Navigation
Home
Content
Shloka's
2 Book View
Commentaries
English
2 Book View
Sanskrit
2 Book View
Summaries
2 Book View
Quick Links
Introduction
Glossary
Related Links
About Project
Contact Us
Gita Supersite
Login
Sanskrit Commentaries
Language
Assamese
Bengali
Devanagari
Gujarati
Gurmukhi
Kannada
Malayalam
Oriya
Roman
Tamil
Telugu
Commentary
BHUSANA
DHARMAKUTAM
KATAKA
SIROMANI
TANISLOKI
TATTVADIPIKA
TILAKA
Kanda
BALAKANDA
AYODHYAKANDA
ARANYAKANDA
KISHKINDAKANDA
SUNDARAKANDA
YUDDHAKANDA
Sarga
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
‹
›
अथ षट्षष्टितमः सर्गः
[परशुरामप्रतिष्टम्भनम्]
।। 1.76.1 ।। श्रुत्वा तञ्जामदग्न्यस्य वाक्यं दाशरथिस्तदा ।
गौरवाद्यन्त्रितकथः1 पितू राममधाब्रवीत् ।। 1 ।।
अथ रामेण जामदग्न्यसंहारः--श्रुत्वेत्यादि । पितुर्गौरवादिति । पितृसन्निधिगौरवादित्यर्थः । यन्त्रितानियमिता कथाउच्चैः कथनं येन स तथा ।। 1 ।।
(1 जामदग्न्यमथाङ)
(कथाआत्मश्लाधनं, अधिकभाषणं वा । तेन रामस्य परशुरामवैलक्षण्यमुक्तं भवति ।।) ।। 1.76.1 ।।
।। 1.76.2 ।। श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव
1अनुरुध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ।। 2 ।।
श्रुतेत्यादि । पितुरानृण्यंपितृघातृक्षत्रवधेन पितृवैरशुद्धिं आस्थितस्सन् यत्कर्मत्रिस्सप्तकृत्वः क्षत्रवधरूपं कृतवान् असि तच्छ्रुतवानस्मि । तदेनमनुरूध्यामहे--2अनुरुन्ध्मः--अङ्गीकुर्मः, अवश्यं शूरेण वैरशुद्धेः कर्तव्यत्वात्, कर्तरि यगार्षः ।। 2 ।।
(1 अनुरुन्ध्यामहेज)
(2 अनुसरामःग)
( 'अनो रुध कामे' इति धातुर्वा ऽयम्.) ।। 1.76.2 ।।
।। 1.76.3 ।। वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव
अवजानासि 3मे तेजः पश्य मे ऽद्य पराक्रमम् ।। 3 ।।
अपि तु वीर्यहीनं अत एव क्षत्रधर्मेण प्राप्ते धनुर्ग्रहयुद्धादौ अशक्तमिव मन्यमानो यन्मां अवजानासि, 'क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व' इत्यादिवचनेनावमानं कृतवानसि, तन्नानुरुध्यामहे । 'अस्मदोर्द्वयोश्च' इति चकारादेकस्मिन्नपि बहुवचनम् । यदेवमतः--तेज इत्यादि । तेजः--पराभिभवासहनं । तच्च तच्च तन्मूलं पराक्रमं स्वशक्त्या पराभिभवनरूपव्यापाररूपं च पश्य ।। 3 ।।
( क्षत्रधर्मेण स्थितं, अत एव अशक्तं--ब्राह्मणोद्देश्यकातिभाषणासामर्थ्यरहितं मां त्वं वीर्यहीनमिवावजानासिशि.)
(3 मां रामङ) ।। 1.76.3 ।।
।। 1.76.4 ।। इत्युक्त्वा राघवः क्रुद्धो भागर्वस्य शरासनम् ।
शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः ।। 4 ।।
इत्युक्त्वा क्रुद्धः--प्रागुक्तरूपावमानवचनेन 4क्रुद्धः । एवं क्रोधाविष्टत्वादेव तद्धस्तात्स्वयमेव धनुरादेर्बलात् प्रतिग्रहः । लघुःशीघ्रः पराक्रमो यस्य स तथा ।। 4 ।।
( चात् भार्गवनिष्ठां वैष्णवींशक्ति৷৷.अग्रे वक्ष्यति 'निर्वीर्यो जामदग्न्यो ऽसौ' इतिति.)
(4 क्रोधःघ.) ।। 1.76.4 ।।
।। 1.76.5 ।। आरोप्य स धनू रामः शरं सज्यं चकार ह ।
जामदग्न्यं ततो रामं रामः क्रुद्धो ऽब्रवीद्वचः ।। 5 ।।
स रामो धनुरारोप्य--ज्यारोपं कृत्वा, शरं सज्यं--ज्यासहितं चकार । सन्धानं कृतवानिति यावत् ।। 1.76.5 ।।
।। 1.76.6,7 ।। ब्राह्मणो ऽसीति पूज्यो मे विश्वामित्रकृतेन च ।
तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् ।। 6 ।।
इमां1 वा त्वद्गतिं राम तपोबल2समार्जितान् ।
लोकानप्रतिमान् वा ते हनिष्यामि यदिच्छसि ।। 7 ।।
ब्राह्मणो ऽसीति । जमदग्निबीजत्वेन ब्राह्मण इति कृत्वा सामान्यतः पूज्यो ऽसि--वधानर्हो ऽसि । अपि च विश्वामित्रकृतेनविश्वामित्रभागिनेयसुतत्वेन च हेतुना पूज्यो ऽसीति यतः तस्मात् इमां प्रत्यक्षसिद्धां त्वद्गतिंगतिसाधनपादावित्यर्थः । लोकानिति । लोकप्राप्तिमार्गमित्यर्थः । यदिच्छसीति । उभयोर्मध्ये तद्वदेति शेषः ।। 7 ।।
(विश्वामित्रकृतेन--विश्वामित्रकृतेन स्नेहेन विश्वामित्रभगिन्यां सत्यवत्स्यां ऋचीकाञ्जातो जमदग्निः, तस्य पुत्रः परशुरामः इति विश्वामित्रसम्बन्धेनेत्यर्थःगो. विश्वामित्रात्--अस्मद्गुरुविश्वामित्रभगिनीपुत्रात् कृतेन--जातत्वेन च हेतुनाशि. विश्वामित्रकृते--इत्यस्मिन्नर्थे विभक्तिप्रतिरूपकमव्ययं वेदम्.)
(उत्तरत्र 'यदीमां मद्गतिं' इत्यत्र संचारस्य स्पष्टं प्रतीत्या अत्रैवं व्याख्यानम् । अत एव गोविन्दराजीये 'पादगतिं' इति पाठ आदृतः । पाद्मे ऽपि 'त्वत्पादकमले हन्मि' इति दृश्यते । शिरोमणिस्तु त्वद्गतिं--त्वत्कर्तृकं कामचारगमनं इति व्याचख्यौ । शिष्टं 14 तमश्लोकटिप्पण्यां द्रष्टव्यम्.)
(1 पादगतिंङ)
( 'लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया' इत्यनुपदं सत्त्वात् अयं पाठो युक्तः)
(2 समार्जिताम्ङ)
( परं तु उत्तरत्र 22 तमश्लोके 'लोकान्' इति पदमन्यथा व्याख्यातम्.) ।। 1.76.7 ।।
।। 1.76.8 ।। न ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः ।
3मोघः पतति वीर्येण बलदर्पविनाशनः ।। 8 ।।
कुत एवमित्यतः--न ह्ययमित्यादि । वीर्येणस्वशक्त्या शत्रूणां बलजदर्पविनाशनः ।। 8 ।।
(3 एतदनन्तरंइति ब्रुवति काकुत्स्थे भार्गवं प्रति रोषिते । शतक्रतुमुखा देवा पुरस्कृत्य शतक्रतुम् ।। इत्यधिकंङ) ।। 1.76.8 ।।
।। 1.76.9 ।। वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः ।
पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः ।। 9 ।।
वरायुधं--वैष्णवं धनुः । सर्वतो रामाभ्युदयेनिजावतारत्वादेव सदेवगणपरिकरस्य भगवतो ब्रह्मणो दिदृक्षया आगमनं भवति । "अनुग्रहात्तदंशानां भगवतो दिदृक्षाप्रवृत्तिः । एवं प्रतिसर्गभगवदनुग्रहप्रसंगोपबृंहितत्वादेवेदं रामायणामृतं ब्रह्मकुलजीवातुः ।। 1.76.9 ।।
।। 1.76.10,11 ।। गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः ।
यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम् ।। 10 ।।
जडीकृते 1तदा ऽ ऽलोके रामे वरधनुर्धरे ।
निर्वीर्यो जामदग्न्यो ऽसौ रामो राममुदैक्षत ।। 11 ।।
एवं वरधनुर्धरे रामे--अधिकरणे, तदा ऽ ऽलोके--तस्य भार्गवस्या ऽ ऽलोके सति सङ्क्रान्त इति यावत् । तथा पुराणे--" ततः परशुरामस्य देहान्निर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपागमत्" इति । अत एव भार्गवे जडीकृतेनिर्वीर्ये सति, यो ऽसौ निर्वीर्यो जामदग्न्यो रामः राममुदैक्षत । उद्भूतविष्णुतेजस्कमपश्यदित्यर्थः । तथैव जामदग्न्यो वक्ष्यति । 'त्वां मधुहन्तारं जानामि" इति ।। 11 ।।
(लोकेजने जडीकृतेस्तब्धे निर्वीर्यःनिर्गतवैष्णवतेजाःगो.)
(1 तदा लोकेङ.)
( नृसिह्मपुराणे) ।। 1.76.11 ।।
।। 1.76.12 ।। तेजोभिर्गतवीर्यत्वाञ्जामदग्न्यो जडीकृतः ।
1 रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ।। 12 ।।
उक्तश्लोकार्थ एव विवरणरूपेणोच्यते पुनः--तेजोभिरित्यादि । रामसङ्क्रान्तैर्हेतुभिरिति शेषः । उवाच हेति । शरगतिप्रश्नोत्तरमिति शेषः ।। 12 ।।
(तेजोभि ऽहतध.)
(1 एतदनंतरंराम राम महाबाहो श्रुणु राम मयेरितम् । राजसूये कृते पूर्वं यज्ञे दशरथात्मज ।। इत्यधिकं.ङ.) ।। 1.76.12 ।।
।। 1.76.13 ।। 2कश्यपाय मया दत्ता यदा पूर्वं वसुन्धरा ।
विषये मे न वस्तव्यमिति मां कश्यपो ऽब्रवीत् ।। 13 ।।
विषय इति । मे--मह्यं दत्ते विषये--कृत्स्नवसुब्धरालक्षणे देशे त्वया न वस्तव्यमिति मां कश्यपो ऽब्रवीत्, प्रजाभीत्यादिनिवृत्तिप्रयोजनाय ।। 13 ।।
(2 कश्यपस्थाने सर्वत्र काश्यपेत्यपि पाठः) ।। 1.76.13 ।।
।। 1.76.14 ।। सो ऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् ।
कृता प्रतिज्ञा काकुत्स्थ कृता भूः कश्यपस्य हि ।।
यदेवमतः--सोहं गुरुवचः--कश्यपवचः अनुतिष्ठन् पृथिव्यां निशां न वसे, छान्दसस्तङ्, रात्रौ पृथिव्यां न वसाम्यद्यापि । अहन्यावश्यककार्यायागत्य गमनमात्रं दीक्षितपत्न्या इवादोष इत्याशयः । तदेति । यदा दत्तं, यदा च न वस्तव्यमित्युक्तं तदारभ्येत्यर्थः । पृथिव्यां न वस इति सम्बन्धः । कुतः पृथिव्यां न वस इत्यतः--कृतेत्यादि । हि शब्दः प्रसिद्धौ । यतस्सर्वप्रसिद्धतया भूः कश्यपस्य स्वत्त्वेन कृता, न वत्स्यामीति च प्रतिज्ञा च कृता, तस्मादेवेत्यर्थः ।। 14 ।।
( ब्रह्माण्डपुराणे 347 तमे ऽध्याये 'तेषामनुमते कृत्वा कश्यपं गुरुमात्मनः । वाजिमेधं ततो राजन् आजहार' इति दर्शनात् काश्यपस्य स्वगुरुत्वेनाभिधानम्.)
( ब्रह्माण्डपुराणादौ--"आहूय भूगुशार्दूलः सशैलवनकाननाम् । कश्यपाय ददौ सर्वामृते तं शैलमुत्तमम् । आत्मनः सन्निवासार्थ तं रामः पर्यकल्पयत् " इति दृश्यते । एतेन परशुरामः सर्वक्षत्रियविनाशपरिहाराय कश्यपेन निष्कासितः । अथापि स्वदेशे गमनागमनादिकं न प्रतिषिद्धावान् । यदाकदाचित् कार्यार्थंमत्रागतो ऽपि परशुरामः बहुदूरादपि प्रभाववशात् रात्रेः पूर्वं महेन्द्रं प्रति प्रतिनिवर्तमान आस । एतादृशगतिसामर्थ्यमेव 'मनोजवं गमिष्यामि' इत्यनेन सूचितम् । एतदेव च गतिशब्देनास्मिन् प्रकरण उच्यत इति भाव्यम् ।।) ।। 1.76.14 ।।
।। 1.76.15 ।। 1 यदीमां मद्गतिं वीर हन्तुं नार्हसि राघव
मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ।। 15 ।।
यदेवमतो--यदीत्यादि । नार्हसि यदिइमां मद्गतिं च त्वं हन्तुन्नार्हसि--यदि नेच्छसीति यावत्, ततो मनोजवं पादमास्थाय महेन्द्रं पर्वतोत्तमं--केरळभूरूपं गमिष्यामि । स तु समुद्रान्मया ऽ ऽवासाय याचितः पश्चात् ।। 15 ।।
(1 तदिमां, तामिमां त्वं गतिंङ.ज)
( महेन्द्रं मनोजवं यथा स्यात् तथा गमिष्यामिशि) ।। 1.76.15 ।।
।। 1.76.16 ।। लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया ।
जहि तान् शरुमुख्येन मा भूत्कालस्य पर्ययः ।। 16 ।।
अतो ये लोका निर्जितास्ताञ्जहि ।। 16 ।।
(अत्र पुण्यर्जितलोकहननाभ्यनुज्ञया ऽस्य तत्त्ववित्त्वं व्यङ्ग्यम् । रामस्य लोकदानप्रतिबन्धयोः स्वातन्त्र्यदर्शनेन परेशत्वबोधनं चति. लोकहनननं नाम लोकदानप्रतिबन्धःगो.) ।। 1.76.16 ।।
।। 1.76.17 ।। 2 अक्षयं मधुहन्तारं जानामि त्वां 3सुरेश्वरम् ।
धनुषो ऽस्य परमार्शात् स्वस्ति ते ऽस्तु परंतप ।। 17 ।
त्वां तु लोकदानप्रतिबन्धस्वतन्त्रं 'उतामृतत्वस्येशानः' इति श्रुतिप्रसिद्धं विराजं ब्रह्माणमेव जानामि इत्याह--अक्षयमित्यादि । भूमविराडुपग्रहमिति यावत् । कुत एवं निश्चयः ? इत्यतः--धनुष इत्यादि । अस्येति । वैराजस्येत्यर्थः । परामर्शःग्रहणाकर्षणादिव्यापारः ।। 17 ।।
('उतामृतत्वस्येशानः' इति श्रुतिप्रसिद्धं ब्रह्मा त्वमित्याह--अक्षय्यमितिति.)
(2 अक्षय्यंङ)
(3 सुरोत्तमम्ङ) ।। 1.76.17 ।।
।। 1.76.18 ।। एते सुरगणाः सर्वे निरीक्षन्ते समागताः ।
त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ।। 18 ।।
आहवे अप्रतिद्वन्द्वं--अस्मद्रूपप्रतिभटरहितं सर्वदेवा निरीक्षन्ते--पश्यन्ति ।। 1.76.18 ।।
।। 1.76.19 ।। न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति ।
त्वया त्रैलोक्यनाथेन यदहं विमुस्वीकृतः ।। 19 ।।
इयं त्वद्विषये अशक्तिः मम व्रीळाव्रीळावहा भवितुं नार्हति । कुत इत्यतः--त्वयेत्यादि । विराडादिपदत्रयनाथेनास्मदादेस्तथा तथा शक्तिप्रदेन ब्रह्मणा त्वया स्वयं दत्तशक्तेः पुनः स्वस्मिन्नेव संयोजनेन विमुस्वीकृतः--अशक्तः कृतः, कुष्णोनार्जुन इव, न तु अन्येन प्राकृतेन संसारजीवकोट्यन्तर्गतेन तदा किल व्रीळा । तत्तत्स्वामिना तत्तत्स्वे गृहीते तत्तन्न्यासरक्षिणां का व्रीळा इत्याशयः ।। 1.76.19 ।।
।। 1.76.20 ।। शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत
शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ।। 20 ।।
अतो लोकेश्वरस्त्वं शरं मल्लोकप्रतिबन्धाय मोक्तुमर्हसि । शरमोक्षे सति दत्तशरगतिरहं 1अप्रतिबद्धो महेन्द्रं गमिष्यामि ।। 20 ।।
(पापस्य तपसा दग्धत्वात्, पुण्यस्य च शरमोक्षेण फलप्रतिबन्धे जीवन्मुक्तो भूत्वा गमिष्यामीत्यर्थःति.)
(1 अप्रतिबन्धःग) ।। 1.76.20 ।।
।। 1.76.21 ।। तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् ।
रामो दाशरथिःश्रीमांश्चिक्षेप शरमुत्तमम् ।। 21 ।।
स हतान् दृश्य रामेण स्वांल्लोकांस्तपसा ऽ ऽर्जितान् ।
जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ।। 22 ।।
सः--जामदग्न्यः शरक्षेपानंतरं तपसा ऽ ऽर्जितान् स्वान् लोकान् रामेण तेन शरेण हतान्--रुद्धान् दृश्य--दृष्ट्वा महेन्द्रं जगाम ।। 1.76.22 ।।
।। 1.76.23,24 ।। ततो वितिमिराः सर्वा 1दिशश्चोपदिशस्तथा ।
सुराः सर्षिगणां रामं प्रशंशंसु2रुदायुधम् ।। 23 ।।
रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च ।
ततः प्रदक्षिणं कृत्वा जगामात्मगतिं प्रभुः ।। 24 ।।
इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्सप्ततितमः सर्गः
--
रामं प्रदक्षिणं कृत्वेति । रामे सम्यक् समुत्पन्नब्रह्मबुद्धित्वादपेतबालक्षत्रियबुद्धित्वात्स्वयं ब्रह्मर्षिर्वृद्धो ऽपि सन् प्रदक्षिणादिकमकरोत् । आत्मगतिं--आत्मत्वेन गतिरात्मगतिः--रामः मदन्तर्यामी भगवान् आदिगुरुर्ब्रह्मैवेति तत्त्वज्ञानं प्राप्तवान् । आत्मगतिं--स्वस्थानं च जगामेत्यर्थः । प्रभुरिति । ब्रह्मज्ञत्वेन सर्वलोकप्रभुत्वम् । भार (24) मानः सर्गः ।। 24 ।।
(1 दिशश्च विदिशङ.)
(2 मुदान्विताःङ.ज)
( अन्तर्यामित्वेन ज्ञानात् प्रदक्षिणकरणं, क्षत्रियत्वाच्च तस्य प्रणत्यकरणं कायेनेति बोध्यम्ति. । प्रकृष्टा--सर्वोत्तमा दक्षिणा--आत्मसमर्पणरूपा यस्मिन् तत् कर्म कृत्वाशि.) ।। 1.76.24 ।।
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्सप्ततितमः सर्गः