Content

[Rama bends the bow of Visnu--Parasurama returns to Mahendra mountain.]

श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा।

गौरवाद्यंन्त्रितकथ: पितू राममथाब्रवीत्।।1.76.1।।

Translation

तदा then, दाशरथि: Rama, जमदग्न्यस्य Parasurama's, (तत्) वाक्यम् words, श्रुत्वा having heard, पितु: father's, गौरवात् out of respect, यन्त्रितकथ: avoiding furthur conversation, अथ thereafter, रामम् addressing Parasurama, अब्रवीत् spoke.

Hearing the words of the son of Jamadagni (Parasurama), Rama, the son of Dasaratha, avoiding further conversation out of respect for his father intercepted Parasurama saying:
Sanskrit Commentary by Amruta Kataka
अथ षट्षष्टितमः सर्गः

[परशुरामप्रतिष्टम्भनम्]

 ।। 1.76.1 ।। श्रुत्वा तञ्जामदग्न्यस्य वाक्यं दाशरथिस्तदा ।

गौरवाद्यन्त्रितकथः1 पितू राममधाब्रवीत् ।। 1 ।।

अथ रामेण जामदग्न्यसंहारः--श्रुत्वेत्यादि । पितुर्गौरवादिति । पितृसन्निधिगौरवादित्यर्थः । यन्त्रितानियमिता कथाउच्चैः कथनं येन स तथा ।। 1 ।।

(1 जामदग्न्यमथाङ)

(कथाआत्मश्लाधनं, अधिकभाषणं वा । तेन रामस्य परशुरामवैलक्षण्यमुक्तं भवति ।।) ।। 1.76.1 ।। 

 ।। 1.76.2 ।। श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव

1अनुरुध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ।। 2 ।।

श्रुतेत्यादि । पितुरानृण्यंपितृघातृक्षत्रवधेन पितृवैरशुद्धिं आस्थितस्सन् यत्कर्मत्रिस्सप्तकृत्वः क्षत्रवधरूपं कृतवान् असि तच्छ्रुतवानस्मि । तदेनमनुरूध्यामहे--2अनुरुन्ध्मः--अङ्गीकुर्मः, अवश्यं शूरेण वैरशुद्धेः कर्तव्यत्वात्, कर्तरि यगार्षः ।। 2 ।।

(1 अनुरुन्ध्यामहेज)

(2 अनुसरामःग)

( 'अनो रुध कामे' इति धातुर्वा ऽयम्.) ।। 1.76.2 ।। 

 ।। 1.76.3 ।। वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव

अवजानासि 3मे तेजः पश्य मे ऽद्य पराक्रमम् ।। 3 ।।

अपि तु वीर्यहीनं अत एव क्षत्रधर्मेण प्राप्ते धनुर्ग्रहयुद्धादौ अशक्तमिव मन्यमानो यन्मां अवजानासि, 'क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व' इत्यादिवचनेनावमानं कृतवानसि, तन्नानुरुध्यामहे । 'अस्मदोर्द्वयोश्च' इति चकारादेकस्मिन्नपि बहुवचनम् । यदेवमतः--तेज इत्यादि । तेजः--पराभिभवासहनं । तच्च तच्च तन्मूलं पराक्रमं स्वशक्त्या पराभिभवनरूपव्यापाररूपं च पश्य ।। 3 ।।

( क्षत्रधर्मेण स्थितं, अत एव अशक्तं--ब्राह्मणोद्देश्यकातिभाषणासामर्थ्यरहितं मां त्वं वीर्यहीनमिवावजानासिशि.)

(3 मां रामङ) ।। 1.76.3 ।। 

 ।। 1.76.4 ।। इत्युक्त्वा राघवः क्रुद्धो भागर्वस्य शरासनम् ।

शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः ।। 4 ।।

इत्युक्त्वा क्रुद्धः--प्रागुक्तरूपावमानवचनेन 4क्रुद्धः । एवं क्रोधाविष्टत्वादेव तद्धस्तात्स्वयमेव धनुरादेर्बलात् प्रतिग्रहः । लघुःशीघ्रः पराक्रमो यस्य स तथा ।। 4 ।।

( चात् भार्गवनिष्ठां वैष्णवींशक्ति৷৷.अग्रे वक्ष्यति 'निर्वीर्यो जामदग्न्यो ऽसौ' इतिति.)

(4 क्रोधःघ.) ।। 1.76.4 ।। 

 ।। 1.76.5 ।। आरोप्य स धनू रामः शरं सज्यं चकार ह ।

जामदग्न्यं ततो रामं रामः क्रुद्धो ऽब्रवीद्वचः ।। 5 ।।

स रामो धनुरारोप्य--ज्यारोपं कृत्वा, शरं सज्यं--ज्यासहितं चकार । सन्धानं कृतवानिति यावत् ।। 1.76.5 ।। 

 ।। 1.76.6,7 ।। ब्राह्मणो ऽसीति पूज्यो मे विश्वामित्रकृतेन च ।

तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् ।। 6 ।।

इमां1 वा त्वद्गतिं राम तपोबल2समार्जितान् ।

लोकानप्रतिमान् वा ते हनिष्यामि यदिच्छसि ।। 7 ।।

ब्राह्मणो ऽसीति । जमदग्निबीजत्वेन ब्राह्मण इति कृत्वा सामान्यतः पूज्यो ऽसि--वधानर्हो ऽसि । अपि च विश्वामित्रकृतेनविश्वामित्रभागिनेयसुतत्वेन च हेतुना पूज्यो ऽसीति यतः तस्मात् इमां प्रत्यक्षसिद्धां त्वद्गतिंगतिसाधनपादावित्यर्थः । लोकानिति । लोकप्राप्तिमार्गमित्यर्थः । यदिच्छसीति । उभयोर्मध्ये तद्वदेति शेषः ।। 7 ।।

(विश्वामित्रकृतेन--विश्वामित्रकृतेन स्नेहेन विश्वामित्रभगिन्यां सत्यवत्स्यां ऋचीकाञ्जातो जमदग्निः, तस्य पुत्रः परशुरामः इति विश्वामित्रसम्बन्धेनेत्यर्थःगो. विश्वामित्रात्--अस्मद्गुरुविश्वामित्रभगिनीपुत्रात् कृतेन--जातत्वेन च हेतुनाशि. विश्वामित्रकृते--इत्यस्मिन्नर्थे विभक्तिप्रतिरूपकमव्ययं वेदम्.)

(उत्तरत्र 'यदीमां मद्गतिं' इत्यत्र संचारस्य स्पष्टं प्रतीत्या अत्रैवं व्याख्यानम् । अत एव गोविन्दराजीये 'पादगतिं' इति पाठ आदृतः । पाद्मे ऽपि 'त्वत्पादकमले हन्मि' इति दृश्यते । शिरोमणिस्तु त्वद्गतिं--त्वत्कर्तृकं कामचारगमनं इति व्याचख्यौ । शिष्टं 14 तमश्लोकटिप्पण्यां द्रष्टव्यम्.)

(1 पादगतिंङ)

( 'लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया' इत्यनुपदं सत्त्वात् अयं पाठो युक्तः)

(2 समार्जिताम्ङ)

( परं तु उत्तरत्र 22 तमश्लोके 'लोकान्' इति पदमन्यथा व्याख्यातम्.) ।। 1.76.7 ।। 

 ।। 1.76.8 ।। न ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः ।

3मोघः पतति वीर्येण बलदर्पविनाशनः ।। 8 ।।

कुत एवमित्यतः--न ह्ययमित्यादि । वीर्येणस्वशक्त्या शत्रूणां बलजदर्पविनाशनः ।। 8 ।।

(3 एतदनन्तरंइति ब्रुवति काकुत्स्थे भार्गवं प्रति रोषिते । शतक्रतुमुखा देवा पुरस्कृत्य शतक्रतुम् ।। इत्यधिकंङ) ।। 1.76.8 ।। 

 ।। 1.76.9 ।। वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः ।

पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः ।। 9 ।।

वरायुधं--वैष्णवं धनुः । सर्वतो रामाभ्युदयेनिजावतारत्वादेव सदेवगणपरिकरस्य भगवतो ब्रह्मणो दिदृक्षया आगमनं भवति । "अनुग्रहात्तदंशानां भगवतो दिदृक्षाप्रवृत्तिः । एवं प्रतिसर्गभगवदनुग्रहप्रसंगोपबृंहितत्वादेवेदं रामायणामृतं ब्रह्मकुलजीवातुः ।। 1.76.9 ।। 

 ।। 1.76.10,11 ।। गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः ।

यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम् ।। 10 ।।

जडीकृते 1तदा ऽ ऽलोके रामे वरधनुर्धरे ।

निर्वीर्यो जामदग्न्यो ऽसौ रामो राममुदैक्षत ।। 11 ।।

एवं वरधनुर्धरे रामे--अधिकरणे, तदा ऽ ऽलोके--तस्य भार्गवस्या ऽ ऽलोके सति सङ्क्रान्त इति यावत् । तथा पुराणे--" ततः परशुरामस्य देहान्निर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपागमत्" इति । अत एव भार्गवे जडीकृतेनिर्वीर्ये सति, यो ऽसौ निर्वीर्यो जामदग्न्यो रामः राममुदैक्षत । उद्भूतविष्णुतेजस्कमपश्यदित्यर्थः । तथैव जामदग्न्यो वक्ष्यति । 'त्वां मधुहन्तारं जानामि" इति ।। 11 ।।

(लोकेजने जडीकृतेस्तब्धे निर्वीर्यःनिर्गतवैष्णवतेजाःगो.)

(1 तदा लोकेङ.)

( नृसिह्मपुराणे) ।। 1.76.11 ।। 

 ।। 1.76.12 ।। तेजोभिर्गतवीर्यत्वाञ्जामदग्न्यो जडीकृतः ।

1 रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ।। 12 ।।

उक्तश्लोकार्थ एव विवरणरूपेणोच्यते पुनः--तेजोभिरित्यादि । रामसङ्क्रान्तैर्हेतुभिरिति शेषः । उवाच हेति । शरगतिप्रश्नोत्तरमिति शेषः ।। 12 ।।

(तेजोभि ऽहतध.)

(1 एतदनंतरंराम राम महाबाहो श्रुणु राम मयेरितम् । राजसूये कृते पूर्वं यज्ञे दशरथात्मज ।। इत्यधिकं.ङ.) ।। 1.76.12 ।। 

 ।। 1.76.13 ।। 2कश्यपाय मया दत्ता यदा पूर्वं वसुन्धरा ।

विषये मे न वस्तव्यमिति मां कश्यपो ऽब्रवीत् ।। 13 ।।

विषय इति । मे--मह्यं दत्ते विषये--कृत्स्नवसुब्धरालक्षणे देशे त्वया न वस्तव्यमिति मां कश्यपो ऽब्रवीत्, प्रजाभीत्यादिनिवृत्तिप्रयोजनाय ।। 13 ।।

(2 कश्यपस्थाने सर्वत्र काश्यपेत्यपि पाठः) ।। 1.76.13 ।। 

 ।। 1.76.14 ।। सो ऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् ।

कृता प्रतिज्ञा काकुत्स्थ कृता भूः कश्यपस्य हि ।।

यदेवमतः--सोहं गुरुवचः--कश्यपवचः अनुतिष्ठन् पृथिव्यां निशां न वसे, छान्दसस्तङ्, रात्रौ पृथिव्यां न वसाम्यद्यापि । अहन्यावश्यककार्यायागत्य गमनमात्रं दीक्षितपत्न्या इवादोष इत्याशयः । तदेति । यदा दत्तं, यदा च न वस्तव्यमित्युक्तं तदारभ्येत्यर्थः । पृथिव्यां न वस इति सम्बन्धः । कुतः पृथिव्यां न वस इत्यतः--कृतेत्यादि । हि शब्दः प्रसिद्धौ । यतस्सर्वप्रसिद्धतया भूः कश्यपस्य स्वत्त्वेन कृता, न वत्स्यामीति च प्रतिज्ञा च कृता, तस्मादेवेत्यर्थः ।। 14 ।।

( ब्रह्माण्डपुराणे 347 तमे ऽध्याये 'तेषामनुमते कृत्वा कश्यपं गुरुमात्मनः । वाजिमेधं ततो राजन् आजहार' इति दर्शनात् काश्यपस्य स्वगुरुत्वेनाभिधानम्.)

( ब्रह्माण्डपुराणादौ--"आहूय भूगुशार्दूलः सशैलवनकाननाम् । कश्यपाय ददौ सर्वामृते तं शैलमुत्तमम् । आत्मनः सन्निवासार्थ तं रामः पर्यकल्पयत् " इति दृश्यते । एतेन परशुरामः सर्वक्षत्रियविनाशपरिहाराय कश्यपेन निष्कासितः । अथापि स्वदेशे गमनागमनादिकं न प्रतिषिद्धावान् । यदाकदाचित् कार्यार्थंमत्रागतो ऽपि परशुरामः बहुदूरादपि प्रभाववशात् रात्रेः पूर्वं महेन्द्रं प्रति प्रतिनिवर्तमान आस । एतादृशगतिसामर्थ्यमेव 'मनोजवं गमिष्यामि' इत्यनेन सूचितम् । एतदेव च गतिशब्देनास्मिन् प्रकरण उच्यत इति भाव्यम् ।।) ।। 1.76.14 ।। 

 ।। 1.76.15 ।। 1 यदीमां मद्गतिं वीर हन्तुं नार्हसि राघव

मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ।। 15 ।।

यदेवमतो--यदीत्यादि । नार्हसि यदिइमां मद्गतिं च त्वं हन्तुन्नार्हसि--यदि नेच्छसीति यावत्, ततो मनोजवं पादमास्थाय महेन्द्रं पर्वतोत्तमं--केरळभूरूपं गमिष्यामि । स तु समुद्रान्मया ऽ ऽवासाय याचितः पश्चात् ।। 15 ।।

(1 तदिमां, तामिमां त्वं गतिंङ.ज)

( महेन्द्रं मनोजवं यथा स्यात् तथा गमिष्यामिशि) ।। 1.76.15 ।। 

 ।। 1.76.16 ।। लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया ।

जहि तान् शरुमुख्येन मा भूत्कालस्य पर्ययः ।। 16 ।।

अतो ये लोका निर्जितास्ताञ्जहि ।। 16 ।।

(अत्र पुण्यर्जितलोकहननाभ्यनुज्ञया ऽस्य तत्त्ववित्त्वं व्यङ्ग्यम् । रामस्य लोकदानप्रतिबन्धयोः स्वातन्त्र्यदर्शनेन परेशत्वबोधनं चति. लोकहनननं नाम लोकदानप्रतिबन्धःगो.) ।। 1.76.16 ।। 

 ।। 1.76.17 ।। 2 अक्षयं मधुहन्तारं जानामि त्वां 3सुरेश्वरम् ।

धनुषो ऽस्य परमार्शात् स्वस्ति ते ऽस्तु परंतप ।। 17 ।

त्वां तु लोकदानप्रतिबन्धस्वतन्त्रं 'उतामृतत्वस्येशानः' इति श्रुतिप्रसिद्धं विराजं ब्रह्माणमेव जानामि इत्याह--अक्षयमित्यादि । भूमविराडुपग्रहमिति यावत् । कुत एवं निश्चयः ? इत्यतः--धनुष इत्यादि । अस्येति । वैराजस्येत्यर्थः । परामर्शःग्रहणाकर्षणादिव्यापारः ।। 17 ।।

('उतामृतत्वस्येशानः' इति श्रुतिप्रसिद्धं ब्रह्मा त्वमित्याह--अक्षय्यमितिति.)

(2 अक्षय्यंङ)

(3 सुरोत्तमम्ङ) ।। 1.76.17 ।। 

 ।। 1.76.18 ।। एते सुरगणाः सर्वे निरीक्षन्ते समागताः ।

त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ।। 18 ।।

आहवे अप्रतिद्वन्द्वं--अस्मद्रूपप्रतिभटरहितं सर्वदेवा निरीक्षन्ते--पश्यन्ति ।। 1.76.18 ।। 

 ।। 1.76.19 ।। न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति ।

त्वया त्रैलोक्यनाथेन यदहं विमुस्वीकृतः ।। 19 ।।

इयं त्वद्विषये अशक्तिः मम व्रीळाव्रीळावहा भवितुं नार्हति । कुत इत्यतः--त्वयेत्यादि । विराडादिपदत्रयनाथेनास्मदादेस्तथा तथा शक्तिप्रदेन ब्रह्मणा त्वया स्वयं दत्तशक्तेः पुनः स्वस्मिन्नेव संयोजनेन विमुस्वीकृतः--अशक्तः कृतः, कुष्णोनार्जुन इव, न तु अन्येन प्राकृतेन संसारजीवकोट्यन्तर्गतेन तदा किल व्रीळा । तत्तत्स्वामिना तत्तत्स्वे गृहीते तत्तन्न्यासरक्षिणां का व्रीळा इत्याशयः ।। 1.76.19 ।। 

 ।। 1.76.20 ।। शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत

शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ।। 20 ।।

अतो लोकेश्वरस्त्वं शरं मल्लोकप्रतिबन्धाय मोक्तुमर्हसि । शरमोक्षे सति दत्तशरगतिरहं 1अप्रतिबद्धो महेन्द्रं गमिष्यामि ।। 20 ।।

(पापस्य तपसा दग्धत्वात्, पुण्यस्य च शरमोक्षेण फलप्रतिबन्धे जीवन्मुक्तो भूत्वा गमिष्यामीत्यर्थःति.)

(1 अप्रतिबन्धःग) ।। 1.76.20 ।। 

 ।। 1.76.21 ।। तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् ।

रामो दाशरथिःश्रीमांश्चिक्षेप शरमुत्तमम् ।। 21 ।।

स हतान् दृश्य रामेण स्वांल्लोकांस्तपसा ऽ ऽर्जितान् ।

जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ।। 22 ।।

सः--जामदग्न्यः शरक्षेपानंतरं तपसा ऽ ऽर्जितान् स्वान् लोकान् रामेण तेन शरेण हतान्--रुद्धान् दृश्य--दृष्ट्वा महेन्द्रं जगाम ।। 1.76.22 ।। 

 ।। 1.76.23,24 ।। ततो वितिमिराः सर्वा 1दिशश्चोपदिशस्तथा ।

सुराः सर्षिगणां रामं प्रशंशंसु2रुदायुधम् ।। 23 ।।

रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च ।

ततः प्रदक्षिणं कृत्वा जगामात्मगतिं प्रभुः ।। 24 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्सप्ततितमः सर्गः

--

रामं प्रदक्षिणं कृत्वेति । रामे सम्यक् समुत्पन्नब्रह्मबुद्धित्वादपेतबालक्षत्रियबुद्धित्वात्स्वयं ब्रह्मर्षिर्वृद्धो ऽपि सन् प्रदक्षिणादिकमकरोत् । आत्मगतिं--आत्मत्वेन गतिरात्मगतिः--रामः मदन्तर्यामी भगवान् आदिगुरुर्ब्रह्मैवेति तत्त्वज्ञानं प्राप्तवान् । आत्मगतिं--स्वस्थानं च जगामेत्यर्थः । प्रभुरिति । ब्रह्मज्ञत्वेन सर्वलोकप्रभुत्वम् । भार (24) मानः सर्गः ।। 24 ।।

(1 दिशश्च विदिशङ.)

(2 मुदान्विताःङ.ज)

( अन्तर्यामित्वेन ज्ञानात् प्रदक्षिणकरणं, क्षत्रियत्वाच्च तस्य प्रणत्यकरणं कायेनेति बोध्यम्ति. । प्रकृष्टा--सर्वोत्तमा दक्षिणा--आत्मसमर्पणरूपा यस्मिन् तत् कर्म कृत्वाशि.) ।। 1.76.24 ।। 

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्सप्ततितमः सर्गः



Sanskrit Commentary by Govindaraja
श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा ।

गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत् ।। 1.76.1 ।।

अथ जामदग्न्यगर्वनिर्वापणं षट्सप्ततितमे--श्रुत्वेत्यादि । पितुर्गौरवादिति पितुः सन्निधिगौरवादित्यर्थः । यन्त्रिता नियमिता कथा उच्चैः कथनं येन स तथा ।। 1.76.1 ।।



श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव ।

अनुरुन्ध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ।। 1.76.2 ।।

श्रुतवानिति । पितुरानृण्यं पितृघातिक्षत्रवधेन पितृवैरशुद्धिमास्थितः सन् यत्कर्म त्रिःसप्तकृत्वः क्षत्रवधरूपं कृतवानसि तच्छ्रुतवानस्मि । तदनुरुन्ध्यामहे अनुरुन्ध्मः । अवश्यं शूरेण वैरशुद्धेः कर्तव्यत्वात् । कर्तरि यगार्षः ।। 1.76.2 ।।



वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव ।

अवजानासि मे तेजः पश्य मे ऽद्य पराक्रमम् ।। 1.76.3 ।।

इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य शरासनम् ।

शरं च प्रति जग्राह हस्ताल्लघुपराक्रमः ।। 1.76.4 ।।

आरोप्य स धनू रामश्शरं सज्यं चकार ह ।

जामदग्न्यं ततो रामं रामः क्रुद्धो ऽब्रवीद्वचः ।। 1.76.5 ।।

वीर्येति । वीर्यहीनम् । अत एव क्षत्रधर्मेण प्राप्तधनुर्ग्रहणयुद्धादौ अशक्तमिव मन्यमानो यन्माम् अवजानासि 'क्षत्रधर्मं पुरस्कृत्य' इत्यादिना अवमानं कृतवानसि तन्नानुरुन्ध्यामहे । "अस्मदो द्वयोश्च" इति चकारादेकस्मिन् बहुवचनम् । अतः तेजःपरपरिभावासहनं पराक्रमम्, स्वशक्त्या पराभिभवनं च पश्य ।। 1.76.35 ।।



ब्राह्मणो ऽसीति पूज्यो मे विश्वामित्रकृतेन च ।

तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् ।। 1.76.6 ।।

विश्वामित्रकृतेन विश्वामित्रकृतस्नेहेन । विश्वामित्रभगिन्यां सत्यवत्यामृचीकाज्जातो जमदग्निः तस्य पुत्रः परशुराम इति विश्वामित्रसम्बन्धेनेत्यर्थः ।। 1.76.6 ।।



इमां पादगतिं राम तपोबलसमार्जितान् ।

लोकानप्रतिमान् वा ते हनिष्यामि यदिच्छसि ।। 1.76.7 ।।

ते तुभ्यम् । पादयोर्गतिं गमनम् । लोकान् लोकप्राप्तिम् । यदिच्छसि अनयोर्मध्ये यदिच्छसि तद्वदेत्यर्थः । यदीच्छसीति पाठो युक्तः । उभयथा प्रतिबद्धः क्वचित्तिष्ठेन्न लोकं पीडयेदिति रामस्य हृदयम् ।। 1.76.7 ।।



न ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः ।

मोघः पतति वीर्येण बलदर्पविनाशनः ।। 1.76.8 ।।

वीर्येण स्वशक्त्या मोधो न पतति लक्ष्यमभित्वा न तूष्णीं पततीत्यर्थः ।। 1.76.8 ।।



वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः ।

पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः ।। 1.76.9 ।।

गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः ।

यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम् ।। 1.76.10 ।।

वरायुधेत्यादि । रामं तन्महदद्भुतं कर्म च द्रष्टुं समेता इत्यन्वयः ।। 1.76.9,10 ।।



जडीकृते तदा लोके रामे वरधनुर्द्धरे ।

निर्वीर्यो जामदग्न्यो ऽसौ रामो राममुदैक्षत ।। 1.76.11 ।।

जडीकृत इति । लोके जने जडीकृते स्तब्धे । निर्वीर्यः निर्गतवैष्णवतेजाः । तथा च पुराणान्तरम्-- "ततः परशुरामस्य देहान्निर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपाविशत् ।।"

इति उदैक्षत विस्मित इति शेषः ।। 1.76.11 ।।



तेजो ऽभिहतवीर्यत्वाज्जामदग्न्यो जडीकृतः ।

रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ।। 1.76.12 ।।

उवाच प्रश्नोत्तरमिति शेषः ।। 1.76.12 ।।



काश्यपाय मया दत्ता यदा पूर्वं वसुन्धरा ।

विषये मे न वस्तव्यमिति मां काश्यपो ऽब्रवीत् ।। 1.76.13 ।।

सो ऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् ।

कृता प्रतिज्ञा काकुत्स्थ कृता भूः काश्यपस्य हि ।। 1.76.14 ।।

काश्यपायेत्यादि । यदाब्रवीत्तदाप्रभृति न वस इत्यन्वयः । गुरुवचः काश्यपवचः । कुर्वन् परिपालयन् । कुत इत्यत्राह कृतेति । हिशब्दः प्रसिद्धौ । यतः सर्वप्रसिद्धतया भूः काश्यपस्य स्वत्वेन कृता त्वद्विषये न वत्स्यामीति प्रतिज्ञा च कृता, तस्मादित्यर्थः ।। 1.76.13,14 ।।



तदिमां त्वं गतिं वीर हन्तुं नार्हसि राघव ।

मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ।। 1.76.15 ।।

तदिमामिति । गतिः गमनम् ।। 1.76.15 ।।



लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया ।

जहि तान् शरमुख्येन माभूत्कालस्य पर्ययः ।। 1.76.16 ।।

लोकहननं नाम लोकदानप्रतिबन्धः । मूर्तस्य वा अमूर्तस्य वा कार्यस्य प्रतिहननमेव रामशरस्यापेक्षितमिति भावः ।। 1.76.16 ।।



अक्षयं मधुहन्तारं जानामि त्वां सुरोत्तमम् ।

धनुषो ऽस्य परामर्शात् स्वस्ति ते ऽस्तु परन्तप ।। 1.76.17 ।।

एते सुरगणाः सर्वे निरीक्षन्ते समागताः ।

त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ।। 1.76.18 ।।

अक्षयमिति । अक्षयं निर्विकारम् । मधुहन्तारं विरोधिनिरसनशीलम् । अनेन "न ब्रह्मा नेशानः" इति महोपनिषदुपबृंहिता । परामर्शात् ग्रहणात् ।। 1.76.17,18 ।।



न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति ।

त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ।। 1.76.19 ।।

इयं त्वया विमुखीकृतिः । व्रीडा लज्जा ।। 1.76.19 ।।



शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत ।

शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ।। 1.76.20 ।।

तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् ।

रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम् ।। 1.76.21 ।।

शरमोक्षे सति । अहं दृष्टशरलक्ष्यस्वार्जितलोकगतिः ।। 1.76.20,21 ।।



स हतान् दृश्य रामेण स्वान् लोकान् तपसार्जितान् ।

जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ।। 1.76.22 ।।

ततो वितिमिराः सर्वा दिशश्चोपदिशस्तथा ।

सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम् ।। 1.76.23 ।।

दृश्य दृष्ट्वा । लोकान् हतान् लोकप्राप्तिहेतुकर्माणि विफलीकृतानीत्यर्थः ।। 1.76.22,23 ।।



रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च ।

ततः प्रदक्षिणं कृत्वा जगामात्मगतिं प्रभुः ।। 1.76.24 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्सप्ततितमः सर्गः ।। 76 ।।

आत्मगतिम् स्वस्थानम् ।। 1.76.24 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षट्सप्ततितमः सर्गः ।। 76 ।।



Sanskrit Commentary by Mahesvara Tirtha
श्रुत्वेति । गौरवाद्यन्वितकथ इति पितुर्गौरवान्नियमितवचनः । पितृसन्निधानाद्विनीतभाषीत्यर्थः ।। 1.76.1।।



श्रुतवानिति । हे भार्गव यत् क्षत्रवधादि कर्म कृतवानसि तच्छ्रुतवानस्मि । अनुरुन्ध्यामहे अनुसरामः । पितृहन्तृणां क्षत्रियाणां वधेन वैरनिर्यातनं पितुरानृण्यम् आस्थितं कृतवन्तम्, पितृभक्त्या खल्वेतत् क्षत्रियविनाशनं कृतवान् पितुरानृण्यं पुत्राणां कर्तव्यमिति भवत्कृतं क्षत्रविशसनं सहामह इत्यर्थः । क्षत्रियसाधारण्येन मदवज्ञां न सहामह इति भावः ।। 1.76.24।।



आरोप्येति । शरं सज्यं मौर्व्या सहितं चकार तस्यां समधत्तेत्यर्थः ।। 1.76.5।।



ब्राह्मण इति । विश्वामित्रकृतेन विश्वामित्रार्थं च । अत्र तादर्थ्यवाची कृतशब्दः । विश्वामित्रभगिनी सत्यवती, तस्यामृचीकाज्जातो जमदग्निः, तस्य पुत्रो ऽयमिति तव विश्वामित्रसम्बन्धं दृष्ट्वेत्यर्थः । तस्मात्कारणद्वयात् ।। 1.76.6।।



इमामिति । तपोबलेन समार्जितान् लोकान् । पादयोर्गतिं गतिशक्तिं वा लोकानिति सुकृतस्य फलप्रापणशक्तिं वा हनिष्यामीति भावः । यदिच्छसि उभयोर्मध्ये तद्धनिष्यामीत्यर्थः ।। 1.76.7।।



न हीति । यस्माद्वैष्णवः ततो मोघो व्यर्थो न पतति लक्ष्यमभित्वा न निवर्तते ।। 1.76.8।।



वरायुधधरं वैष्णवचापधरं तं श्रीरामं महदद्भुतं तत्कर्म च द्रष्टुकामः ।। 1.76.910।।



जडी कृत इति । तदा लोके जने जडीकृते स्तब्धीकृते सति, निर्वीर्यः निर्गतं वीर्यं बलं यस्य स तथोक्तः । अनेन परशुरामशरीरान्निर्गत्य वैष्णवं तेजोरामभद्रे सङ्क्रान्तमिति वेदितव्यम् । तथा च नारसिंहपुराणे "ततः परशुरामस्य देहान्निर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपाविशत् ।।" इति।।

1.76.1116 ।।

अक्षय्यमिति । अस्य इतरदुरारोपणस्य धनुषः परामर्शादारोपणाद्धेतोः त्वामक्षय्यं केनापि क्षयं पराजयं नेतुमश्क्यम्, मधुहन्तारं पुरुषोत्तमं सुरोत्तमं देवदेवं जानामि निश्चिनोमि । (अक्षय्यमिति पाठः) ।। 1.76.1718।।



नेति । यदहं पूर्वं तादृशः, त्रैलोक्यनाथेन त्वया विमुखीकृतः परिभूतः, इयं विमुखीकरणजन्या । व्रीडा लज्जा भवितुं नार्हति, स्वामिनः सकाशात् पराजयो न व्रीडामावहतीत्यर्थः ।। 1.76.1923।।



राममिति । आत्मगतिं यथा पूर्वं विहायसा शीघ्रगमनं गन्तव्यं माहेन्द्रं वा ।। 1.76.24।।



इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां षट्सप्ततितमः सर्गः ।। 76 ।।





Sanskrit Commentary by Nagesa Bhatta
पितुर्गौरवात्पितृसन्निधिवशात् । यन्त्रिता नियमिता कथोच्चैःकथनं येन सः ।। 1.76.1 ।।



पितुरानृण्यं पितृहन्तृक्षत्रवधेन पितृवैरशुद्धिमास्थितः सन्, यत्कर्म त्रिःसप्तकृत्वः क्षत्रियवधरूपं कृतवानसि तदनुरुध्यामहे ऽङ्गीकुर्मः । शूरेणावश्यं वैरशुद्धेः कर्तव्यत्वात् ।। 1.76.2 ।।



यन्मां क्षत्रधर्मेण युक्तं वीर्यहीनमशक्तमिव मन्यमानो ऽवजानासि तन्नानुरुध्यामहे । अतो ऽद्य मे तेजः पराभिभवासहनं तन्मूलं मे पराक्रमं च पश्य ।। 1.76.3 ।।



क्रुद्धः प्रागुक्तरूपावमानवचनेन । क्रोधादेव तद्धस्तात्स्वयमेव धनुः, चाद्भार्गवनिष्ठां वैष्णवीं शक्तिम्, जग्राह । तदुक्तं पाद्मे "इत्युक्त्वा देवि वैष्णव्या शक्त्या तद्गतया सह । जग्राह वैष्णवं चापं विनयेन च लीलया ।।" इति। अत्राप्यग्रे वक्ष्यति "निर्वीर्यो जामदग्न्योऽसौ" इति। लघुः शीघ्रः पराक्रमो यस्य सः ।।

1.76.4 ।।

आरोप्य ज्यारोपं कृत्वा । शरं सज्यं ज्यायुक्तं चकार ।। 1.76.5 ।।



जमदग्निपुत्रत्वेन ब्राह्मणो ऽसीति विश्वामित्रभगिन्याः पौत्रो ऽसीति पूज्यस्त्वं मे ऽसि वधानर्हो ऽसि । अतस्ते प्राणहरं शरं मोक्तुं न शक्तः । अस्मीति शेषः ।। 1.76.6 ।।



इमां प्रत्यक्षसिद्धां गतिं गतिसाधनं पादौ तच्छक्तिं चाकाशगमनादिरूपाम् । लोकांल्लोकप्राप्तिसाधनं धर्मम् । "त्वत्पादकमले हन्मि ब्रूहि ते ऽद्याथवा वृषम्" इति पाद्मोक्तेः । वृषो धर्मः । उभयोर्मध्ये यदिच्छसि यत्तवेष्टं तद्वदेत्यर्थः ।। 1.76.7 ।।



कुत एवमत आह नहीति । वीर्येण स्वशक्त्या शत्रूणां बलदर्पविनाशनो मोघो व्यर्थः ।। 1.76.8 ।।



वरायुधम् वैष्णवं धनुः । समेता मिलिताः ।। 1.76.9 ।।



तद्द्रष्टुम् । आगता इति शेषः ।। 1.76.10 ।।



वरधनुर्धरे रामे ऽधिकरणे तस्य भार्गवस्यालोके तेजसि सङ्क्रान्ते । सतीति शेषः । "ततः परशुरामस्य देहान्निर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपागमत् ।।" इति नृसिंहपुराणात्, पूर्वोक्तपाद्माच्च। अत एव भार्गवे जडीकृते सति निर्वीर्यः स रामो राममुदैक्षत। उद्भूतविष्णुतेजस्कमपश्यदित्यर्थः ।।

1.76.11 ।।

तदेव विवृणोति तेजोभिरित्यादि । रामसङ्क्रान्तैस्तेजोभिर्हेतुभिर्गतवीर्यतया जडीकृतः परशुराम उवाच । शरवध्यप्रश्नोत्तरमिति शेषः ।। 1.76.12 ।।



विषये देशे । एवमुक्तिश्च क्षत्रभीत्यादिनिवृत्तये ।। 1.76.13 ।।



गुरुवचः काश्यपवचः । निशां रात्रिं न वसे । तङार्षः । तदा यदा दत्ता यदा च न वस्तव्यमित्युक्तम् । तदाप्रभृतीति शेषः । पृथिव्यां न वसे इत्यर्थः । यतो ह प्रसिद्धं काश्यपस्याग्रे प्रतिज्ञा कृता इति शेषः । पृथिव्यां रात्रौ न वसामीत्येवंरूपा प्रतिज्ञा कृता ।। 1.76.14 ।।



यदेवमतः तामिमामित्यादि । तां मद्गतिमाकाशगमनसाधनौ पादौ चेन्न हनिष्यसि, तदा मनोजवं पादमास्थाय काश्यपेन समुद्रेण च दत्तं महेन्द्रं गमिष्यामि । अन्यथा प्रतिज्ञाहान्या महत्सङ्कटं स्यादिति भावः ।। 1.76.15 ।।



तपसा यज्ञादिरूपेण । निर्जिता अर्जिताः । अत्र पुण्यार्जितलोकहननाभ्यनुज्ञया स्वस्य तत्त्वज्ञत्वं व्यङ्ग्यम् । रामस्य लोकदानप्रतिबन्धयोः स्वातन्त्र्यदर्शनेन परेशत्वबोधनं च । पाद्मे ऽपि "शतयज्ञकृतं पुण्यं तदस्त्राय न्यवेदयत्" इति ।। 1.76.16 ।।



यतः "उतामृतत्वस्येशानः" इति श्रुतिप्रसिद्धं ब्रह्मैव त्वमित्याह अक्षय्यमिति । अक्षय्यमनाद्यन्तं केनापि पराजयं नेतुमशक्यं च । एवं निश्चये हेतुर्धनुष इत्यादि । अस्य वैष्णवस्येतरदुरारोपस्य । परामर्शो ग्रहणाकर्षणादि ।। 1.76.17 ।।



अप्रतिद्वन्द्वम् प्रतिभटरहितम् ।। 1.76.18 ।।



इयं त्वद्विषये ऽशक्तिर्वीडा व्रीडार्हा । तत्र हेतुस्त्वयेत्यादि । विमुखीकृतः स्वशक्तेः स्वस्मिन्योजनेनाशक्तः कृतः । एतेन स्वस्य भगवदंशत्वं रामस्य च पूर्णभगवदवतारत्वं सूचितम् । स्वातिरिक्तेन विमुखीकरणे हि व्रीडा न तु स्वात्मना मायया तथाकरणे इति भावः । एतद्व्यवहारप्रयोजनं च दयया दशरथादीन्प्रति स्वरूपबोधनं रामस्य पूर्णतेजोवत्त्वसम्पादनं चेति भाति । वैष्णवतेजसों ऽशेनान्यत्र सत्त्वे रावणवधस्य दुष्करत्वात् । एतदर्थमेव रावणवधेच्छुदेवगन्धर्वादीनां द्रष्टुमागमनं पूर्वमुक्तम् ।। 1.76.19 ।।



शरमोक्षे गमिष्यामि । पापस्य तपसा दग्धत्वात्पुण्यस्य च शरमोक्षेण फलप्रतिबन्धे जीवन्मुक्तो भूत्वा गमिष्यामीत्यर्थः । अनेन लोकावरोधः स्वेष्ट एवेति दर्शितम् ।। 1.76.20,21 ।।



दृश्य दृष्ट्वा ।। 1.76.22,23 ।।



रामो दाशरथिना ब्राह्मणत्वात्पूजितो नमस्कृतश्च । "प्रशस्य ह" इति पाठान्तरम् । दाशरथिं प्रदक्षिणीकृत्य । अन्तर्यामित्वेन ज्ञानात्प्रदक्षिणकरणं च क्षत्रियत्वाच्च तस्य प्रणत्यकरणं कायेनेति बोध्यम् । आत्मगतिम् तत्त्वज्ञानम् । स्वस्थानं जगामेत्यर्थः । प्रभुरिति । ब्रह्मत्वेन सर्वलोकप्रभुत्वम् ।। 1.76.24 ।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे षट्सप्ततितमः सर्गः ।। 76 ।।



Sanskrit Commentary by Sivasahaya
श्रुत्वेति । जामदग्न्यस्य परशुरामस्य तद्वाक्यं श्रुत्वा पितुर्गौरवात् पितृनिष्ठगुरुत्वात् यन्त्रिता नियमिता कथा भाषण यस्य पितृभिया मितभाषणविशिष्ट इत्यर्थ: । किञ्च गौरवात् स्वनिष्ठसर्वगुरुत्वं संस्मृत्य यन्त्रितकथो दाशरथि: पितु: समीपे विद्यमानं रामं परशुराममथाब्रवीत् मङ्गलवाक्यमकथयत् ।। 1.76.1 ।।



तद्वाक्यमेवाह कृतवानिति । हे भार्गव हे ब्रह्मन् पितु: आनृण्यम् अवश्यकर्तव्यपितृविघातिवधरूपमृणापनयनबुद्धिमास्थितस्त्वं यत्कर्म पितृविघातिवधरूपक्रियां कृतवानसि तत् अहं श्रुतवानस्मि अत: वयमनुरुन्ध्यामहे त्वत्कर्म अतिप्रशस्तत्वेन वदाम इत्यर्थ: ।। 1.76.2 ।।



वीर्येति । हे भार्गव क्षत्रधर्मेण स्थितमत एव अशक्तं ब्राह्मणोद्देश्यकातिभाषणसम्बन्धिसामर्थ्यरहितं मां त्वं वीर्यहीनमिवावजानासि अतो मे तेज: पराक्रमं चाद्य त्वं पश्य । विनापि चं समुच्चय: ।। 1.76.3 ।।



इतीति । क्रुद्ध: क्रुधं स्वाश्रितकोपं जहाति हापयतीति राघव: स राम: इत्युक्त्वा भार्गवस्य हस्ताल्लघुपराक्रम: सन् वरायुधं चापं शरं च प्रतिसङ्गृह्य गृहीत्वा धनु: आरोप्य शरं सज्यं ज्यासंयुक्तं चकार ह प्रसिद्धमेतत् । सार्धश्लोक एकान्वयी ।। 1.76.4 ।।



जामदग्न्यमिति । तत: सज्यीकरणानन्तरं क्रुद्ध: स्वाश्रितकोपनिवर्तको राम: जामदग्न्यं रामं वचो ऽब्रवीत् ।। 1.76.5 ।।



तद्वचनमेवाह ब्राह्मण इति । ब्राह्मणो ऽसि इतिहेतुना विश्वामित्रकृतेन विश्वामित्रात् अस्मद्गुरुविश्वामित्रभगिनीपुत्रात् कृतेन जातत्वेन च हेतुना त्वं में पूज्यो ऽसि जस्माद्धेतो: हे राम परशुराम प्राणहरं शरं ते तुभ्यं मोक्तुं न शक्तो ऽस्मीति शेष: ।। 1.76.6 ।।



इमामिति । राम हे परशुराम यत् यदि त्वमिच्छसि तर्हीमां प्रसिद्धां त्वद्गतिं त्वत्कर्तृकं कामचारगमनं तपोबलसमर्जितान् तपोबललभ्यान् अप्रतिमान् प्राकृतोपमारहितान् लोकान् त्वन्निवासान् वा हनिष्यामि अपिना उभयविनाशमिच्छसि चेत्तर्ह्युभयं हनिष्यामि एतेन ब्राह्मणानिष्टं न करोमीति स्वमर्यादा व्यञ्जिता । एको वाशब्दस्तर्हीत्यर्थे ।। 1.76.7 ।।



ननु विकल्पितं सर्वं नेच्छामीत्यत आह नेति । परपुरञ्जय: वीर्येण बलदर्पविनाशन: दिव्यो ऽयं वैष्णव: शर: मोघ: निष्फल: नैव पतति एतेन यत्रास्य शरस्य पात: सफलस्तद्वक्तव्यमिति सूचितम् ।। 1.76.8 ।।



रघुनाथोक्त्यनन्तरकालिकं वृत्तमाह वरेति । वरायुधधरं सज्यीकृतवैष्णव धनुर्बाणधारिणं रामं रघुनाथं द्रष्टुं सर्षिगणा: सर्वश: सुरा: पितामहं ब्रह्माणं पुरस्कृत्य तत्र रघुनाथसमीपे समेता: प्राप्ता: पितामहं पुरस्कृत्येत्युक्त्या सुराणां रामबाणभीतत्वं सूचितं तेन रामबाणस्य तेजो ऽतिशय: सूचित: ।। 1.76.9 ।।



गन्धर्वेति । महपूज्यं अद्भुतमाश्रर्यं तद्रघुनाथस्य कर्म द्रष्टुं गन्धर्वादयश्च समेता इति पूर्वेणान्वय: ।। 1.76.10 ।।



जडीकृत इति । वरधनुर्धरे रामे दाशरथौ तदालोके परशुरामतेजसि जडीकृते आलोकनिष्ठजडीभवनानुकूलव्यापारवति सति निर्वीर्यो हतपराक्रम: असौ जामदग्न्यो राम: रामं दाशरथिमुदैक्षत तेजसो जडीभवनं विध्वंस एवेति भाव: ।। 1.76.11 ।।



तेजोभिरिति । तेजोभि: रघुनाथप्रभावैर्हतवीर्यत्वाद्धेतो: जडीकृतो जामदग्न्य: कमलपत्राक्षं रामं मन्दं मन्दमेवोवाच । हशब्द एवार्थे ।। 1.76.12 ।।



तद्वचनमेवाह कश्यपायेति । पूर्वं कश्यपाय वसुन्धरा मया यथा यथावद्दत्ता अत एव मे विषये देशे न वस्तव्यमिति मां कश्यपो ऽब्रवीत् ।। 1.76.13 ।।



स इति । हे काकुत्स्थ स: कश्यपेनोक्तो ऽगुरुवच: कुर्वन् सन् यदाप्रभृति मे मया कश्यपस्य कृता कश्यपाय समर्पितेत्यर्थ: इयं पृथिवीति शेष: तदाप्रभृति अस्यां पृथिव्यां निशां न वसे वसामि ह प्रसिद्धमेतत् ।। 1.76.14 ।।



तदिति । हे राघव हे राम तत्तस्माद्धेतो इमां कामचारां गतिं गमनं हन्तुं त्वं नार्हसि अत: पर्वतोत्तमं महेन्द्रं मनोजवं यथा स्यात्तथा गमिष्यामि ।। 1.76.15 ।।



लोका इति । हे राम मया तपसैव निर्जिता: समर्जिता ये ऽप्रतिमा लोका: तान् शरमुख्येन जहि कालस्य पर्ययो विलम्बो मा भूत् । तुशब्द एवार्थे ।। 1.76.16 ।।



त्वं मया तत्त्वतो ज्ञातो ऽसीति बोधयन्नाह अक्षयमिति । न क्षयो विनाश: आश्रितानां यस्मात् तं मधुहन्तारं मधुं दैत्यं हन्ति विष्णुना घातयति तं विष्णोर्नियन्तारमित्यर्थ: । किञ्च मधुहं मधौ चैत्रे जिहीते प्रादुर्भावं प्राप्नोति तं तारं तार: प्रणव: अस्ति बोधकत्वेनास्येति तार: तं, किञ्च तारं भवसागरपारकर्तारं सुरोत्तमं ब्रह्मादित्रिदेवेभ्य: श्रेष्ठं दानिश्रेष्ठ वा त्वामहं जानामि अतो हे परन्तप अस्य वैष्णवस्य धनुष: परामर्शात् ग्रहणसज्यीकरणार्षणादे: ते स्वस्त्यस्तु ।। 1.76.17 ।।



एत इति । समागता: एते सर्वे सुरगणा: अप्रतिमकर्माणमुपमारहितकर्मविशिष्टमत एव आहवे अप्रतिद्वन्द्वं त्वां निरीक्षन्ते ।। 1.76.18 ।।



नेति । हे काकुत्स्थ इयं पराभूति: मम व्रीडा तद्धेतुर्भवितुं नार्हति यद्यस्माद्धेतो: त्रैलोक्यनाथेन सर्वस्वामिना त्वया अहं विमुखीकृत: ।। 1.76.19 ।।



शरमिति । हे राम हे सुव्रत अप्रतिममुपमारहितं शरं मोक्तुं त्वमर्हसि शरमोक्षे सति पर्वतोत्तमं महेन्द्रमहं गमिष्ये ।। 1.76.20 ।।



तथेति । जामदग्न्ये रामे तथा ब्रुवति सत्येव प्रतापवान् श्रीमान् दाशरथि: राम: उत्तमं शरं चिक्षेप ।। 1.76.21 ।।



स इति । जामदग्न्य: स परशुराम: रामेण हतान् तपसार्जितान् लोकान् दृश्य दृष्ट्वा पर्वतोत्तमं

महेन्द्रमाशु जगाम ।। 1.76.22 ।।



तत इति । तत: परशुरामगमनानन्तरं वितिमिरा: अन्धकाररहिता: सर्वा: दिश: तथोपदिशश्च आसन्निति शेष: । अत एव मुदान्विता: सर्षिगणा: सुरा: रामं प्रशशंसु: ।। 1.76.23 ।।



राममिति । तत: महेन्द्राचलप्राप्त्यनन्तरं प्रभुर्जामदग्न्यो राम: दाशरथिं रामं प्रशस्य तद्दयालुत्वादिप्रशंसां कृत्वा प्रदक्षिणं प्रकृष्टा सर्वोत्तमा दक्षिणा आत्मसमर्पणरूपा यस्मिन् तत् कर्म कृत्वा आत्मगतिमात्मन: स्वस्य गतिं प्राप्य रघुनाथनियम्यत्वं जगाम प्राप ।। 1.76.24 ।।



इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे षट्सप्ततितम: सर्ग: ।। 1.76 ।।