Sanskrit Commentaries

अथ त्रिसप्ततितमः सर्गः

[सीतादीनां विवाहः]

 ।। 1.73.1 ।। यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् ।

तस्मिंस्तु दिवसे शूरो युधाजित्त्वभ्युपेयिवान् ।। 1 ।।

अथ संप्राप्तसर्वबन्धुकस्य दशरथस्य सुतविवाहकर्मनिर्वृत्तिः--यस्मिन्नित्यादि । अभ्युपेयिवानिति । दशरथमिति शेषः ।। 1.73.1 ।। 

 ।। 1.73.2 ।। पुत्रः 1केकयराजस्य साक्षाद्भरतमातुलः ।

दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ।। 2 ।।

केकयाधिपती राजा स्नेहात् कुशलमब्रवीत् ।

येषां कुशलकामोसि तेषां संप्रत्यनामयम् ।। 3 ।।

स्नेहात्कुशलमब्रवीदिति । युष्मान् प्रतीति शेषः । अपि च येषां--अस्माकं त्वं कुशलकामो ऽसि तेषां अस्माकपि संप्रत्यनामयमिति चाब्रवीत् ।। 2 ।।

(1 कैकयङ)

( अब्रवीत्अपृच्छदित्यर्थः) ।। 1.73.2 ।। 

 ।। 1.73.4,5 ।। स्वस्त्रीयं मम, राजेन्द्र द्रष्टुकामो महीपतिः ।

तदर्थमुपयातो ऽहमयोध्यां रघुनन्दन ।। 4 ।।

श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान् ।

मिथिलामुपयातांस्तु त्वया सह महीपते

2त्वरया ऽभ्युपयातो ऽहं द्रष्टुकामः स्वसुः सुतम् ।। 5 ।।

स्वसुरपत्यं स्वस्त्रीयः । 'स्वसुश्छः' । --त्वरया ऽभ्युपयातो ऽस्मि, सा ऽयमयोध्यायामदृष्ट्वेह द्रष्टुकाम उपयातो ऽस्मीति योजना । उपयात इति कर्तरि निष्ठा ।। 5 ।।

( मम स्वस्त्रीयंभरतं द्रष्टुकामः महीपतिः केकयराजो वर्तते । अतः भरतनयनायाहमुपयात इत्यर्थः । अयोध्यायां तु तवात्मजान् विवाहार्थं त्वया सह मिथिलामुपयातान् श्रुत्वा त्वरया ऽत्राभ्युपयात इत्यन्वयः ।।)

(2 एतदनन्तरं--तस्य त्वं राजशार्दूल प्रीतिं कर्तुमिहार्हसि । तस्य तद्वचनं श्रुत्वा मधुरं मधुराक्षरम् । इत्यधिकंङ)

( भरत इत्यर्थः) ।। 1.73.5 ।। 

 ।। 1.73.6,7 ।। अथ राजा दशरथः प्रियातिथिमुपस्थितम् ।

दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत् ।। 6 ।।

ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः ।

प्रभाते पुनरुत्थाय कृत्वा कर्मणि कर्मवित् ।। 7 ।।

यज्ञवाटंयज्ञशालां । उपागमदिति । तत्समीपं प्राप्तवानित्यर्थः । प्रवेशो जनकानुमत्या ऽग्रे भविष्यति ।। 1.73.7 ।। 

 ।। 1.73.8,9 ।। ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ।

युक्ते मुहूर्ते विजये सर्वाभरण1भूषितैः ।। 8 ।।

भ्रातृभिस्सहितो रामः कृतकौतुकमङ्गलः ।

2वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि ।। 9 ।।

युक्तेशुभलग्नादिगुणयुक्ते, विजये--विजयप्रदे, विजया3ख्ये च । पुरतः कृत्वा उपागमदित्यनुकर्षः ।। 9 ।।

भगवानेत्येत्यादि । यज्ञवाटान्तर्वार्तिनमिति शेषः ।। 9 ।।

(1 भूषितःङ.)

(2 एतदनन्तरं 'पितुस्समीपमाश्रित्य तस्थौ भ्रातृभिरावृतः' इत्यधिकंङ.)

( विजयप्रदे न तु विजयाख्ये तस्यापराह्निकत्वात् ।गो.)

(3 र्थेक.) ।। 1.73.8,9 ।। 

 ।। 1.73.10 ।। वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ।

राजा दशरथो राजन् कृतकौतुकमङ्गलैः ।। 10 ।।

कृतेति । कृतकौतुकसूत्रधारणरूपाणि मङ्गळानि यैस्ते तथा । दातारं, त्वामिति शेषः ।। 1.73.10 ।। 

 ।। 1.73.11 ।। पुत्रैर्नरवर4 श्रेष्ठ दातारमभिकाङ्क्षते ।

दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि ।। 11 ।।

दातृप्रतिग्रहीतृभ्यामिति । योग इति शेषः । सर्वार्थाःदानधर्मादयः । हियस्मादेवं तस्मात् स्वसाध्यो धर्मो दानरूपः । विवाहोपयुक्तं कर्म लौकिकालोकिकंवैवाह्यं । ष्यञ् छान्दसः ।। 11 ।।

(4 श्रेष्ठैःङ) ।। 1.73.11 ।। 

 ।। 1.73.12 ।। स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ।

इत्युक्तः परमोदारो वसिष्ठेन महात्मना ।। 12 ।।

परमोदारःपरमदाता ।। 1.73.12 ।। 

 ।। 1.73.13 ।। प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ।

कः स्थितः प्रतिहारो मे कस्याज्ञा सम्प्री1क्ष्यते ।। 13 ।।

कः स्थित इति । कः प्रतिहारः स्थितः । येन द्राग्गमनं परिह्रियत इति शेषः । अपि चागत्य वा कस्याज्ञा संप्रतीक्ष्यते । कुत एवमित्यतः--स्वगृह इत्यादि । स्वगृहत्वमेव कथमित्यतःयथेत्यादि । इमान्यासनमुख्यानि आसेतामिति यथोक्तरीत्या इदं राज्यमेव तव । स्वगृहे मम गृहमात्रस्वीयत्वे को विचार इत्यर्थः ।। 13 ।।

(प्रतिहारःद्वारपालःगो)

(1 क्षतेङ.ज) ।। 1.73.13 ।। 

 ।। 1.73.14 ।। स्वगृहे को विचारो ऽस्ति यथा राज्यमिदं तव ।

कृतकौतुकसर्वस्वा वेदिमूलमुपागताः ।। 14 ।।

अपि च कृतस्वकर्तव्येन मयैव युष्मत्प्रतीक्षा क्रियत इत्याह--कृतेत्यादि । कृतं कौतुकसर्वस्वंवैवाहिककृत्स्नमंगळानुष्ठानं याभिस्तास्तथा । वेदिमूलंयज्ञवेदिसमीपं ।। 1.73.14 ।। 

 ।। 1.73.15 ।। मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः ।

1संज्जो ऽहं त्वत्प्रतीक्षो ऽस्मि वेद्यामस्यां प्रतिष्ठितः ।। 15 ।।

अविघ्नं--अविळम्बं यथा तथा कुरुताम्, विवाहकर्मेति शेषः ।। 15 ।।

(1 सद्यो ऽहंङ.) ।। 1.73.15 ।। 

 ।। 1.73.16 ।। 2 अविघ्नं कुरुतां राजा 3किमर्थमवलम्बते ।

तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा ।। 16 ।।

श्रुत्वेति । वसिष्ठमुखादिति शेषः ।। 16 ।।

(2 अविघ्नंकुरुतां ब्रह्मन्ङ)

(3 किमर्थं हि विलम्ब्यतेङ) ।। 1.73.16 ।। 

 ।। 1.73.17 ।। 4प्रवेशयामास सुतान् सर्वानृषिगणानपि ।

ततो राजा विदेहानां वसिष्ठमिदमब्रवीत् ।। 17 ।।

कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक

5 रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो ।। 18 ।।

लोका रमन्ते अस्मिन्निति लोकरामः ।। 23 ।।

(4 एतदनन्तरं--'विश्वामित्रो महातेजा विदेहाधिपतेः करम् । कुशध्वजस्य हस्तं च वसिष्ठो भगवानृषिः । गृहीत्वा प्राविशच्छिष्यैः सहितौ द्विजपुङ्गवो ।। अथ राजा दशरथः पुत्रैः स्त्रीभिश्च संवृतः । सर्वानृषीन् पुरस्कृत्य प्रविवेश महाद्युतिः ।। प्रवेश्यमानं राजानं वसिष्ठं गाधिनः सुतम् । सर्वान्नृषवरान् विप्रान् जनको धर्मवत्सलः ।। वस्त्रैराभरणैश्चैव गन्धपुष्पैश्च साक्षतैः । पूजयामास विधिवद्यथायोग्यं यथाक्रमम् ।। इत्यधिकं क्कचित्ङ.)

(5 एतदनन्तरं--त्वया न विदितं किंचित् नास्ति ब्रह्मविदां वर । तस्मात्त्वमेब्रह्महर्षे अशेषं कर्तुमर्हसि ।। इत्यधिकंङ) ।। 1.73.23 ।। 

 ।। 1.73.19 ।। तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः ।

विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम् ।। 19 ।।

1प्रपामध्ये तु विधिवत् वेदिं कृत्वा महातपा ।

अलंचकार तां वेदिं गंधपुष्पैः समन्ततः ।। 20 ।।

प्रपामध्ये । यज्ञशालामध्य इत्यर्थः । वेदिंविवाहवेदिम् ।। 20 ।।

(1 सभामध्येङ) ।। 1.73.20 ।। 

 ।। 1.73.21 ।। सुवर्णपालिकाबि2श्चा छिद्रकुम्भैश्च साङ्कुरैः ।

अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः ।। 21 ।।

सुवर्णपालिकाभिरिति । साङ्कुराभिरित्याकर्षः । तथा साङ्कुरैः अच्छिद्रकुम्भैः--अच्छिद्रमष्टापदं स्फुटनादिदोषरहितम् स्वर्णकुम्भैरित्यर्थः ।। 21 ।।

(2 श्च छिद्रश्च जलङ. चित्रज)

(छिद्रकुंभैःकरकैःगो.ति--चित्रकुंभैःनानावर्णयुक्तकुंभेःति) ।। 1.73.21 ।। 

 ।। 1.73.22 ।। शङ्खपात्रैः स्रुवैः स्रुग्भिः पात्रैरर्ध्यादिपूरितैः ।

जालपूर्णैश्च पात्रीभिरक्षतै3रभिसंस्कृतैः ।। 22 ।।

अर्ध्यादिपूरितैरिति भावे निष्ठा । अर्ध्यादिदेवपूजाप्रयोजनैरित्यर्थः ।

अभिसंस्कृतैरिति । हरिद्रालेपनादिसंस्कारवद्भिरित्यर्थः ।। 22 ।।

(3 रपि संङ) ।। 1.73.22 ।। 

 ।। 1.73.23 ।। दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम् ।

अग्निमाधाय वेद्यां तु विधिमन्त्रपुरस्कृतम् ।

जुहावाग्नौ महातेजा वसिष्ठो भगवानृषिः ।। 23 ।।

समैःसमप्रमाणैः । समास्तीर्येति । प्रागुक्तविशेषणैरुपलक्षितां वेदिमिति शेषः । विधिनाकल्पोक्तक्रियाकलापेन मन्त्रैश्च पुरस्कृतं तथा । विवाहहोमादीनां वरकृत्यत्वात् तत्पुरोहितो वसिष्ठ एव जुहावेति ।। 1.73.23 ।। 

 ।। 1.73.24 ।। 1ततः सीतां समानीय सर्वाभरणभूषिताम् ।

समक्षमग्नेः संस्थाप्य 2राघवाभिमुखे तदा ।

अब्रवीञ्जनको राजा कौसल्यानन्दवर्धनम् ।। 24 ।।

अग्नेस्समक्षं राघवाभिमुखेराघवपुरःप्रदेशे । नन्दःहर्षः ।। 24 ।।

(1 एतदनन्तरं--पद्मां पद्मवियुक्तां वै केशवाङ्कच्युतामिव । विद्युत्प्रभां विशालाक्षी स्निग्धकुञ्चितमूर्धजाम् । हंसाङ्कितेन क्षौमेण किञ्चित्पीतेन संवृताम् । वासितेनोत्तरीयेण सुरक्तेन सुसंवृताम्' इत्यधिकंङ.)

(2 राघवाभिमुखीङ.) ।। 1.73.24 ।। 

 ।। 1.73.25 ।। इयं सीता मम सुता सहधर्मचरी तव ।

प्रतीच्छ चैनां, भद्रं ते, पाणिं गृह्णीष्व पाणिना ।। 25 ।।

धर्मं चरतीति धर्मचरी । 'चरेष्टः' इति टः, दित्वात् ङीप्, प्रतीच्छ--प्रतिगृहाण, तदर्थं पाणिना पाणिं गृह्णीष्व ।। 25 ।।

(ब्राह्मणस्यैव पाणिग्रहणं, क्षत्रियादेः शरादिग्रहणं विहितं । अतः कथमिदं इति न शङ्कनीयम् । तस्यासवर्णविषयत्वात् । आह च मनुः--पामिग्रहणसंस्कारः सवर्णासु प्रशस्यते । असवर्णास्वयं शेयो विधरुद्वाहकर्मणिः । शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । वासोदशा शूद्रया तु इति ।--गो.) ।। 1.73.25 ।। 

 ।। 1.73.26 ।। परिव्रता महाभागा छायेवानुगता 3सदा ।

4इत्युक्त्वा प्राक्षिपद्राजा 5मन्त्रपूतं जलं तदा ।। 26 ।।

कल्पोक्तकन्यादानमन्त्रेण पूतं जलं प्राक्षिपत्, रामहस्त इति शेषः ।। 26 ।।

(4 एतदनन्तरं 'प्रक्षिप्ते सलिले भूमौ गगने चोत्थिताः स्वनाः, इत्यधिकंङ)

(5 मन्त्रपूर्वङ) ।। 1.73.26 ।। 

 ।। 1.73.27 ।। साधु साध्विति देवानां ऋषीणां वदतां तदा ।

देवदुन्दुभि6निर्घोषः पुष्पवर्षो महानभूत् ।। 27 ।।

वदतामिति भावलक्षणे षष्ठी, वदत्स्विति यावत् ।। 27 ।।

(6 निर्घोषैःङ) ।। 1.73.27 ।। 

 ।। 1.73.28 ।। एवं दत्त्वा तदा सीतां मन्त्रोदकपुरस्कृताम् ।

अब्रवीञ्जनको राजा हर्षेणाभिपरिप्लुतः ।। 28 ।।

मन्त्रेति । दानीयमन्त्रोदकाभ्यां पुरस्कृतां, दानशेषतयेति शेषः ।। 1.73.28 ।। 

 ।। 1.73.29 ।। लक्ष्मणागच्छ, भद्रं ते, 1ऊर्मिळामुद्यतां मया ।

प्रतीच्छ पाणिं गृह्णीष्व, मा भूत् 2कालस्य पर्ययः ।। 29 ।।

उद्यतांदातुं कृतोद्योगां । अत्र ज्येष्ठात् भरतात् पूर्वं लक्ष्मणपरिग्रहस्तु भिन्नोदरत्वात् । 'पितृव्यपुत्रे सापत्ने परनारीसुतेषु च । विवाहदानयज्ञादौ परिवेत्राद्यदूषणम्' इति स्मरणाददोषः । तदपि स्वसुताप्रदानम्, अनन्तरमेव कनिष्ठसुतयोः प्रदातव्यत्वात् ।। 29 ।।

(1 ऊर्मिलां च ममात्मजां--ङ)

( पर्ययःविलम्बः ।)

(2 कालविपर्ययः--ङ) ।। 1.73.29 ।। 

 ।। 1.73.3032 ।। तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ।

गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन ।। 30 ।।

शत्रुघ्नं चापि धर्मात्मा अब्रवी3ज्जनकेश्वरः ।

4श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना ।। 31 ।।

सर्वे भवन्तस्सौम्याश्च सर्वे सुचरितव्रताः ।

पत्नीभिस्सन्तु काकुत्स्था मा भूत् 2कालस्य पर्ययः ।। 32 ।।

सुचरितव्रता इति । स्वनुष्ठितब्रह्मचर्यव्रता इत्यर्थः । पत्नीभिः सहिताः सन्त्विति योजना ।। 32 ।।

( असन्धिरार्षः ।)

(3 न्मिथिलेश्वरःङ)

(4 श्रुतकीर्तर्महा--ङ)

(2 कालविपर्ययः--ङ) ।। 1.73.32 ।। 

 ।। 1.73.33,34 ।। जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन् ।

चत्वारस्ते चतसृणां वसिष्ठस्य मते स्थिताः ।। 33 ।।

अग्निं प्रदक्षिणीकृत्य वेदिं राजानमेव च ।

ऋषींश्चैव महात्मानः सभार्या रघुसत्तमाः ।

1यथोक्तेन तदा चक्रुर्विवाहं विधिपूर्वकम् ।। 34 ।।

वेदिंपालिकाद्युपलक्षितवेदिं । राजाजनकः । यथोक्तेनेति । रामलक्ष्मणभरतशत्रुघ्नलक्षणक्रमेणेत्यर्थः ।। 34 ।।

(1 एतदनन्तरं, काकुत्स्थैश्च गृहीतेषु ललितेषु च पाणिषु । इत्यधिकंङ) ।। 1.73.34 ।। 

 ।। 1.73.35,36 ।। पुष्पवृष्टिर्महत्यासीत् अन्तरिक्षात्सुभास्वरा ।

दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः ।। 35 ।।

ननृतुश्चाप्सरस्सङ्घा गन्धर्वाश्च जगुः कलम् ।

विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ।। 36 ।।

तदद्भुतमिति । पुष्पवृष्ट्यादिकमित्यर्थः ।। 1.73.36 ।। 

 ।। 1.73.37 ।। ईदृशे वर्तमाने तु तूर्योद्धुष्टनिनादिते ।

त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः ।। 37 ।।

तूर्याणां घुष्टैःघोषैः निनादितंतथातादृशकाल इत्यर्थः । अविशब्दनत्वात् 'घुषिरविशब्दने' इति नेट् । त्रिरग्निमित्यादिः उपसंहारेण वादः ।। 37 ।।

(शब्देन स्वाभिप्रायप्रकाशनं विशब्दनम् ।) ।। 1.73.37 ।। 

 ।। 1.73.38 ।। 2अथोपकार्यां जग्मुस्ते सभार्या रघुनन्दनाः ।

राजा ऽप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः ।। 38 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिसप्ततितमस्सर्गः

--

पश्यन्निति । वधूवरसंसर्गकल्याणमिति शेषः । दण्ड (38) मानः सर्गः ।। 38 ।।

(2 एतदनन्तरं 'प्रीयमाणो दशरथः पुत्रान् पुत्रवतां वरः' इत्यधिकं--ङ) ।। 1.73.38 ।। 

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिसप्ततितमः सर्गः