Content

अथ मध्यमकक्ष्यायां समागच्छत्सुहृज्जनैः।

स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च।।2.16.27।।

ततः पावकसङ्काशमारुरोह रथोत्तमम्।

वैयाघ्रं पुरुषव्याघ्रो राजतं राजनन्दनः।।2.16.28।।

Translation

अथ after that, पुरुषव्याघ्रः tiger among men, सः he, राजनन्दनः son of the king (Rama), मध्यमकक्ष्यायां in the middle courtyard, सुहृज्जनैः with friends, समागच्छत् met, सर्वान् अर्थिनः all of them eager to see him, दृष्ट्वा having seen, समेत्य having met, प्रतिनन्द्य च having greeted them, पावकसङ्काशम् resembling fire, वैयाघ्रम् covered with tigerskin, राजतम् made of silver, रथोत्तमम् best of chariots, आरुरोह mounted.

Rama, the best among men, met all his friends in the middle courtyard. Having seen them all eager to see him, he approached and greeted them. Thereafter, he mounted the best silver chariot covered with tigerskin and glowing like fire.
Sanskrit Commentary by Govindaraja
स तदन्त:पुरद्वारं समतीत्य जनाकुलम् ।

प्रविविक्तां तत: कक्ष्यामाससाद पुराणवित् ।। 2.16.1 ।।

प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलै: ।

अप्रमादिभिरेकाग्रै: स्वनुरक्तैरधिष्ठिताम् ।। 2.16.2 ।।

एवं सुमन्त्रस्य रामोपस्थानमुक्त्वा रामस्य दशरथोपस्थानमाह षोडशे--स तदित्यादि ।। 2.16.12 ।।



तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान् ।

ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान् ।। 2.16.3 ।।

ते समीक्ष्य समायान्तं रामप्रियचिकीर्षव: ।

सह सोत्पतिता: सर्वे स्वासनेभ्य: ससम्भ्रमा: ।। 2.16.4 ।।

तत्रति । काषायिण: काषायवस्त्रधारिण: । रामप्रीत्यर्थमलङ्कारकञ्चुकालंकृतानित्यर्थ: । वृद्धान् पञ्चनवतिवयस्कान् । ते खल्वन्त:पुरे स्थाप्या भवन्ति । वेत्रपाणीन् यथा रामो धनुर्धृत्वा लोकं रक्षयति तथा तेपि वेत्राणि धृत्वा रामं रक्षन्तीति भाव: । स्वलंकृतान् रामश्चक्रवर्तिगृहे कृतमज्जनो भुक्त्वा यदा पुनर्दिव्यान्त:पुरमुपयाति तदा चक्रवर्तिवदन्तरङ्गतया च तमुत्सङ्गे निवेश्य परिष्वज्य मूर्ध्न्याघ्राय विसर्जयन्ति तेन कुङ्कुमपङ्कै: कस्तूरिकादिदिव्याङ्गरागैश्चालंकृतान् स्वलंकृतान् रामसीतालङ्कारेभ्यो ऽप्ययमलङ्कारोतिशयित इति भाव: ।। 2.16.34 ।।



तानुवाच विनीतात्मा सूतपुत्र: प्रदक्षिण: ।

क्षिप्रमाख्यात रामायसुमन्त्रो द्वारि तिष्ठति ।। 2.16.5 ।।

ते राममुपसङ्गम्य भर्त्तु: प्रियचिकीर्षव: ।

सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ।। 2.16.6 ।।

तानिति । प्रकर्षेण दक्षिण: प्रदक्षिण: । सेवानिपुण इत्यर्थ: । "दक्षिणे सरलो दारौ" इत्यमर: । तिष्ठतीत्यत्र इतिकरणं द्रष्टव्यम् । तिष्ठतीत्याख्यातेत्यन्वय: ।। 2.16.56 ।।



प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितु: ।

तत्रैवानाययामास राघवप्रियकाम्यया ।। 2.16.7 ।।

प्रतिवेदितमिति । प्रतिवेदितं द्वा:स्थै: निवेदितं पितु: अभ्यन्तरम् अन्तरङ्गं । तत्रैव यत्र सीतया सह स्थित: तत्रैवेत्यर्थ: । राघवप्रियकाम्यया राघवस्य दशरथस्य प्रियेच्छया । राम इत्यध्याहार: ।। 2.16.7 ।।



तं वैश्रवणसङ्काशमुपविष्टं स्वलंकृतम् ।

ददर्श सूत: पर्य्यङ्के सौवर्णे सोत्तरच्छदे ।। 2.16.8 ।।

तमिति । वैश्रवणसङ्काशं तद्वदनवधिकैश्वर्यसम्पन्नम् । यद्वा यथा वैश्रवणो दाता "कामेश्वरो वैश्रवणो ददातु" इतिश्रुते: । तथा परिसरवर्तिनां स्वसौन्दर्यानुभवसर्वस्वं ददातीत्यर्थ: । उपविष्टं 'सह पत्न्या विशालाक्ष्या नारायणमुपागमत्' इत्युक्तरीत्या भगवद्ध्यानपरतयावस्थितम् । स्वलंकृतं ध्यानानुकूलाञ्जलिनयुक्तम् । दिव्यमालालंकृतं वा तं सूतो ददर्श । उत्कर्षकाष्ठाभूमिभूतं रामं निकर्ष सीमाभूमिभूतो ददर्श, को ऽयं भाग्यातिशय इति भाव: । पर्यङ्के तादृशैश्वर्य्यसामग्र्यनुरूपापूर्वसंस्थानप्रतिमाविशेषविशिष्टपर्य्यङ्के । अत एव ह्युत्तरत्र "पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् । तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ।।" इति सुयज्ञे तत् स्थापयिष्यति। सौवर्णे उपर्य्युपविष्टसदृशे। काञ्चनगिरि: कालमेघमिव रामं भासयतीत्यर्थ:। सोत्तरच्छदे पुष्पहाससुकुमाररामदेहानुगुणमृदुतरास्तरणयुक्ते, पर्यङ्कविद्योक्तरीत्या मुक्तानुभाव्यदिव्यवेषमहो सूतोऽन्वभूदिति सौशील्यातिशयोक्ति: ।। 2.16.8 ।।



वराहरुधिराभेण शुचिना च सुगन्धिना ।

अनुलिप्तं परार्ध्येन चन्दनेन परन्तपम् ।। 2.16.9 ।।

'स्रक्चन्द्रनवनिता:' इत्युक्त भोग्यवस्तुष्वादौ दिव्यमाल्ययोगमुक्त्वा दिव्यचन्दनयोगं दर्शयति--वराहरुधिराभेणेति । वराहरुधिरमतिरक्तवर्णमिति प्रसिद्धम् । तत्सदृशेन कुङ्कुममिश्रतयेति भाव: । सीताकरकमलानुलिप्ततया तत्कान्तिमिश्रत्वमुच्यते । शुचिना सीताकरस्पर्शपूतेन । तत्करस्पर्शकृतशैत्यविशेषं समुच्चिनोति चशब्द: । सुगन्धिना 'सर्वगन्ध:' इत्यस्य श्रियोप्यविशेषात्तत्करस्पर्शजनितनिरवधिकगन्धेन । परार्द्ध्येन कान्तानुलिप्ततया श्रेष्ठेन चन्दनेन । अनुलिप्तं पश्चात् लिप्तम् । अनेन सीताङ्गरागकरणानन्तरत्वं गम्यते । परन्तपम् एतादृशसौन्दर्यानुभवविरोधिनिवर्त्तकम् ।। 2.16.9 ।।



स्थितया पार्श्वतश्चापि वालव्यजनहस्तया ।

उपेतं सीतया भूयश्चित्रया शशिनं यथा ।। 2.16.10 ।।

अथाप्राकृतवनितायोगं दर्शयति--स्थितयेति । चापीति निपात: पूर्वोक्तसमुच्चये । पार्श्वत: स्थितया चन्दनानुलिप्तगात्रं कान्तं कृत्वा वालव्यजनं हस्ते कृत्वा पार्श्वे स्थितया सीतया भूय: उपेतं विनयेन पार्श्वतश्चामरमुपवीज्य पुनस्तात्कालिकसुषमाविशेषबलोत्कारेण गाढमाश्लिष्टम् । भूय इत्यत्र विराजमानमिति शेष इत्यप्याहु: । तदानीन्तनातिशयं दृष्टान्तमुखेन स्पष्टीकरोति चित्रयेति । चैत्रपौर्णमास्यां चित्राख्यतारकयोपेतम् उदितं शशिनमिव स्थितम् । चित्रयेत्यनेन तत्कृतातिशय उक्त: । उपेतमित्यनेन रक्तवर्णत्वम् शशिनमित्यनेन सीतालिङ्गनोन्मृष्टचन्दनवक्षस्कत्वमुक्तम् । एवम्भूतं ददर्शेति दृष्टिसाफल्यमुक्तम् ।। 2.16.10 ।।



त तपन्तमिवादित्यमुपपन्नं स्वतेजसा ।

ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ।। 2.16.11 ।।

शिरसो वाचश्च साफल्यमाह--तमिति । ववन्द इति शिरस: साफल्यमुक्तम् । वन्दीति वाक्साफल्यम् । वरदं स्वानुभवरूपवरप्रदम्, विनीतवत् विनीतो यथा साष्टाङ्गं वन्दते तथेत्यर्थ: ।। 2.16.11 ।।



प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने ।

राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृत: ।। 2.16.12 ।।

प्राञ्जलिरिति । विहारशयनासन इति द्वैन्द्वकवद्भाव: । विहार: गति: ।। 2.16.12 ।।



कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति ।

महिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ।। 2.16.13 ।।

कौसल्येति । सुप्रजा:, त्वयेति शेष: । यद्वा कौसल्याया: सुप्रज: सुपुत्र असिच्प्रत्ययान्त: ।। 2.16.13 ।।



एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युति: ।

तत: सम्मानयामास सीतामिदमुवाच ह ।। 2.16.14 ।।

एवमिति । सम्मानयामास, सूतमिति शेष: ।। 2.16.14 ।।



देवि देवश्च देवी च समागम्य मदन्तरे ।

मन्त्रयेते ध्रुवं किञ्चिदमिषेचनसंहितम् ।। 2.16.15 ।।

देवीति । मदन्तरे मदर्थम् । "अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये" इत्यमर: । अभिषेचनसंहितम् अभिषेचनसम्बन्धि मदर्थं किञ्चिन्मन्त्रयेते विचारय: ।। 2.16.15 ।।



लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा ।

सञ्चोदयति राजानं मदर्थं मदिरेक्षणे । 2.16.16 ।।

महिष्या सहेत्युक्त्योन्नेयमर्थं दर्शयति--लक्षयित्वेति । सुदक्षिणा सुकुशला अत एव राज्ञो ऽभिप्रायं लक्षयित्वा वृद्धत्वात् भरतागमनपर्यन्तं न विलम्ब: कार्य इति राजाशयं ज्ञात्वा मत्प्रियकामा सती राजानं प्रति मदर्थं मदभिषेकं सञ्चोदयति । एतदानुकूल्यं त्वत्सौभाग्यफलमित्याह मदिरेक्षण इति ।। 2.16.16 ।।



सा प्रहृष्टा महाराजं हितकामानुवर्त्तिनी ।

जननी चार्थकामा मे केकयाधिपते: सुता ।। 2.16.17 ।।

दिष्ट्या खलु महाराजो महिष्या प्रियया सह ।

सुमन्त्रं प्राहिणोद्दूतमर्थकामकरं मम ।। 2.16.18 ।।

सन्दिग्धोक्तिजनितां सीताशङ्कां वारयति--सेति । प्रहृष्टा, मयीति शेष: । हितकामा, लोकस्येति शेष: । महाराजं भर्तारम् अनुवर्तिनी मे अर्थकामा, भवतीति शेष: ।। 2.16.1718 ।।



यादृशी परिषत्तत्र तादृशो दूत आगत: ।

ध्रुवमद्यैव मां राजा यौवराज्ये ऽभिषेक्ष्यति ।। 2.16.19 ।।

यादृशीति । तत्र अन्त:पुरे । यादृशी परिषत् परिसरवर्ती जन:, तादृशस्तत्तुल्यो दूत: ।। 2.16.19 ।।



हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् ।

सह त्वं परिवारेण सुखमास्व रमस्व च ।। 2.16.20 ।।

हन्तेति । हन्तेति हर्षे । परिवारेण परिचारिकासङ्घेन । रमस्व वृत्तकीर्त्तनेन रता भव ।। 2.16.20 ।।



पतिसम्मानिता सीता भर्त्तारमसितेक्षणा ।

आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ।। 2.16.21 ।।

अथ सीता रामस्य सौन्दर्यालंकृतिविशेषानालोक्य किंवा भविष्यतीति कलुषितहृदया तस्मै मङ्गलमाशासानानुव्रजति--पतिसम्मानितेति । पतिसम्मानितापत्या स्वकण्ठादुन्मुच्य दत्तमुक्तामालिकेत्यर्थ: । पादपल्लवस्पर्शपूर्वकं सान्त्वितेति भट्टारका: । तदर्हत्वज्ञापनाय तद्वैलक्षण्यं दर्शयति सीतेति । सीता लाङ्गलपद्धति:, तज्जत्वात्सीता । अयोनिजाभावेन स्वस्माद्विलक्षणायां तस्यां तादृशी प्रीतिरुचितैवेति भाव: । असितेक्षणा रामेण मालायां दत्तायामियमपि लोचनाभ्यां कुवलयमालां दत्तवती । भर्त्तारमाद्वारमनुवव्राज आत्मानमनवरतं हृदये बिभ्रतो रामस्य विरहासहतया स्वगमनयोग्यदेशपर्य्यन्तमनुजगाम । मङ्गलान्यभिदध्युषी अभिध्यायन्ती किमस्य सौन्दर्य्यस्य हानिर्भविष्यतीति कलुषितहृदया मङ्गलाशासनपूर्वकमनुवव्राज ।। 2.16.21 ।।



राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् ।

कर्तुमर्हति ते राजा वासवस्येव लोककृत् ।। 2.16.22 ।।

मङ्गलाभिध्यानमेव दर्शयति--राज्यमिति । द्विजातिभि: ब्राह्मणै: जुष्टं सेवितं राजसूयाभिषेचनं राजसूययागे यो ऽभिषेक: 'अथाभिषिच्यते' इत्युच्यमान: तदर्हम् अनेन महाराज्यवत्त्वं गम्यते । कर्त्तुं दातुम् । लोककृत् ब्रह्मा ।। 2.16.22 ।।



दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम् ।

कुरङ्गश्रृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ।। 2.16.23 ।।

दीक्षितमिति । दीक्षितं सकृष्णाजिनम् । नवनीताभ्यक्तं यजमानवेषं द्रष्टुमिच्छामीत्याह व्रतसम्पन्नम् । ऋषिणोपवस्तव्यमित्युक्ते मम सौकुमार्यानुगुणमेवमुक्तमिति मत्वा चतुर्गुणमुपवासं करोति श्रद्धया । तदाह सम्पन्नमिति । वराजिनधरं वस्त्रधारणादप्यजिनधारणस्योत्कर्ष उच्यते । शुचिं कामपि स्त्रियं मास्पृश धर्म्मपत्नीत्वेन सीतास्पर्शे न दोष इति मुनिनोक्तेपि शङ्कया सीतावस्त्रदशास्पर्शेपि स्नानं करोति । कुरङ्गश्रृङ्गपाणिं च एकवस्त्रधरो धन्वीत्येतदपेक्षया कण्डूयनार्थं कृष्णविषाणकृतशोभातिशय उच्यते । पश्यन्ती त्वां भजाम्यहं भाविफलापेक्षायां कृतायामान्तरालिकफलमर्थसिद्धमेव । अतो ऽभिषेकान्तरायविरहो न प्रार्थित: । यथा सावित्री भर्त्तारं दर्शयित्वानेनाहमनेकपुत्रा स्यामित्यर्थितवती । तेन सिद्धं भर्त्तु: पूर्णायु:प्रार्थनम् । तद्वत् पश्यन्तीति हेतौ शतृप्रत्यय: । दर्शनार्थमित्यर्थ: । दर्शनार्थं हि भगवन्तं भजन्ते अत इयमपि तथैवाह ।। 2.16.23 ।।



पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यम: ।

वरुण: पश्चिमामाशां धनेशस्तूत्तरां दिशम् ।। 2.16.24 ।।

पूर्वामिति । उत्तरां दिशमित्यनन्तरं इति मङ्गलान्यभिदध्युषीति योज्यम् । भर्तृविषयत्वेन न वाचोक्तवतीति भाव: ।। 2.16.24 ।।



अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गल: ।

निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ।। 2.16.25 ।।

अथेति । कृतकौतुकमङ्गल: अनुष्ठिताभिषेकार्थमङ्गल: ।। 2.16.25 ।।



पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशय: ।

लक्ष्मणं द्वारि सोपश्यत् प्रह्वा़ञ्जिलिपुटं स्थितम् ।। 2.16.26 ।।

पर्वतादिति । द्वारि प्रथमद्वारि । प्रह्वाञ्जलिपुटम् अञ्जलिपुटो ऽस्यास्तीत्यञ्जलिपुट: । मत्वर्थी योच्प्रत्यय: । प्रह्वश्चासावञ्जलिपुटश्चेति कर्मधारय: । तम् ।। 2.16.26 ।।



अथ मध्यमकक्ष्यायां समागम्य सुहृज्जनै: ।

स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ।। 2.16.27 ।।

तत: पावकसङ्काशमारुरोह रथोत्तमम् ।

वैयाघ्रं पुरुषव्याघ्रो रजतं राजनन्दन: ।। 2.16.28 ।।

अथेत्यादिश्लोकद्वयम् । अर्थिन: रामदर्शनार्थिन: अभिषेकार्थिनो वा । वैयाघ्रं व्याघ्रचर्मपरिवृतं "द्वैपवैयाघ्रादञ्" इत्यञ् । राजतं रजतविकारम् । राजन्तमिति च पाठ: ।। 2.16.2728 ।।



मेघनादमसम्बाधं मणिहेमविभूषितम् ।

मुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् ।। 2.16.29 ।।

मेघनादमित्यादि । मेघस्येव नादो यस्य स मेघनादस्तम् । असम्बाधं सम्बाधरहितम् । उचितविस्तारमित्यर्थ: ।। 2.16.29 ।।



करेणुशिशुकल्पैश्च युक्तं परमवाजिभि: ।

हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ।

प्रययौ तूर्णमास्थाय राघवो ज्वलित: श्रिया ।। 2.16.30 ।।

करेणुशिशुकल्पैरिति । करेणुशिशुकल्पै: कलभसदृशै: ।। 2.16.30 ।।



स पर्जन्य इवाकाशे स्वनवानभिनादयन् ।

निकेतान्निर्ययौ श्रीमान् महेन्द्रादिव चन्द्रमा: ।। 2.16.31 ।।

स इति । आकाशे स्वनवान् नादवान् । पर्जन्य इव मेघ इव । "पर्जन्यौ रसदब्देन्र्दौ" इत्यमर: । अभिनादयन् रथेन दिश इति शेष: । महेन्द्रशब्द: उदयाद्रिपर: ।। 2.16.31 ।।



छत्रचामरपाणिस्तु लक्ष्मणो राघवानुज: ।

जुगोप भ्रातरं भ्राता रथमास्थाय पृष्टत: ।। 2.16.32 ।।

छत्रचामरपाणिरीति । एकहस्तेन छत्रम् अपरहस्तेन चामरं च धारयन्नित्यर्थ: । जुगोप आतपादिभ्य: इति भाव: ।। 2.16.32 ।।



ततो हलहलाशब्दस्तुमुल: समजायत ।

तस्य निष्क्रममाणस्य जनौघस्य समन्तत: ।। 2.16.33 ।।

तत इति । हलहलाशब्द: कलकलाशब्द: । तस्य निष्क्रममाणस्य तस्मिन्निष्क्रममाणे सति जनौघस्य हलहलाशब्द इत्यन्वय: ।। 2.16.33 ।।



ततो हयवरा मुख्या नागाश्च गिरिसन्निभा: ।

अनुजग्मुस्तदा रामं शतशो ऽथ सहस्रश: ।। 2.16.34 ।।

तत इति । हयनागशब्दौ तदारूढपरौ ।। 2.16.34 ।।



अग्रतश्चास्य सन्नद्धाश्चन्दनागरुरूषिता: ।

खड्गचापधरा: शूरा जग्मुराशंसवो जना: ।। 2.16.35 ।।

अग्रत इति । रूषिता: लिप्ता: । आशंसव: रामश्रेय आशंसमाना: ।। 2.16.35 ।।



ततो वादित्रशब्दास्तु स्तुतिशब्दास्तु वन्दिनाम् ।

सिंहनादाश्च शूराणां तथा शुश्रुविरे पथि ।। 2.16.36 ।।

तत इति । तत: तत्र वीथ्याम् । तदा निर्गमनकाले ।। 2.16.36 ।।



हर्म्यवातायनस्थाभिर्भूषिताभिस्समन्तत: ।

कीर्य्यमाण: सुपुष्पौघैर्ययौ स्त्रीभिररिन्दम: ।। 2.16.37 ।।

हर्म्यवातायनस्थाभिरिति । हर्म्यवातायनस्थाभि: प्रासादगवाक्षस्थाभि: ।। 2.16.37 ।।



रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया तत: ।

वचोभिरग्र्यैर्हर्म्यस्था: क्षितिस्थाश्च ववन्दिरे ।। 2.16.38 ।।

राममिति । रामपिप्रीषया रामप्रीणनेच्छया । ववन्दिरे तुष्टुवु: । "वदि अभिवादनस्तुत्यो:" इति धातु: ।। 2.16.38 ।।



नूनं नन्दति ते माता कौसल्या मातृनन्दन ।

पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम् ।। 2.16.39 ।।

स्तुतिप्रकारमेवाह--नूनमित्यादि । नन्दतीत्यत्रेतिकरणं द्रष्टव्यम् । तस्य ववन्दिर इति पूर्वेण सम्बन्ध: । सिद्धमात्रं सफलगमनं अत एव पित्र्यं राज्यम् । अवस्थितं अधिष्ठितम् ।। 2.16.39 ।।



सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीवराम् ।

अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ।। 2.16.40 ।।

तया सुचरितं देव्या पुरा नूनं महत्तप: ।

रोहिणीव शशाङ्केन रामसंयोगमाप या ।। 2.16.41 ।।

इति प्रासाद शृङ्गेषु प्रमदाभिर्नरोत्तम: ।

शुश्राव राजमार्गस्थ: प्रिया वाच उदाहृता: ।। 2.16.42 ।।

उत्तरश्लोकार्थहेतुत्वेनाह--सर्वेति । हि यस्मात्कारणात् । एवं तस्मात् तया सुचरितमित्युक्तरीत्या प्रमदाभिरुदीरिता इति योजना ।। 2.16.4042 ।।



स राघवस्तत्र कथाप्रपञ्चान् शुश्राव लोकस्य समागतस्य ।

आत्माधिकारा विविधाश्च वाच: प्रहृष्टरूपस्य पुरो जनस्य ।। 2.16.43 ।।

स इति । कथाप्रपञ्चान् लौकिककथाविस्तारान् । आत्माधिकारा: आत्मानमधिकृत्य प्रवृत्ता: । पुर: पुरस्य सम्बन्धिनो जनस्य ।। 2.16.43 ।।



एष श्रियं गच्छति राघवो ऽद्य राजप्रसादाद्विपुलां गमिष्यन् ।

एते वयं सर्वसमृद्धकामा एषामयं नो भविता प्रशास्ता ।। 2.16.44 ।।

एष इति । श्रियं गमिष्यन् गच्छति श्रियं प्राप्तुं गच्छति ।। 2.16.44 ।।



लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय ।

न ह्यप्रियं किञ्चन जातु कश्चित् पश्येन्न दु:खं मनुजाधिपे ऽस्मिन् ।। 2.16.45 ।।

लाभ इति । अस्य जनस्यायमेव लाभ: यदेष सर्वं राष्ट्रं प्रपत्स्यते अस्मिन् मनुजाधिपे सति कश्चित् जातु कदाचित् । किञ्चनाप्यप्रियं प्रियाभावं दु:खमनिष्टं च न पश्येत् ।। 2.16.45 ।।



स घोषवद्भिश्च हयैर्मतङ्गजै: पुरस्सरै: स्वस्तिकसूतमागधै: ।

महीयमान: प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ ।। 2.16.46 ।।

सघोषवद्भिरिति । स्वस्तिकसूतमागधै: स्वस्तिका: जयजयेतिमङ्गलं प्रयुञ्जाना:, वन्दिन: इत्यर्थ: । सूता: ब्राह्मण्यां क्षत्र्रियाज्जाता: सारथ्येस्तुतिकर्मणि च नियुक्ता: । "ब्राह्मण्यां क्षत्र्रियात्सूत:" इत्यमर: । मागधा: क्षत्र्रियायां वैश्याज्जाता: । राज्ञां प्रबोधनकर्मणि नियुक्ता: "मागध: क्षत्र्रियाविशो:" इत्यमर: ।। 2.16.46 ।।



करेणुमातङ्गरथाश्वसङ्कुलं महाजनौघप्रतिपूर्णचत्वरम् ।

प्रभूतरत्नं बहुपण्यसञ्चयं ददर्श रामो रुचिरं महापथम् ।। 2.16.47 ।।

करेण्विति । रामो महापथं ददर्शेत्यन्वय: ।। 2.16.47 ।।



इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षोडश: सर्ग: ।। 16 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामानयणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षोडश: सर्ग: ।। 16 ।।