कुटुम्बी यो ह्यसिद्धार्थो ऽगवाश्वधनधान्यवान् ।। 7 ।।
अल्पतया सन्विद्यमानो निचयःधान्यादिसङ्ग्रहो यस्य स तथा । यो हि अगवाश्वधनादिमान्, अत एव असिद्धार्थःअसिद्धैहिकामुष्मिकप्रयोजनः, कुटुम्बी न कश्चिदिति योजनार्थः ।। 1.6.7 ।।
।। 1.6.8 ।। कामी वा न कदर्यो वा नृशंसः पुरुषः क्कचित् ।
द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः ।। 8 ।।
[दशरथस्य, तत्प्रजानां च वर्णनम्]
।। 1.6.1 ।। तस्यां पुर्यामयोध्यायां वेदवित्सर्वसङ्ग्रहः ।
दीर्घदर्शी महातेजाः पौरजानपदप्रियः ।। 1 ।।
अथ काव्योत्तमस्य परलोकोपकारकत्वेन अप्राकृतत्वायान्वयमुखेन राजधर्मः व्यतिरेकमुखेन तत्प्रजाधर्मश्चोपदिश्यते--तस्यामित्यादि । वेदविदिति । त्रैवर्णिकमात्रस्य सर्वाद्यो ऽयं गुणः । अथ क्षत्रियविशेषधर्मःसर्वसङ्ग्रह इत्यादि । सर्वेषां अपरिमितकोशचतुरङ्गबलराष्ट्रदुर्गादीनां सार्वभौमापेक्षितपदार्थानां सङ्ग्रहो यस्मिन् । 'ग्रहवृदृ--' इत्यप् । एवं सामादिप्रयोगे एवं फलं भविष्यतीत्यादिलक्षणदीर्घदर्शनशीलः । तेजःप्रतापः ।। 1.6.1 ।।
।। 1.6.2 ।। इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी ।
महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ।। 2 ।।
'महारथैरेकयोद्धा भवेदतिरथो रथी' । महर्षिकल्पःव्याकृतचरः ।। 1.6.2 ।।
।। 1.6.3 ।। बलवान्निहतामित्रो मित्रवान्विजितेन्द्रियः ।
धनैश्च सञ्चयैश्चान्यैः शक्रवैश्रवणोपमः ।। 3 ।।
धनंहिरण्यम् । धनापेक्षयान्ये सञ्चयाःमुक्तादिनवरत्नदिव्याम्बराभरणादयः । विश्रवसो ऽपत्यं वैश्रवणः । विश्रवणरवण इत्यण्सन्नियोगे विश्रवणादेश इति प्रागेवोक्तम् ।। 1.6.3 ।।
।। 1.6.4 ।। यथा मनुर्महातेजा लोकस्य परिरक्षिता ।
तथा दशरथो राजा वसञ्जगदपालयत् ।। 4 ।।
महातेजस्त्वे मनुदृष्टान्तः--तथा तद्वन्महातेजाःतस्यां पुर्यां वसन् जगदपालयदिति योजना ।। 1.6.4 ।।
।। 1.6.5 ।। तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता ।
पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ।। 5 ।।
धर्मकामार्थास्त्रिवर्गसंज्ञाः । त्रिवर्गानुष्ठानप्राधान्यं गृहीत्वा पालिता ऽभवदिति योजनीयम् ।। 1.6.5 ।।
।। 1.6.6 ।। तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः ।
नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ।। 6 ।।
धर्मात्मानःधर्मवासनावासितान्तःकरणाः । बहुश्रुता इति बहुव्रीहिः । श्रुतंवेदशास्त्रलक्षणम् । कर्मणि निष्ठा । प्राप्तोत्तरस्पृहावत्त्वे सति काचमात्रस्यापि दित्साभावो लोभः ।। 1.6.6 ।।
।। 1.6.7 ।। नाल्पसन्निचयः कश्चिदासीत्तस्मिन् पुरोत्तमे ।
कुटुम्बी यो ह्यसिद्धार्थो ऽगवाश्वधनधान्यवान् ।। 7 ।।
अल्पतया सन्विद्यमानो निचयःधान्यादिसङ्ग्रहो यस्य स तथा । यो हि अगवाश्वधनादिमान्, अत एव असिद्धार्थःअसिद्धैहिकामुष्मिकप्रयोजनः, कुटुम्बी न कश्चिदिति योजनार्थः ।। 1.6.7 ।।
।। 1.6.8 ।। कामी वा न कदर्यो वा नृशंसः पुरुषः क्कचित् ।
द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः ।। 8 ।।
कामीकामैकतत्परः । कदर्यः'आत्मानं धर्मकृत्यं च पुत्रदारांश्च वञ्चयन् । लोभाद्यः पितरौ भ्रातृन् स कदर्य इति स्मृतः ।।' इति मनुः । नृशंसःक्रूरः । द्रष्टुं शक्यमिति छान्दसं नपुंसकत्वम् ।। 1.6.8 ।।
।। 1.6.9 ।। सर्वे नार्यश्च धर्मशीलास्सुसंयताः ।
उदिताश्शीलवृत्ताभ्यां महर्षय इवामलाः ।। 9 ।।
सुसंयताःसुष्ठु निगृहीतेन्द्रियाः । सहशीलवृत्ततयोदितत्वे महर्षिदृष्टान्तः ।। 1.6.9 ।।
।। 1.6.10 ।। नाकुण्डली नामकुटी नास्रग्वी नाल्पभोगवान् ।
नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते ।। 10 ।।
भोगाःधर्माविरुद्धकामभोगाः । 'निर्णिक्तं शोधितं मृष्टं' । अमृष्टःअभ्यङ्गस्नानादिना ऽनिर्णिक्तदेह इति यावत् । नानुलिप्ताङ्ग इति । 'सुप्सुपा' इति समासः । भद्रदारुपनसादिनाप्यनुलिप्तत्वसम्भवादुच्यतेअसुगन्ध इति । अलभ्यचन्दनादिसुगन्ध इति यावत् ।। 1.6.10 ।।
।। 1.6.11 ।। नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ।
नाहस्ताभरणो वा ऽपि दृश्यते नाप्यनात्मवान् ।। 11 ।।
मृष्टंपूर्णम् । अन्नाभावप्रयुक्तपूर्णभोजनरहित इति यावत् । नादातेति । साक्षिभोजनरहित इति यावत् । अङ्गदं, निष्कंउरोभूषणं च धरतीति तथा । 'हेम्न्युरोभूषणे निष्के दीनारे ऽपि फले ऽपि च' इति निघण्टुः । अनात्मवान्अजितान्तःकरणः ।। 1.6.11 ।।
।। 1.6.12 ।। नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः ।
कश्चिदासीदयोध्यायां न च निर्वृत्तसङ्करः ।। 12 ।।
अयज्वासोमयागरहितः । क्षुद्रःअल्पविद्यैश्वर्यवान्, तिरस्कारार्ह इति यावत् । निर्वृत्तंअनुष्ठितं सङ्करःसाङ्कर्यंपरक्षेत्रे बीजावापादिसाङ्कर्यं येन स तथा ।। 1.6.12 ।।
।। 1.6.13 ।। स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।
दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ।। 13 ।।
दानाध्ययनेति । 'ततो यत्किंच ददाति सा दक्षिणा' इति नित्यप्राप्तयथाशक्त्यन्नपानादिदानादिमन्तः । संयताःसङ्कुचिताः ।। 1.6.13 ।।
।। 1.6.14 ।। न नास्तिको नानृतको न कश्चिदबहुश्रुतः ।
नासूयको न वा ऽशक्तो नाविद्वान्विद्यते तदा ।। 14 ।।
नास्ति दिष्टं मतिर्यस्य स नास्तिकः, 'अस्ति नास्ति दिष्टं मतिः' इति ठक् । अनृतकःअसत्यवचनः । अशक्तःस्वस्यैहिकामुष्मिकार्थसाधनासमर्थः । नाविद्वानिति । गुणवर्णनेष्वादरात् पौनरुक्त्यमदोषायेति प्रागेवोपपादितम् ।। 1.6.14 ।।
।। 1.6.15 ।। नाषडङ्गविदत्रासीन्नाव्रतो नासहस्रदः ।
न दीनः क्षिप्तचित्तो वा व्यथितो वा ऽपि कश्चन ।। 15 ।।
व्रतंएकादश्यादिव्रतम् । क्षिप्तचित्त इति । उन्मादादिनेति शेषः । व्यथितःआधिव्याध्यादिपीडितचित्त इत्यर्थः ।। 1.6.15 ।।
।। 1.6.16 ।। स्त्रियास्तु नाश्रीमतीत्याद्यूह्यम् । मूर्धाभिषिक्तो राजा दशरथः, तस्मिन् भक्ति स्नेहं, तद्रहितो नाभूत् । इदं सर्वप्रजासाधारणं शुभमित्युच्यते ।। 1.6.16 ।।
।। 1.6.17 ।। वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।
कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ।। 17 ।।
वर्णेष्वित्यादि । अग्र्यःब्राह्मणः । अग्रे भवः, 'अग्राद्यत्', स चतुर्थो येषां वर्णानां ते तथा । 'वदान्यो दानशौण्डस्स्यात्' इति विश्वः ।। 1.6.17 ।।
।। 1.6.18,19 ।। दीर्घायुषो नरास्सर्वे धर्मं सत्यं च संश्रिताः ।
सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ।। 18 ।।
क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः ।
शूद्रास्स्व धर्मनिरतास्त्रीन्वर्णा नुपचारिणः ।। 19 ।।
ब्रह्ममुखंब्रह्मप्रधानम्, तदाज्ञानुवर्तीति यावत् । कश्शूद्रस्य धर्म इत्यतः--त्रीन्वर्णानित्यादि । उपचारणःउपचरणशीलाः । चरेस्ताच्छीलिको णिनिः ।। 1.6.18,19 ।।
।। 1.6.20,21 ।। सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षता ।
यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ।। 20 ।।
योधानामग्निकल्पानां पेशलानाम मर्षिणाम् ।
सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ।। 21 ।।
योधानामग्निकल्पानामिति । शौर्यातिशयादग्निकल्पत्वं योधानाम् । पेशलाःअकुटिलाः । अमर्षिणःपराभिभवासहिष्णवः । अमर्षिणां सङ्घैः पूर्णेति योज्यम् । कृताशिक्षिता अस्त्रशस्त्रादिविद्या यैस्ते तथा ।। 1.6.21 ।।
।। 1.6.22 ।। काम्भोजविषये जातैः वाह्लिजैश्च हयोत्तमैः ।
वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ।। 22 ।।
एवं पदातिसौष्ठवमुक्त्वा अश्वादिसौष्ठवोपदेशःकाम्भोजेत्यादि । विषयो देशः । वाह्लीकः बाह्लिरिति गृह्यते नामैकदेशतः, छन्दोवशात् । हरिःइन्द्रः, तस्य हयःउच्चैश्रवाः, तद्वदुत्तमा इति यावत् ।। 1.6.22 ।।
।। 1.6.23 ।। विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।
मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ।। 23 ।।
हैमवतैः । 'तन्न जातः' इति शेषिको ऽण् ।। 1.6.23 ।।
।। 1.6.24 ।। ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।
अञ्जनादपि निष्पन्नैर्वामनादपि च द्विपैः ।। 24 ।।
कुले भवाः कुलीनाः । 'कुलात्खः' । पुण्डरीकाख्यो दिग्गजो महापद्म इत्युच्यते, तस्य कुलंवंशो येषां ते तथा । अञ्जनादिरपि दिग्गजविशेषः ।। 1.6.24 ।।
।। 1.6.25 ।। भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा ।
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ।। 25 ।।
नित्यमत्तैस्सदा पूर्णा नागैरचलसन्निभैः ।
हिमवति जाता भद्राख्याः । विन्ध्यजाता मन्द्राख्याः । सह्यजाता मृगाख्याः । तत्र त्र्यादिस्वभाववन्तो ऽन्ये भद्रमन्द्रमृगाः । द्विस्वभाववन्तो भद्रमन्द्रादयः ।। 1.6.25 ।।
।। 1.6.26 ।। सा योजने च द्वे भूयः सत्यनामा प्रकाशते ।। 26 ।।
पुरी द्वे योजने, द्वयोर्योजनयोरत्यन्तसंयोगे द्वितीया । भूयःअभ्यधिकम् । सत्यनामायोद्धुमशक्या अयोध्येत्येवं अन्वर्थनामा प्रकाशते । द्वादशयोजनायामायाः तिर्यक् त्रियोजनविस्तारवत्याः तस्याः राज्ञो मूलधाम्न उक्तद्वियोजनमानकत्वतो भूयः सत्यनामत्वम् । सत्यनामेति । 'डाबुभाभ्याम्' इति डाप् ।। 1.6.26 ।।
।। 1.6.27,28 ।। तां पुरीं स महातेजा राजा दशरथो महान् ।
शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ।। 27 ।।
तां सत्यनामां दृढतोरणार्गलां
गृहैर्विचित्रैरुपशोभितां शिवाम् ।
पुरीमयोध्यां नृसहस्रसङ्कुलां
शशास वै शक्रसमो महीपतिः ।। 28 ।।
इत्यार्षे श्रीमद्रामायणे बालकाण्डे षष्ठः सर्गः
----
शमितःनाशितः अमित्रो येन स तथा । 'निष्ठायां सेटि' इति णिलोपे अमन्ततो मित्वाद्ध्रस्वः । तां सत्यनामामित्यत्रापि डाप् । [सप्तविंशतिः अर्धाधिका ?] ।। 1.6.27,28 ।।
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षष्ठः सर्गः