Sanskrit Commentaries

अथ चतुर्थः सर्गः

 ।। 1.4.1 ।। प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः ।

चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ।। 1 ।।

अथैवं कृतस्य काव्यस्य विना प्रचारं प्रयोजनाभावात् तत्रापि राजसत्काररहिता विद्या नातिप्रकाशते इति न्यायेनाधिराजास्थानीसम्प्राप्तिं विना पूर्वं प्रचारासम्भवात् चतुर्थेन काव्यस्य सार्वभौमास्थानीसम्प्राप्तिः तच्छिष्यद्वारिका प्रतिपाद्यते--प्राप्तेत्यादि । प्राप्तराज्यस्येति बहुव्रीहिः । रामस्य चरितमिति । तद्विषयककाव्यमिति यावत् ।। 1.4.1 ।। 

 ।। 1.4.2 ।। चतुर्विशत्सहस्राणि श्लोकानामुक्तवानृषिः ।

तथा सर्गशतं पञ्च पट् काण्डानि तथोत्तरम् ।। 2 ।।

अथ श्लोकसङ्ख्यापरिच्छेदं प्रक्षेपादिदोषपरिहाराय, सर्गसङ्ख्यापरिच्छेदं च अस्थाने सर्गविच्छेदादितः सर्गन्यूनाधिक्यपरिहाराय च कुरुते--चतुर्विंशदित्यादि । इयं श्लोकानां चतुर्विंशत्सहस्रसङ्ख्या--'तपस्स्वाध्याय' इत्यारभ्य 'तद्ब्रह्माप्यन्वमन्यत' इत्युत्तररामायणसमाप्तिग्रन्थस्य श्लोकराशेरेव, न तु षट्काण्डीयश्लाकानाम् । अत्र कः काण्डः कियच्छलोकः? उत्तरश्च कियच्छलोकः ? इत्यत्र प्राचीनं सोत्तरकाण्डश्लोकसङ्ख्यापरं श्लोकं लिखामः--

ग्रन्थास्स्युर्बालकाण्डे निजखुरगणिता मान्यभावा द्वितीये

रङ्गे सा श्रीस्तृतीये नरतरुगणिता स्युश्चतुर्थे च काण्डे ।

काण्डे स्युः पञ्चमे ऽपि स्तननगगणिता नाळधामा च षष्ठे

भोगी रागी परस्मिन् ससुरवर इति स्यात्समस्ता च सङ्ख्या ।."

परस्मिन्नितिउत्तरकाण्ड इति यावत् । ससुरेत्येवं सङ्ख्याभ्यधिकः सप्तसप्तत्युत्तरद्विशतसङ्ख्याभ्याधिकः उक्तसङ्ख्याभ्याधिक्यकृद्वात्रिंशदक्षरप्रमाणेन श्लोकानां परिगणने त्रिष्टुप्जगत्यादिछन्दोभेदवशात् भवतीत्याहुः । तथा सर्गशतं पञ्चेति । पङ्क्तिविंशतीत्यादिना बहुसङ्ख्येयार्थत्वे ऽपि शतमिति निपातः । पञ्चसङ्ख्यासङ्ख्येयं सर्गशतम् । तथा इयं षट्काण्डीयसर्गसङ्ख्या । कः काण्डः, कयत्सर्गः इत्यत्रापि तत्सङ्ख्यापरं प्राचीनं श्लोकं पठामः--

"काण्डे किलाद्ये संस्थानं द्वितीये धान्यकानि तु ।

मासं तृतीये सन्तस्तु चतुर्थे पञ्चमे जितम् ।

षष्ठं यागायनं रागायनं वातायको ऽन्तिमे ।।"

इति । अत्रापि षट्त्रिंशत्सर्गाधिक्यं षट्काण्ड्याः प्रतीयते । अत्र षट्काण्डसर्गविषयिणी महासङ्ख्यैव पञ्चशती साक्षादुक्ता । षट्त्रिंशद्रूपिणी अल्पसङ्ख्या तु मुनिना उपेक्षिता । एकसर्गस्य द्विधा विच्छेदे द्वयोस्सर्गयोरेकतया मेळने ऽपि न कथञ्चन भारो ऽस्ति । ग्रन्थसङ्ख्याया अपरिक्षयात् कथासन्दर्भस्याविच्छेदाच्च । इदमेवोपलक्षणं उत्तरकाव्यस्य सर्गसङ्ख्यानुपदेशेन द्योत्यते । यच्च श्लोकानां ससुरसङ्ख्याभ्यधिकत्वं पुरातनैर्दृष्टं, तत्रापि अक्षरविषयकाणां सहस्राणां महासङ्ख्यानामेव परिच्छेदो दुःखतः कृतः । सूक्ष्मा ससुरसङ्ख्या तु यथा द्योतिता ततान्यदप्यल्पं श्लोकजातमस्ति, तथा सर्गसङ्ख्यायामनुक्तसङ्ख्यासंग्रहाय तथाशब्दस्तत्रापि प्रयुक्तः । वयंतु श्लोकान् प्रतिसर्गं सङ्गणय्य सङ्कलय्य पश्चान्महासङ्ख्यां परिच्छेत्स्यामः । वस्तुतस्तु यथा चरणव्यूहे ऋग्वेदमण्डलवर्गपदसङ्ख्योपदिष्टान्यूनाधिकरहिता अनुभूयते, एवमेव च ऋषीणां सङ्ख्योपदेशकत्वे कापि सङ्ख्या न न्यूनाधिका स्यात् । न ससुरसङ्ख्याग्रन्थः प्रक्षिप्त इति शक्यवादः, साहसमात्रत्वात् । षट्त्रिंशत्सर्गसङ्ख्या च भ्रान्तिकृतेति दुर्वचा । अपि च ग्रन्थसङ्ख्यामुत्तरस्य वदन् तत्सर्गसङ्ख्यां च अवक्ष्यत् । अतः प्राचीनेन केनचित् सर्वश्लोकसङ्ख्यागणकेन च स्मार्तश्रोत्रियश्लोकवत् स्वमतिसौकर्यसिद्धये स्थूलदृशा सङ्ख्यापरिज्ञानाय कृतो ऽयं श्लोको ग्रन्थसमीपे च लिखितः । तत्तु मूलग्रन्थान्तर्गतमिति भ्रान्त्या स्वेषामपि सामान्यतस्सङ्ख्यापरिज्ञानमस्त्विति प्राचीनैरपि ग्रन्थान्तः परिक्षिप्तः । सर्वथा ऽयं श्लोकः प्रतिक्षिप्त एव । अस्य व्याख्याने प्रत्यत्रस्वप्नदर्शननिमित्तवैषम्यतश्च वयं प्रक्षिप्तत्वं निरचैषिष्म ।। 1.4.2 ।। 

 ।। 1.4.3 ।। कृत्वापि तन्महाप्रज्ञः सभविष्यं सहोत्तरम् ।

चिन्तयामास को न्वेषः प्रयुञ्जीयादिति प्रभुः ।। 3 ।।

महाप्राज्ञ इति । प्राज्ञः--'प्रज्ञाश्रद्धा' इत्यादिना णः । तेन महच्छब्दस्य समासः

कर्मधारयः । सर्भविष्यमिति । 'लटः शतृ' इति शत्रभावश्छान्दसः । भविष्यदश्वमेधादिचरिताख्यानोपेतं । अत एव सहोत्तरं, उत्तकाव्य एव तत्प्रतिपादनात् तेनैकग्रन्थ्यम् । तं महाकाव्यमपि सत्यसङ्कल्पत्वात् कृत्वा, प्रभुः--प्रवर्तनादिशक्तिमान् ऋषिः, को न्वेतत्काव्यं प्रयुञ्जीयात्पीठित्वा ऽ ऽस्थानीषु प्रचारयेदिति चिन्तयामास । प्रोपाभ्यां इत्यात्मनेपदाभावः परस्मैपदे यासुटि ईडागमश्च छान्दसः । परस्मैपदे सीयुडार्ष इति कश्चित् । नैतत्सीयुट्, एवं रूपयोगात् ।। 1.4.3 ।। 

 ।। 1.4.4 ।। तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः ।

अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ।। 4 ।।

तस्य भावितः--पूजितः आत्मा यस्य स तथा । अगृह्णीतामिति । अजादावपि 'ईहल्यघोः' इतीत्वं छान्दसम् । मुनिवेषाविति । राजकुमारयोरपि आश्रमस्थित्युपाधिवशादिति शेषः । कुशश्च लवश्च कुशीलवौ । सामासिकः कुशीभाव आर्षः ।। 1.4.4 ।। 

 ।। 1.4.5,6 ।। कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ ।

भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ ।। 5 ।।

स तु मेधाविनौ दृष्ट्वा वेदे तु परिनिष्ठितौ ।

वेदोपबृह्मणार्थाय तावग्राहयत प्रभुः ।। 6 ।।

स तु मेधाविनौ 'धीर्धारणावती मेधा' 'अस्मायमेधा' इति विनिः । उपबृह्मणंउपोद्बलकं, वेदप्रतिपाद्यधर्माणामिह सुबोधतया प्रतिपादनात् । अत्र वेदात् सामान्यावगतार्थस्य परिज्ञाने बुद्धिसौकर्यमिति उपोद्बलकत्वं काव्यस्य ।। 1.4.5,6 ।। 

 ।। 1.4.7 ।। काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।

पौलस्त्यवधमित्येव चकार चरितव्रतः ।। 7 ।।

सीताचरितप्रतिपादकमपि काव्यं कृत्स्नमपि पौलस्त्यवधमित्येव चकार । तथा च शिशुपालवधे माघकाव्यं इतिवत् पौलस्त्यवधे रामायणं इत्येव काव्यस्य विशिष्य प्रतिपद्यांशस्सर्गान्तेषु वक्तव्य इत्यावेदितम् । इदमेव चोक्तं प्रागपि 'दशशिरसश्च वधं निशामयध्वम् । ' इति ।। 1.4.7 ।। 

 ।। 1.4.8,9 ।। पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् ।

जातिभिस्सप्तभिर्युक्तं तन्त्रीलयसमन्वितम् ।। 8 ।।

रसैः शृङ्गारकरुणहास्यरौद्रभयानकैः ।

वीरादिभी रसैर्युक्तं काव्यमेतदगायताम् ।। 9 ।।

एवंभूतपौलस्त्यवधकाव्यस्य शिष्यमुखात् प्रवृत्त्यपदेशः--पाठ्य इत्यादि । आसर्गसमाप्ति पठेर्भावे ण्यः कृतः । पाठ्येसामान्यतश्चित्ताह्लादार्थे पठने, गेये 'भव्यगेय' इति निपातः, प्राक्प्रसङ्गोक्ततन्त्रीनाडीसमुत्थश्रुतिभेदोपेततया यत् गानं तत्रोभयत्र च मधुरं श्रोत्रसुखोत्पादनाद्यनुकूलम् । षड्जादयस्सप्तस्वरास्सामान्यतो जातिसंज्ञाः । ताभिर्जातिभिस्सप्तभिर्बद्धम् । गानसमये गातृणां सप्तस्वरविशिष्टगानानुरोधीति यावत् । अत्र जातिलक्षणे शाण्डिल्यः "सर्वगीतसमाधानो जातिरित्यभिधीयते" इति । गीतंगानं स समाधीयते येषु सप्तस्वरेषु स सर्वोपि निषादादिसप्तस्वरो जातिरित्यभिधीयते इत्यर्थः । अयमेवार्थस्तेनोत्तरश्लोकेन प्रतिपादितः"षाड्जी चैवाथनैषादी धैवती पञ्चमी तथा । माध्यमी चैव गान्धारी साप्तमी त्वार्षभी मता ।। "इति । तन्त्रीलयसमन्वितमिति । 'पादबद्धोक्षरसमस्तन्त्रीलयसमन्वितः' इति द्वितीयसर्गे व्याकृतः । वीरादीत्यादिशब्देन बीभत्साद्भुतशान्तिरससंग्रहः ।। 1.4.8,9 ।। 

 ।। 1.4.10,11 ।। तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्छनकोविदौ ।

भ्रातरौ स्वरसंपन्नौ गन्धर्वाविव रूपिणौ ।। 10 ।।

रूपलक्षणसंपन्नौ मधुरस्वरभाषिणौ ।

बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथा ऽपरौ ।। 11 ।।

तौ गान्धर्वस्यसमग्रनाट्यस्य तत्त्वज्ञौ तथा,"पदस्थस्वरसङ्घातस्ताळेन सुमितस्तथा । प्रयुक्तश्चावधानेन गान्धर्वमभिधीयते इति", नृत्तपदविक्रमानुरोधितया तिष्ठीतित पदस्थस्वरः । निषादादिमृदङ्गताळव्यापारानुरोधितया स्वराणां प्रयोगैकाग्र्यंअवधानम् । स्थानं च मूर्च्छना च स्थानमूर्च्छने, तत्तत्त्वपरिज्ञाने कोविदौसमर्थावित्यर्थः । तथा ऽ ऽह स्थानादिस्वरूपं शाण्डिल्यः--"यदूर्ध्वं हृदयग्रन्थेः कपोलफलकादयः । प्राणसञ्चरणं स्थानं स्थानमित्यभिधीयते" इति । तथा'यत्रैव स्युः स्वराः पूर्णा मूर्च्छना सेत्युदाहृता' । यत्रैवेति । गीतिविशेष इत्यर्थः । स्वराः पूर्णा इति । एकेन गानकर्ज्ञा षड्जादिस्वरानामविलम्बप्रयोजना पूर्तिःपूर्णता । रूपिणौप्रशंसायामिनिः । प्रशस्तरूपवन्तौ । बिम्बात्सूर्यादेः, उद्धृतौउत्पन्नौ, बिम्बौप्रतिबिम्बौ ।। 1.4.10,11 ।। 

 ।। 1.4.12,13 ।। तौ राजपुत्रौ कार्त्स्येन धर्म्यमाख्यानमुत्तमम् ।

वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ।। 12 ।।

ऋषीणां च द्विजातीनां साधूनां च समागमे ।

यथोपदेशं तत्त्वज्ञौ जगतुस्सुसमाहितौ ।। 13 ।।

महात्मानौ महाभागौ लक्ष्यलक्षणलक्षितौ ।

तौ धर्म्यंधर्मादनपेतं । वाचोविधेयमिति । विनापि पुस्तकं पाठयोग्यमिति यावत् । जगतुरिति । जानं कृतवन्ताविति यावत् । महाभागौ । पूज्याविति यावत् । लक्ष्येति । सामुद्रिकशास्त्रविद्भिः यल्लक्ष्यंपरीक्ष्यं लक्षणंसुलक्षणमस्ति तेन लक्षितौ तथा ।। 1.4.12,13 ।। 

 ।। 1.4.14 ।। तौ कदाचित्समेतानामृषीणां भावितात्मनाम् ।

मध्येसभं समीपस्थौ इदं काव्यमगायताम् ।। 14 ।।

भावितःपूतः ।। 1.4.14 ।। 

 ।। 1.4.15 ।। तच्छुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ।

साधु साध्विति तावूचुः परं विस्मयमागताः ।। 15 ।।

बाष्पःआनन्दबाष्पः । साधुसाध्विति योजना ।। 1.4.15 ।। 

 ।। 1.4.16,17 ।। ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ।

प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ।। 16 ।।

अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ।

चरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् ।। 17 ।।

प्रशस्तव्याविति । इडभावनलोपौ छान्दसौ । चिरनिर्वृत्तमप्येतदिति । आभ्यां प्रतिपाद्यमानं रावणवधान्तरामचरितमिति यावत् ।। 1.4.16,17 ।। 

 ।। 1.4.18 ।। प्रविश्य तावुभौ सुष्ठु तथाभावमगायताम् ।

सहितौ मधुरं तारं संपन्नं स्वरसंपदा ।। 18 ।।

प्रविश्य, तत्र ऋष्यादिसमीपमिति शेषः । तारंअत्युच्चैः सम्पन्नं यथा तथा अगायतामिति पूर्वेणान्वयः ।। 1.4.18 ।। 

 ।। 1.4.19 ।। एवं प्रशस्यमानौ तौ तपःश्लाध्यैर्महर्षिभिः ।

संरक्ततरमत्यर्थं मधुरं तावगायताम् ।। 19 ।।

एवमिति । अहो गीतस्येत्याद्युक्तरीत्येति यावत् ।। 1.4.19 ।। 

 ।। 1.4.20 ।। प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ।

प्रसन्नो वल्कलं कश्चित् ददौ ताभ्यां महायशाः ।। 20 ।।

संस्थित इति । तत्र समाज इति शेषः । ।। 1.4.20 ।। 

 ।। 1.4.21,22,23 ।। आश्चर्यमिदमाख्यानं मुनिना संप्रकीर्तितम् ।

परं कवीनामाधारं समाप्तं च यथाक्रमम् ।। 21 ।।

अविगीतमिदं गीतं सर्वगीतिषु कोविदौ ।

आयुष्यं पुष्टिजननं सर्वश्रुतिमनोहरम् ।। 22 ।।

प्रशस्यमानौ सर्वत्र कदाच्चित्तत्र गायनौ ।

रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ।। 23 ।।

परं कवीनामाधारमिति । काव्यलक्षणालङ्कारादिविषये दृष्टान्ततया प्रदर्शनोपयुक्तत्वात् । हे सर्वगीतेषु कोविदौ कुशीलवौ । यथाकृतं मुनिना ततैवावधृत्य अविगीतं--अनवद्यं यथा तथा युवाभ्यामिदं आयुष्यादिगुणकं काव्यं गीतमित्येवं प्रशस्यमानौ । तत्ररथ्यादौ । गायिनौ, 'गस्थकन्' 'ण्युट् च' इति गायतेः कर्तरि णुट्, गानं कुर्वाणौ भरताग्रजःरामः ददर्श ।। 1.4.21,22,23 ।। 

 ।। 1.4.24,25 ।। स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ ।

पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः ।। 24 ।।

आसीनः काञ्चने दिव्ये स च सिह्मासने प्रभुः ।

उपोपविष्टस्सचिवैर्भ्रातृभिश्च समन्वितः ।। 25 ।।

सचिवादिभिः उपसमीपे उपविष्टःव्यापारान्तररहितः ।। 1.4.24,25 ।। 

 ।। 1.4.26,27 ।। दृष्ट्वा तु रूपसंपन्नौ विनीतौ भ्रातरावुभौ ।

उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तदा ।। 26 ।।

श्रूयतामेतदाख्यानमनयोर्देववर्चसोः ।

विचित्रार्थपदं सम्यक् गायकौ समचोदयत् ।। 27 ।।

अनयोरिति । सकाशादिति शेषः । समचोदयदिति । गातुमिति शेषः ।। 1.4.26,27 ।। 

 ।। 1.4.28 ।। तौ चापि मधुरं रक्तं स्वचिन्तायतनिस्वनम् ।

तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् ।। 28 ।।

तौ स्वचिन्तायतनिस्वनंस्वीयकाव्यनायकस्य परमकल्याणगुणचिन्ताजनितेनानन्देन आयतौ यस्मिन्, गेयविषयसौष्टवस्मृत्या लोकस्य गीतिनादतारत्वं लोकप्रसिद्धम् । न तयोस्तारं गातव्यमितीच्छया तारस्वनत्वमित्यनेन कश्चनातिशयः । अत्यर्थमगायतामिति योजना ।। 1.4.28 ।। 

 ।। 1.4.29 ।। ह्लादयन् सर्वगात्राणि मनांसि हृदयानि च ।

श्रोत्राश्रयसुखं गेयं तद्ब्रभौ जनसंसदि ।। 29 ।।

सर्वगात्राणीति । सर्वेषां श्रोतृणां सर्वाणि गात्राणि । ह्लादयन्गात्रह्लादो नाम तेषां रोमाञ्चप्रादुर्भावलक्षणः । मनसः आह्लादो नाम निद्रायमिव विस्मृतान्यव्यापारतया तद्गानश्रुतिसुखासक्तिः । हृदयं'हृद्ययमिति हृदयम्' इत्युपनिषन्निर्वचनात् हार्दाहंभावावच्छिन्नः प्रत्यगात्मा । तस्य ह्लादो नाम भोक्तुर्मे एतद्गानश्रुतिजानन्दभोगो ऽस्त्वित्यभिनिवेशः । श्रोत्राश्रयसुखमिति बहुव्रीहिः, गेयमन्यपदार्थः । [एकार्धोनत्रिंशत्] ।। 1.4.29 ।। 

 ।। 1.4.30 ।। इमौ मुनी पार्थिवलक्षणान्वितौ

कुशीलवौ चैव महातपस्विनौ ।

ममापि तद्भूतिकरं प्रचक्षते

महानुभावं चरितं निबोधत ।। 30 ।।

पुनश्चाख्यानस्यान्विष्य श्रोतव्यताप्रयोजनमिपदिशन् आदरात् पुनराख्यानश्रवणे भगवान् रामः प्रचोदयित्वा--तौ प्राग्वत् सञ्चोद्य स्वयमपि श्रोत्रानन्दसुखपरो बभूवेत्युच्यते--इमावित्यादिद्वाभ्याम् । यत्यस्मान्महातपस्विनौ--डटावल्कादिसम्बन्धात्, स्वरूपतस्तु आजानुबाहुत्वादिपार्थिबलक्षणान्वितौ, इमौ कुशीलवौ मुनी अत्याश्चर्यरूपस्वभावौ प्रबन्धस्य गायकौ, चरितं काव्यप्रबन्धनं च, महानुभावंसुशब्दार्थालङ्कारललितसन्दर्भत्वादिविशेषवैभवेन तथा सार्वभौमविषयत्वेन महावैभववत्, अतो युष्माकं श्रेयस्करमिदम् । निबोधतभ्वादिः बुधिः । न केवलं युष्माकम्, अपि तु ममापि काव्यनायकस्यापि दिव्यलक्षणलक्षितस्वविषयकप्रबन्धस्य च श्रवणम्, भूतिकरंइहामुत्राभ्युदयकरम्, प्रचक्षतेवदन्ति वृद्धाः । लोके ऽपि चास्ति प्रसिद्धिःएतद्विषयिणी एतत्कवेः कविता शब्दतो ऽर्थतो ध्वनितो वास्याशून्यत्वं प्रतिपादयति, अतो ऽयमचिरात् प्रसिद्धिमेष्यतीति । तथा शाब्दादितो मङ्गलपरत्वे तु परममङ्गलं तस्य तस्येति ।। 1.4.30 ।। 

 ।। 1.4.31 ।। ततस्तु तौ रामवचःप्रचोदितौ

अगायतां मार्गविधानसंपदा ।

स चापि रामः परिषद्गतश्शनैः

बुभूषया ऽ ऽसक्तमना बभूव ।। 31 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुर्थः सर्गः ।। 4 ।।

--

यतो मयापि मद्विषयकः सुप्रबन्धश्श्रोतव्य एव अतो गायतामिति रामवचःप्रचोदितौ तौ मार्गविधानसम्पदामार्गो देशी चेति गानं द्विप्रकारंप्राकृतावलम्बि गानं देशी, संस्कृतावलम्बी तु मार्गः, मार्गाख्यगानमार्गावलम्बनसामग्र्या अगायताम् । परिषद्गतः स च रामो ऽपि शनैः बुभूषयाप्रागुक्तरीत्या इहामुत्र स्वाभ्युदयेच्छया, आसक्तमनाःस्वप्रशंसार्थकत्वेन महापुरुषत्वात् लज्जया शनैश्शनैः प्रवृत्तिरिति द्योत्यते शनैरिति पदेन । इदं सर्गचतुष्टयं उपोद्धातरूपं काव्यशरीरं (द्वात्रिंशच्छ्लोक एकार्धोनः) ।। 1.4.31 ।। 

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुर्थस्सर्गः

[इत्युपोद्धातः]