Sanskrit Commentaries

अथ त्रयोदशः सर्गः

[अश्वमेधदीक्षा]

 ।। 1.13.1 ।। पुनः प्राप्ते वसन्ते तु पूर्णस्संवत्सरो ऽभवत् ।

प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ।। 1 ।।

अथ 'संवत्सरान्ते दीक्षेत' इति सूत्रात् पूर्ववसन्तविसृष्टाश्वस्य पुनः संवत्सरान्ते प्राप्ते दीक्षादिप्रवृत्तिरुपदिश्यते--पुनरित्यादि । पूर्णस्संवत्सरो ऽभवदिति । पूर्ववसन्ते ऋत्विजो वरित्वा 'इह धृतिस्स्वाहेह विधृतिस्स्वाहेह रन्तिस्स्वाहेह रमतिस्स्वाहेति चतुर्षु पत्सु जुहोति' इति विहरन्तीकर्मानुष्ठानपूर्वं 'भूरसि भूवे त्वा भव्याय त्वा भविष्यतेत्युत्सृजति सर्वत्वाय' इति विसृष्टाश्वस्येति शेष । प्रसवार्थमित्यादि । 'प्रजापतये त्वा जुष्टं प्रोक्षामि प्रजापतिं वा एष ईप्सतीत्याहुः यो ऽश्वमेधेन यजते' इति श्रुतेः अश्वमेधस्य प्राजापत्यत्वात् पुत्रकामेष्ट्याश्च प्रजापतिदेवताकत्वात् प्रसवफलपाश्चात्ययागफलसिद्धिशेषतया भगवन्तं प्रजापतिं स्वाभिलषितं पुत्रं प्रदास्यन्तं हयमेधेन यष्टुं पुरोहितस्य वसिष्ठस्यान्तिकं गत इत्यर्थः ।। 1.13.1 ।। 

 ।। 1.13.2 ।। अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।

अब्रवीत् प्रश्चितं वाक्यं प्रसवार्थं द्विजोत्तमम् ।। 2 ।।

वसिष्ठं चेति चकारात् अरुन्धती चेत्यर्थः । प्रतिपूज्येति--उपदाविशेषैरिति शेषः । द्विजोत्तमं वाक्यमब्रवीदिति द्विकर्मकत्वात् ।। 1.13.2 ।। 

 ।। 1.13.3 ।। यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुङ्गव

यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् ।। 3 ।।

यज्ञांगेषुअश्वादिष्विति यावत् ।। 1.13.3 ।। 

 ।। 1.13.4 ।। भवान् स्निग्धस्सुहृन्मह्यं गुरुश्च परमो महान् ।

वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ।। 4 ।।

स्निग्धस्सुहृदिति । सुहृदः स्निग्धत्वाव्यभिचारात् साधीयस्त्वं स्नेहस्य गम्यते । वोढव्यो भवतेति । प्राप्तकाले कृत्यप्रत्ययः, 'कृत्यानां कर्तरि वा' इति पाक्षिकी कर्तरि तृतीया । उद्यतः । विसृष्ट्वा पुनः प्राप्ताश्वकत्वात् प्राप्तोद्योगकाल इत्यर्थः ।। 1.13.4 ।। 

 ।। 1.13.5 ।। तथेति च स राजानमब्रवीत् द्विजसत्तमः ।

करिष्ये सर्वमेवैतत् भवता यत्समर्थितम् ।। 5 ।।

समर्थितमितिसम्यक् प्रार्थितमिति यावत् ।। 1.13.5 ।। 

 ।। 1.13.6 ।। ततो ऽब्रवीत् द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान् ।

स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ।। 6 ।।

स्थापत्येस्थपतिःरथकारः, तस्य भावः कर्म वा स्थापत्यम्, तत्र निष्ठिताः । कर्मप्रतिपादकमधमत्यादिशास्त्रे निष्ठिताः इति यावत् ।। 1.13.6 ।। 

 ।। 1.13.7 ।। कर्मान्तिकान् शिल्पकरान् वर्धकीन् खनकानपि ।

गणकान् शिल्पिनश्चैव तथैव नटनर्तकान् ।। 7 ।।

कर्मणामन्तःसमाप्तिर्यैस्ते तथा, 'अत इनि ठनो' इति ठन्, भृतकानिति यावत् । शिल्पंचित्रादि । वर्धकीन्सामान्यतक्षाशिल्पिनश्चर्मकारादयः । नदनर्तकानिति । सूत्रधारा नृत्तकर्तारश्चेत्यर्थः ।। 1.13.7 ।। 

 ।। 1.13.8 ।। तथा शुचीन् शास्त्रविदः पुरुषान् सुबहुश्रुतान् ।

यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ।। 8 ।।

समीहन्तामिति । अब्रवीदिति पूर्वेणान्वयः ।। 1.13.8 ।। 

 ।। 1.13.9 ।। इष्टका बहुसाहस्री शीघ्रमानीयतामिति ।

औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः ।। 9 ।।

इष्टकेति जात्या । बहुसाहस्रीबहुसहस्रसङ्ख्येया । उपकार्याराजसद्म, 'सौधो ऽस्त्री राजसदनमुपकार्योपकारिका' इति निघण्टुः । स्वार्थिको ऽण् । बहुगुणान्विताःबहुन्नपानाद्युपकरणयुक्ताः ।। 1.13.9 ।। 

 ।। 1.13.10 ।। ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ।

भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ।। 20 ।।

सुनिष्ठिताःमहावातवर्षादिनिवारणक्षमतया सुप्रतिष्ठिताः ।। 1.13.10 ।। 

 ।। 1.13.11,12 ।। तथा पौरजनस्यापि कर्तव्या बहुविस्तराः ।

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ।। 11 ।।

तथा जानपदस्यापि जनस्य बहुशोभनम् ।

दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया ।। 12 ।।

सत्कृत्य देयम्--परलोकप्रयोजनबुद्ध्या देयम् । न तु लीलयेति । केवलमुत्सवमात्रबुद्ध्येत्यर्थः ।। 1.13.11,12 ।। 

 ।। 1.13.13,14 ।। सर्ववर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ।

न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ।। 13 ।।

यज्ञकर्मणि ये व्यग्राः पुरुषाः शिल्पिनस्तथा ।

तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ।। 14 ।।

ते च स्युः सम्भृताः सर्वे वसुभिर्भोजनेन च ।

विशेषेणापि पूजा कार्येति । विशिष्टतास्बूलचन्दनसुवस्त्रादिदानेनेति शेषः । यथाक्रममिति । ज्येष्ठानुक्रमेणेत्यर्थः । सर्वे ते चेत्यादि । सर्वे भृतकाः । वसुधनम् । वस्वादिभिर्यथा सम्भृतास्स्युस्तथा कार्यम् ।। 1.13.13,14 ।। 

 ।। 1.13.15 ।। यता सर्वं सुविहितं न किञ्चित्परिहीयते ।। 15 ।।

तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा ।

सर्वमिति । उक्तोपकरणजातमिति यावत् ।। 1.13.15 ।। 

 ।। 1.13.16,17 ।। ततस्सर्वे समागम्य वसिष्ठमिदमब्रुवन् ।। 16 ।।

यथोक्तं तत्सुविहितं न किञ्चित्परिहीयते ।

यथोक्तं तत्करिष्यामो न किञ्चित्परिहास्यते ।। 17 ।।

यथोक्तं तत्सुविहितम्, अतः परं यदुक्तं भविष्यति तच्च यथोक्तं करिष्यामः ।। 1.13.16,17 ।। 

 ।। 1.13.18 ।। ततः सुमन्त्रमानीय वसिष्ठो वाक्यमब्रवीत् ।

निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ।। 18 ।।

तत इत । द्विजातिनियोजनानन्तरमित्यर्थः ।। 1.13.18 ।। 

 ।। 1.13.19 ।। ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः ।

समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ।। 19 ।।

सर्वदेशेष्विति । स्थितानिति शेषः ।। 1.13.19 ।। 

 ।। 1.13.20,21 ।। मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् ।

निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ।। 20 ।।

तमानय महाभागं स्वयमेव सुसत्कृतम् ।

पूर्वसम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ।। 21 ।।

वेदेषु निष्ठितं स्वयमेवेति । न तु मनुष्यमुखेन । कुत एवं विशेषः ? कुतश्च तदानयनस्य प्रथममुपदेशः ? इत्यतः--पूर्वेत्यादि । पूर्वकालमारभ्यैवास्मद्राज्ञा यौतादिसर्वसम्बन्धवानिति ज्ञात्वा तत एव हेतोः पूर्वं तस्यानयनं ते ब्रवीमि ।। 1.13.20,21 ।। 

 ।। 1.13.22,23 ।। तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् ।

वयस्यं राजसिह्मस्य स्वयमेवानयस्व ह ।। 22 ।।

तथा केकयराजानं वृद्धं परमधार्मिकम् ।

श्वशुरं राजसिह्मस्य सपुत्रं त्वमिहानय ।। 23 ।।

केकयराजानमिति । सामासान्तस्यानित्यात्वाट्टजभावः ।। 1.13.23 ।। 

 ।। 1.13.24 ।। अङ्गेश्वरं महाभागं रोमपादं समीपगम् ।

वयस्यं राजसिह्मस्य समानय यशस्विनम् ।। 24 ।।

समीपगतमिति । आसन्नदेशवर्तिनमिति यावत् ।। 1.13.24 ।। 

 ।। 1.13.25 ।। प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान् ।

दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व ह ।। 25 ।।

प्राचीनान् । 'विभाषाञ्चेः' इति स्वार्थे खः । प्राग्देशवर्तिन इति यावत् । सिन्धौ सौवीरे सौराष्ट्रे च भवाः, ढ आर्षः । सिन्धुसौवीरसौराष्ट्रेयान् ।। 1.13.25 ।। 

 ।। 1.13.26,27,28 ।। सन्ति स्विग्धाश्च ये चान्ये राजानः पृथिवीतले ।

तानानय यथाक्षिप्रं सानुगान् सहबान्धवान् ।। 26 ।।

वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा ।

व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान् ।। 27 ।।

स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् ।

सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः ।। 28 ।।

स्वयन्तु त्वरितो भूत्वा समानेतुमिति । वसिष्ठेन विशिष्योक्तानिति शेषः ।। 1.13.2628 ।। 

 ।। 1.13.29 ।। ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते ।

सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ।। 29 ।।

ते चेति । पूर्वनियुक्ता इत्यर्थः । यज्ञ इति निमित्तसप्तमी ।। 1.13.29 ।। 

 ।। 1.13.30 ।। ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् पुनरब्रवीत् ।

अवज्ञया न दातव्यं कस्यचिल्लीलया ऽपि वा ।। 30 ।।

अवज्ञया कृतं हन्यात् दातारं नात्र संशयः ।

अवश्यशिक्षणीयांशे पुनश्च शिक्षयतिअवज्ञयेत्यादि । कुत एवमिहातिवर्तत इत्यत्रअवज्ञयेत्यादि ।। 1.13.30 ।। 

 ।। 1.13.31 ।। ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ।। 31 ।।

बहूनि रत्नान्यादाय राज्ञो दशरथस्य हि ।

तत इति । सुमन्त्रगमनानन्तरमित्यर्थः । रत्नानीति । मणिमुक्तादिरत्नविचित्राभरणाम्बरचन्दनकुङ्कुमकर्पूराद्युत्तमवस्तूनीत्यर्थः ।। 1.13.31 ।। 

 ।। 1.13.32,33 ।। ततो वसिष्ठस्सुप्रीतो राजानमिदमब्रवीत् ।। 32 ।।

उपयाता नरव्याघ्र राजानस्तव शासनात् ।

मया च सत्कृताः सर्वे यथार्हं राजसत्तमाः ।। 33 ।।

यज्ञियं च कृतं राजन् पुरुषैः सुसमाहितैः ।

यज्ञियमिति । यज्ञमर्हति, 'यज्ञर्त्विग्भ्यां घखञौ' इति घः । यज्ञाय यत्सम्पाद्यं तत्सर्वं सम्पादितमित्यर्थः ।। 1.13.33 ।। 

 ।। 1.13.34,35 ।। निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ।। 34 ।।

सर्वकामैरुपहृतैरुपेतं वै समन्ततः ।

द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ।। 35 ।।

अन्तिकादिति । 'दूरान्तिकार्थेभ्यो द्वितीया च' इति चकारेण पञ्चमीसमुच्चयः, अन्तिकेन वर्तमानं यज्ञायतनंशालामित्यर्थः । मनसेवेति क्षिप्रसिद्धत्वे उपकरणसौष्ठवे च दृष्टान्तः ।। 1.13.35 ।। 

 ।। 1.13.3638 ।। तथा वसिष्ठवचनादृश्यशृङ्गस्य चोभयोः ।

शुभे दिवसनक्षत्रे नियातो जगतीपतिः ।। 36 ।।

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः ।

ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ।। 37 ।।

यज्ञवाटगतास्सर्वे यथाशास्त्रं यथाविधि ।

श्रीमांश्च सहपत्नीभी राजा दीक्षामुपाविशत् ।। 38 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रयोदशः सर्गः

--

आरभन्निति छान्दसः । यज्ञवाटगतास्सर्वे यजमानर्त्विगादयः स्वीयं स्वीयं यज्ञकर्म यथाविधि यताकल्पसूत्रं यथाशास्त्रं, शास्त्रंमीमांसा, तच्चानतिक्रम्यारभन्तेत्यर्थः । जाल(38)मानः सर्गः ।। 1.13.38 ।। 

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रयोदशः सर्गः