Sanskrit Commentaries

पञ्चत्रिंशस्सर्गः

[कैकेयीगर्हणम्] ।। 2.35.1 ।। 

ततो निर्धूय सहसा शिरो निश्वस्य चासकृत्।

पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाप्य च ।। 1 ।।

एवं सपरिकरस्य राज्ञः परमशोके प्राप्ते सुमन्त्रो महतन्याय्यमिति कैकेयीं प्रत्याहतत इत्यादि। शिरो निर्धूयेत्यादि कोपविकाराभिनयः। कटकटाप्येति। कटकटशब्दात्तत्करोतीति ण्यन्ताल्ल्यप्।।1।।

 ।। 2.35.1 ।।  ।। 2.35.2 ।। 

लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत्।

कोपाभिभूतस्सहसा सन्तापमशुभं गतः ।। 2 ।।

लोचने कोपसंरक्ते कृत्वेति शेषः ।। 2 ।।

वर्णंदेहकान्तिं मुखकान्तिं वा जहत्परित्यजन्।

 ।। 2.35.2 ।।  ।। 2.35.3 ।। 

मनस्समीक्षमाणश्च सूतो दशरथस्य सः।

कम्पयन्निव कैकेय्या हृदयं वाक्छरैः शितैः ।। 3 ।।

मनस्समीक्षमाणःकैकेयीविषये स्नेहाभावं जानन् ।। 3 ।।

 ।। 2.35.3 ।।  ।। 2.35.45 ।। 

वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव 1चाशुगैः।

कैकेय्यास्सर्व2मर्माणि सुमन्त्रः प्रत्यभाषत ।। 4 ।।

यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम्।

भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च ।। 5 ।।

न ह्यकार्य 3 तमं किञ्चित्तव देवीह विद्यते।

यस्यास्तवेति। यया त्वयेत्यर्थः। अतिशयेन कर्तुमशक्यं अकार्यतमम्। इहसंसारे ।। 5 ।।

1चाशुभैःङ.

2कर्माणिङ.

3मतःङ.

 ।। 2.35.45 ।।  ।। 2.35.67 ।। 

पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः ।। 6 ।।

यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम्।

महोदधिमिवाक्षोभ्यं सन्तापयसि कर्मभिः ।। 7 ।।

अन्ततःसर्वान्तेत्वत्कृत्यसाध्यफलविचार इत्यर्थः। अचलमिव दुष्प्रकम्प्यं सन्तापयसि। राजानमिति शेषः।।7।।

 ।। 2.35.67 ।।  ।। 2.35.89 ।। 

मा वमंश्ता दशरथं भर्तारं 1वरदं पतिम्।

भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते ।। 8 ।।

यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये।

इक्ष्वाकुकुलनाथेऽस्मिंस्तं लोपयितुमिच्छसि ।। 9 ।।

यथावय इति। वयःक्रममनतिक्रम्येति यावत्। लोपयितुमिच्छसीति। अनादिप्रवृत्तधर्मन्यायमिति शेषः।।9।।

1परमंङ.

राजमरणानन्तरं वयःक्रममनुसृत्य पुत्रा राज्यं प्राप्नुवन्तीति मर्यादा। तादृशमर्यादापालके दशरथे सत्येव त्वं तां मर्यादां लोपयितुं इच्छसि। दशरथे सत्येव एवमुद्वेला भवसि चेत् अनन्तरं किं वा न कुर्या इत्याशयः।

 ।। 2.35.89 ।।  ।। 2.35.1011 ।। 

राजा भवतु ते पुत्रो भरतश्शास्तु मेदिनीम्।

वयं तत्र गमिष्यामो यत्र रामो गमिष्यति ।। 10 ।।

न च ते विषये कश्चिद्ब्राह्मणो वस्तुमर्हति।

1तादृशं त्वममर्यादं अद्य कर्म चिकीर्षसि ।। 11 ।।

तादृशमिति। ब्राह्मणवासानर्हमिति यावत्। अमर्यादंअतिकमितज्येष्ठराज्यादिव्यवहारम् ।। 11 ।।

ब्राह्मणपदं सत्पुरुषसामान्यपरम्.

1एतदनन्तरंअयोध्यावासिनः पौरा ये च जानपदा जनाः। नूनं सर्वे गमिष्यामो मार्गं रामनिषेवितम्। त्यक्ताया बान्धवैस्सर्वैर्ब्राह्मणैस्साधुभिस्तदा। का प्रीती राज्यलाभेन तव देवि भविष्यति। तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि। इत्यधिकम्ङ.

 ।। 2.35.1011 ।।  ।। 2.35.12 ।। 

आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम्।

आचरन्त्या न 1विदृता सद्यो भवति मेदिनी ।। 12 ।।

आश्चर्यमित्यादि। यस्यास्ते ईदृशममर्यादमतिघोरं वृत्तंचरित्रमस्ति इदमाश्चर्यमिति पश्यामि। लोक एतादृशस्याननुभूताश्रुतपूर्वत्वादत्याश्चर्यमेव पश्यामि। अपि चैवंविधं घोरमाचरन्त्या त्वया हेतुभूतया मही सद्यो न विदृताविदीर्णेतीदमप्याश्चर्यम्। एतादृशमहाऽन्याये मह्या तथा किल भाव्यम्।।12।।

विवृताङ.

 ।। 2.35.12 ।।  ।। 2.35.13 ।। 

महाब्रह्मर्षि 1सृष्टा वा ज्वलन्तो भीमदर्शनाः।

2धिक् त्वां दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम् ।।

अपि च वसिष्ठादिमहाब्रह्मर्षिसृष्टाःनिर्मिताः ज्वलन्तो भीमदर्शनाः दण्डाःकृत्यालक्षणाः रामप्रव्राजने स्थितांकृतनिश्चयां त्वां न हिंसन्तीति यत्, अतो धिग्ब्राह्मण्यमिति शेषः ।। 13 ।।

महाब्रह्मर्षिभिः वसिष्ठादिभिः जुष्टाः प्रयुक्ताः ज्वलन्तःतीव्राः धिग्वाग्दण्डाः रूपा वाग्दण्डा৷৷. त्वां न हिंसन्ति?गो. ।। ति. ।। इदमप्याश्चर्यमित्यनुकर्षःति.

1जूष्टाङ.

2धिग्वाग्दण्डाङ.

 ।। 2.35.13 ।।  ।। 2.35.14 ।। 

आम्रं छित्वा कुठारेण निम्बं 1परिहरेत्तु 2यः।

यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ।। 14 ।।

अथान्यापदेशेन राजानमनुक्रोशतिआम्रमित्यादि। परिहरेदिति। निम्बोपरोधमिति शेषः। एनंनिम्बम्। नैवास्येति। एवं निम्बस्य दोहलं कुर्वतोऽपि पुरुषस्य प्रीतये न मधुरो भवेत्मधुररसो भवेत्। अतो वृथा श्रमोऽयं कैकेय्यनुवर्तनं राज्ञ इत्याशयः ।। 14 ।।

निम्बं यः परिचरेत्आलवालादिकरणेन संरक्षेत्गो.

1परिचरेङ. च.

2कःच.

 ।। 2.35.14 ।।  ।। 2.35.15 ।। 

1आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च।

न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः ।। 15 ।।

एवं कोपवचनान्युक्त्वा मर्मवचनमप्याहआभिजात्यमित्यादि। ते मातुराभिजात्यंप्रशस्तमातापितृजन्मोचितव्यवहारवत्त्वरूपं यथा, तथैव ते आभिजात्यमपीति। कारणानुसारेण हि कार्यम्। तदेव दर्शयतिन हीत्यादि। निम्बात् क्षौद्रं न स्रवेदिति वचो लोके निगदितंलोकप्रसिद्धमेव किलेत्यर्थः ।। 15 ।।

अभिजातंअभिजननं, स्वभाव इति यावत्गो.

1अभिजातंङ.

 ।। 2.35.15 ।।  ।। 2.35.1617 ।। 

तव मातुरसद्ग्राहं विद्म पूर्वं यथाश्रुतम्।

ननु का मे मातुराभिजात्यक्षतिरित्यत्राहतवेत्यादि। असद्ग्राहंघोरपापकर्माभिनिवेशम्। पूर्वं यथायेन प्रकारेण श्रुतं तथा तत् सम्प्रति विद्मः, विदो लटो वा' इति मादेशः ।।

पितुस्ते वरदः कश्चित् ददौ वरमनुत्तमम् ।। 16 ।।

सर्वभूतरुतं तस्मात् सञ्जज्ञे वसुधाधिपः।

तेन तिर्यग्गतानां च भूतानां विदितं वचः ।। 17 ।।

वेदनं कीदृशमित्यतस्तत्प्रतिपादयतिपितुरित्यादि। वरदःकश्चिदृषिरिति यावत्। अनुत्तमं वरंअव्यक्तवाग 1 वर्ण्यसर्वभूतरुतपरस्परबोधनीयार्थज्ञानविषयकम्। तस्मात्उक्तलक्षणवरदानबलादेव। स वसुधाधिपः सर्वभूतरुतंतत्प्रतिपाद्यभावजातं सञ्जज्ञेजानीते स्म। तिर्यग्गतानामिति। तिर्यक्स्रोतोगतपशुपक्ष्यादीनामित्यर्थः ।। 17 ।।

कश्चित्योगी गन्धर्व इति श्रुतम्गो.

1परिचरेङ.च.

 ।। 2.35.1617 ।।  ।। 2.35.18 ।। 

ततो जृम्भस्य शयने विरुताद्भूरिवर्चसः।

पितुस्ते विदितो भावः स तत्र बहुधाऽहसत् ।। 18 ।।

ततःतत एव हेतोः कदाचिच्छयने शयानो राजा जृम्भस्यतदाख्यस्य पक्षिणो विरुतान् श्रुत्वा भूरिवर्चसस्ते पितुस्तस्य पक्षिणो भावःअभिप्रायः विदितःअवगतः। अतः तत्रशयने शयान एव बहुधाऽहसत्भावपरिज्ञानजसन्तोषेण द्विस्त्रिरहसत् ।। 18 ।।

जृम्भस्यपिपीलिकाविशेषस्यगो.

 ।। 2.35.18 ।।  ।। 2.35.19 ।। 

तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती।

1वरं ते, नृपते सौम्य जिज्ञासामीति चाब्रवीत् ।। 19 ।।

अथ तत्र शयने शयाना ते जननी क्रुद्वाऽभवत्मामयं परिहसतीति। अथ राज्ञा तु, हासस्त्वद्विषयको न भवति, कश्चन वरोऽस्ति, तेन मे भूतान्तरभावज्ञानसामर्थ्यमस्ति, अतस्तज्ज्ञानादहासिषमित्युक्ते, हे नृपते तं वरं जिज्ञासामि। कीदृशोऽसौ। केन प्रोक्तमिति जिज्ञासामीत्यब्रवीत् ।। 19 ।।

1हासंङ.

ते हासंहासकारणंगो.

 ।। 2.35.19 ।।  ।। 2.35.20 ।। 

नृपश्चोवाच तां देवीं, देवि शंसामि ते यदि।

ततो मे मरणं सद्यो भविष्यति न संशयः ।। 20 ।।

एवमुक्तो नृपश्च तां प्रत्युवाचहे देवि यदि ते शंसामि वरस्वरूपं तत्प्रदातारं च, ततो मे अनन्तरमेव सद्यो मरणं भविष्यति।।

 ।। 2.35.20 ।।  ।। 2.35.21 ।। 

माता ते पितरं, देवि पुनः केकयमब्रवीत्।

शंस मे जीव वा मा वा न मामपहसिष्यसि ।। 21 ।।

एवमुक्ते ते माताऽऽहत्वं जीव वा म्रियस्व वा। सर्वथा शंस। तस्मिन्नवगते मां नापहसिष्यतीति ज्ञास्य इति।।21।।

अन्यथा हि मामेवापहसितवान् भवानिति अवधारयामीत्यर्थः.

 ।। 2.35.21 ।।  ।। 2.35.22 ।। 

प्रियया च तथोक्तः स केकयः पृथिवीपतिः।

तस्मै तं वरदायार्थं कथयामास तत्त्वतः ।। 22 ।।

एवं तयोक्तस्ते पिता, यः स्वस्य वरदः, तस्मै महर्षये तमर्थंतदुक्तकथननिर्बन्धं तत्त्वतः कथयामास ।।22।।

स्वस्मै येन वरो दत्तः तं प्रति स्वपत्नीनिर्बन्ध कथयामास.

 ।। 2.35.22 ।।  ।। 2.35.23 ।। 

1ततः स वरदस्साधू राजानं प्रत्यभाषत।

म्रियतां ध्वंसतां वेयं मा 2कृथास्त्वं, महीपते ।। 23 ।।

ततः साधुस्स वरदः राजानं प्रत्यभाषतम्रियतामियम्। ध्वंसतांप्रच्युतस्वाधिपत्या वा भवतु। तस्या वचो मा कृथा इति।।

1एतदर्धानन्तरं यदि त्वं शंससे राजन् मरणं ते ध्रुवं भवेत्' इत्यधिकंङ.

मरणं विषादिना, ध्वंसः विशरणं भृगुपातादिना। अथवा ध्वंसु गतावित्यपि सत्त्वात् यत्रकुत्रचिद्गच्छत्वित्यर्थः।

2शंसीस्त्वंङ.

 ।। 2.35.23 ।।  ।। 2.35.24 ।। 

स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः।

मातरं ते निरस्याशु विजहार कुबेरवत् ।। 24 ।।

अथ स तस्य वचः श्रुत्वाऽऽगतः पश्चात् वचनाय निर्बध्नन्तीं, भद्रे त्वमितो गच्छेति ते मातरं निरस्यपरित्यज्य 1निर्वास्य कुबेरवद्विजहार ।। 24 ।।

1विवास्यट.

 ।। 2.35.24 ।।  ।। 2.35.25 ।। 

तथा त्वमपि राजानं दुर्जनाचरिते पथि।

असद्ग्राहमिमं मोहात् कुरुषे, पापदर्शिनि ।। 25 ।।

प्रकृते यथोक्तमर्थमुपनयतितथेत्यादि। ।। 25 ।।

 ।। 2.35.25 ।।  ।। 2.35.26 ।। 

सत्यश्चाद्य प्रवादोऽयं लौकिकः प्रतिभाति मा।

पितृ़न् समनुजायन्ते नरा मातरमङ्गनाः ।। 26 ।।

मात्रीयासद्ग्राहस्य न्यायप्राप्तत्वमस्या दर्शयतिसत्य इत्यादि। मामामिति यावत्। समनुजायन्तेपितृस्वभावं समनुकुर्वाणा जायन्त इत्यर्थः ।। 26 ।।

 ।। 2.35.26 ।।  ।। 2.35.27 ।। 

नैवं भव गृहाणेदं यदाह वसुधाधिपः।

भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव ।। 27 ।।

नैवं भवेति। मातृवदसद्ग्रहाभिनिवेशिनी मा भव। जनस्यास्येति। अस्मदादेरित्यर्थः। गतिर्भवेति। शरणं भवेति यावत् ।। 27 ।।

नेयाङ. (विधेया इत्यर्थः)

 ।। 2.35.27 ।।  ।। 2.35.28 ।। 

मा त्वं प्रोत्साहिता पापैः देवराजसमप्रभम्।

भर्तारं लोकभर्तारं असद्धर्ममुपादधाः ।। 28 ।।

भर्तारं प्रति असद्धर्मंमिथ्याक्लृप्तधर्ममेवोपादधाःउपाधिं कृतवत्यसि ।। 28 ।।

असद्धर्मंकनिष्ठाभिषेकपूर्वकज्येष्ठविवासनरूपं मोपादधाःमा ग्राहयगो.

 ।। 2.35.28 ।।  ।। 2.35.29 ।। 

न हि मिथ्याप्रतिज्ञातं करिष्यति तवानघः।

श्रीमान् दशरथो राजा, देवि राजीवलोचनः ।। 29 ।।

मिथ्याप्रतिज्ञातमिति। लीलयैव केवलमुक्तमित्यर्थः। अतो राजीवलोचनो राजा न करिष्यति ।। 29 ।।

"৷৷৷৷.मम वरस्य का गतिरित्याशंक्य प्रकारान्तरेण गतिर्भविष्यतीत्याहन हीति। प्रतिज्ञातं प्रतिश्रुतं वरद्वयं मिथ्या न करिष्यति। राज्यादप्यधिकमूल्यरत्नभूषणसम्मानादिभिः सफलं करिष्यतीत्यर्थः."गो. वस्तुतस्तुकनिष्ठाभिषेचनपूर्वकज्येष्ठविवासनरूपमधर्मं मा ग्राहयेत्युक्तेयद्ययमधर्मः तर्हि कथं राजानुमेने इत्याशङ्कायां आहन हीति। यतोऽयमनघो राजा ततः प्रतिज्ञातं मिथ्या न करिष्यतीत्यर्थः। नायं प्रतिज्ञात्यागापेक्षयाऽधर्म इति भावः.

 ।। 2.35.29 ।।  ।। 2.35.30 ।। 

ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता।

रक्षिता जीवलोकस्य, देवि रामोऽभिषिच्यताम् ।। 30 ।।

अतो ज्येष्ठत्वादिगुणको रामोऽभिषिच्यताम्। अभिषेकानुमतिस्त्वया क्रियतामित्यर्थः ।। 30 ।।

 ।। 2.35.30 ।।  ।। 2.35.31 ।। 

परिवादो हि ते, देवि महान् लोके चरिष्यति।

यदि रामो वनं याति विहाय पितरं नृपम् ।। 31 ।।

विपक्षे बाधमाहपरिवाद इत्यादि। चरिष्यति। प्रचरिष्यतीति यावत् ।। 31 ।।

 ।। 2.35.31 ।।  ।। 2.35.32 ।। 

1स राज्यं राघवः पातु भव त्वं विगतज्वरा।

न हि ते राघवादन्यः क्षमः पुरवरे 2वसन् ।। 32 ।।

यदेवमतःस राघवो राज्यं पातु, त्वं च विगतज्वरा भव। राघवात्रामादन्यः इह पुरे वसन् भवेद्यदि तदा ते न हि क्षमःन युक्तः ।। 32 ।।

1स्वराज्यंङ.च.

ते पुरवरे वसन् राघवादन्यः न क्षमो वसेत्। यद्वा क्षितिक्षान्त्योः क्षमा, युक्ते क्षमं, शक्ते हिते त्रिषु' इति कोशात् क्षमःहितः इत्यर्थः। राघवादन्यःभरतः अत्र वसन्नपि ते क्षमःहितः न भवेत् इत्यर्थः।

2वसेत्ङ.

 ।। 2.35.32 ।।  ।। 2.35.33 ।। 

रामे हि यौवराज्यस्थे राजा दशरथो वनम्।

प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ।। 33 ।।

यदेवमतःराम इत्यादि। पूर्ववृत्तमिति। पुत्रं राज्ये प्रतिष्ठाप्य वनं प्रतिष्ठमानानां पूर्वराजर्षीणां वृत्तमनुस्मरन्नित्यर्थः ।। 33 ।।

 ।। 2.35.33 ।।  ।। 2.35.3435 ।। 

इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं 1 राजसंसदि।

सुमन्त्रः क्षौभयामास भूय एव कृताञ्जलिः ।। 34 ।।

नैव सा क्षुभ्यते देवी न च स्म परिदूयते।

न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ।। 35 ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चत्रिंशः सर्गः

न परिदूयत इति। दूङ् खेदे। मार्ग (35) मानः सर्गः ।। 35 ।।

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चत्रिंशस्सर्गः

1जनसंसदिङ.

 ।। 2.35.3435 ।।