Navigation
Home
Content
Shloka's
2 Book View
Commentaries
English
2 Book View
Sanskrit
2 Book View
Summaries
2 Book View
Quick Links
Introduction
Glossary
Related Links
About Project
Contact Us
Gita Supersite
Login
Sanskrit Commentaries
Language
Assamese
Bengali
Devanagari
Gujarati
Gurmukhi
Kannada
Malayalam
Oriya
Roman
Tamil
Telugu
Commentary
BHUSANA
DHARMAKUTAM
KATAKA
SIROMANI
TANISLOKI
TATTVADIPIKA
TILAKA
Kanda
BALAKANDA
AYODHYAKANDA
ARANYAKANDA
KISHKINDAKANDA
SUNDARAKANDA
YUDDHAKANDA
Sarga
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
‹
›
अथ तृतीयः सर्गः
।। 1.3.1 ।। श्रुत्वा वस्तु 1समाप्यं तत् धर्मात्मा धर्मसंहितम् ।
व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ।। 1 ।।
एवं नारदात् गुरोः श्रुतदिव्यकाव्यनायकचरतरूपकाव्यविषयकस्य च प्राप्तकाव्यविषयकभगवन्नियोगानुग्रहस्य च महर्षेर्भगवद्योगबलजभगवदनुग्रहात् यत् संक्षेपश्रुतादभ्यधिकं समग्रं रामचरितं दृष्टं तत्सर्वं सामान्यतो ऽनुक्रम्यते तृतीयेन--श्रुत्वेत्यादि । वस्तुकाव्यविषयकथाशरीरं नारदाच्छ्रुत्वा समाप्यंभगवन्नियोगात् सप्रपञ्चप्रतिपादनपूर्वं समापनीयत्वेन च प्राप्तम्, धीमतःरामस्य यद्वृत्तमस्ति, तत् व्यक्तं--प्रपञ्चनेन सुस्पष्टम्, धर्मसंहितप्रसङ्गतस्सकलवर्णाश्रमधर्मोपदेशोपबृह्मितम् यथा, भूयःअभ्यधिकम् । "बहोर्लोपो भू च बहोः" इति बहोर्भूभाव ईयसुनि ईकारलोपश्च । अव्युत्पन्नो भूयश्शब्दो ऽप्ययम् । प्रतिपादयितुं अन्वेषतेउद्युङ्क्ते स्म । एवमादौ भूतार्थसिद्धये सर्वतस्स्मशब्दो ऽध्याहार्य इति प्रागेवावादिष्म ।। 1 ।।
(पूर्वसर्गे 'चकार' (श्लोक 42) इत्युक्तमेवार्थमस्मिन् सर्गे विशदयति ।)
(1 समग्रंङ.च) ।। 1.3.1 ।।
।। 1.3.2 ।। उपस्पृश्योदकं सम्यक् मुनिः स्थित्वा कृताञ्जलिः ।
प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ।। 2 ।।
उद्योगस्वरूप एवाभिनीयते--उपेति । 'उपस्पर्शस्त्वाचमनम्' इत्यमरः । 'सम्यक् हृदयङ्गमाभिरद्भिः त्रिः प्रोक्ष्य द्विः परिमृज्य' इत्यादिधर्मोपदिश्यमानरीत्या । प्राचीनेति । 'विभाषाञ्चेरदिक् स्त्रियाम्' इति स्वार्थे खः । दर्भेषु स्थित्वेति योजना । अम्बायोगजेनेति शेषः । धर्मेण गतिम्रामादीनां जन्मादिचरितरूपं अन्वेषते स्मचिन्तयति स्म ।। 1.3.2 ।।
।। 1.3.3,4 ।। अन्विष्टकार्यसिद्धिरुच्यते :
रामलक्ष्मणसीताभी राज्ञा दशरथेन च ।
सभार्येण सराष्ट्रेण यत्प्राप्तं तत्र तत्त्वतः ।। 3 ।।
हसितं भाषितं चैव गतिर्यावच्च चेष्टितम् ।
तत्सर्वं धर्मवीर्येण यथावत्संप्रपश्यति ।। 4 ।।
भार्याः--राजभार्याः कौसल्याद्याः । रामादिसहितेन दशरथेन यद्वृत्तंराज्यपरिपालनादिरूपम् । प्राप्तंप्राप्तानुष्ठानम् । अन्ततो यच्च हसितादिकमपि तत्सर्वम्, धर्मवीर्येणभगवद्योगबलेन, तत्रसमाधौ, तत्वतः पश्यति स्म ।। 1.3.3,4 ।।
।। 1.3.5 ।। स्त्रीतृतीयेन च तथा यत्प्राप्तं चरता वने ।
सत्यसन्धेन रामेण तत्सर्वं चान्ववैक्षत ।। 5 ।।
न केवलमेतावत् । अपि तु सलक्ष्मणस्य यस्य रामस्य स्त्रीसीता तृतीया सो ऽसौ स्त्रीतृतीयः ।। 5 ।।
(लक्ष्मणो द्वितीयः, सीता तृतीयेति यावत् ।) ।। 1.3.5 ।।
।। 1.3.6 ।। ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः ।
पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ।। 6 ।।
समाधिदर्शनस्य च सन्ध्यादर्शनवत् द्राक् निमेषान्निवर्तनप्रसङ्गात् अकार्यकरतेत्याशङ्क्य भगवद्विशेषानुग्रहमूलत्वान्नैवमित्युच्यते--तत इति । सकलकालदेशसदाव्यापिभगवत्तादात्म्ययोगो योगस्सर्ववेदार्थसिद्धः । तत्रयोगे, पुरानिजकाव्यकृतिकालात्पुरा यद्वृत्तं रामादिविषयकं यच्चागामि वर्तमानं च तत्सर्वं करतलामलकवत् सुव्यक्तं सुदृढानुभवं च पश्यति स्म ।। 6 ।।
(सन्ध्या स्वप्नः) ।। 1.3.6 ।।
।। 1.3.7 ।। तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः ।
अभिरामस्य रामस्य तत्सर्वं कर्तुमुद्यतः ।। 7 ।।
एवं चिकीर्षितकृतिकरणसामग्रीकत्वात्तत्र प्रवर्तत इत्युच्यते--तत्सर्वं कर्तुमिति । तत्सर्वं विषयीकृत्य काव्यं कर्तुमित्यर्थः ।। 1.3.7 ।।
।। 1.3.8 ।। कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरं ।
समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ।। 8 ।।
न केवलं रामचरितं, अपि तु कामार्थःकामपुरुषार्थप्रयोजनो यो गुणो वर्णनीयधर्मः शृङ्गारलक्षणः, तेन संयुक्तम् । एतेन काव्यलक्षणयुक्तत्वं समर्थितम् । तथा धर्मार्थः धर्मपुरुषार्थसिद्धिप्रयोजनो यो गुणो वर्णनीयधर्मः तस्य विस्तरेण वर्णनोपेतं, बहुव्रीहिः । अत एव रत्नाढ्यं समुद्रमिव, धर्मप्रयोजनवर्णनान्येवेह रत्नानि । तदुपगतेत्याद्युक्तलक्षणकत्वेन सर्वेषां श्रुतिमनोहरम् । 1कश्चित्तु सर्वाभिष्षड्जातिसप्तस्वरसम्बन्धिनीभिः कान्ताभिः द्वाविंशतिश्रुतिभिः मनोहरम् । अत्र शाण्डिल्यः--'सम्प्रयुक्तो विधानेन तथा नाडीसमुद्रभवः । सुखहेतुर्ध्वनिर्यस्सः श्रुतिरित्यभिधीयते ।। कान्ता प्रभावती सिद्धा सुप्रबा चैव षड्जगाः । उग्रा शिखा च दीप्ता च स्युरेता ऋषभानुगाः ।। गान्धारानुगते द्वे तु नीह्रादिह्लादिनीति च । क्षान्तिस्सर्वसहा धीरा विभूतिर्मध्यमानुगाः ।। मालिनो चपला लोला सर्वरत्नप्रभावती । इमाश्चतस्रः श्रुतयः पञ्चमानुगताः स्मृताः ।। विकल्पिनी च शान्ता च हृदयोन्मालिनी तथा । एतास्तु तिस्रः श्रुतयो धैवतानुगमा मताः ।। विस्तारिणी प्रसन्ना(पञ्चा) च निषादानुगते उभे ।।' इतीत्यादि तत्रैव सुस्पष्टम् । तन्त्रीनाडीसमुत्पन्ना(त्थाना)दखिलधर्मैश्श्रुतितद्भेदैर्गतिविशेषोपयुक्तैः काव्यस्य मनोहरत्वम् । एवमधिकमसङ्गतमेव स्वकमिथ्यापण्डित्यप्रकटनाय वृथा ग्रन्थगौरवाय च ब्रूते । तथा प्रकृतिप्रत्ययविवेचनाबलादर्थविशेषसिद्धिस्थलेपि निस्सन्देहप्रकृतिप्रत्ययस्थलेपि व्याकरणं लिखति । पदार्थसन्देहरहितस्थलेपि निघण्टून् लिखति । मिथ्यापाण्डित्यप्रकटनायै(न एव)व, प्रकटयतु तत्प्रीतिमद्भयः ।। 8 ।।
(1 रामानुजः) ।। 1.3.8 ।।
।। 1.3.9 ।। स यथा कथितं पूर्वं नारदेन महात्मना ।
रघुवंशस्य चरितं चकार भगवान्मुनिः ।। 9 ।।
स इति । रघुवंशस्येति बहुव्रीहिः । रामस्येति यावत् । चरितं--तद्विषयककाव्यं इत्यर्थः ।। 1.3.9 ।।
।। 1.3.10 ।। जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् ।
लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ।। 10 ।।
अथ योगतस्स्वोपदृष्टो नारदश्रुतादभ्यधिको यो विशेषस्तदनुक्रमः क्रियते सामान्यतः काव्यप्रतिपाद्यार्थपरिज्ञानाय--जन्मेति । सुमहत् वीर्यं यस्मिन् जन्मनि तत्तथा । पुत्रकामेष्टिप्राजापत्योपनीतभगवद्ब्रह्मतेजोवशवीर्यरूपवीर्यमूलकं यद्रामस्य जन्मावतरणं योगदृष्टं तच्चाकारोत्तमे काव्ये इति सर्गान्तार्धेन सम्बन्धः । तथा तदन्तप्रतिपाद्यं सर्वं । तच्चकारेतितत्प्रतिपादनं चात्र चकारेत्यर्थः । सर्वानुकूलतां सर्वप्राणिनामिहामुत्रार्थानुकूलमनोवाक्कायव्यापारताम् । प्रत्येकं मामको मामक इति अभिस्नेहास्पदताम् । अत्र हेतुः--क्षान्त्यादित्रयम् । शक्यप्रतिक्रियापकारेष्वपि तदपकारोपेक्षा--क्षान्तिः । भृत्येष्वपि परुषवागादिराहित्यं सौम्यता । सत्यशीलतांसत्यवचनप्रधानसद्वृत्तताम् । "शीलं स्वभावे सद्वृत्ते" ।। 1.3.10 ।।
।। 1.3.11 ।। नाना चित्राः कथाश्चान्या विश्वामित्रसमागमे ।
जानक्याश्च विवाहं च धनुषश्च विभेदनम् ।। 11 ।।
विश्वामित्रसमागमे नानाचित्रकथाः, लौकिक्यः । धनुर्भेदजानकीविवाहयोः क्रमेणान्वयो द्रष्टव्यः । तथाग्रेपि क्कचित् । जानक्याश्चेति चकारादूर्मिळादेर्विवाहः ।। 1.3.11 ।।
।। 1.3.12,13 ।। रामरामविवादं च गुणान् दाशरथेस्तथा ।
रामेणभार्गवेण रामस्य विवादः । तथा गुणानिति भार्गवेणोपदिश्यमानपरमपुरुषत्वादिगुणान् अयोध्याकाण्डादौ वक्ष्यमाणान् राज्याभिषेकार्हगुणांश्च ।।
तथा ऽभिषेकं रामस्य कैकेय्या दुष्टभावताम् ।। 12 ।।
व्याघातं चाभिषेकस्य रामस्य च विवासनम् ।
व्याघातो विघ्नः ।। 1.3.12 ।।
राज्ञः शोकविलापं च परलोकस्य चाश्रयम् ।। 13 ।।
प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।
प्रकृतीनां विसर्जनम् । विवासकाले स्वानुयायिपौराणां प्रतिनिवर्तनम् ।। 1.3.13 ।।
।। 1.3.14,15,16 ।। निषादाधिपसंवादं सूतोपावर्तनं तथा ।। 14 ।।
गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम् ।
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ।। 15 ।।
वास्तुकर्म निवेशं च भरतागमनं तथा ।
प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ।। 16 ।।
वास्तुकर्म--चित्रकूटे पर्णशालानिर्माणम् । तत्पूर्वकस्तत्र निवेशः । तथा प्रसादनं च रामस्येति । भरतेनेति शेषः ।। 1.3.14,15,16 ।।
।। 1.3.17 ।। पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् ।
दण्डकारण्यगमनं विराधस्य वधं तथा ।। 17 ।।
पादुकयोरग्र्यसिद्धिकःस्ववत्पूज्यतासिद्धिकःअभिषेकः--स्वपादक्रमणरूपिणी अभिषेकभावना । तथानन्दिग्रामे निवासनमिति । भरतस्येति शेषः । स्वार्थे णिः । तथा ऽग्रे ऽपि ।। 1.3.17 ।।
।। 1.3.18 ।। दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् ।
अनसूया समस्यामप्यङ्गरागस्य चार्पणम् ।। 18 ।।
अनसूयासमस्यांअनसूयया अत्रिपत्न्या समस्यासङ्गमः । सीताया विशिष्येति शेषः । 'परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्' इत्यादिशब्दादस्यतेः 'स्त्रियाम्' इति यक्प्रत्ययनिपातः ।। 1.3.18 ।।
।। 1.3.19 ।। अगस्त्यवचनं चैव जटायोरभिसङ्गमम् ।
शूर्पणख्याश्च संवादं विरूपकरणं तथा ।। 19 ।।
अगस्त्यवचनमायुधदानादिविषयम् ।। 1.3.19 ।।
।। 1.3.20 ।। वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।
मारीचस्य वधं चैव वैदेह्या हरणं तथा ।। 20 ।।
खरत्रिशिरसोरिति दूषणादेरप्युपलक्षकः । उत्थानंसीतापहारार्थोद्योगः ।। 1.3.20 ।।
।। 1.3.21,22,23 ।। राघवस्य विलापं च गृध्रराजनिबर्हणम् ।
कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ।। 21 ।।
शबरीदर्शनं चैव फलमूलाशनं तथा ।
प्रलापं चैव पम्पायां हनूमद्दर्शनं तथा ।। 22 ।।
ऋश्यमूकस्य गमनं सुग्रीवेण समागमम् ।
प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ।। 23 ।।
प्रत्ययोत्पादनं--सालादिभेदेन सुग्रीवस्य विश्वासजननम् । सख्यमिति । रामसुग्रीवयोरिति शेषः । विग्रहमिति । युद्धं, वैरानुकथनमिति यावत् ।। 1.3.21,22,23 ।।
।। 1.3.24 ।। वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ।
ताराविलापं समयं वर्षरात्रिनिवासनम् ।। 24 ।।
प्रतिपादनमिति । राज्ये स्थापनमिति यावत् । शरदि कार्यार्थोद्योगः कार्य इति रामसुग्रीवकृतस्सङ्केतःसमयः । वर्षरात्रिनिवासनमिति । विरहदुःखपीडया रामस्येति शेषः ।। 1.3.24 ।।
।। 1.3.25 ।। कोपं राघवसिह्नस्य बलानामुपसंग्रहम् ।
दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ।। 25 ।।
पृथिव्याश्च निवेदनमिति । सीतादर्शनार्थमन्वेषणीयपृथिवीदेशविशेषोपदेशः सुग्रीवकृत इति शेषः ।। 1.3.25 ।।
।। 1.3.26 ।। अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् ।
प्रायोपवेशनं चैव संपातेश्चापि दर्शनम् ।। 26 ।।
बिलदर्शनं हनूमदादेरिति शेषः । तथाग्रे ऽपि ।। 1.3.26 ।।
।। 1.3.27 ।। पर्वतारोहणं चैव सागरस्यापि लङ्घनम् ।
समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ।। 27 ।।
समुद्रवनादिति । विश्रमार्थं प्रेषितस्येति शेषः ।। 1.3.27 ।।
।। 1.3.28 ।। देवताभिप्रसादश्च छायाग्राहस्य दर्शनम् ।
सिह्निकायाश्च निधनं लङ्कामलयदर्शनम् ।। 28 ।।
देवतानामभिप्रसादो देवताभिप्रसादनम् । लङ्कामलयो नामलङ्काद्वीपगतः कश्चिद्गिरिः ।। 1.3.28 ।।
।। 1.3.29 ।। रात्रौ लङ्काप्रवेशं च एकस्य च विचिन्तनम् ।
आपानभूमिगमनमवरोधस्य दर्शनम् ।। 29 ।।
एकस्यअसहायस्य । आपानंपानभूमिः, तद्गमनम् तथा । रावणस्येति शेषः । तथाग्रे ऽपि ।। 1.3.29 ।।
।। 1.3.30,31 ।। दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् ।
अशोकवनिकायानं सीतायाश्चापि दर्शनम् ।। 30 ।।
अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् ।
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ।। 31 ।।
अभिज्ञायते ऽनेनेत्यभिज्ञानंअङ्गुळीयकम् ।। 1.3.30,31 ।।
।। 1.3.32 ।। मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ।
राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् ।। 32 ।।
मणिप्रदानमिति । रामं प्रतीति शेषः ।। 1.3.32 ।।
।। 1.3.33 ।। ग्रहणं वायुसूनोश्च लङ्कादाहाभितर्जनम् ।
प्रतिप्लवनमेवाथ मधुनिर्यातनं तथा ।। 33 ।।
लङ्कादाहश्च अभितर्जनञ्च तथा । तत्र राक्षसानामिति शेषः । प्रतिप्लवनंपुनः सागरतरणम् । मधूनांक्षौद्राणाम् ।। 1.3.33 ।।
।। 1.3.34 ।। राघवाश्वासनं चैव मणिनिर्यातनं तथा ।
सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम् ।। 34 ।।
निर्यातनंदानम् । नलबद्धोः यस्सेतुः स नलसेतुः ।। 1.3.34 ।।
।। 1.3.35 ।। प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ।
विभीषणेन संसर्गं वधोपायनिवेदनम् ।। 35 ।।
प्रतारं--भावे घञ् । विभीषणसंसर्गः सेतुबन्धनात्पूर्वम् ।। 1.3.35 ।।
।। 1.3.36 ।। कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् ।
रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ।। 36 ।।
विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ।
अरेः पुरे सीतावाप्तिं विभीषणाभिषेकं चेत्यन्वयः ।। 1.3.36 ।।
।। 1.3.37,38 ।। अयोध्यायाश्च गमनं भरद्वाजसमागमम् ।
प्रेषणं वायुपुत्रस्य भरतेन समागमम् ।। 37 ।।
रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् ।
स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ।। 38 ।।
अभ्युदयः--उत्सवः ।। 1.3.37,38 ।।
।। 1.3.39 ।। अनागतं च यत्किञ्चिद्रामस्य वसुधातले ।
तच्चकारोत्तमे काव्ये वाल्मीकिर्भगवानृषिः ।। 39 ।।
इत्यार्षे श्रीमद्रामायणे बालकाण्डे तृतीयः सर्गः
--
अनागतंब्राह्मणपुत्रोज्जीवनाश्वमेधयागादि । उत्तमे काव्य इति । समग्रकाव्यलक्षणलक्षितत्वात् काव्योत्तमे, पूर्वोत्तरविभागवतीति शेषः ।। 1.3.39 ।। [एकोनचत्वारिंशत्]
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे तृतीयः सर्गः
-- ।। ।।