Sanskrit Commentaries

अथ सप्तमः सर्गः

[अमात्यादिवर्णनम्]

 ।। 1.7.1 ।। तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः ।

मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ।। 1 ।।

अथेदानीं सन्मन्त्रिसम्पत्तिरूपो राज्ञो विशेषधर्म उपदिश्यतेतस्येत्यादि । अमात्याः । राज्ञा सर्वराज्यव्यापारेषु सह वसन्तीत्यमात्याः । 'अव्ययात्त्यप्' । गुणैःअमात्यापेक्षितैर्वक्ष्यमाणैरुपेताः । इक्ष्वाकोःदशरथस्य, तद्वंशजत्वात्ताच्छब्द्यम् । मन्त्रःकार्यविचारः । इङ्गितंपौराभिप्रायः, तत् मुखसङ्कोचव्यङ्ग्यवचनादिभिः जानन्तीति तथा ।। 1.7.1 ।। 

 ।। 1.7.2 ।। अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्स्विनः ।

शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ।। 2 ।।

शुचयःअसत्यस्वामिद्रोहादिरूपवाङ्मनसाशुचिरहिताः । नित्यशो राजकृत्येषुतदनुष्ठानेषु अनुरक्ताःतत्पराः ।। 1.7.2 ।। 

 ।। 1.7.3 ।। धृष्टिर्जयन्तो विजयः सिद्धार्थो ह्यर्थसाधकः ।

अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमो ऽभवत् ।। 3 ।।

के च ते ऽष्टावित्यत आह--धृष्टिरित्यादि ।। 1.7.3 ।। 

 ।। 1.7.4 ।। ऋत्विजौ द्वाविभमतौ तस्या ऽ ऽस्तामृषिसत्तमौ ।

वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ।। 4 ।।

ऋत्विजौपुरोहिताविति यावत् । अपर इति । उक्ताष्टप्रधानमन्त्रिव्यतिरिक्ता इति यावत् । कश्चिदपरः--"मन्त्रिणः मन्त्रविदःऋत्विजः आसन्" इत्याह । तदसत् । उत्तरत्र मन्त्रिगुणवर्णने "प्राप्तकालं च ते दण्डान् धारयेयुस्सुतेष्वपि" इत्यादीनां ब्राह्मणेष्वसम्भावितत्वात् ।। 1.7.4 ।। 

 ।। 1.7.5 ।। विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ।

परस्परानुरक्ताश्च नीतिमन्तो बहुश्रुताः ।। 5 ।।

विद्याविनीता इति । विद्यायाः विनयः किल फलम् ।। 1.7.5 ।। 

 ।। 1.7.6 ।। श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ।

कीर्तिमन्तः प्रणिहिताः यथावचनकारिणः ।। 6 ।।

प्रमिहिताः--राजकृत्येषु सावधानाः । यथावचनकारिण इति । राज्ञ इति शेषः ।। 1.7.6 ।। 

 ।। 1.7.7 ।। तेजःक्षमायशःप्राप्ता स्मितपूर्वाभिभाषिणः ।

क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ।। 7 ।।

तेजआदीनि प्राप्ताः । 'द्वितीयाश्रित' इत्यादिना समासः । स्मितेति । स्मितपूर्वतया पूर्वभाषिण इत्यर्थः । कामार्थयोर्हेतुस्तथा ।। 1.7.7 ।। 

 ।। 1.7.8 ।। तेषामविदितं किंचित् स्वेषु नास्ति परेषु वा ।

क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ।। 8 ।।

अविदितं किं नास्तीत्यतः--क्रियमाणमित्यादि । सन्धिविग्रहादिकमिति शेषः । चारेण, चरसञ्चरेण, चारेण कृतक्रियमाणचिकीर्षितसन्ध्यादिसर्वव्यापारः स्वपरगोचरस्तदज्ञातो नास्तीत्यर्थः । तेषामविदितं इत्यत्र 'मतिबुद्धि' इत्यादिना अविदितमिति कर्तरि क्तस्य योगे "क्तस्य च वर्तमान" इति तेषामिति षष्ठी ।। 1.7.8 ।। 

 ।। 1.7.9 ।। कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।

प्राप्तकालं तु ते दण्डं धारयेयुस्सुतेष्वपि ।। 9 ।।

परीक्षिताः । राज्ञेति शेषः । परीक्षा तु बहुशस्स्वेष्टप्रवृत्तिपरा निष्टा ऽप्रवृत्त्यादिविषयिणी । प्राप्तः सापराधत्वलक्षणः कालो यस्य स तथा । धारयेयुरिति । प्रवर्तयन्तीत्यर्थः ।। 1.7.9 ।। 

 ।। 1.7.10 ।। कोशसङ्ग्रहणे युक्ता बलस्य च परिग्रहे ।

अहितं वा ऽपि पुरुषं न हिंस्युरविदूषकम् ।। 10 ।।

कोशसङ्ग्रहणं बलपरिग्रहहेतुः । बलंचतुरङ्गबलम् । तस्य परिग्रहःपुनःपुनरश्वादेस्सङ्ग्रहः । अहितमिति स्वहिताचरणरहितमुदासीनमिति यावत् । अविदूषकमिति । दोषःअपराधः, तदकर्तारमिति यावत् । 'दोषो णौ' इत्यत्वम् । तस्मात् स्वार्थण्यन्तात् ण्वुल् ।। 1.7.10 ।। 

 ।। 1.7.11 ।। वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः ।

शुचीनां रक्षितारश्च नित्यं विषयाविसनाम् ।। 11 ।।

राजशास्त्रं--"राज्ञस्तु विशेषणान् वक्ष्यामः । दक्षिणद्वारं वेश्म पुरं च मापयेत् । अन्तरस्यां पुरीं वेश्म" इत्यादिना धर्मशास्त्रेण विशिष्यराज्ञ उपदिश्यमानं शास्त्रं राजशास्त्रम्, कामन्दकादिप्रणीतं सामादि विषयकनीतिशास्त्रं राजनीतिशास्त्रं च । स्तेयानृतरहिताश्शुचयः । विषयो देशः ।। 1.7.11 ।। 

 ।। 1.7.12 ।। ब्रह्मक्षत्रमहिंसन्तः ते कोशं समपूरयन् ।

सुतीक्ष्णदम्डास्संप्रेक्ष्य पुरुषस्य बलाबलम् ।। 12 ।।

ब्रह्मक्षत्रमिति । सर्वो द्वन्द्वो विभाषेत्येकत्वम् । पुरुषस्यदण्ड्यपुरुषस्य । बलाबलंअपराधतारतम्यम् । सम्प्रेक्ष्य तदनुसारेणसुतीक्ष्णदण्डाः निर्घृणप्रवृत्तदण्डाः । अयं कोशपूरणहेतुः ।। 1.7.12 ।। 

 ।। 1.7.13 ।। शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् ।

नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्कचित् ।। 13 ।।

शुचीनामित्यादि । शुचिशब्दो व्याकृतः । एकबुद्धीनांअन्योन्यमेककण्ठानाम्, तथा सम्प्रजानतांपुरराष्ट्रवृत्तान्तं विचारयतां तेषां मन्त्रिणां विचारविषये पुरादौ मृषावादी कश्चन नासीत् । एवं पाङ्क्ते स्थिते शुचिषु सम्प्रजानत्सु अनृतवादी नासीत् इति भावलक्षणे षष्ठी च भवति, "षष्ठी चानादरे" इति योगविभागात्, अनादराभावे षष्ठीत्यस्माभिरुच्यत इति मिथ्यापाण्डित्यं प्राचीकटत् ।। 1.7.13 ।। 

 ।। 1.7.14 ।। कश्चिन्न दुष्टस्तत्रासीत् परदाररतो नरः ।

प्रशान्तं सर्वमेवासीत् राष्ट्रं पुरवरं च तत् ।। 14 ।।

प्रशान्तंप्रशान्तान्यायाधर्मकम् ।। 1.7.14 ।। 

 ।। 1.7.15 ।। सुवाससस्सुवेषाश्च ते च सर्वे सुशीलिनः ।

हितार्थं च नरेन्द्रस्य जाग्रतो नयचश्रुषा ।। 15 ।।

गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमे ।

विदेशेष्वपि विख्याताः सर्वतो बुद्धिनिश्चयात् ।। 16 ।।

गुरौस्वस्वाचार्ये गुणगृहीताःअर्थतः कार्यतश्शुश्रूषागुणेन विद्याग्रहणादौ सौबुद्ध्यादिगुणेन च आप्ततच्छिष्यतया परिगृहीताः । एतेन सर्वमूलसद्गुर्वनुग्रहप्राप्तसर्वविद्यात्वमुपदिष्टम् । कश्चित् गुणगृहीताःगृहीतगुणदोषाःआहिताग्निवदित्यादिना मिथ्यामुक्त्वा तस्य व्याख्यानं चाह । तेन गुराविति पदमनन्वितमिव उपेक्षणीयम् । न च गुरावेव गृहीतगुणदोषा इति शान्तं पापं, अलमेतन । प्रख्याताश्च पराक्रम इति । अयं सर्वतो विदेशेष्वपि विज्ञातत्वे हेतुः । बुद्धिनिश्चयात्--बुद्ध्या सम्पन्नसन्ध्यादिशास्त्रविषयको निश्चयस्तथा, तस्मात् ।। 1.7.16 ।। 

 ।। 1.7.17 ।। सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः ।।

मन्त्रसंवरणे सक्ताः श्लक्ष्णास्सूक्ष्मासु बुद्धिषु ।। 17 ।।

नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ।।

सन्ध्यादितत्त्वज्ञाः प्रकृत्याराजस्वभावत्वादेव, सम्पदाधनधान्यदासीदासादिशिबिकाद्यैहिकसम्पदा ऽन्विताः । इदमेव च सर्वतस्समर्थत्वे मूलम् । न हि दरिद्रवचः सभामारुरुक्षति । मन्त्रो राष्ट्रायव्ययादिविचारः, तद्ग्रहणेतत्साधनसङ्ग्रहणे इत्यर्थः । सूक्ष्मासु बुद्धिषुविचारेषु सक्ताः, श्लक्षणाःअरूक्षस्वभावाः ।। 1.7.17 ।। 

 ।। 1.7.18 ।। ईदृशैस्तैरमात्यैश्च राजा दशरथो ऽनघः ।। 18 ।।

उपपन्नो गुणोपेतैरन्वशासद्वसुन्धराम् ।

ईदृशैः'विद्याविनीताः' इत्याद्यारम्भोपदिष्टविशेषणविशिष्टैः । अत एव गुणोपेतैः समग्रामात्यगुणोपेतैःतैः अमात्यैः उपपन्न इति योजना । अन्वशासत्लुङि 'सर्तिशास्ति' इत्यङ् ।। 1.7.18 ।। 

 ।। 1.7.19 ।। अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् ।। 19 ।।

प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ।

अवेक्षमाणःस्वपरदेशवृत्तान्तमिति यावत् । अधर्मं परिवर्जयन्निति हेतौ शता ।। 1.7.19 ।। 

 ।। 1.7.20 ।। विश्रुतस्त्रिषु लोकेषु वदान्यस्सत्यसङ्गरः ।। 20 ।।

स तत्र पुरुषव्याघ्रश्शशास पृथिवीमिमाम् ।

अत एव हेतोःविश्रुत इत्यादि । तत्रअयोध्यायाम् ।। 1.7.20 ।। 

 ।। 1.7.21 ।। नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ।। 21 ।।

मित्रवान्नतसामन्तः प्रतापहतकण्टकः ।

स शशास जगद्राजा दिवि देवपतिर्यथा ।। 22 ।।

मित्रवान् । नताः सामन्ताः यस्मै स तथा । कण्टकाःशत्रवश्चोराश्च । यथेतिदिवमिति शेषः ।। 1.7.21 ।। 

 ।। 1.7.22,23 ।। तैर्मन्त्रिभिर्मन्त्रहिते नियुक्तैः

वृतो ऽनुरक्तः कुशलैस्समर्थैः ।

स पार्थिवो दीप्तिमवाप युक्तः

तेजोमयैर्गोभिरिवोदितो ऽर्कः ।। 23 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तमः सर्गः

--

मन्त्र इति । मन्त्रो विचारः, तत्साध्यं हिते तथा । कुशलैःमन्त्रप्रयोगकुशलैः । समर्थैःमन्त्रतत्त्ववेदनसमर्थैः, तेजोमयैःस्वार्थिको मयट् । गोभिःकिरणैः युक्तः उदितःप्राप्तोदयो ऽर्क इवेति योजना ।। 1.7.22,23 ।। 

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तमः सर्गः