Sanskrit Commentaries

अथ चतुस्सप्ततितमः सर्गः

[परशुरामाभियोगः]

 ।। 1.74.1 ।। अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः ।

1आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् ।। 1 ।।

अथ भार्गवगतिहरणरूपश्रीरामदिव्यचरितवर्णनशेषतया भार्गवप्रादुर्भाववर्णनं प्रतिप्रयाणसमये । अथेत्यादि । आपृष्ट्वाआपृच्छ्येति यावत् । उत्तरपर्वतंपूर्वमेवाध्यासिषितकौशिकीप्रदेशीयमिति शेषः ।। 1 ।।

(1 अपृच्छयाथ चङ.ज) ।। 1.74.1 ।। 

 ।। 1.74.2,3 ।। विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् ।

2 आपृष्ट्वा ऽथ जगामाशु राजा दशरथः पुरीम् ।। 2 ।।

अथ राजा विदेहानां ददौ कन्याधनं बहु ।

गवां शतसहस्राणि बहूनि मिथिलेश्वरः ।। 3 ।।

कन्याधनं बहु ददावित्यस्यैव प्रपञ्चनम्गवामित्यादि । मुख्यानां कम्बळानांरत्नकम्बळानां बहुनीति योजना । क्षौमान् बहूनिति विपरिणामः । पुंस्यप्यस्ति क्षौमः । कोट्यम्बराणि कोटिसङ्ख्याकानि सामान्यप्रच्छदपटानि ।। 3 ।।

(2 एतदनन्तरं 'गच्छन्तं तं तु राजानमन्वगच्छन्नराधिपः' । इत्यधिकं ङ.) ।। 1.74.2,3 ।। 

 ।। 1.74.4 ।। कम्बलानां च मुख्यानां 3क्षौमान् कोट्यम्बराणि च ।

हस्त्यश्वरथपादातं दिव्यरूपं स्वलङ्कृतम् ।। 4 ।।

हस्तीत्यादि । सेनाङ्गत्वादेकत्वम् । तासामिति । राजकुमारीणामित्यर्थः । कन्याशतदानं अन्तरङ्गपाकादिव्यवहाराय । दासीदासदानं जलाहरणावहननादिबाह्यव्यापाराय । गवाश्वादित्वादेकत्वम् ।। 4 ।।

(3 क्षौमकोट्यम्बराणिङ.ज)

( कोट्यम्बराणिउत्कृष्टवस्त्राणि वागो) ।। 1.74.4 ।। 

 ।। 1.74.5 ।। ददौ कन्यापिता तासां दासीदासमनुत्तमम् ।

हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ।। 5 ।।

हिरण्यमिति रजतं । पूर्वमेव (303 पुटे) तथा प्रतिपादितम् ।। 1.74.5 ।। 

 ।। 1.74.6 ।। ददौ परमसंहृष्टः कन्याधनमनुत्तमम् ।

दत्त्वा बहु धनं राजा समनुज्ञाप्य पार्थिवम् ।। 6 ।।

पार्थिवंदशरथं ।। 1.74.6 ।। 

 ।। 1.74.7 ।। प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः ।

राजा ऽप्ययोध्याधिपतिस्सर पुत्रैर्महात्मभिः ।। 7 ।।

बलैःचतुरङ्गैः, अनुगैः किंकरैश्च सहितस्तथा ।। 1.74.7 ।। 

 ।। 1.74.8 ।। 1ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः ।

गच्छन्तं तं नरव्याघ्रं सर्षिसङ्घं सराघवम् ।। 8 ।।

गच्छन्तं दशरथं इति शेषः । पक्षिणः करटादयः ।। 8 ।।

(1 एतदनन्तरं 'बाहिनीं महतीं कर्षन् कीर्तिमांश्च ययौ तदा । ' इत्यधिकंङ) ।। 1.74.8 ।। 

 ।। 1.74.9 ।। घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः ।

भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ।। 9 ।।

एवमान्तरिक्षं दुर्निमित्तम् । अथ भौमं मृगप्रदक्षिणगमनं सुनिमित्तम्भौमा इत्यादि ।। 1.74.9 ।। 

 ।। 1.74.10 ।। तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत ।

असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः ।। 10 ।।

तान्शुभाशुभनिमित्तविशेषान् । हृदयं उत्कंपयितुं शीलमस्येति हृदयोत्कंपि इदं किमिति । दुःखोदर्कं सुखोदर्कं वा भविष्यतीति मे मनो विषीदति । अशक्यनिश्चयादिति शेषः ।। 1.74.10 ।। 

 ।। 1.74.11,12 ।। किमिदं हृदयोत्कंपि ? मनो मम विषीदति ।

राज्ञो दशरथस्यैतच्छ्रत्वा वाक्यं महानृषिः ।। 11 ।।

उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम् ।

उपस्थितं भयं घोरं 1दिव्यं पक्षिमुखाच्च्युतम् ।। 12 ।।

दिविखे भवं दिव्यं । तत्पक्षिमुखान् च्युतं वचनं घोरं भयमावेदयतीति शेषः । प्रशमयन्तीति । प्रशमं सूचयन्तीत्यर्थः ।। 12 ।।

(1 दिव्यपक्षि.ङ) ।। 1.74.12 ।। 

 ।। 1.74.13 ।। मृगाः प्रशमयन्त्येते सन्तापस्त्यज्यतामयम् ।

तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह ।। 13 ।।

संवदतांभावलक्षणषष्ठी ।। 13 ।।

(तेषां संवदतामित्यत्र पुर इति शेषःसि. दशरथादिषु संवदत्सुगो.शि.) ।। 1.74.13 ।। 

 ।। 1.74.14 ।। कम्पयन् पृथिवीं सर्वां पातयंश्च 2द्रुमान् शुभान् ।

तमसां संवृतः सूर्यः 3 सर्वा न प्रबभुर्दिशः ।। 14 ।।

तमो भस्म चोभयमप्युत्पातजम् ।। 14 ।।

(2 महाद्रुमान्ङ)

(3 सर्वे नावेदिषुर्दिशःङ.ज) ।। 1.74.14 ।। 

 ।। 1.74.15 ।। भस्मना चावृतं सर्वं संमूढमिव तद्बलम् ।

वसिष्ठश्चर्षयश्चान्ये राजा च ससुतस्तदा ।। 15 ।।

ससंज्ञाःइवेति एवार्थे । राजा चैवेति योजना ।। 15 ।।

(वसिष्ठः, अन्ये ऋषयश्च, राजा च सशङ्का इवासन्--अन्यत्सर्वं विचेतनमासशि. ससंज्ञा इवईषत्संज्ञाः । अन्यत्तु बलं निस्संज्ञमेव ।) ।। 1.74.15 ।। 

 ।। 1.74.16 ।। 4ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम् ।

तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः ।। 16 ।।

भस्मच्छन्नेवछन्नैवेति यावत् । भीमसंकाशंभयङ्करदर्शनम् ।। 16 ।।

(4 सशङ्काज विसंज्ञाङ) ।। 1.74.16 ।। 

 ।। 1.74.17 ।। ददर्श 5भीमसंकाशं जटामण्डलधारिणम् ।

भार्गवं जामदग्न्यं तं 1राजराजविमर्दनम् ।। 17 ।।

कैलासमिवेति । अनेन महाकारत्वमुक्तं । दुर्धर्षं--अशक्यातिक्रमम् ।। 17 ।।

(5 हिमसंकाशंङ)

(1 दिव्यपक्षिङ) ।। 1.74.17 ।। 

 ।। 1.74.18 ।। कैलासमिव दुर्धर्षं कालाग्निमिव दुस्सहम् ।

ज्वलन्तमिव तेजोभिर्दुर्निरीक्षं पृथग्जनैः ।। 18 ।।

स्कन्धे 2चासाद्य परशुं धनुर्विद्युद्गणोपमम् ।

प्रगृह्य 3शरमुख्यं च त्रिपुरघ्नं यथा शिवम् ।। 19 ।।

पृथग्जनःपामरजनः । विद्युद्गणोपमत्वं प्रभातिशयवत्त्वे दृष्टान्तः । त्रिपुरघ्नं यथारुद्रमिव स्थितमित्यर्थः । 'अमनुष्यकर्तृके च' इति हन्तेष्टक् ।। 19 ।।

(2 चासज्यङ.ज)

(3 शरमुग्रंङ.ज) ।। 1.74.19 ।। 

 ।। 1.74.20 ।। 4तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम् ।

वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः ।। 20 ।।

जपहोमेति । यद्यपि तत्काले न समस्ति मुख्यहोमः, अथापि 'अपाने जुह्वति प्राणम्' इत्याद्युपदिष्टो गौणः ।। 20 ।।

(4 एतदनन्तरं 'यथा कृष्णगतिं घोरं युगान्ते प्रोद्यतं तथा । ' इत्यधिकम्ङ)

( होमः मानसःगो. जपहोमपरायणत्वमुपलक्षणम् । अतएवाग्रे संजजल्पुरिति सङ्गच्छते । अन्यथा तादृशहोमादिपरायणानां जलासंभवादित्याहुःति. परंतु 'संजजल्पुरथो मिथः' इत्यत्र अथशब्द स्वारस्यान्न विरोधः । प्रथमं शान्त्यर्थं जपादिकं किञ्चित्कृत्वा ततः संजजल्पुरित्यर्थः ।।) ।। 1.74.20 ।। 

 ।। 1.74.21 ।। संगता मुनयः सर्वे संजजल्पुरथो मिथः ।

कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ।। 21 ।।

कच्चिदिति विमर्शः ।। 1.74.21 ।। 

 ।। 1.74.22,23,24 ।। पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः ।

क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ।। 22 ।।

एवमुक्त्वा ऽर्ध्यमादाय भार्गवं भीमदर्शनम् ।

ऋषयो राम रामेति वचो मधुरमब्रुवन् ।। 23 ।।

प्रतिगृह्य तु तां पूजां ऋषिदत्तां प्रतापवान् ।

1 रामं दाशरथिं रामो जामदग्न्यो ऽभ्यभाषत ।। 24 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुस्तप्ततितमः सर्गः

--

घोर (24) मानः सर्गः ।। 24 ।।

(1 एतदनन्तरं 'तस्मिंस्तु घोरे जमदग्निसूनुना त्वासादिते राममभि प्रकोपे ।। दृढं नरेन्द्रस्य बलं महाबलं भयं प्रविष्टं च विषादितं च ।। इत्यधिकंङ.) ।। 1.74.24 ।। 

इति श्रीमद्रामायणामृतकतकटीकायां, बालकाण्डे चतुस्सप्ततितमः सर्गः