Content

[Rama watches the splendour of the highway, listens to the words of his friends -- and enters his father's palace.]

स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः।

पताकाध्वजसम्पन्नं महार्हागरुधूपितम्।।2.17.1।।

अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम्।

Translation

श्रीमान् glorious, सम्प्रहृष्टसुहृज्जनः friends rejoicing, सः रामः that Rama, रथम् chariot, आस्थाय aboard, पताकाध्वजसम्पन्नम् decorated with banners and pennants, महार्हागरुधूपितम् fragrant
with expensive incense and agaru, नानाजनसमाकुलम् crowded with a variety of people, नगरम् city, अपश्यत् beheld.

Surrounded by friends overwhelmed with great joy, that glorious Rama aboard the chariot beheld the city decorated with banners and pennants and made fragrant with expensive incense and agaru and crowded with multitudes of people.
Sanskrit Commentary by Govindaraja
स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जन: ।

पताकाध्वजसम्पन्नं महार्हागरुधूपितम् ।

अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम् ।। 2.17.1 ।।

अथ रामस्य राजसमीपगमनं सप्तदशे--स राम इत्यादि । पताकाध्वजसम्पन्नं पताका: अनामाङ्किता:, तदङ्कितानि ध्वजानि ।। 2.17.1 ।।



स गृहैरभ्रसङ्काशै: पाण्डरैरुपशोभितम् ।

राजमार्गं ययौ रामो मध्येनागरुधूपितम् ।। 2.17.2 ।।

सगृहैरिति । मध्येन वीथीमध्येन । प्रकृत्यादित्वात्तृतीया ।। 2.17.2 ।।



चन्दनानां च मुख्यानामगरूणां च सञ्चयै: ।

उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च ।। 2.17.3 ।।

अविद्धाभिश्च मुक्ताभिरुत्तमै: स्फाटिकैरपि ।

शोभमानमसम्बाधैस्तं राजपथमुत्तमम् ।। 2.17.4 ।।

संवृतं विविधै: पण्यैर्भक्ष्यैरुच्चावचैरपि ।

ददर्श तं राजपथं दिवि देवपथं यथा ।। 2.17.5 ।।

कीदृशं राजमार्गं ययावित्याकांक्षायामाह--चन्दनानामित्यादिना । क्षौमकौशाम्बरस्य क्षौमं दुकूलम् । "क्षौमं दुकूलम्" इत्यमर: । कौशाम्बरं कौशेयम् । अविद्धाभि: अकृतरन्ध्राभि:, नूतनाभिरिति यावत् । स्फाटिकै: स्फटिकैः । स्वार्थे अण्प्रत्यय: । तं राजपथं सकलभाग्ययुक्तम् राजमार्गमित्यर्थ: । यद्वा प्रथमस्य राजपथपदस्य ददर्शेत्यनेन सम्बन्ध: । द्वितीयस्य वक्ष्यमाणेन ययावित्यनेन सम्बन्ध: ।। 2.17.35 ।।



दध्यक्षतहविर्लाजैर्धूपैरगरुचन्दनै: ।

नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम् ।। 2.17.6 ।।

आशीर्वादान् बहून् शृण्वन् सुहृद्भि: समुदीरितान् ।

यथार्हं चापि सम्पूज्य सर्वानेव नरान् ययौ ।। 2.17.7 ।।

दध्यक्षतहविरिति । अभ्यर्चितचत्वरं प्रतिपूजिताङ्गणम् "अङ्गणं चत्वराजिरे" इत्यमर: । यथार्हमिति वीक्षणभ्रूक्षेपवचनाञ्जलिप्रणामादिभिरित्यर्थ: ।। 2.17.67 ।।



पितामहैराचरितं तथैव प्रपितामहै: ।

अद्योपादाय तं मार्गमभिषिक्तो ऽनुपालय ।। 2.17.8 ।।

पितामहैरिति । अद्याभिषक्तस्त्वं पितामहाद्यैराचरितं तं प्रसिद्धं मार्गंमर्यादामनुपालय ।। 2.17.8 ।।



यथा स्म लालिता: पित्रा यथा पूर्वै: पितामहै: ।

तत: सुखतरं रामे वत्स्यामस्सति राजनि ।। 2.17.9 ।।

यथेति । रामे राजनि सति । सर्वे वयं तत: पूर्वस्मात् सुखतरं यथा भवति तथा वत्स्याम: ।। 2.17.9 ।।



अलमद्य हि भुक्तेन परमार्थैरलं च न: ।

यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ।। 2.17.10 ।।

अलमिति । भुक्तेन भोजनेन । परमार्थै: परमपुरुषार्थसाधनभूतै:, जपहोमध्यानादिभिरित्यर्थ: । राज्ये प्रतिष्ठितं अभिषिक्तम्, पुन: स्वगृहाय निर्यान्तम् । यथा यथावत् पश्याम । प्रार्थनायां लोट् ।। 2.17.10 ।।



ततो हि न: प्रियतरं नान्यत् किञ्चिद्भविष्यति ।

यथाभिषेको रामस्य राज्येनामिततेजस: ।। 2.17.11 ।।

तत इति । राज्येनाभिषेको राज्यायाभिषेक: । स यथा प्रियतरस्तथा ततो ऽन्यत्प्रियतरं किञ्चिन्नास्ति ।। 2.17.11 ।।



एताश्चान्याश्च सुहृदामुदासीन: कथा: शुभा: ।

आत्मसम्पूजनी: शृण्वन् ययौ रामो महापथम् ।। 2.17.12 ।।

एता इति । उदासीन: स्तुतिश्रवणेन निर्विकार: । आत्मसम्पूजनी: आत्मसम्पूजाजननी: मनोहर्षजननीर्वा । महापथं राजमार्गम् ।। 2.17.12 ।।



न हि तस्मान्मन: कश्चिच्चक्षुषी वा नरोत्तमात् ।

नर: शक्नोत्यपाक्रष्टुमतिक्रान्ते ऽपि राघवे ।। 2.17.13 ।।

नहीति । कश्चिदपि नर: मनश्चक्षुषी वा तस्मात् अपाक्रष्टुं निवर्तयितुं न शक्नोति किमुत नारीजन इति भाव: । अतिक्रान्ते दूरगते ऽपि किमुत सन्निहित इत्याशय: ।। 2.17.13 ।।



यश्च रामं न पश्येत्तु यं च रामो न पश्यति ।

निन्दित: स वसेल्लोके स्वात्माप्येनं विगर्हते ।। 2.17.14 ।।

यश्चेति । चकारो भिन्नक्रम: । रामं च दर्शनकाल एव परिपूर्णामृतसरसि मज्जयन्तमपि । यस्तु अतिशयितवैलक्षण्यसम्पन्नोपि । न पश्येत् स्तुतिसल्लापसत्काराद्यभावेपि अचेतनविलक्षणाकारेण चक्षुर्विषयं न करोति । अत एव यं रामो ऽपि न पश्यति नरस्याभिमुख्ये हि भगवान् कटाक्षयति । स: राममदृष्ट्वा तत्कटाक्षाविषय: निन्दितो वसेत् यावत्कालं निन्दित: स्यात् । लोके निन्दित: स्यात्तं निन्दितुमनर्ह: कोपि जनोनास्तीति भाव: । लोके विषयप्रवण: कश्चित्सत्यामपि लोकगर्हायां स्वयं सन्तुष्टो भवति न तथेत्याह स्वात्माप्येनं विगर्हत इति । स्वान्त:करणमप्येनं विशेषेण गर्हते, रामादर्शनाल्लोकगर्हया चेति भाव: ।। 2.17.14 ।।



सर्वेषां हि स धर्मात्मा वर्णानां कुरुते दयाम् ।

चतुर्णां हि वयस्स्थानां तेन ते तमनुव्रता: ।। 2.17.15 ।।

सर्वेषामिति । स: राम: चतुर्णां वर्णानां सर्वेषामपि जनानाम् । सप्तम्यर्थे षष्ठी । वय: स्थानं प्रमाणं यस्यास्तां वयो ऽनुरूपां दयाम् । हि यस्मात्कारणात् कुरुते तेन कारणेन ते तमनुव्रता इत्यन्वय: । वयस्थानां वृद्धानामिति वा सर्वविशेषणम् ।। 2.17.15 ।।



चतुष्पथान् देवपथांश्चैत्यान्यायतनानि च ।

प्रदक्षिणं परिहरन् जगाम नृपते: सुत: ।। 2.17.16 ।।

चतुष्पथानिति । चतुष्पथान् श्रृङ्गाटकानि । देवपथान् देवालयान् । चैत्यानि चैत्यवृक्षस्थानानि । आयतनानि सभादीनि च परिहरन् अप्रदक्षिणं परिहरन् प्रदक्षिणं यथा भवति तथा जगामेति सम्बन्ध: ।। 2.17.16 ।।



स राजकुलमासाद्य मेघसङ्घोपमै: शुभै: ।

प्रासादश्रृङ्गैर्विविधै: कैलासशिखरोपमै: ।। 2.17.17 ।।

आवारयद्भिर्गगनं विमानैरिव पाण्डरै: ।

वर्द्धमानगृहैश्चापि रत्नजालपरिष्कृतै: ।। 2.17.18 ।।

तत्पृथिव्यां गृहवरं महेन्द्रभवनोपमम् ।

राजपुत्र: पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ।। 2.17.19 ।।

स इत्यादि । राजकुलं राजगृहं "कुलं गृहे ऽपि" इत्यमर: । वर्द्धमानगृहै: वर्द्धमानलक्षणाधिष्ठानसमेतगृहै: । पृथिव्यां गृहवरम्, पृथिव्यामद्वितीयमित्यर्थ: । पितुर्वेश्म पितृवासस्थानम् ।। 2.17.1719 ।।



स कक्ष्या धन्विभिर्गुप्तास्तिस्रो ऽतिक्रम्य वाजिभि: ।

पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तम: ।। 2.17.20 ।।

स इति । वाजिभि: रथयुक्तैर्वाजिभि: । पदाति: पादचारी ।। 2.17.20 ।।



स सर्वा: समतिक्रम्य कक्ष्यादशरथात्मज: ।

सन्निवर्त्त्य जनं सर्वं शुद्धान्तं पुनरभ्यगात् ।। 2.17.21 ।।

तत: प्रविष्टे पितुरन्तिकं तदा जन: स सर्वोमुदितो नृपात्मजे ।

प्रतीक्षते तस्य पुनर्विनिर्गमं यथोदयं चन्द्रमस: सरित्पति: ।। 2.17.22 ।।

स इति । शुद्धान्तम् अन्त:पुरम् ।। 2.17.2122 ।।



इत्यार्षे श्रीरामायणेवाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदश: सर्ग: ।। 17 ।।

इति श्रीगो0 श्रीराम0 पीतां0 अयो0 सप्तदश: सर्ग: ।। 17 ।।