Navigation
Home
Content
Shloka's
2 Book View
Commentaries
English
2 Book View
Sanskrit
2 Book View
Summaries
2 Book View
Quick Links
Introduction
Glossary
Related Links
About Project
Contact Us
Gita Supersite
Login
Sanskrit Commentaries
Language
Assamese
Bengali
Devanagari
Gujarati
Gurmukhi
Kannada
Malayalam
Oriya
Roman
Tamil
Telugu
Commentary
BHUSANA
DHARMAKUTAM
KATAKA
SIROMANI
TANISLOKI
TATTVADIPIKA
TILAKA
Kanda
BALAKANDA
AYODHYAKANDA
ARANYAKANDA
KISHKINDAKANDA
SUNDARAKANDA
YUDDHAKANDA
Sarga
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
‹
›
अथ सप्तसप्ततितमः सर्गः
[अयोध्यावासः]
।। 1.77.1 ।। गते रामे प्रशान्तात्मा रामो दाशरथिधर्नुः ।
वरुणायाप्रमेयाय ददौ हस्ते 1ससायकम् ।। 1 ।।
अथ संपूर्णकामतया दशरथस्य पुरप्रवेशादिःगते राम इत्यादि । परशुराम इति यावत् । हस्तेस्वहस्ते स्थितं सायकं धनुश्च वरुणाय ददौ, न्यासात्मनेति शेषः । वरुणस्याप्रमेयत्वं" भृगुर्वै वारुणिः । वरुणं पितरमुपससार' इत्यादिना साक्षात् शुद्धब्रह्मविद्याप्रवर्तकदेशिकेन्द्रत्वादप्रमेयवैभवत्वम् । तस्य च सत्त्वप्रधानतो ब्रह्मण आन्तरमूर्तित्वात् ब्रह्मणा रामेणाप्ते एतस्मिन् प्रदानम् । एवं वरुणादिमहामहादेवतानामपि स्वेष्टविनियोजकत्वेन भगवान् रामो ब्रह्मा स्वावगमः । वरुणायेत्यादौ षष्ठ्यर्थे चतुर्थ्याश्रये तु पाङ्क्तो ऽर्थः ।। 1 ।।
(वरुणायदेवैस्सह कौतुकदर्शनार्थमन्तरिक्षे स्थितायति, अप्रमेयायअन्यैः अयं वरुण इति तस्मिन् काले प्रमातुमशक्यामशि. अप्रमेयायअदृश्यायगो । अत्र ससायकं धनुरिति वा ऽन्वयः)
(1 महायशाः.ङ.ज) ।। 1.77.1 ।।
।। 1.77.2 ।। अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन् ।
पितरं 2विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः ।। 2 ।।
विह्वलःपरवशः ।। 2 ।।
( विह्वलंपरवशं । अनेन परशुरामेण कृतां परत्वसूचिकां स्तुतिं वरुणाय धनुर्दानं च दशरथो न ज्ञातवानिति गम्यतेगो. धनुर्दानवृत्तान्तस्य मायया तिरोधानमन्यान् प्रतिति. अत्र विह्वलत्वं भयकृतमिति युक्तम् । पूर्वं परशुरामात् भयाविष्करणात्, 'गतो राम इति श्रुत्वा हृष्टः' इत्यनन्तरमेवोक्तश्च.) ।। 1.77.2 ।।
।। 1.77.3 ।। जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी ।
1अयोध्याभिमुखी सेना त्वया नाथेन पालिता ।। 3 ।।
चतुरङ्गिणीति । 'प्रातिपदिकान्तनुम्' इत्यादिना णत्वम् ।। 3 ।।
(1 एतदनन्तरंसंदिशस्व महाराज सेनां त्वच्छासने स्थिताम् । शासनं काङ्क्षते सेना चातकालिर्जलं यथा ।। 4 ।। इत्यधिकं.ङ.) ।। 1.77.3 ।।
।। 1.77.4 ।। रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् ।
बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम् ।। 4 ।।
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।
पुनर्जातं तदा मेने पुत्रमात्मानमेव च ।। 5 ।।
तां सेनांप्रथमं क्षुभितां पश्चात् प्राप्तश्वासां चेत्यर्थः । प्रतिबन्धाभावात् पुरीं चाशु जगाम ।। 1.77.5 ।।
।। 1.77.6 ।। चोदयामास तां सेनां, जगामाशु ततः पुरीम् ।
पताकाध्वजिनीं रम्यां तूर्योद्धुष्टनिनादिताम् ।। 6 ।।
अस्यैव विस्तरःपताकेत्यादि । पताकाध्वजपटः । ध्वजः--दम्डः । पताकान्विता ध्वजास्सन्ति अस्या इति तथा । उद्धुष्टमिति भावे निष्ठा ।। 6 ।।
( यद्यप्यत्र पताकाध्वजपटः, ध्वजःदण्डः इति गोविन्दराजैरपि व्याख्यातम्, अथापि तैरेव अन्यत्र (अयो623) ध्वजाःसचिहाः, पताकाःचिहरहिताः, इति व्याख्यातम् । तदेवात्रापि युक्तं ग्रहीतुमिति ।। (ह्रस्वदीर्घध्वजभेद इत्यप्याहुःगो) ।। 11.77.6 ।।
।। 1.77.7 ।। 2 सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् ।
राजप्रवेशसुमुखैः पौरैर्मङ्गल1वादिभिः ।। 7 ।।
मङ्गलंआशीर्वदनं वदितुं शीलमस्त्येषामिति तथा ।। 7 ।।
(2 सिक्तराजपथैरम्यां, सिक्तराजपथारम्यांज)
( रम्यामिति पुनरुक्तिः तत्तद्द्विशेषणरमणीयत्वाभिप्रायेणगो. सिक्तैः राजपथैः रम्यांशि. सिक्तेन राजपथेन आसमन्तात् रम्यांति.) ।। 1.77.7 ।।
।। 1.77.8 ।। संपूर्णां प्राविशद्राजा जनौघैः समलङ्कृताम् ।
पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः ।। 8 ।।
श्रीमद्भिरिति । दारपरिग्रहादधिकलक्ष्मीवद्भिः ।। 1.77.8 ।।
।। 1.77.9 ।। पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः ।।
प्रविवेश गृहं राजा हिमवत्सदृशं पुनः ।। 9 ।।
हिमवत्सदृशमिति । अनेन सुधालेपजधावल्यमौन्नत्यं च लक्ष्यते । सजनःसबन्धुजनः गृहे विद्यमानः । काम्यन्त इति कामाःविषयभोगपरिकरस्रक्चन्दनाभरणादयः तैः सुपूजितःप्राप्तपूजःप्राप्तानन्दइत्यर्थः ।। 1.77.9 ।।
।। 1.77.10 ।। ननन्द सजनो राजा गृहे कामैः सुपूजितः ।
कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ।। 10 ।।
वधूनांस्नुषाणां प्रतिग्रहःआरात्र्यादिमङ्गलाचारपूर्वकः । राजयोषितःदशरथपत्न्यः ताश्च वधूप्रतिग्रहे युक्ताः ।। 1.77.10 ।।
।। 1.77.11 ।। 2वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः ।
ततः सीतां महाभागामूर्मिलां च यशस्विनीम् ।। 11 ।।
कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः ।
मङ्गला1लपनैश्चैव शोभिताः क्षौमवाससः ।। 12 ।।
मङ्गलार्थमालपनमाशीर्वादः तैरुपलक्षिता इति शेषः । देवतायतनंपुरदैवत3गृहदैवतायतनवेदिः । प्रत्यपूजयन्निति । प्रणमन्ति स्म ।। 12 ।।
(2 एतदनन्तरंराम च लक्ष्मणं चैव शत्रुघ्नं भरतं तथा । आर्चयन्मङ्गलासीर्भिर्मङ्गलैरभ्यपूजयन् । उपहारैश्च संहृष्टाः कुमारानभिपूज्य च ।। इत्यधिकंङ.)
( देवतायतनानिगृहदेवतानामर्चागृहाणि, प्रत्यपूजयन्--गन्धपुष्पादिभिरपूजयन् । आयतनपूजामात्रे स्त्रीणामधिकारादिति भावःगो.)
(1 लपनैर्होर्मेःज., लंभनैश्चैवङ.)
(3 ग्रामग.) ।। 1.77.12 ।।
।। 1.77.13,14 ।। देवतायतनान्याशु 2सर्वास्ताः प्रत्यपूजयन् ।
4अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ।। 13 ।।
5रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ।
कृतदाराः 6कृताज्ञाश्च सधनाः ससुहृञ्जनाः ।। 14 ।।
अभिवादार्हाःअभिवाद्या । कृताज्ञाःअनुष्ठितपितृनियोगाः । सधनाःस्वस्वभोगोपयुक्तजीवाजीवधनसहिताः ।। 14 ।।

(2 यथार्हं.घ)
(4 एतदनन्तरं 'स्वं स्वं गृहमथा ऽ ऽसाद्य कुबेरभवनोपमम् । गोभिर्धनैश्च धान्यैश्च तर्पयित्वा द्विजोत्तमान्ङ.)
(5 एतदनन्तरंकुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि । अधिकम्ङ)
(6 कृतास्त्राश्चङ) ।। 1.77.14 ।।
।। 1.77.15 ।। 7शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः ।
8कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ।। 15 ।।
कस्यचित्कालस्येति । अत्यय इति शेषः ।। 15 ।।
(7 एतदनन्तरंकालेकाले तु नीतिज्ञास्तोषयन्तो गुरुं गुणैः । अधिकंङ.)
( वर्तयन्तिवर्तन्ते, णिजर्थो ऽविवक्षितः.शि)
(8 एतदनन्तरंअभिवादयितुं प्राप्तं श्यामं कमललोचनम् । अक्लिष्टकारिणं शूरं परसैन्यविमर्दनम् । विनयं देहयोगेन संप्राप्तमिव संस्थितम् । अधिकम्ङ) ।। 1.77.15 ।।
।। 1.77.16 ।। भरतं कैकयीपुत्रमब्रवीद्राघुनन्दनः ।
अयं केकयराजस्य पुत्रो वसति पुत्रक ।। 16 ।।
मातुलस्तवेति । अतो गत्वा ऽ ऽगच्छेति शेषः ।। 1.77.16 ।।
।। 1.77.17 ।। 1 त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव ।
2 श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः ।। 17 ।।
एतदिति । वाक्यमिति शेषः ।। 17 ।।
(1 एतदनन्तरं 'प्रार्थितस्तेन धर्मज्ञ मिथिलायामहं तदा । ऋषिमध्ये तु तस्य त्वं प्रीति कर्तुमिहार्हसि ।। इत्यधिकम्ङ.) ।। 1.77.17 ।।
।। 1.77.18 ।। गमनायाभिचक्राम शत्रुघ्नसहितस्तदा ।
आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ।। 18 ।।
अक्लिष्टंकस्यापि दुःखरहितं यथा भवति तथा कर्तुं शीलमस्त्यस्येति तथा ।। 18 ।।
( 18 सर्गे रामलक्ष्मणयोरिव भरतशत्रुघ्नयोः सौभ्रात्रातिशयः प्रत्यपादि.)
('अक्लिष्टव्रतधर्मज्ञः' इत्यादाविव विनैव क्लेशं उत्साहेनानायासतः सर्वं कर्तुं समर्थ इति वा ऽर्थः) ।। 1.77.18 ।।
।। 1.77.19 ।। 3मातृश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ ।
गते च भरते रामो लक्ष्मणश्च महाबलः ।। 19 ।।
पितरं देवसंकाशं पूजयामासतुस्तदा ।
पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ।। 20 ।।
चकार रामो धर्मात्मा प्रियाणि च हितानि च ।
मातृभ्यो मातृकार्याणि 1कृत्वा परमयन्त्रितः ।। 21 ।।
परमंअत्यन्तं यन्त्रितःश्रुतिस्मृतिमर्यादानतिलंघी । गुरुकार्याणीति । गुरूचितशुश्रूषादिकार्याणीति यावत् ।। 21 ।।
(1 राज्ञाङ) ।। 1.77.21 ।।
।। 1.77.22 ।। गुरूणां गुरुकार्याणि काले काले ऽन्ववैक्षत ।
एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ।। 22 ।।
तथा नैगमाःवणिजः । विषयवासिन इति । प्रीता इति विपरिणामः ।। 1.77.22 ।।
।। 1.77.23 ।। रामस्य शील2वृत्तेन सर्वे विषयवासिनः ।
तेषामतियशा लोके रामः सत्यपराक्रमः ।। 23 ।।
तेषां चतुर्णां मध्ये सत्यपराक्रमः राम एव लोके गुणवत्तरःअतिशयेनानन्तकल्याणगुणसम्मतो बभूव । यथा भगवान् स्वयम्भूः देवासुरान्तसकलसंसारिणां साधारण्येन निस्तुलाधिकजाग्रन्निर्मलनिसर्गभूमविद्यैश्वर्यानन्दवैभवेन सज्जनसाधारणनिरयभरणस्वर्गप्रापणपरमापवर्गान्तसकलपुरुषार्थसाक्षात्साधकत्वेन सर्वसम्मतसर्वोपसेव्यानन्तकल्याणगुणो भवति, उपादानत्वेन सर्वात्मकत्वाच्च सर्वसम्मतसच्चिदानन्दतत्त्वतत्स्वरूपत एवाविवादतस्सर्वलोकसम्मतविद्यैश्वर्यादिगुणो भवति तथेत्यर्थः ।। 23 ।।
(2 वृत्ताभ्यांङ) ।। 1.77.23 ।।
।। 1.77.24 ।। स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ।
रामस्तु सीतया सार्धं विजहार बहूनृतून् ।। 24 ।।
मनस्वीअनुकूलमनस्कः । अतः तद्गतःतया सीतया अभिगतःनित्यसेव्यमानः आस्थान्यवस्थानादिना असन्निधाने ऽपि तस्य हृदि तया नित्यं समर्पितःसततोत्कण्ठितो भवति ।। 1.77.24 ।।
।। 1.77.25 ।। मनस्वी 3 तद्गतस्तस्या नित्यं हृदि समर्पितः ।
प्रिया तु सीता रामस्य दाराः पितृकता 1इति ।। 25 ।।
सीता रामस्य पितृकृता दारा इति तु विशिष्य प्रिया भवति । उत्तमस्त्रीत्वादेव स्वतः प्राप्ता प्रीतिस्सीतायां पितृकृतत्वेन बहुमाननास्पदभूता चाभूदित्यर्थः । न केवलं पितृकृतेति प्रीतिः, अपि तु गुणात्इष्टशिष्टहितकारित्वादिपातिव्रत्यगुणात् । रूपंआत्मीयनिस्तलाधिकसौन्दर्यात्मकगुणस्तथा । भूयःअभ्यधिकं रामस्यास्यां प्रीतिरवर्धत ।। 25 ।।
( तस्यां गतःइति वा ऽर्थः)
(3 तद्गतमनाःङ)
(अत्र पितृपदेन दशरथो विवक्षितः । अथवा 'इयं सीता मम सुता' इत्यादिना सीतायाः जनकेन दानात् पिता ऽत्र सीतापिता विवक्षितः । सीताविवाहस्य स्वयंवरत्वव्यावृत्तये इदं विशेषणम् । यद्यपि अयोध्याकाण्डान्ते--अनसूयया सीतां प्रति तत्स्वयंवरवृत्तान्त एव पृष्टः, अथापि सीता 'मम पित्रा त्वहं दत्ता' इत्येवं प्रत्यवोचत् । एवञ्च सीताविवाहः वीर्यशुल्कप्रधानः गौणः स्वयंवर इति ।।)
(1 इवङ) ।। 1.77.25 ।।
।। 1.77.26 ।। 2गुणाद्रूपगुणाच्चापि प्रीतिर्भूयो ऽभ्यवर्धत ।
तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ।। 26 ।।
तस्याश्च हृदये भर्ता रामः गुणाद्रूपगुणाच्च द्विगुणं परिवर्तते स्म । उभयोः परस्परोङ्गितज्ञानं स्नेहमूलकं प्रदर्श्यते--अन्तरित्यादि । तस्य रामस्यान्तर्जातमपि हृदयंहार्दाभिप्रायं मैथिली हृदास्वहृदयेन ज्ञात्वा भूयःअभ्यधिकं व्यक्तं विशेषेणैव एवमेवेति विविच्य आख्याति स्म । एवं सो ऽपि सीतायाः ।। 26 ।।
(2 एतदनन्ततरं--तथैव रामस्सीताया प्राणेभ्यो ऽपि प्रियो ऽभवत् । हृदयं त्वेव जानाति प्रीतियोगं परस्परम् ।। अधिकम्ङ) ।। 1.77.26 ।।
।। 1.77.27 ।। अन्तर्जातमपि व्यक्तं आख्याति हृदयं हृदा ।
तस्य भूयो विशेषेण मैथिली जनकात्मजा ।। 27 ।।
देवताभिस्समेति । मानुषावतारे ऽपीति शेषः । अत एव श्रीरिवेति उपमा ऽपि श्रिया एव सत्या । अत एवोत्तरश्लोकोपमा ऽप्युभयोः ।। 1.77.27 ।।
।। 1.77.28 ।। देवताभिः समा रूपे सीता श्रीरिव रूपिणी ।
तया स राजर्षिसुतो ऽभिरामया
समेयिवानुत्तमराजकन्यया ।
अतीव रामः शुशुभे ऽतिकामया
विभुः श्रिया विष्णुरिवामरेश्वरः ।। 28 ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे सप्तसप्ततितमः सर्गः
समाप्तश्च बालकाण्डः
--
1अदुःखमानः (28 12) सर्गः ।। 28 ।। ।। 1.77.28 ।।
बालकाण्डे तु सर्गाणां कथिता सप्तसप्ततिः ।
श्लोकानां द्वे सहस्रे च साशीतिशतकद्वयम् ।।
यस्सर्वोपनिषव्द्याख्या मङ्गलाभरणं व्यधात् ।
ब्रह्म जिज्ञासतां तस्मै नमो माधवयोगिने ।।
( अमरेश्वरःविष्णुः श्रियेव, मूर्तिभेदेनोपमानत्वम्गो)
( क पुस्तके अन्ते इदं पद्यमधिकं दृश्यते--
दयानिधे राघव रामचन्द्र निरस्य पापानि ममाखिलानि ।
त्वय्येव भक्तिं सुदृढां प्रयच्छ सैव प्रसूते सकलानभीष्टान् ।।)
(1 अजरमानःग)
इति श्रीमद्रामायणामृतकतकटीकायां श्रीमन्माधवयोगिविरचितायां बालकाण्डे सप्तसप्ततितमः सर्गः
बालकाम्डव्याख्या समाप्ता