वधमप्रतिरूपं तु पितु श्शृत्वा सुदारुणम्।
क्षत्रमुत्सादयन्रोषाज्जातं जातमनेकश:।।1.75.24।।
पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने ।
यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे ।
दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वित:।।1.75.25।।