Sanskrit Commentaries

अथ चतुर्दशः सर्गः

[अश्वमेधः]

 ।। 1.14.1 ।। अत संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे ।

सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञो ऽभ्यवर्तत ।। 1 ।।

एवं वसन्तोत्सृष्टाश्वत्वात् पुनर्वसन्तप्रवृत्तिकाले तन्मेदःपुरोडाशेन यागाय सम्भारसम्भरणादिशालाप्रवेशनान्तकर्मणि प्रवृत्ते वसन्तान्तरे संवत्सरपूर्तौ मेध्ये तुरङ्गे सदः प्राप्ते सति पश्चाद्यथाविधि यज्ञप्रवृत्युपदेशः, काव्यलक्षमत्वाच्च यज्ञवर्णनम्--अथेत्यादि । संवत्सरे पूर्णे इति । त्रिंशद्दिनात्मकसावनमासपरिच्छिन्नो ऽत्र संवत्सरो भवतीति सूत्रात् ।। 1.14.1 ।। 

 ।। 1.14.2 ।। ऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः ।

अश्वमेधे महायज्ञे राज्ञो ऽस्य सुमहात्मनः ।। 2 ।।

ऋश्यशृङ्गं पुरस्कृत्येति । अनेन प्रधानार्त्विज्यं ब्रह्मत्वं च तस्येति गम्यते ।। 1.14.2 ।। 

 ।। 1.14.3 ।। कर्म कुर्वन्ति विधिवत् याजका वेदपारगाः ।

यथाविधि यतान्यायं परिक्रामन्ति शास्त्रतः ।। 3 ।।

यताविधीति । विधिः--वेदः साक्षात् विप्रकीर्णतया वेदविहितार्थस्य प्रयोगानुकूलतया साकल्यविधिः कल्पसूत्रं--शास्त्रम् तत्प्रतिपाद्यार्थस्यैव पूवोत्तरपक्षप्रवर्तनेन स्थिरीकारिका पूर्वमीमांसान्यायः, तदनतिक्रम्येति यावत् । शास्त्रतः परिक्रामन्तीति । अमुकर्त्विजि अमुकं कुर्वाणे तस्मिन्नेव काले अनेनर्त्विजेदं कर्तव्यमित्यादि तच्छास्त्रतः प्रतिपाद्यमानं स्वस्वकर्मकालमविस्मृत्य परिक्रामन्ति प्रवर्तन्त इत्यर्थः ।। 1.14.3 ।। 

 ।। 1.14.4 ।। प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः ।

चक्रुश्च विधिवत्सर्वमाधिकं कर्म शास्त्रतः ।। 4 ।।

उपसदं । यागविशेषप्राप्तमिष्टिविशेषम् । अधिकमिति । प्रकृत्युपदिष्टांगानुमितौ तत्तद्विकृत्यपेक्षातो विशेषो ऽधिकं कर्म ।। 1.14.4 ।। 

 ।। 1.14.5 ।। अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि ।

प्रातस्सवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ।। 5 ।।

अभिपूज्येति । तत्तत्कर्मभिः पूजनीयां देवतामिति शेषः । अस्यैव प्रपञ्चःप्रातस्सवनेत्यादि ।। 1.14.5 ।। 

 ।। 1.14.6 ।। ऐन्द्रश्च विधिवद्दत्तो राजा चाभिष्टुतो ऽनघः ।

माध्यन्दिनं च सवनं प्रावर्तत यताक्रमम् ।। 6 ।।

ऐन्द्रं चेति । इन्द्रदेवताकहविर्विशेषः । राजासोमलता । अभिष्टुतः, ग्रावभिस्संक्षुद्य सारनिस्सारणमभिषवः ।। 1.14.6 ।। 

 ।। 1.14.7,8 ।। तृतीयसवनं चैव राज्ञो ऽस्य सुमहात्मनः ।

चक्रुस्ते शास्त्रतो दृष्ट्वा तथा ब्राह्मणपुङ्गवाः ।। 7 ।।

नचाहुतमभूत्तत्र स्खलितं वा ऽपि किं च न ।

दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे ।। 8 ।।

अहुतमिति । अन्यथा हुतमित्यर्थः । स्खलितं--अज्ञानतः कस्यचित्कर्मणस्त्यागः । ब्रह्मवत्मन्त्रवत् । क्षेमःविध्यपराधराहित्यम् ।। 1.14.7,10 ।। 

 ।। 1.14.9 ।। न तेष्वहस्सु श्रान्तो वा क्षुधितो वापि दृश्यते ।

नाविद्वान् ब्राह्मणस्तत्र नाशतानुचरस्तथा ।। 9 ।।

श्रान्तःस्वार्त्विज्याशक्तः । तत्रतद्यज्ञर्त्विक्षु । शतं अनुचराः न विद्यन्ते यस्य स तथा ।। 1.14.9 ।। 

 ।। 1.14.10 ।। ब्राह्मणा भुञ्जते नित्यं नाथवान्तश्च भुञ्जते ।

तापसा भुञ्जते चापि श्रमणा भुञ्जते तथा ।। 10 ।।

नाथवन्तःदासाःशूद्रा इति यावत् । तापसाःशैवमार्गगाः शूद्राः । श्रमणाः--त्यक्तपुत्र मृत्यादिसंसाराः काषायम्बराः शूद्रविशेषाः ।। 1.14.10 ।। 

 ।। 1.14.11 ।। वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च ।

अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ।। 11 ।।

व्याधिताःसंजातव्याधयः । स्त्रिय इति--आकुलस्त्रियः । न तृप्तिरुपलभ्यत इति । भोजनसौष्ठवादुदरपूर्तावपि मानसी तृप्तिर्नोपलभ्यते । वतोदरं पूर्णं एवं भक्ष्यमेवं भोज्यमेवं धनक्षीरर्शकराम्रकदल्यादि, न शक्नुमो भोक्तुं, किं कुर्म इति ।। 1.14.11 ।। 

 ।। 1.14.12 ।। दीयतां दीयतामन्नं वासांसि विविधानि च ।

इति सञ्चोदितास्तत्र तथा चक्रुरनेकशः ।। 12 ।।

तथा चक्रुरिति । दत्तवन्त इति यावत् ।। 1.14.12 ।। 

 ।। 1.14.13 ।। अन्नकूटाश्च वहवो दृश्यन्ते पर्वतोपमाः ।

दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा ।। 13 ।।

सिद्धस्येति । पक्कस्येति यावत् । इदमन्नकूटा इत्यन्नविशषणम् । अन्नेति लुप्तषष्ठीकमार्षम् । अन्नस्य कूटा इति यावत् ।। 1.14.13 ।। 

 ।। 1.14.14 ।। नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा ।

अन्नपानैस्सुविहितास्तस्मिन् यज्ञे महात्मनः ।। 14 ।।

सुविहिता इति । सुविहिततृप्तिका इति यावत् ।। 14 ।। ।। 1.14.14 ।। 

 ।। 1.14.15,16 ।। अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः ।

अहो तृप्ताः स्म भद्रं त इति शुश्राव राघवः ।। 15 ।।

स्वलङ्कृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् ।

उपासते च तानन्ये सुमृष्टमणिकुण्डलाः ।। 16 ।।

ब्राह्मणपरिवेषणस्य पुरुषकर्तृत्वं भोक्तृबहुत्वेन स्त्र्यसाध्यत्वात् । स्वलङ्कृता इत्यनेन शुचित्वं प्रदर्शितम् । सुमृष्टमणिकुण्डला इत्यनेन यज्ञपरिचारकसत्कारवैभवो राजकृतः प्रकाश्यते । तानिति । परिवेषयितृनिति यावत् । अन्य इति । तत्सहायभूता हति यावत् । सुमृष्टंउत्तेजितंमणिखचितं कुण्डलंकर्णाभरणविशेषो येषां ते तथा ।। 1.14.16 ।। 

 ।। 1.14.17 ।। कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।

प्राहुः स्म वाग्मिनो धीराः परस्परजिगीषया ।। 17 ।।

कर्मान्तरे--एकं सवनं समाप्य पुनस्सवनान्तरारम्भकालागमात् पूर्वस्मिन्नन्तरालकाले । हेतुपन्यासविशेषैः परस्परविजिगीषार्थाः वादाः ।। 1.14.17 ।। 

 ।। 1.14.18 ।। दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।

सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ।। 18 ।।

तथा तत्र संस्तरेतस्मिन्यज्ञे । 'संस्तरौ प्रस्तराध्वरौ' । प्रचोदिता इति । शास्त्रीयब्रूहिप्रेष्यादिशब्दैरिति शेषः ।। 1.14.18 ।। 

 ।। 1.14.19 ।। नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः ।

सदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः ।। 19 ।।

सदस्याः--"सदस्या विधिदर्शिनः" इति निघण्टुः ।। 1.14.19 ।। 

 ।। 1.14.20 ।। प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास्तथा ।

तावन्तो बिल्वसहिताः पर्णिनश्च तथापरे ।। 20 ।।

यूपोच्छ्रये--यूपोत्क्षेपणप्रैषकाल इति यावत् । बैल्वा इति'तस्य विकारः' इत्यादकारे 'बिल्वादिभ्यो ऽण्' इत्यण् । तावन्त इति । षडिति यावत् । अपि त्वेषां विशेषः--बिल्वसहिता इति । बिल्वयूपसमीपे स्वावस्थानवन्तः, प्रयोगे ऽयं विशेषः । पर्णिनः--पर्णःपलाशः "पलाशे किंशुकः पर्णः"--पर्णः प्रकृतिभूतो येषां यूपानामिति पर्णिनः । तथेति । षट्सङ्ख्याका इति यावत् ।। 1.14.20 ।। 

 ।। 1.14.21 ।। श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा ।

द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ।। 21 ।।

श्लेष्मातकःराज्जुदालपर्यायः । न च विभ्वेकत्वं विवक्षितम् । दिष्टःसन्दिष्टः--उपदिष्ट इति यावत् । तथा देवदारुमयो ऽप्यस्ति यूपः, अपि तु नायमेकः, नापि षट्, अपि तु तत्र यज्ञे द्वावेव देवदारुयूपौ विहितौ । अपि च बाहुव्यस्तपरिग्रहौ । आहिताग्न्यादि । व्यस्तबाहुभ्यां--प्रसारितभुजाभ्यां तावदायामेन परिग्रहः--स्वीकारो ययोस्तौ तथा । एवं च "राज्जुदालमाग्निष्ठं मिनोति" इत्यनुवाकोपदिष्टा एकविंशतियूपा इहोक्ताः । "पौतुद्रवावभितो भवतः" इति श्रुतेः राज्जुदालयूपस्योभयपार्श्वतो देवदारुयूपौ भवतः । तत्रैकपार्श्ववर्तिदेवदारुयूपस्य दक्षिणतः उत्तरतश्च द्विधा विभक्तबिल्वयूपत्रिकयोस्स्थापनं । तथा तत्पार्श्ववर्तिदेवदारुयूपस्य दक्षिणोत्तरयोः खादिरत्रिकयोः ।

पलाशयूपास्त्वन्यत्र । एवं च प्रागुक्तबिल्वसमीपवर्तित्वधर्मः खादिरयूपानां सिद्धः । यथोक्तरूपतया बैल्वादियूपस्थापनं सूत्रात् 'त्रयो बैल्वा दक्षइमतस्त्रय उत्तरतः, त्रयः खादिरा दक्षिणतस्त्रय उत्तरतः' इति ।। 1.14.21 ।। 

 ।। 1.14.22 ।। कारितास्सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।

शोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृता भवन् ।। 22 ।।

शास्त्रज्ञैरिति । शिल्पशास्त्रज्ञैश्चेत्यर्थः । काञ्चनालङ्कृता भवन्निति । अभवन्निति यावत् । 'बहुलं छन्दस्यमाङ्योगे ऽपि' इत्यडभावः ।। 1.14.22 ।। 

 ।। 1.14.23 ।। एकविंशतियूपास्ते एकविंशत्यरत्नयः ।

वासोभिरेकविंशद्भिरेकैकं समलङ्कताः ।। 23 ।।

'चतुर्विंशत्यङ्गुलयो ऽरत्निः' इति सूत्रम् ।। 1.14.23 ।। 

 ।। 1.14.24 ।। विन्यस्ता विधिवर्त्स्वे शिल्पिभिस्सुकृता दृढाः ।

अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ।। 24 ।।

अश्रयः--कोटयः । श्लक्ष्णः--तक्षणसामर्थ्येन श्लक्ष्णेन--श्लक्ष्णस्पर्शवता रूपेण--स्वरूपेण समन्विताः ।। 1.14.24 ।। 

 ।। 1.14.25 ।। आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः ।

सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ।। 25 ।।

यथा विराजन्ते तथा व्यराजन्तेत्यनुकर्षः ।। 1.14.25 ।। 

 ।। 1.14.26 ।। इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।

चितो ऽग्निर्बाह्मणैस्तत्र कुशलैः शुल्बकर्मणि ।। 26 ।।

यथान्यायमिति । अर्धेष्टकामण्डलेष्टकादयश्च यथा चेत् न्यायात्--सूत्रादनपेता भवन्ति तथेत्यर्थः । कारिता इति । शिल्पविद्भिरिति शेषः । अग्निरिति श्रौतमिष्टकानां नाम । शुल्बकर्मणि कुशलैः ब्राह्मणैरग्निश्चितःकृतचयनः ।। 1.14.26 ।। 

 ।। 1.14.27 ।। स चित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः ।

गरुडो रुक्मपक्षो वै त्रिगुणो ऽष्टादशात्मकः ।। 27 ।।

एवं चित्यः--चेतव्यः 'चित्याग्निचित्ये च' इति निपातः । सःअग्निः कुशलैश्चितः । कथं चित इत्यतः--गरुड इत्यादि । गरुडसंस्थानः । रुक्मपक्ष इति ।

'सहस्रहिरण्यशल्कैः प्रतिदिशमग्निं प्रोक्षति' इति सूत्रात् रुक्मपक्षत्वम् । एवं पाङ्क्ते, अग्निःअग्न्याधारभूतो देश इत्याह कश्चित् । त्रिगुणःत्रिगुणप्रस्तारः । अत एव अष्टादशात्मकःअष्टादशप्रस्तारात्मकः सञ्चित इत्यन्वयः । 'षट् चितयो भवन्ति' इति श्रुतेः श्येनः षट्चितिको भवति प्रकृतिः, अश्वमेधस्य तत्रैगुम्यविधानादष्टादशगुणात्मकः ।। 1.14.27 ।। 

 ।। 1.14.28 ।। नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।

उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ।। 28 ।।

नियुक्ता इति । 'अमुष्मै त्वा जुष्टं नियुनज्मि' इति देवतोद्देशेन नियुक्ताः । तदेवोक्तम्--तत्तदुद्दिश्य दैवतमिति । के ते पशव इत्यतः--उरगा इत्यादि । 'इन्द्राय राज्ञे सूकरः' इत्याद्यनुवाकैस्ते प्रतिपादिताः ।। 1.14.28 ।। 

 ।। 1.14.29 ।। शामित्रे तु हयस्तत्र तथा जलचराश्च ये ।

ऋत्विग्भिस्सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ।। 29 ।।

तथा हयश्च शामित्रेमरणविशसनादिकर्मणि नियुक्तंनियतंबद्धं ।। 1.14.29 ।। 

 ।। 1.14.30 ।। पशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।

अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य च ।। 30 ।।

अश्वरत्नेषुअश्वश्रेष्ठेषूत्तमःश्रेष्ठस्तथा । नियत इत्यनुकर्षः ।। 1.14.30 ।। 

 ।। 1.14.31 ।। कौसल्या तं हयं तत्र परिचर्य समन्ततः ।

कृपाणैर्वशशासैनं त्रिभिः परमया मुदा ।। 31 ।।

परिचर्यप्रोक्षणादिना संस्कृत्य । त्रिभिः कृप्राणैःशस्त्रैः एनंअश्वं परमया मुदा विशशास । 'महिष्यो ऽश्वस्यासिपथान् कल्पयन्ति' इति सूत्रम् ।। 1.14.31 ।। 

 ।। 1.14.32 ।। पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा ।

अवसद्रजनीमेकां कौसल्या धर्मकाम्यया ।। 32 ।।

पतत्रिणाअश्वेन, पुरा अश्वानां पतत्राणि सन्तीति प्रसिद्ध्या त्वेवं वादः । सुस्थितेनस्थिरेण चेतसा उपलक्षिता सती धर्मकाम्यया काम्यजन्तादकारप्रत्यये टाप् ।। 1.14.32 ।। 

 ।। 1.14.33 ।। होता ऽध्वर्युस्तथोद्गता हयेन समयोजयन् ।

महिष्या परिवृत्त्या च वावातामपरे तथा ।। 33 ।।

राज्ञो भोगात् बहिष्कृता परिवृत्तिः, राज्ञो वल्लभा महिषी, भुजिष्या वावाता, महिषीपरिवृत्तिभ्यां सह वावातां अपरे श्रेष्ठा होत्रादयो हयेन समयोजयन् ।। 1.14.33 ।। 

 ।। 1.14.34,35 ।। पतत्रिणस्तस्य वपां उद्धृत्य नियतेन्द्रियः ।

ऋत्विक् परमसंपन्नः श्रपयामास शास्त्रतः ।। 34 ।।

धूमगन्धं वपायास्तु जिघ्नति स्म नराधिपः ।

यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ।। 35 ।।

वपांचन्द्राख्यं मेदः "चन्द्रनामा मेदो ऽस्ति तदुद्धरति नास्य वपा विद्यते' इति सूत्रात् । परमेणश्रौतप्रयोगचातुर्येण सम्पन्नस्तथा । निर्णुदन् जिघ्नति स्मेति योजना ।। 1.14.34,35 ।। 

 ।। 1.14.36 ।। हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः ।

अग्नौ प्रास्यन्ति विधिवत् सवसाः षोडशर्त्विजः ।। 36 ।।

तानि सर्वाणि ब्राह्मणाः इत्यार्षं गुर्वक्षरम् । सवसाःवसासहिताः ।। 1.14.36 ।। 

 ।। 1.14.37 ।। प्लक्षसाखासु यज्ञानां अन्येषां क्रियते हविः ।

अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते ।। 37 ।।

अन्येषांअश्वमेधातिरिक्तयागानां पाशुकं हविः प्लक्षशाखासु क्रियतेनिधायावदीयते । अश्वमेधस्य यज्ञस्य यो ऽयमाश्वो हविर्भागः स वैतसो भवति, वैतसे कटे निधायावदातव्यो भवति । वैतस इति शैषिको ऽण्, दार्षदाः सक्तव इत्यादिवत् ।। "वैतसः कटो भवति" इति श्रुतेः ।। 1.14.37 ।। 

 ।। 1.14.38,39 ।। त्र्यहो ऽश्वमेधः सङ्ख्यातः कल्पसूत्रेण ब्राह्मणैः ।

चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ।। 38 ।।

उक्थ्यं द्वितीयं सङ्ख्यातमतिरात्रं तथोत्तरम् ।

कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ।। 39 ।।

त्र्यह इति । त्रीण्यहानि सवनीयानि यस्य स तथा । अश्वमेधस्यानेकाहस्साध्यत्वे ऽपि सवनीयानां प्राधान्यात्तद्ग्रहः । 'अश्वमेधस्य त्रीणि सवनीयान्यहानि' इति कल्पसूत्रेण तन्मूलब्राह्मणैश्चाश्वमेधस्त्र्यहस्सङ्ख्यातः । 'अच्प्रत्यन्वव' इत्यत्र अच् इति योगविभागे त्र्यह इति षष्ठीसमासादचि टिलोपः । तान्येव सवनीयानि त्र्यहानीति गण्यन्ते । चतुष्टोममित्यादि । 'त्रिवृत् पञ्चदशः सप्तदशः एकविंशः' इति स्तोमचतुष्टययुक्तत्वादग्निष्टोमः चतुष्टोमशब्दवाच्यः । उत्तरमिति । तृतीयमिति यावत् । अप्रधानभूताः शास्त्रदर्शनाद्विहिताः बहवः क्ततवश्चात्र कारिताः ।। 1.14.39 ।। 

 ।। 1.14.40 ।। ज्योतिष्टोमायुषी चैवमति रात्रौ विनिर्मितौ ।

अभिजिद्विश्वजिच्चैव मप्तोर्यामौ महाक्रतुः ।। 40 ।।

के ते क्रतव इत्यतःज्योतिरित्यादि । आयुः आयुष्टोमः । अतिरात्राविति द्विवचनादतिरात्रस्य द्विः प्रयोगः । तथा अप्तोर्यामाविति ।। 1.14.40 ।। 

 ।। 1.14.41,42 ।। प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः ।

अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ।। 41 ।।

उद्गात्रे वै तथोदीचीं दक्षिणैषा विनिर्मिता ।

हयमेधे महायज्ञे स्वयम्भूविहिते पुरा ।। 42 ।।

प्राचीमित्यादि । 'प्रतिदिशं दक्षिणां ददाति, प्राचीं होतुः दक्षिणां ब्रह्मणः प्रतीचीं अध्वर्योरुदीचीं उद्गातुः' इति सूत्राद्दिशो दक्षिणात्वेन विनिर्मिताः--विहिता इति यावत् । स्वयंभूविहित इति । 'प्रजापतिरश्वमेधमसृजत' इति श्रुतेः ।। 1.14.42 ।। 

 ।। 1.14.43,44 ।। क्रतुं समाप्य तु तथा न्यायतः पुरुषर्षभः ।

ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः ।। 43 ।।

ऋत्विजश्चाब्रुवन् सर्वे राजानं गतकल्मषम् ।

भवानेव महीं कृत्स्नां एको रक्षितुमर्हति ।। 44 ।।

हियस्मात् ऋत्विग्भ्यः सर्वां धरां ददौ, तस्मात् सर्व ऋत्विजो राजानमब्रुवन् । किमब्रुवन् इत्यत्रभवानित्यादि ।। 1.14.43,44 ।। 

 ।। 1.14.45 ।। न भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने ।

रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप ।। 45 ।।

निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ।

न भूम्या कार्यमस्माकमिति । भूमेर्भोगैकप्रयोजनत्वात् न तया नः किंचित्प्रयोजनमित्यर्थः । अपि च तस्याः पालने चोरनिवारणादिद्वारके वयं न हि शक्ताः स्म । कुत इत्यतःरता इत्यादि । स्वाध्यायकरण इति । स्वाध्यायाभ्यासकर्मणीति यावत् । नापि च दण्डादावस्माकमधिकार इति शेषः । निष्क्रयमित्यादि । 'मूल्यं वस्तु निष्क्रयश्च' इति पर्यायः । मया दत्तकृत्स्नभुवो कथं मूल्यं शक्यदानमित्यतः--किञ्चिदेवेति । यथाशक्ति स्वल्पमेवेति यावत् ।। 1.14.45 ।। 

 ।। 1.14.46 ।। मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् ।। 46 ।।

तत्प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ।

भूमेर्व्यतिरेकेण मया देयं किंचिद्वा किं स्यादित्यतः--मणिरत्नमित्यादि । मणिरत्नंमणिश्रेष्ठं अनर्घरत्नमिति यावत् । तस्य राजैकार्हत्वात् पक्षान्तरं--सुवर्णं वेत्यादि । समुद्यतमिति । उपस्थितमिति यावत् ।। 1.14.46 ।। 

 ।। 1.14.47,48 ।। एवमुक्तो नरपतिः ब्राह्मणैर्वेदपारगैः ।। 47 ।।

गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ।

दशकोटीस्सुवर्णस्य रजतस्य चतुर्दश ।। 48 ।।

शतसहस्राणि दशेति । दशलक्षमिति यावत् । चतुर्दशेति । चतुर्दशकोटीरिति यावत् ।। 1.14.47,48 ।। 

 ।। 1.14.49 ।। ऋत्विजस्तु ततस्सर्वे प्रददुः सहिता वसु ।

ऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते ।। 49 ।।

ततस्सर्वे ऋत्विजः सहिताः सर्वं वसु दक्षिणाप्राप्तं धनजातमङ्गीकृत्य दानाय ऋश्यशृङ्गवसिष्ठाभ्यां ददुः ।। 1.14.49 ।। 

 ।। 1.14.50 ।। ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ।

सुप्रीतमनसस्सर्वे प्रत्यूचुर्मुदिता भृशम् ।। 50 ।।

न्यायतः प्रविभागं कृत्वेति योजना । वसिष्ठादिद्वारा विभज्य गृहीत्वेति यावत् । सुप्रीतमनसः सन्तो राजानं प्रति, सर्वे वयं भृशं मुदिता इत्यूचुः ।। 1.14.50 ।। 

 ।। 1.14.51 ।। ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ।

जाम्बूनदं कोटिसङ्ख्यं ब्राह्मणेभ्यो ददौ तदा ।। 51 ।।

प्रसर्पकेभ्यो ब्राह्मणेभ्य इति । परिचारकद्विजेभ्य इति यावत् । जाम्बूनदं हिरण्यमिति । दशवर्णसुवर्णमिति यावत् ।। 1.14.51 ।। 

 ।। 1.14.52 ।। दरिद्राय द्विजायाथ हस्ताभरणमृत्तमम् ।

कस्मैचिद्याचमानाय ददौ राघवनन्दनः ।। 52 ।।

अथ सर्वदक्षिणादानानन्तरमागताय दरिद्राय याचमानाय दातव्यवस्त्वन्तराभावात् स्वकमेव हस्ताभरणमेव ददौ ।। 1.14.52 ।। 

 ।। 1.14.53,54,55 ।। ततः प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सलः ।

प्रणाममकरोत्तेषां हर्षपर्याकुलेक्षणः ।। 53 । ।

तस्याशिषो ऽथ विधिवद्ब्राह्मणैः समुदाहृताः ।

उदारस्य नृवीरस्य धरण्यां प्रणतस्य च ।। 54 ।।

ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ।

पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः ।। 55 ।।

तत इति । तेन च हस्ताभरणस्य दानेनेत्यर्थः । विविधाशिष इति । 'आब्रह्मन्' 'आयुष्मन्तम्' इत्याद्याः । उदारःउन्नतचित्तः । पर्यायाश्रयणेन गृह्यते । अत एव स्वर्नयनं स्वर्गप्रापकं दुस्तरंप्राकृतेन तरितुमशक्यं, अप्राप्यपारमिति यावत् ।। 1.14.53,54,55 ।। 

 ।। 1.14.56.57 ।। ततो ऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा ।

कुलस्य वर्धनं त्वं तु कर्तुमर्हसि सुव्रत ।। 56 ।।

तथेति स राजानमुवाच द्विजसत्तमः ।

भविष्यति सुता राजंश्चत्वारस्ते कुलोद्वहाः ।। 57 ।।

इत्यार्षे श्रीमद्रामायमे बालकाण्डे चतुर्दशः सर्गः

--

पूर्वं यज्ञार्थं प्रसवार्थं स्वर्गार्थं च वृत ऋश्यशृङ्गः । तत्र यज्ञस्तद्वारा स्वर्गश्च सिद्धः । ततस्तत्सिद्ध्यनन्तरं अवशिष्टार्थे युङ्क्त इत्युच्यते--तत इत्यादि । कुलं वर्धयतीति कुलवर्धनम्, तादृशं कर्मेति यावत् ।। सम(57)मानः ।। 1.14.56,57 ।। 

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुर्दशः सर्गः