Content

[Dasaratha enters the city of Ayodhya with his sons and their wives--Bharata and Satrughna depart with their maternal uncle--Rama's virtues described.]

गते रामे प्रशान्तात्मा रामो दाशरथिर्धनु:।

वरुणायाप्रमेयाय ददौ हस्ते ससायकम्।।1.77.1।।

Translation

रामे when Rama, गते had departed, प्रशान्तात्मा with serene mind, दाशरथि: son of Dasaratha, राम: Rama, ससायकम् together with arrow, धनु: bow, अप्रमेयाय immeasurable, strength, वरुणाय to Varuna, हस्ते in his hand, ददौ gave.

When Parasurama departed, Rama, son of Dasaratha with a serene mind gave the bow along with the arrow to Varuna of immeasurable strength.
Sanskrit Commentary by Amruta Kataka
अथ सप्तसप्ततितमः सर्गः

[अयोध्यावासः]

 ।। 1.77.1 ।। गते रामे प्रशान्तात्मा रामो दाशरथिधर्नुः ।

वरुणायाप्रमेयाय ददौ हस्ते 1ससायकम् ।। 1 ।।

अथ संपूर्णकामतया दशरथस्य पुरप्रवेशादिःगते राम इत्यादि । परशुराम इति यावत् । हस्तेस्वहस्ते स्थितं सायकं धनुश्च वरुणाय ददौ, न्यासात्मनेति शेषः । वरुणस्याप्रमेयत्वं" भृगुर्वै वारुणिः । वरुणं पितरमुपससार' इत्यादिना साक्षात् शुद्धब्रह्मविद्याप्रवर्तकदेशिकेन्द्रत्वादप्रमेयवैभवत्वम् । तस्य च सत्त्वप्रधानतो ब्रह्मण आन्तरमूर्तित्वात् ब्रह्मणा रामेणाप्ते एतस्मिन् प्रदानम् । एवं वरुणादिमहामहादेवतानामपि स्वेष्टविनियोजकत्वेन भगवान् रामो ब्रह्मा स्वावगमः । वरुणायेत्यादौ षष्ठ्यर्थे चतुर्थ्याश्रये तु पाङ्क्तो ऽर्थः ।। 1 ।।

(वरुणायदेवैस्सह कौतुकदर्शनार्थमन्तरिक्षे स्थितायति, अप्रमेयायअन्यैः अयं वरुण इति तस्मिन् काले प्रमातुमशक्यामशि. अप्रमेयायअदृश्यायगो । अत्र ससायकं धनुरिति वा ऽन्वयः)

(1 महायशाः.ङ.ज) ।। 1.77.1 ।। 

 ।। 1.77.2 ।। अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन् ।

पितरं 2विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः ।। 2 ।।

विह्वलःपरवशः ।। 2 ।।

( विह्वलंपरवशं । अनेन परशुरामेण कृतां परत्वसूचिकां स्तुतिं वरुणाय धनुर्दानं च दशरथो न ज्ञातवानिति गम्यतेगो. धनुर्दानवृत्तान्तस्य मायया तिरोधानमन्यान् प्रतिति. अत्र विह्वलत्वं भयकृतमिति युक्तम् । पूर्वं परशुरामात् भयाविष्करणात्, 'गतो राम इति श्रुत्वा हृष्टः' इत्यनन्तरमेवोक्तश्च.) ।। 1.77.2 ।। 

 ।। 1.77.3 ।। जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी ।

1अयोध्याभिमुखी सेना त्वया नाथेन पालिता ।। 3 ।।

चतुरङ्गिणीति । 'प्रातिपदिकान्तनुम्' इत्यादिना णत्वम् ।। 3 ।।

(1 एतदनन्तरंसंदिशस्व महाराज सेनां त्वच्छासने स्थिताम् । शासनं काङ्क्षते सेना चातकालिर्जलं यथा ।। 4 ।। इत्यधिकं.ङ.) ।। 1.77.3 ।। 

 ।। 1.77.4 ।। रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् ।

बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम् ।। 4 ।।

गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।

पुनर्जातं तदा मेने पुत्रमात्मानमेव च ।। 5 ।।

तां सेनांप्रथमं क्षुभितां पश्चात् प्राप्तश्वासां चेत्यर्थः । प्रतिबन्धाभावात् पुरीं चाशु जगाम ।। 1.77.5 ।। 

 ।। 1.77.6 ।। चोदयामास तां सेनां, जगामाशु ततः पुरीम् ।

पताकाध्वजिनीं रम्यां तूर्योद्धुष्टनिनादिताम् ।। 6 ।।

अस्यैव विस्तरःपताकेत्यादि । पताकाध्वजपटः । ध्वजः--दम्डः । पताकान्विता ध्वजास्सन्ति अस्या इति तथा । उद्धुष्टमिति भावे निष्ठा ।। 6 ।।

( यद्यप्यत्र पताकाध्वजपटः, ध्वजःदण्डः इति गोविन्दराजैरपि व्याख्यातम्, अथापि तैरेव अन्यत्र (अयो623) ध्वजाःसचिहाः, पताकाःचिहरहिताः, इति व्याख्यातम् । तदेवात्रापि युक्तं ग्रहीतुमिति ।। (ह्रस्वदीर्घध्वजभेद इत्यप्याहुःगो) ।। 11.77.6 ।। 

 ।। 1.77.7 ।। 2 सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् ।

राजप्रवेशसुमुखैः पौरैर्मङ्गल1वादिभिः ।। 7 ।।

मङ्गलंआशीर्वदनं वदितुं शीलमस्त्येषामिति तथा ।। 7 ।।

(2 सिक्तराजपथैरम्यां, सिक्तराजपथारम्यांज)

( रम्यामिति पुनरुक्तिः तत्तद्द्विशेषणरमणीयत्वाभिप्रायेणगो. सिक्तैः राजपथैः रम्यांशि. सिक्तेन राजपथेन आसमन्तात् रम्यांति.) ।। 1.77.7 ।। 

 ।। 1.77.8 ।। संपूर्णां प्राविशद्राजा जनौघैः समलङ्कृताम् ।

पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः ।। 8 ।।

श्रीमद्भिरिति । दारपरिग्रहादधिकलक्ष्मीवद्भिः ।। 1.77.8 ।। 

 ।। 1.77.9 ।। पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः ।।

प्रविवेश गृहं राजा हिमवत्सदृशं पुनः ।। 9 ।।

हिमवत्सदृशमिति । अनेन सुधालेपजधावल्यमौन्नत्यं च लक्ष्यते । सजनःसबन्धुजनः गृहे विद्यमानः । काम्यन्त इति कामाःविषयभोगपरिकरस्रक्चन्दनाभरणादयः तैः सुपूजितःप्राप्तपूजःप्राप्तानन्दइत्यर्थः ।। 1.77.9 ।। 

 ।। 1.77.10 ।। ननन्द सजनो राजा गृहे कामैः सुपूजितः ।

कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ।। 10 ।।

वधूनांस्नुषाणां प्रतिग्रहःआरात्र्यादिमङ्गलाचारपूर्वकः । राजयोषितःदशरथपत्न्यः ताश्च वधूप्रतिग्रहे युक्ताः ।। 1.77.10 ।। 

 ।। 1.77.11 ।। 2वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः ।

ततः सीतां महाभागामूर्मिलां च यशस्विनीम् ।। 11 ।।

कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः ।

मङ्गला1लपनैश्चैव शोभिताः क्षौमवाससः ।। 12 ।।

मङ्गलार्थमालपनमाशीर्वादः तैरुपलक्षिता इति शेषः । देवतायतनंपुरदैवत3गृहदैवतायतनवेदिः । प्रत्यपूजयन्निति । प्रणमन्ति स्म ।। 12 ।।

(2 एतदनन्तरंराम च लक्ष्मणं चैव शत्रुघ्नं भरतं तथा । आर्चयन्मङ्गलासीर्भिर्मङ्गलैरभ्यपूजयन् । उपहारैश्च संहृष्टाः कुमारानभिपूज्य च ।। इत्यधिकंङ.)

( देवतायतनानिगृहदेवतानामर्चागृहाणि, प्रत्यपूजयन्--गन्धपुष्पादिभिरपूजयन् । आयतनपूजामात्रे स्त्रीणामधिकारादिति भावःगो.)

(1 लपनैर्होर्मेःज., लंभनैश्चैवङ.)

(3 ग्रामग.) ।। 1.77.12 ।। 

 ।। 1.77.13,14 ।। देवतायतनान्याशु 2सर्वास्ताः प्रत्यपूजयन् ।

4अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ।। 13 ।।

5रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ।

कृतदाराः 6कृताज्ञाश्च सधनाः ससुहृञ्जनाः ।। 14 ।।

अभिवादार्हाःअभिवाद्या । कृताज्ञाःअनुष्ठितपितृनियोगाः । सधनाःस्वस्वभोगोपयुक्तजीवाजीवधनसहिताः ।। 14 ।।

( देवतायतनानिगृहदेवतानामर्चागृहाणि, प्रत्यपूजयन्--गन्धपुष्पादिभिरपूजयन् । आयतनपूजामात्रे स्त्रीणामधिकारादिति भावःगो.)

(2 यथार्हं.घ)

(4 एतदनन्तरं 'स्वं स्वं गृहमथा ऽ ऽसाद्य कुबेरभवनोपमम् । गोभिर्धनैश्च धान्यैश्च तर्पयित्वा द्विजोत्तमान्ङ.)

(5 एतदनन्तरंकुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि । अधिकम्ङ)

(6 कृतास्त्राश्चङ) ।। 1.77.14 ।। 

 ।। 1.77.15 ।। 7शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः ।

8कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ।। 15 ।।

कस्यचित्कालस्येति । अत्यय इति शेषः ।। 15 ।।

(7 एतदनन्तरंकालेकाले तु नीतिज्ञास्तोषयन्तो गुरुं गुणैः । अधिकंङ.)

( वर्तयन्तिवर्तन्ते, णिजर्थो ऽविवक्षितः.शि)

(8 एतदनन्तरंअभिवादयितुं प्राप्तं श्यामं कमललोचनम् । अक्लिष्टकारिणं शूरं परसैन्यविमर्दनम् । विनयं देहयोगेन संप्राप्तमिव संस्थितम् । अधिकम्ङ) ।। 1.77.15 ।। 

 ।। 1.77.16 ।। भरतं कैकयीपुत्रमब्रवीद्राघुनन्दनः ।

अयं केकयराजस्य पुत्रो वसति पुत्रक ।। 16 ।।

मातुलस्तवेति । अतो गत्वा ऽ ऽगच्छेति शेषः ।। 1.77.16 ।। 

 ।। 1.77.17 ।। 1 त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव ।

2 श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः ।। 17 ।।

एतदिति । वाक्यमिति शेषः ।। 17 ।।

(1 एतदनन्तरं 'प्रार्थितस्तेन धर्मज्ञ मिथिलायामहं तदा । ऋषिमध्ये तु तस्य त्वं प्रीति कर्तुमिहार्हसि ।। इत्यधिकम्ङ.) ।। 1.77.17 ।। 

 ।। 1.77.18 ।। गमनायाभिचक्राम शत्रुघ्नसहितस्तदा ।

आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ।। 18 ।।

अक्लिष्टंकस्यापि दुःखरहितं यथा भवति तथा कर्तुं शीलमस्त्यस्येति तथा ।। 18 ।।

( 18 सर्गे रामलक्ष्मणयोरिव भरतशत्रुघ्नयोः सौभ्रात्रातिशयः प्रत्यपादि.)

('अक्लिष्टव्रतधर्मज्ञः' इत्यादाविव विनैव क्लेशं उत्साहेनानायासतः सर्वं कर्तुं समर्थ इति वा ऽर्थः) ।। 1.77.18 ।। 

 ।। 1.77.19 ।। 3मातृश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ ।

गते च भरते रामो लक्ष्मणश्च महाबलः ।। 19 ।।

पितरं देवसंकाशं पूजयामासतुस्तदा ।

पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ।। 20 ।।

चकार रामो धर्मात्मा प्रियाणि च हितानि च ।

मातृभ्यो मातृकार्याणि 1कृत्वा परमयन्त्रितः ।। 21 ।।

परमंअत्यन्तं यन्त्रितःश्रुतिस्मृतिमर्यादानतिलंघी । गुरुकार्याणीति । गुरूचितशुश्रूषादिकार्याणीति यावत् ।। 21 ।।

(1 राज्ञाङ) ।। 1.77.21 ।। 

 ।। 1.77.22 ।। गुरूणां गुरुकार्याणि काले काले ऽन्ववैक्षत ।

एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ।। 22 ।।

तथा नैगमाःवणिजः । विषयवासिन इति । प्रीता इति विपरिणामः ।। 1.77.22 ।। 

 ।। 1.77.23 ।। रामस्य शील2वृत्तेन सर्वे विषयवासिनः ।

तेषामतियशा लोके रामः सत्यपराक्रमः ।। 23 ।।

तेषां चतुर्णां मध्ये सत्यपराक्रमः राम एव लोके गुणवत्तरःअतिशयेनानन्तकल्याणगुणसम्मतो बभूव । यथा भगवान् स्वयम्भूः देवासुरान्तसकलसंसारिणां साधारण्येन निस्तुलाधिकजाग्रन्निर्मलनिसर्गभूमविद्यैश्वर्यानन्दवैभवेन सज्जनसाधारणनिरयभरणस्वर्गप्रापणपरमापवर्गान्तसकलपुरुषार्थसाक्षात्साधकत्वेन सर्वसम्मतसर्वोपसेव्यानन्तकल्याणगुणो भवति, उपादानत्वेन सर्वात्मकत्वाच्च सर्वसम्मतसच्चिदानन्दतत्त्वतत्स्वरूपत एवाविवादतस्सर्वलोकसम्मतविद्यैश्वर्यादिगुणो भवति तथेत्यर्थः ।। 23 ।।

(2 वृत्ताभ्यांङ) ।। 1.77.23 ।। 

 ।। 1.77.24 ।। स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ।

रामस्तु सीतया सार्धं विजहार बहूनृतून् ।। 24 ।।

मनस्वीअनुकूलमनस्कः । अतः तद्गतःतया सीतया अभिगतःनित्यसेव्यमानः आस्थान्यवस्थानादिना असन्निधाने ऽपि तस्य हृदि तया नित्यं समर्पितःसततोत्कण्ठितो भवति ।। 1.77.24 ।। 

 ।। 1.77.25 ।। मनस्वी 3 तद्गतस्तस्या नित्यं हृदि समर्पितः ।

प्रिया तु सीता रामस्य दाराः पितृकता 1इति ।। 25 ।।

सीता रामस्य पितृकृता दारा इति तु विशिष्य प्रिया भवति । उत्तमस्त्रीत्वादेव स्वतः प्राप्ता प्रीतिस्सीतायां पितृकृतत्वेन बहुमाननास्पदभूता चाभूदित्यर्थः । न केवलं पितृकृतेति प्रीतिः, अपि तु गुणात्इष्टशिष्टहितकारित्वादिपातिव्रत्यगुणात् । रूपंआत्मीयनिस्तलाधिकसौन्दर्यात्मकगुणस्तथा । भूयःअभ्यधिकं रामस्यास्यां प्रीतिरवर्धत ।। 25 ।।

( तस्यां गतःइति वा ऽर्थः)

(3 तद्गतमनाःङ)

(अत्र पितृपदेन दशरथो विवक्षितः । अथवा 'इयं सीता मम सुता' इत्यादिना सीतायाः जनकेन दानात् पिता ऽत्र सीतापिता विवक्षितः । सीताविवाहस्य स्वयंवरत्वव्यावृत्तये इदं विशेषणम् । यद्यपि अयोध्याकाण्डान्ते--अनसूयया सीतां प्रति तत्स्वयंवरवृत्तान्त एव पृष्टः, अथापि सीता 'मम पित्रा त्वहं दत्ता' इत्येवं प्रत्यवोचत् । एवञ्च सीताविवाहः वीर्यशुल्कप्रधानः गौणः स्वयंवर इति ।।)

(1 इवङ) ।। 1.77.25 ।। 

 ।। 1.77.26 ।। 2गुणाद्रूपगुणाच्चापि प्रीतिर्भूयो ऽभ्यवर्धत ।

तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ।। 26 ।।

तस्याश्च हृदये भर्ता रामः गुणाद्रूपगुणाच्च द्विगुणं परिवर्तते स्म । उभयोः परस्परोङ्गितज्ञानं स्नेहमूलकं प्रदर्श्यते--अन्तरित्यादि । तस्य रामस्यान्तर्जातमपि हृदयंहार्दाभिप्रायं मैथिली हृदास्वहृदयेन ज्ञात्वा भूयःअभ्यधिकं व्यक्तं विशेषेणैव एवमेवेति विविच्य आख्याति स्म । एवं सो ऽपि सीतायाः ।। 26 ।।

(2 एतदनन्ततरं--तथैव रामस्सीताया प्राणेभ्यो ऽपि प्रियो ऽभवत् । हृदयं त्वेव जानाति प्रीतियोगं परस्परम् ।। अधिकम्ङ) ।। 1.77.26 ।। 

 ।। 1.77.27 ।। अन्तर्जातमपि व्यक्तं आख्याति हृदयं हृदा ।

तस्य भूयो विशेषेण मैथिली जनकात्मजा ।। 27 ।।

देवताभिस्समेति । मानुषावतारे ऽपीति शेषः । अत एव श्रीरिवेति उपमा ऽपि श्रिया एव सत्या । अत एवोत्तरश्लोकोपमा ऽप्युभयोः ।। 1.77.27 ।। 

 ।। 1.77.28 ।। देवताभिः समा रूपे सीता श्रीरिव रूपिणी ।

तया स राजर्षिसुतो ऽभिरामया

समेयिवानुत्तमराजकन्यया ।

अतीव रामः शुशुभे ऽतिकामया

विभुः श्रिया विष्णुरिवामरेश्वरः ।। 28 ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे सप्तसप्ततितमः सर्गः

समाप्तश्च बालकाण्डः

--

1अदुःखमानः (28 12) सर्गः ।। 28 ।। ।। 1.77.28 ।। 

बालकाण्डे तु सर्गाणां कथिता सप्तसप्ततिः ।

श्लोकानां द्वे सहस्रे च साशीतिशतकद्वयम् ।।

यस्सर्वोपनिषव्द्याख्या मङ्गलाभरणं व्यधात् ।

ब्रह्म जिज्ञासतां तस्मै नमो माधवयोगिने ।।

( अमरेश्वरःविष्णुः श्रियेव, मूर्तिभेदेनोपमानत्वम्गो)

( क पुस्तके अन्ते इदं पद्यमधिकं दृश्यते--

दयानिधे राघव रामचन्द्र निरस्य पापानि ममाखिलानि ।

त्वय्येव भक्तिं सुदृढां प्रयच्छ सैव प्रसूते सकलानभीष्टान् ।।)

(1 अजरमानःग)

इति श्रीमद्रामायणामृतकतकटीकायां श्रीमन्माधवयोगिविरचितायां बालकाण्डे सप्तसप्ततितमः सर्गः

बालकाम्डव्याख्या समाप्ता



Sanskrit Commentary by Govindaraja
गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः ।

वरुणायाप्रमेयाय ददौ हस्ते ससायकम् ।। 1.77.1 ।।

अथ स्वपुरं प्राप्य सीतया रामः सुखमुवासेत्याह सप्तसप्ततितमे--गत इत्यादि । रामे परशुरामे । वरुणाय न्यासत्वेनेति शेषः । अप्रमेयाय अदृश्यायेत्यर्थः ।। 1.77.1 ।।



अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन् ।

पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः ।। 1.77.2 ।।

विह्वलं परवशम् । अनेन परशुरामेण कृतां परत्वसूचिकां स्तुतिं वरुणाय धनुर्दानं च दशरथो न ज्ञातवानिति गम्यते ।। 1.77.2 ।।



जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी ।

अयोध्याभिमुखी सेना त्वया नाथेन पालिता ।। 1.77.3 ।।

चतुरङ्गिणीति "प्रातिपदिकान्तनुम्--" इत्यादिना णत्वम् ।। 1.77.3 ।।



रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् ।

बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम् ।। 1.77.4 ।।

रामस्येत्यादिश्लोकद्वयमेकान्वयम् । रामस्य वचनं श्रुत्वा विह्वलतया अस्पष्टं वचनं श्रुत्वा ।।

1.77.4 ।।



गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।। 1.77.5 ।।

पुनर्जातं तदा मेने पुत्रमात्मानमेव च ।

चोदयामास तां सेनां जगामाशु ततः पुरीम् ।। 1.77.6 ।।

गतो राम इति श्रुत्वा । क्रमेण पुनः स्पष्टं श्रुत्वेत्यर्थः । हृष्टः पुलकितः ।। 1.77.5,6 ।।



पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् ।

सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् ।। 1.77.7 ।।

रम्यामिति पुनरुक्तिस्तत्तद्विशेषणकृतरमणीयत्वाभिप्रायेण । पताका ध्वजपटः, ध्वजः दण्डः, पताकान्विता ध्वजा अस्यां सन्तीति पताकाध्वजिनीम् । ह्रस्वदीर्घध्वजभेद इत्यप्याहुः । उद्घुष्टमिति भावे निष्ठा । तूर्योद्घोषेण सञ्जातनिनादामित्यर्थः ।। 1.77.7 ।।



राजप्रवेशसुमुखैः पौरैर्मङ्गलवादिभिः ।

सम्पूर्णां प्राविशद्राजा जनौघैः समलङ्कृताम् ।। 1.77.8 ।।

पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः ।

पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः ।। 1.77.9 ।।

राजप्रवेशेन सुमुखैः विकसन्मुखैः । मङ्गलम् आशीर्वचनं वक्तुं शीलमेषामस्तीति मङ्गलवादिभिः ।। 1.77.8,9 ।।



प्रविवेश गृहं राजा हिमवत्सदृशं पुनः ।

ननन्द सजनो राजा गृहे कामैः सुपूजितः ।। 1.77.10 ।।

जनः सम्बन्धिजनः । गृहे स्थितैरिति शेषः । काम्यन्त इति कामाः, विषयभोगपरिकराः तैः ।। 1.77.10 ।।



कौसल्या च सुमित्रा च कैकयी च सुमध्यमा ।

वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः ।। 1.77.11 ।।

वधूनां स्नुषाणाम् । प्रतिग्रहे उपचारे स्वस्वान्तःपुरानयने वा । "वधूर्जाया स्नुषा" इत्यमरः । युक्ता आसक्ताः, आसन्निति शेषः ।। 1.77.11 ।।



ततः सीतां महाभागामूर्मिलां च यशस्विनीम् ।

कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः ।। 1.77.12 ।।

जगृहुः अन्तःपुरं प्रावेशयन् ।। 1.77.12 ।।



मङ्गलालापनैश्चैव शोभिताः क्षौमवाससः ।

देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन् ।। 1.77.13 ।।

मङ्गलालापनैः स्वस्तिवाचनैः, शोभिताः । मङ्गलालम्भनैरितिपाठे--आलम्भनं चन्दनचर्चा ।

देवतायतनानि गृहदेवतानामर्चागृहाणि । प्रत्यपूजयन् गन्धपुष्पादिभिरपूजयन् । आयतनपूजामात्रे स्त्रीणामधिकारादिति भावः ।। 1.77.13 ।।



अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ।

रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ।। 1.77.14 ।।

अभिवाद्येति । सर्वा अभिवाद्य सर्वा रेमिर इत्यन्वयः ।। 1.77.14 ।।



कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि ।

कृतदाराः कृतास्त्रा श्च सधनाः ससुहृज्जनाः ।

शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः ।। 1.77.15 ।।

वर्तयन्ति अनुवर्तयन्ति स्म ।। 1.77.15 ।।



कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ।

भरतं कैकयीपुत्रमब्रवीद्रघुनन्दनः ।। 1.77.16 ।।

कस्यचित्त्वथ कालस्य कस्मिंश्चित्काले गते सति ।। 1.77.16 ।।



अयं केकयराजस्य पुत्रो वसति पुत्रक ।

त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव ।। 1.77.17 ।।

श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः ।

गमनायाभिचक्राम शत्रुघ्नसहितस्तदा ।। 1.77.18 ।।

मातुलस्तवेति । अतो गच्छेति व्यञ्जनावृत्त्योक्तिः पुत्रविरहकातर्यात् ।। 1.77.17,18 ।।



आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ।

मातृ़श्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ ।। 1.77.19 ।।

गते च भरते रामो लक्ष्मणश्च महाबलः ।

पितरं देवसङ्काशं पूजयामासतुस्तदा ।। 1.77.20 ।।

पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ।

चकार रामो धर्मात्मा प्रियाणि च हितानि च ।। 1.77.21 ।।

अक्लिष्टं कस्यापि दुःखरहितं यथा भवति तथा कर्तुं शीलमस्त्यस्येति तथा ।। 1.77.1921 ।।



मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः ।

गुरूणां गुरुकार्याणि काले काले ऽन्ववैक्षत ।। 1.77.22 ।।

परमयन्त्रितः परमम् अत्यन्तं यन्त्रितः श्रुतिस्मृतिमर्यादानतिलङ्घी । गुरुकार्याणि

गुरूचितशुश्रूषादिकार्याणि । अन्ववैक्षत परिपालयतिस्मेत्यर्थः ।। 1.77.22 ।।



एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तदा ।

रामस्य शीलवृत्तेन सर्वे विषयवासिनः ।। 1.77.23 ।।

एवमेतादृशेन शीलवृत्तेन । नैगमाः वणिजः ।। 1.77.23 ।।



तेषामतियशा लोके रामः सत्यपराक्रमः ।

स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ।। 1.77.24 ।।

न केवलं शीलवृत्तेन, किन्तु सर्वैरपि गुणैरित्याशयेनाह--तेषामिति । तेषां ब्राह्मणादीनां मध्ये ।। 1.77.24 ।।



रामस्तु सीतया सार्द्धं विजहार बहूनृतून् ।

मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः ।। 1.77.25 ।।

एवं धर्मपरतां रामस्योक्त्वा धर्माविरुद्धकामाभिरतिं दर्शयति--रामस्त्वित्यादिना श्लोकचतुष्टयेन । रामस्तु तुशब्देन पूर्वस्माद्वैलक्षण्यमुच्यते । पितृशुश्रूषणधर्मप्रवर्तनदेवताराधनादिकं हि पूर्वमुक्तम् । स एवं कर्ता सम्प्रति वात्स्यायनमभ्यस्य कामतन्त्रपरो ऽभूत् । सीतया अयोनिजया "सहयुक्ते ऽप्रधाने" इति तृतीया । स्वाभाविकसौन्दर्यसमृद्ध्यैवावतीर्णापि भोगस्रोतस्यप्रधानाभूदिति रामस्य प्रावण्यातिशयः(?) प्रदर्शितः । विजहार । परस्मैपदेन फलापर्यवसायितोच्यते । "स्वरित़ञितः कर्त्रभिप्राये क्रियाफले" इति विहाररूपक्रियाफलस्य कर्तृगामित्वे ह्यात्मनेपदमेव भवेत् । तथा च चिरतरविहारोपि भोगोपोद्घातकेलितां नातिशेत इति भावः । बहूनृतून् । अत्यन्तसंयोगे द्वितीया । तया भोगनैरन्तर्यं सूच्यते । बहून् ऋतूनित्युक्तं न तु वत्सरानिति । तेन तत्तदृतूचितभोगोपकरणैर्भोगान् स बुभुज इत्युक्तम् । मनो ऽस्यास्तीति मनस्वी । भूमार्थे मत्वर्थीयः । तथा च संश्लेषदशायां सीतासङ्कल्पमप्यतिशय्य भोगस्रोतः प्रवर्तयितेत्यर्थः । नित्यं तद्गतः तस्यां गतः "सप्तमी--" इति योगविभागात्समासः । जातिगुणवदपृथक्सिद्धतया तदेकरसो ऽभूदित्यर्थः । सर्वदा तदासक्तचित्तो ऽभूदिति भावः । तस्या हृदि नित्यं समर्पितः, सीतापि रामकृततत्तद्व्यापारेण वशीकृता तदायत्तचित्तासीत् । नित्यं सुचिरं भोगे ऽपि सद्यःसङ्गतेव निरवधिकप्रेमभारभरिताभूदित्यर्थः ।। 1.77.25 ।।



प्रिया तु सीता रामस्य दाराः पितृकृता इति ।

गुणाद्रूपगुणाच्चापि प्रीतिर्भूयो ऽभ्यवर्द्धत ।। 1.77.26 ।।

नित्यं तद्गत इत्यत्र हेतुमाह--प्रियात्विति । तुरवधारणे । पितृकृता दारा इति हेतोरेव रामस्य सीता प्रियासीत् । तर्हि सीतावैलक्षण्यमकिञ्चित्करम्, नेत्याह--गुणात् भर्तृशुश्रूषणादिगुणात् । रूपस्य देहस्य गुणात् सौन्दर्यात् । अपिशब्दो ऽनुक्तसमुच्चयार्थः । अभिजात्यादिभिश्च प्रीतिर्भूयो ऽभ्यवर्द्धत । रामस्य सीतायामित्यर्थसिद्धम् । अतो बहूनृतून् विजहारेत्यन्वयः ।। 1.77.26 ।।



तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ।

अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा ।। 1.77.27 ।।

अथ रामस्येव सीताया अपि रामे निरन्तरानुरागं दर्शयन् तस्या हृदि नित्यं समर्पित इत्युक्तं विवृणोति--तस्याश्चेति । तस्या भर्ता रामश्च । हृदये सीताया हृदये । द्विगुणं यथा भवति तथा परिवर्तते, रामाद्द्विगुणा प्रीतिः सीताया रामे ऽभूदित्यर्थः । यथा रामस्य सीतायां प्रीतिः पितृकृतदारत्वकृता सौन्दर्यकृता च, एवं रामे ऽपि सीतायाः प्रीतिर्नोभयकृता, किन्तु भर्तृत्वमात्रकृता ।

वक्ष्यत्यनसूयां प्रति सीता-- "यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः । अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ।।" इत्यादि। अनेन गुणादित्युक्तरामविषयानुरागो विवृतः। एतादृशानुरागो रामेण कथं विज्ञायत इत्यत्राह अन्तरिति। अन्तर्जातं सीताहृद्गतमपि हृदयगूढभावम्, अनुरागमिति यावत्। हृदा तर्केण, अनुभावैरिति यावत्। व्यक्तमाख्याति जानाति। चक्षिङः ख्याञादेशः सार्वधातुकेऽप्यार्षः। तस्य दर्शनार्थत्वं चख्युरित्यादौ सिद्धम्। परकीयहृदयं कथं व्यक्तीभवतीत्यपेक्षायां तत्रैव सर्वदा परिवर्तमानत्वात् इत्युक्तं पूर्वार्धे ।। 1.77.27 ।।



तस्य भूयो विशेषेण मैथिली जनकात्मजा ।

देवताभिः समा रूपे सीता श्रीरिव रूपिणी ।। 1.77.28 ।।

रामवत् सीतापि रामहृदयं विशेषेण व्यक्तं वेत्तीत्याह--तस्येति । तस्य रामस्य हृदयं सीता भूयो विशेषेण रामादतिरिक्तं जानातीत्यर्थः । रामो यादृशभोगमभिलषति तदिङ्गितेन ज्ञात्वा स्वयं तदनुरूपा भवति, नतु तदतिरिक्तभोगमभिलषते । एवं रामो ऽपीति भावः । रामादप्यतिशयेन सीतायाः कान्तेङ्गितपरिज्ञाने हेतुचतुष्टयमाह मैथिलीत्यादि । देशस्वभावाद्वंशस्वभावाच्च सूक्ष्मज्ञा । देवताभिः समेति प्रागल्भ्यमुच्यते । रूपे विषये रूपिणी सर्वैर्दृश्यमानरूपवती श्रीरिव स्थिता । अनेन सहजबुद्धिविशेषो दर्शितः ।। 1.77.28 ।।



तया स राजर्षिसुतो ऽभिरामया समेयिवानुत्तमराजकन्यया ।

अतीव रामः शुशुभे ऽतिकामया विभुः श्रिया विष्णुरिवामरेश्वरः ।। 1.77.29 ।।

इत्यार्षे श्रीरामायणे आदिकाव्ये वाल्मीकीये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमद्बालकाण्डे सप्तसप्ततितमः सर्गः ।। 77 ।।

एवमनवधिकमन्योन्यानुरागमुपपाद्य तदनुरूपं भोगं दर्शयति--तयेति । राजर्षिसुतः महाराजसुतत्वेन निरवधिकभोगोपकरणवान् । उत्तमराजकन्यया ततो ऽप्यधिकतदुपकरण्ावत्या । रामः रमयिता । अभिरामया ततो ऽप्यतिशयेन रमयित्र्या । सः अतिशयितकामः । अतिकामया रामादप्यधिककामयेत्यर्थः । तया सीतया । समेयिवान् सम्यगेयिवान् । एकीभावेन संश्लिष्टः स्वयङ्ग्रहाश्लेषविषयीभूतःसन् "लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च । सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासन्ततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ।।" इतिवत्। विभुः प्रत्यालिङ्गनादिसमर्थः। अमरेश्वरो विष्णुः आदिविष्णुः। श्रियेव मूर्तिभेदेनोपमानत्वम्। अतीव अतिशयेन शुशुभे रेजे। तुल्यानुरागस्य अतिशयितस्त्रीकामस्य। भोगसमृद्धिहेतुत्वादिति भावः ।। 1.77.29 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तसप्ततितमः सर्गः ।। 77 ।।

।। इति श्रीमद्बालकाण्डः समाप्तः ।। ।। श्रीरस्तु ।।

वेदे शास्त्रेषु वादेप्यनितरसुलभां कीर्तिमाटीकमानः काव्यालङ्कारनाट्यप्रभृतिषु पटुधीः कोपि टीकाविधाने । शुद्धान्तः पद्मशुद्धान्तितमधुमथनः शुद्धसत्त्वैकमूर्तिर्गोविन्दार्यो विचार्य्य व्यतनुत विमलां बालकाण्डस्य टीकाम् ।। श्रीरघुनन्दनपरब्रह्मणे नमः ।।।। इति श्रीरामायणे बालकाण्डः समाप्तः ।।



Sanskrit Commentary by Mahesvara Tirtha
गत इति । प्रशान्तात्मा प्रशान्तो गतक्रोधः आत्मा मनो यस्य स तथोक्तः ।। 1.77.1।।



विह्वलं परशुरामभयेन धनुर्दानवृत्तान्तस्य मायया तिरोधानमन्यान् प्रति ।। 1.77.24।।



गत इति । हृष्टः पुलकितो विस्मितो वा ।। 1.77.56।।



पताकाध्वजिनीमिति । पताकाः श्रेणीकृताः क्षुद्रध्वजाः, इतरे पुनर्महाध्वजाः । रम्यां स्वभावतो रम्याम् । सिक्तराजपथां रम्यां कुसुमोत्कारादिभिरुपाचारैः रम्याम् ।। 1.77.710।।



कौसल्येति । वधूप्रतिग्रहे वधूनां स्नुषाणां प्रतिग्रहे युक्तास्तत्पराः ।। 1.77.1112।।



मङ्गलालम्भनैः मङ्गलालङ्करणैः । देवतायतनानि गृहदेवताप्रतिमाः ।। 1.77.1314।।



कृतदारा इति । पितरं शुश्रूषमाणाः वर्तयन्ति उज्जीवयन्ति, आह्लादयन्तीति यावत् । कृतास्त्राः लब्धास्त्राः । नरर्षभाः रामादयः ।। 1.77.1520।।



प्रियाणि इष्टप्राप्तिरूपाणि । हितानि अनिष्टनिवर्तकानि ।। 1.77.21।।



मातृभ्य इति । अन्ववैक्षत अनुसन्दधे ।। 1.77.22।।



एवमिति एवंविधेन रामस्य शीलवृत्तेन । नैगमाः पौराः, दशरथादयश्च प्रीताः ।। 1.77.23।।



तेषामिति । तेषां ब्राह्मणादीनां रामो गुणवत्तरः प्रियतरो बभूव ।। 1.77.24।।



राम इति । तद्गतः तद्गतान्तःकरणः । तस्याः सीतायाः हृदि समर्पितः । यद्वा तद्गतः तद्गतमना रामः तां हृदि समर्पयदित्यर्थः ।। 1.77.25।।



प्रिया त्वति । सीता रामस्य पितृकृता दारा इति गौरवेण प्रिया बभूव । पितृकृतविवाहः श्लाघनीयः । गुणाद्रूपगुणाच्चेति । गुणाच्छन्दानुवर्तनात् रूपगुणात् सौन्दर्यातिशयाच्च प्रीतिर्भूयो ऽभ्यवर्द्धत ।। 1.77.26।।



तस्याश्चेति । भर्ता रामः, हृदयम् अभिप्रायम्, हृदा मनसा, व्यक्तमाख्याति जानाति । इदमुत्तरश्लोकस्य शेषः । तस्य हृदये मैथिली भूयो ऽपि विशेषेण अतिशयेन । एतदुक्तं भवति परस्परहृदयान्तर्वर्तनेन परस्परस्वभावमुभौ जानाते इति ।। 1.77.2728।।



तथा स इति । अभिरामया अभिरूपया अतिकामया अनुरक्तया भर्तरि अतिस्नेहया तया समेयिवान् सङ्गतः । अमरेश्वरो विष्णुः श्रियेव शुशुभ इति सम्बन्धः ।। 1.77.29।।



इति श्रीपरमहंसपरिव्राजकाचार्य श्रीनारायणतीर्थशिष्यश्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सप्तसप्ततितमः सर्गः ।। 77 ।।



महेशतीर्थरचिता रामपादसमर्पिता । श्रीबालकाण्डव्याख्येयं समाप्ता तत्त्वदीपिका ।।।। इति श्रीरामायणे बालकाण्डः समाप्तः ।।



Sanskrit Commentary by Nagesa Bhatta
रामे पशुरामे । प्रशान्तो गतक्रोध आत्मा चित्तं यस्य । हस्ते स्वहस्ते स्थितं धनुर्वरुणाय देवैः सह कौतुकदर्शनार्थमन्तरिक्षे स्थिताय ददौ । न्यासात्मनेति शेषः । वरुणस्याप्रमेयत्वं भृगवे साक्षाद्ब्रह्मविद्याप्रदत्वात् । इदं च तैत्तिरीयोपनिषदि स्पष्टम् ।। 1.77.1 ।।



विकलम् परशुरामभयेन । धनुर्दानवृत्तान्तस्य मायया तिरोधानमन्यान्प्रति ।। 1.77.24 ।।



हर्ष एवाधिकावस्थः प्रमोदः ।। 1.77.5 ।।



ताम् सेनाम् । प्रथमं क्षुभितां पश्चात्प्राप्ताश्वासां चेत्यर्थः । जगाम । सेनेति शेषः । पताका ध्वजपटः । ध्वजो दण्डः । पताकायुक्तध्वजवतीम् । पताकाः क्षुद्रध्वजाः । ध्वजा महान्त इत्यन्ये । रम्याम् स्वभावतः । उद्घुष्टम् घोषः ।। 1.77.6 ।।



सिक्तेन राजपथेन समन्ताद्रम्याम् ।। 1.77.7,8 ।।



श्रीमद्भिर्दारपरिग्रहादधिकलक्ष्मीवद्भिः पुत्रैः । सुधालेपजधावल्यादौन्नत्याच्च हिमवत्सादृश्यं गृहे ।। 1.77.9 ।।



कामैर्विषयभोगपरिकरस्रक्चन्दनादिभिः । सुपूजितः प्राप्तपूजो ननन्द ।। 1.77.10 ।।



वधूनां स्नुषाणां प्रतिग्रहे मङ्गलाचरणपूर्वकं दर्शनस्पर्शने ।। 1.77.11 ।।



मङ्गलालापनैर्मङ्गलार्थमालापनैराशीर्वादैः । उपलक्षिता इति शेषः । होमैर्गृहप्रवेशनीयहोमैः । प्राप्तशोभनाः ।। 1.77.12 ।।



देवतायतनानि पुरगृहदेवतायतनानि ताः सर्वा राजसुताः स्नुषाः सर्वा राजपत्न्यः प्रत्यपूजयन्प्रणामयन्ति स्म । अभिवाद्यानभिवादनार्हानभिवाद्य नमस्कार्य ।। 1.77.13 ।।



कृतास्राः लब्धास्त्राः । "कृताज्ञा" इति पाठे ऽनुष्ठितपित्रभियोगाः ।। 1.77.14 ।।



वर्तयन्ति पित्रुक्तं कुर्वन्ति । नरर्षभा रामादयः । कस्यचित्कालस्य । अत्यये इति शेषः ।। 1.77.15,16 ।।



मातुलस्तवेति । अतस्तन्नगरं गत्वागच्छेति शेषः । एतद्वाक्यम् ।। 1.77.17 ।।



अक्लिष्टं कस्यापि दुःखं यथा न भवति तथा कर्तुं शीलमस्य तं रामम् ।। 1.77.1821 ।।



प्रियाणि इहितानि । हितानि पर्यस्ते इहजनकानि पौराणाम् । परममत्यन्तं यन्त्रितः श्रुतिस्मृतिमर्यादा ऽलङ्घी ।। 1.77.22 ।।



गुरूणां तद्विषये परमयन्त्रितः । गुरुकार्याणि गुरुसम्बन्धिशुश्रूषादीनि । नैगमा वणिजः ।। 1.77.23 ।।



विषयवासिनः । प्रीता इति शेषः । तेषां चतुर्णां पुत्राणां मध्ये सत्यपराक्रमो राम एवातियशाः । भूतानां मध्ये स्वयम्भूरिव गुणवत्तरो बभूवेत्युत्तरेणान्वयः ।। 1.77.24 ।।



बहूनृतून् । द्वादशवर्षाणीत्यर्थ इति बहवः ।। 1.77.25 ।।



मनस्व्यनुकूलमनस्कः । अत एव तद्गतमना नित्यं सीतागतमनाः । तस्या हृदि समर्पितः । सम्बन्धसामान्ये षष्ठी । तयेत्यर्थः । एतेन परस्परानुरागो दर्शितः । पितृकृता ब्राह्मविवाहसदृशविवाहेन पितृदत्ताः । स विवाह एव सर्वथा श्लाघ्य इति भावः ।। 1.77.26 ।।

नैतावदेव, किन्तु गुणाद्धितकारित्वपातिव्रत्यादिरूपात्, रूपं सौन्दर्यं तद्रूपाद्गुणाच्च, भूयो ऽधिकं रामस्य प्रीतिर्वर्धते स्म । तस्याश्च हृदये गुणाद्रूपगुणाच्च भर्ता द्विगुणं परिवर्तते स्म ।। 1.77.27 ।।



तस्य रामस्यान्तर्गतं हृदयं हृदयाभिप्रायं मैथिली हृदा स्वहृदयेन भूयो ऽधिकं विशेषेण मैथिली जनकात्मजा रूपिणी श्रीरिव रूपे देवताभिः समा सीताख्याति जानाति । अतो ज्ञायते भर्ता तद्धृदयस्थ इति ।। 1.77.28 ।।



अभिकामया स्वविषयेच्छावत्या स्वेच्छाविषयया च समेयिवान्संयुक्तः विभुर्विभुत्वशक्तिमान् अमरेश्वरो विष्णुः श्रियेव । "तत्र द्वादशवर्षाणि राघवः सह सीतया । रमयामास धर्मात्मा नारायण इव श्रिया ।।" इति पादम उक्तम्। एकोनषोडशवर्षस्य विश्वामित्रेण नयनात्पञ्चदशवर्षसमाप्तौ विवाह इति बोध्यम् ।।

1.77.29 ।।

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तसप्ततितमः सर्गः ।। 77 ।।

।। इति श्रीरामायणे बालकाण्डः समाप्तः ।।

Sanskrit Commentary by Sivasahaya
गते इति । रामे परशुरामे गते सति प्रशान्तात्मा महायशा: दाशरथी राम: अप्रमेयाय अन्यैरयं वरुण इति तस्मिन्काले प्रमातुमशक्याय वरुणाय हस्ते स्वकरे स्थितं धनु: वैष्णवचापं ददौ ।। 1.77.1 ।।



अभिवाद्येति । तत: चापदानानन्तरं रघुनन्दनो राम: वशिष्ठप्रमुखान् ऋषीन् पितरं चाभिवाद्य विकलं वीनां पक्षिणां कलं स्वस्वनीडगमनं यस्मिन् तं सायङ्कालं दृष्ट्वा प्रोवाच ।। 1.77.2 ।।



तद्वचनमेवाह जामदग्न्य इति । जामदग्न्यो रामो गत: अतो नाथेन त्वया पालिता चतुरङ्गिणी सेना अयोध्याभिमुखी सती प्रयातु सायङ्कालं दृष्ट्वापि चतुरङ्गिणी प्रयात्वित्युक्त्या अयोध्यादर्शनाभिलाषातिशय: सूचित: ।। 1.77.3 ।।



रामस्येति । राजा दशरथ: रामस्य तद्वच: श्रुत्वा राघवं सुतं बाहुभ्यां सम्परिष्वज्य मूर्ध्नि आघ्राय प्रमुमुदे इति शेष: ।। 1.77.4 ।।



गत इति । तदा रामोक्तिकाले राम: परशुरामो गत: इति श्रुत्वैव आहृष्ट: परमहर्षं प्राप्त: प्रमुदित: प्रमुत् प्रकृष्टो हर्ष: इता जनान् प्रापिता येन स: नृपो दशरथ: पुत्रमात्मानं च पुनर्जातं मेने अत एव तां सेनां चोदयामास गन्तुं प्रेरयामास तत: प्रेरणानन्तरमेव पुरीमयोध्यामाशु जगाम ।। 1.77.5 ।।



पताकेति । पताकाध्वजिनीं पताकया ध्वजवस्त्रेण युक्तो यो ध्वज: पताकादण्ड: तद्वतीं रम्यां तूर्योद्घुष्टनिनादितां तूर्यजनितशब्दपूरिताम् ।। 1.77.6 ।।



सिक्तै: राजपथै: रम्यां रमणीयां प्रकीर्णकुसुमोत्करां प्रकीर्णा: विस्तृता: कुसुमोत्करा: पुष्पसमूहा यस्यां तां राजप्रवेशसुमुखै: राजप्रवेशेन शोभनानि प्रफुल्लितानि मुखानि येषां तै: मङ्गलपाणिभि: पौरै: सम्पूर्णां जनौघै: समलङ्कृतामयोध्यायां राजा प्राविशत् ।। 1.77.7 ।।



पौरैरिति । पौरै: अयोध्यापुरोद्भवै: पुरवा सिभि: स्वाभीष्टसिद्ध्यर्थं तत्पुरनिवसनशीलैश्च द्विजै: दूरं प्रत्युदग्त: श्रीमद्भि: पुत्रैरनुगत: युक्त: महायशा: राजा दशरथ: हिमवत्सदृशं प्रियं गृहं प्रविवेश ।। 1.77.8,9 ।।



ननन्देति । स्वजनै: कामै: इच्छाविषयीभूतपदार्थै: सुपूजित: राजा गृहे ननन्द ।। 1.77.10 ।।



कौशल्येति । सुमध्यमा कौशल्यादि: अन्या कौशल्यादिभिन्ना या राजयोषित: ताश्च वधूप्रतिग्रहे

वधूनां स्नुषाणां प्रतिग्रह: आचारपूर्वकस्वस्वगृहनयनं तत्र युक्ता: संसक्ता अभवन्निति शेष: ।। 1.77.11 ।।



तत इति । तत: वधूप्रतिग्रहसंसक्त्यनन्तरं यशस्विनीं महाभागां सीतामूर्मिलां च उभे कुशध्वजसुते च नृपयोषित: कौशल्यादय: जगृहु: ।। 1.77.12 ।।



मङ्गलेति । मङ्गलालापनै: स्वस्तिवचनोच्चारणै: होमैश्च शोभिता: क्षौमवासस: पट्टवस्त्रवत्य: ता: सर्वा: देवतायतनानि प्रत्यपूजयन् ।। 1.77.13 ।।



अभीति । तदा पूजनकाले अभिवाद्यान् अभिवादनार्हान् अभिवाद्य भर्तृभि: सहिता एव मुदिता: सर्वा राजसुता: रहो रेमिरे । चशब्द एवार्थे ।। 1.77.14 ।।



कृतेति । कृतदारा: प्राप्तभार्या: कतास्त्रा: प्राप्तमन्त्रास्त्रशस्त्रा: सधना नित्यधनविशिष्टा: ससुहृज्जना: पितरं शुश्रूषमाणा: नरर्षभा: रामादय: वर्तयन्ति वर्तन्ते णिजर्थो ऽविवक्षित: ।। 1.77.15 ।।



कस्यचिदिति । अथ अनन्तरं कस्यचित्कालस्यापगमे सतीति शेष: । रघुसत्तमो राजा दशरथ: केकयीपुत्रं सुतं स्वपुत्रं भरतमब्रवीत् ।। 1.77.16 ।।



तद्वचनमेवाह अयमिति । हे पुत्रक हे वीर त्वा त्वामानेतुमागत: केकयराजस्य पुत्र: तव मातुलो ऽयं युधाजित् वसति । अत्र गच्छेत्यनुक्त्या पुत्रवियोगासहिष्णुत्वं राज्ञ: सूचितम् ।। 1.77.17 ।।



श्रुत्वेति । तदा राजोक्तिकाले दशरथस्य एतद्वचनं श्रुत्वा शत्रुघ्नसहित: केकयीसुतो भरत: गमनाय अभिचक्राम ।। 1.77.18 ।।



आपृच्छ्येति । वीर: नरश्रेष्ठ: शत्रुघ्नसहितो भरत: पितरमक्लिष्टकारिणं रामं च मातृ़श्च आपृच्छ्यैव ययौ ।। 1.77.19 ।।



युधाजिदिति । भरतं शत्रुघ्नं च प्राप्पय प्रहर्षितो वीरो युधाजित्स्वपुरं प्राविशत् तेन तस्य पिता तुतोष । हो हेतौ ।। 1.77.20 ।।



गत इति । भरते गते सति महाबलो रामो लक्ष्मणश्च देवसङ्काशं पितरं तदोचितकाले पूजयामासतु: ।। 1.77.21 ।।



पितुरिति । पितु: आज्ञां पुरस्कृत्यैव प्रियाणि मनोहराणि हितानि अपकारकाणि सर्वश: पौरकार्याणि धर्मात्मा रामो नित्यं चकार । एकश्चकार एवार्थे एकश्चकारो नित्यार्थ: ।। 1.77.22 ।।



मातृभ्य इति । परमयन्त्रित: शास्त्रानुरोधित्वादतिसङ्कुचितवृत्ति: राम: मातृकार्याणि काले काले कृत्वा गुरूणां गुरुकार्याणि महान्त्यपि कृत्यानि अन्ववैक्षत विचार्याकरोदित्यर्थ: ।। 1.77.23 ।।



एवमिति । रामस्य शीलवृत्तेन दशरथ: प्रीत: एवं नैगमा ब्राह्मणा: प्रीता: तथा सर्वे विषयवासिन: प्रीता: ।। 1.77.24 ।।



तेषामिति । सत्यपराक्रम: स्वयं भवति प्रादुर्भूततां प्राप्नोतीति स्वयम्भू: राम: लोके भूतानां प्रादुर्भावं प्राप्तानां मध्ये अतियशा: गुणवत्तरश्च बभूव । इवश्चार्थे ।। 1.77.25 ।।



राम इति । राम: सीतयैव साकं बहून् ऋतून् विजहार । चशब्द एवार्थे ।। 1.77.26 ।।



विहाराकारमाह मनस्वीति । तस्यां सीतायामेव गतं नित्यं संलग्नं मनो यस्य अत एव मनस्वी निश्चलचित्तो राम: तस्या: तया सीतया हृदि समर्पित: संस्थापित इवेत्यर्थ: । पितृकृता: पित्रा समर्पिता: प्रिया अतिप्रीतिविषयीभूता रामस्य दारा: सीतापि रामस्पय रामेण इत्यनेन प्रकारेण हृदि समर्पितेति लिङ्गविपरिणामेनात्रान्वय: । तुशब्दो ऽप्यर्थे ।। 1.77.27 ।।



गुणादिति । गुणात् परस्परमतिशयसौशील्यसौन्दर्यादे: रूपगुणान् परस्परनिष्ठरूपस्वरूपगुणाच्च प्रीति: परस्परं प्रेम भूयो ऽत्यन्तमभिवर्धते अत एव भर्ता राम: तस्या: सीताया: हृदये द्विगुणं द्वयोरुक्तगुणयो: समाहार: परिवर्तते । गुणवत्त्वेनैव रूपेण परिवर्तते चशब्देन सापि तस्य हृदि गुणवत्त्वेनैव रूपेण परिवर्तते इत्यर्थ: ।। 1.77.28 ।।



अन्तर्गतमिति । विशेषेण विशिष्टगुणादिना विशिष्टा सीता किञ्च या विशेषेण लक्ष्म्यादितो ऽपि परतया विद्यमाना मैथिली मिथिलोद्भवा जनकात्मजा सीता रूपे देवताभि: समा श्रीरिव रूपिणी कविभिर्वण्यत इति शप: । सा हृदा बुद्ध्या अन्तर्गतं हृदये निवेशितमप्यभिप्रायं तस्य रामस्य समीपे व्यक्तं यथा भवति तथा भूयो ऽत्यन्तमाख्याति कथयति । हृत् आश्रितसन्तापनाशको ऽयं रामो ऽपि आख्याति । सार्धश्लोक एकान्वयी ।। 1.77.29 ।।



तयेति । अभिकामया अभित: कामो यस्यास्तयोत्तमराजकन्यया तया सीतया समेयिवान् रामो ऽतीव शुशुभे तत्र दृष्टान्त: अतिकामया श्रिया अमरेश्वरो विभुर्विष्णुरिव ।। 1.77.29 ।।



श्रीमन्मैथिलराजराजतनयासंसेव्यमानं विभुं

सीतापद्ममुखालिमार्यमयतामाज्यात्मजं य: स्वभा: ।

सर्वव्यापकसच्चिदात्मकमयं ब्रह्माव्ययं तं मनो

नित्यं येन तदीयनित्यचरणान् द्रक्ष्यामि मे चक्षुषा ।। 1 ।।



वाल्मीकिरामायणबालाकण्डे टीका समाप्ता सविधे त्रिवेण्या: ।

रामायणादिर्हि शिरोमणि: सा श्रीरामहर्षाय सदैव भूयात् ।। 2 ।।



इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे सप्तसप्ततितम: सर्ग: ।। 77 ।।



इति श्रीरामायणे बालकाण्डं समाप्तम् ।

F