्रीतिः । अस्य दशरथस्य । हृदि संपरिवर्त्तते सम्यक् अविच्छिन्नमनुवर्त्तते ।। 2.1.36 ।।



वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ।

मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ।। 2.1.37 ।।

अथ रामस्य राजत्वयोग्यतानुसन्धानं दशरथस्य दर्शयति श्लोकत्रयेण-- वृद्धिकाम इति । वृद्धिकाम इत्यनेनापूर्वैर्श्वर्यप्रदत्वमुक्तम् । सर्वभूतान्यनुकम्पयतीति सर्वभूतानुकम्पनः । कर्तरि ल्युट् । अनेन भ्रष्टैश्वर्यसाधकत्वमुक्तम् । ममात्मज इति शेषः । दाने सन्तापहारित्वे च दृष्टान्तमाह वृष्टिमान् पर्जन्य इवेति । लोके विषये मत्तः प्रियतरः अतिशयेन प्रीतिमान् । प्रीणातीति प्रियः । पचाद्यच् ।। 2.1.37 ।।



यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ।

महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ।। 2.1.38 ।।

पूर्वं प्रियतरत्वमुक्तम्, अत्र तद्धेतुगुणवत्तरत्वमुच्यते-- यमशक्रसम इति । प्रत्येकं साम्यानर्हत्वाद्यमशक्रेत्युक्तम् ।। 2.1.38 ।।



महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ।

अनेन वयसा दृष्ट्वा यथास्वर्गमवाप्नुयाम् ।। 2.1.39 ।।

महीमिति । यथास्वर्गं स्वसदृशं स्वसुकृतानुरूपं स्वर्गमित्यर्थः । यद्वा यथास्वर्गं यथाभूतस्वर्गं यस्त्वया सह स स्वर्गः ' इत्युक्तरामसौन्दर्यानुभवस्वर्गमित्यर्थः ।। 2.1.39 ।।



इत्येतैर्विविदैस्तैस्तैरन्यपार्थिवदुर्लभैः ।

शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः ।। 2.1.40 ।।

तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः ।

निश्चित्य सचिवैः सार्द्धं युवराजममन्यत ।। 2.1.41 ।।

इतीति श्लोकद्वयमेकान्वयम् । इति पूर्वक्तरीत्या । विविधैस्तैस्तैस्तत्तत्कार्यभेदेन प्रसिद्धैः । अन्यपार्थिवदुर्लभैः सामान्यराजदुर्लभैः । शिष्टैः उक्तव्यतिकरिक्तसौशील्यादिभिः अपरिमेयैः असङ्ख्येयैः । कतिपयगुणाः प्रदर्शिताः शिष्टास्त्वपरिमेया इति भावः । लोके लोकोत्तरैर्लोके कुत्राप्येवं लोकोत्तरगुणा न सन्तीत्यर्थः । समुदितैः स्वाभाविकैः शुभैः कल्याणतमैर्गुणैर्युक्तं तं रामं समीक्ष्य महाराजो दशरथः । सचिवैः सार्द्धं निश्चित्य युवराजममन्यत, अयं युवराजो भवेदिति निश्चितवानित्यर्थः ।। 2.1.40 ।। 2.1.41 ।।



दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ।

सञ्चचक्षे च मेधावी शरीरे चात्मनो जराम् ।। 2.1.42 ।।

अथ सद्यो रामाभिषेककर्त्तव्यताहेतुं स्वविपत्तिसूचकं दुर्निमित्तमात्मनो जरां चालोचितवानित्याह-- दिवीति । दिव्यन्तरिक्षे भूमो च यान्युत्पातानि तज्जं भयमित्यर्थः । तानि चोक्तानि ज्योतिःशास्त्रे--"स्वर्भानुकेतुनक्षत्रग्रहतारार्कचन्द्रजम् । दिवि चोत्पद्यते यच्च तद्दिव्यमिति कीर्तितम् । वाय्वभ्रसन्ध्यादिग्दाहपरिवेषतमांसि च । खपुरं चेन्द्रचापं च तद्विद्यादन्तरिक्षजम् । भूमावुत्पद्यते । यच्च स्थावरं वाथजङ्गमम् । तदैकदेशिकं भौममुत्पातं परिचक्षते ।" इति । भयावहानि घोराणि, दिव्याद्युत्पातानीति फलितार्थः । मेधावी सूक्ष्मदर्शी,राजा संचचक्षे दृष्टवान् सचिवायोक्तवानिति वा, आत्मनः शरीरे जरां च संचचक्षे । ख्याञभाव आर्षः ।। 2.1.42 ।।



पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ।

लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ।। 2.1.43 ।।

एवं रामाभिषेके हेतुद्वयमुक्तम्, सर्वलोकप्रियत्वं च हेतुमाह-- पूर्णचन्द्राननस्येति । अथ उत्पातदर्शनानन्तरम् । पूर्णचन्द्राननस्य तद्वत्सर्वसन्तापहरस्य । महात्मनः महामतेः रामस्य । लोके विषये संप्रियत्वं कीदृशम् ? आत्मनः स्वस्य शोकापनुदं उत्पातादिभयनिवर्तकं सम्यक् प्रियत्वं बुबुधे अनुसन्दधावित्यर्थः ।। 2.1.43 ।।



आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ।

प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान्नृपः ।। 2.1.44 ।।

एवमनुसन्धानप्रयोजनमाह-- आत्मन इति । आत्मनः प्रजानां च श्रेयसे हितार्थाय प्रियेण च प्रियाय च । चतुर्थ्यर्थे तृतीया । धर्मात्मा धर्मशीलः । धर्मेण प्राणिसंरक्षकः नृपः प्राप्तकालेनोपलक्षितः सन् । भक्त्या प्रीत्या । त्वरितवान् प्राप्तकालत्वं स्वस्य वृद्धत्वं रामयौवनं वसन्तकालो वा ।। 2.1.44 ।।



नानानगरवास्तव्यान् पृथग्जानपदानपि ।

समानिनाय मेदन्याः प्रधानान् पृथिवीपतीन् ।। 2.1.45 ।।

नानेति । नानानगरेषु वसन्तीति नानागरवास्तव्याः तान् "वसेस्तव्यत्कर्तरि णिच्च " इति कर्त्तरि तव्यत्प्रत्ययः । पृथग्जानपदान् जनपदान्तरस्थान् मेदिन्याः भुवः । प्रधानान् न केवलानवान्तरनृपतीनित्यर्थः । पृथक् समानिनायेति वा ।। 2.1.45 ।।



न तु केकयराजानं जनकं वा नराधिपः ।

त्वरया चानयामास पश्चातौ श्रोष्यतः प्रियम् ।। 2.1.46 ।।

नेति । श्रोष्यत इत्यनन्तरमितिकरणं द्रष्टव्यम् । अनानयने हेतुमाह त्वरयेति । दूरवर्त्तित्वादिति भावः । केकयराजानमित्यत्र समासान्तविधेरनित्यत्वाट्टजभावः ।। 2.1.46 ।।



तान् वेश्म नानाभरणैर्यथार्हं प्रतिपूजितान् ।

ददर्शालङ्कृतो राजा प्रजापतिरिव प्रजाः ।। 2.1.47 ।।

तान् वेश्मनानाभरणैरिति । प्रथमं वेश्मनानाभरणैः प्रतिपूज्य पश्चात्तान् ददर्शेत्यर्थः ।। 2.1.47 ।।



अथोपविष्टे नृपतौ तस्मिन् परबलार्दने ।

ततः प्रविविशुः शेषा राजानो लोकसम्मताः ।। 2.1.48 ।।

दर्शनप्रकारमेवाह अथेति । प्रविवशुः, सभामिति शेषः । शेषाः केकयराजजनकभिन्नाः ।। 2.1.48 ।।



अथ राजवितीर्णेषु विविधेष्वासनेषु च ।

राजानमेवाभिमुखा निषेदुर्नियता नृपाः ।। 2.1.49 ।।

अथेति । राजवितीर्णेषु राजदत्तेषु । नियताः नियतदेशाधिपत्याः, अन्तरङ्गा वा पादाप्रसारणादिनियमयुक्ता वा ।। 2.1.49 ।।



स लब्धमानैर्विनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानवैः ।

उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः ।। 2.1.50 ।।

इत्यार्षे. श्रीमदयोध्याकाण्डे प्रथमः सर्गः ।। 1 ।।

स इति । लब्धमानैः प्राप्तबहुमानैः । पुरालयैः नानानगरवासिभिः । उपोपविष्टैः राजवचनश्रवणादरेण मन्दंमन्दं समीपं प्राप्तैः नृपैः मानवैश्च वृतो नृपतिः । भगवान् महात्म्यवान् । सहस्रचक्षुः इन्द्र इव बभौ ।। 2.1.50 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने प्रथमः सर्गः ।। 1 ।।