Content

रामेत्युक्त्वा तु वचनं बाष्पपर्याकुलेक्षणः।

शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम्।।2.18.3।।

Translation

नृपतिः king, राम इति saying 'Rama', वचनम् word, उक्त्वा having uttered, बाष्पपर्याकुलेक्षणः eyes full of tears, दीनः wretched, ईक्षितुम् to look at, न शशाक was not able, अभिभाषितुम् to speak,
न not possible.

Dasaratha uttered the word 'Rama', but thereafter could neither say any more in distress nor look at him becuase his eyes were brimming with tears.
Sanskrit Commentary by Govindaraja
स ददर्शासने रामो निषण्णं पितरं शुभे ।

कैकेयीसहितं दीनं मुखेन परिशुष्यता ।। 2.18.1 ।।

स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् ।

ततो ववन्दे चरणौ कैकेय्या: सुसमाहित: ।। 2.18.2 ।।

स इति । आसने पर्यङ्के । 'मूर्च्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते' इत्युत्तरत्र वक्ष्यमाणत्वात् । मुखेनेत्युपलक्षणे तृतीया ।। 2.18.12 ।।



रामेत्युक्त्वा च वचनं बाष्पपर्याकुलेक्षण: ।

शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ।। 2.18.3 ।।

रामेति । नाभिभाषितुं रामेत्यस्मादधिकमित्यर्थ: ।। 2.18.3 ।।



तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् ।

रामो ऽपि भयमापन्न: पदा स्पृष्ट्वेव पन्नगम् ।। 2.18.4 ।।

तदिति । अपूर्वम् अदृष्टपूर्वम् । रामोपीत्यपिशब्देन दु:खसहस्रसद्भावेप्यक्षुभितो रामो दशरथविषादस्य स्वहेतुकत्वमाशङ्क्य भयमापन्न इत्यवगन्तव्यम् ।। 2.18.4 ।।



इन्द्रियैरप्रहृष्टैस्तं शोकसन्तापकर्शितम् ।

निश्वसन्तं महाराजं व्यथिताकुलचेतसम् ।। 2.18.5 ।।

ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् ।

उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा ।। 2.18.6 ।।

इन्द्रियैरित्यादिश्लोकद्वये दृष्ट्वा भयमापन्न इत्येतदनुकृष्य सम्बध्यते । उपप्लुतं राहुग्रस्तम् । उक्तानृतमृषिं यथा ऋषिमिव स्थितम्, निस्तेजस्कमित्यर्थ: ।। 2.18.56 ।।



अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन् ।

बभूव संरब्धतर: समुद्र इव पर्वणि ।। 2.18.7 ।।

अचिन्त्यकल्पमिति । अचिन्त्यकल्पम्, असम्भावितमित्यर्थ: । उपधारयन् विचारयन् । संरब्धतर: सम्भ्रान्ततर: ।। 2.18.7 ।।



चिन्तयामास च तदा राम: पितृहितेरत: ।

किं स्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ।। 2.18.8 ।।

चिन्तयामासेति । किंस्वित् किंवा ।। 2.18.8 ।।



अन्यदा मां पिता दृष्ट्वा कुपितो ऽपि प्रसीदति ।

तस्य मामद्य संप्रेक्ष्य किमायास: प्रवर्तते ।। 2.18.9 ।।

स दीन इव शोकार्त्तो विषण्णवदनद्युति: ।

कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ।। 2.18.10 ।।

अद्यैवेत्येवकारव्यवच्छेद्यमाह--अन्यदेति । आयास: चित्तक्लेश: । इति चिन्तयामासेत्यन्वय: ।। 2.18.910 ।।



कच्चिन्मया नापराद्धमज्ञानाद्येन मे पिता ।

कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ।। 2.18.11 ।।

अप्रसन्नमना: किं नु सदा मां प्रति वत्सल: ।

विवर्णवदनो दीनो न हि मामभिभाषते ।। 2.18.12 ।।

कच्चिदिति । नापराद्धमपराधो न कृत: । अज्ञानात् प्रमादात् ।। 2.18.1112 ।।



शारीरो मानसो वापि कच्चिदेनं न बाधते ।

सन्तापो वाभितापो वा दुर्ल्लभं हि सदा सुखम् ।। 2.18.13 ।।

शारीर इति । शारीर: सन्तापो व्याधि: । मानसो ऽभिताप आधि: । दुर्लभं हीति पुण्यपापारब्धत्वान्मानुषशरीरस्येति भाव: ।। 2.18.13 ।।



कच्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने ।

शत्रुध्ने वा महासत्त्वे मातृ़णां वा ममाशुभम् ।। 2.18.14 ।।

अतोषयन्महाराजमकुर्वन् वा पितुर्वच: ।

मुहूर्त्तमपि नेच्छेयं जीवितुं कुपिते नृपे ।। 2.18.15 ।।

कच्चिदिति । मातृ़णामिति निर्द्धारणे षष्ठी । कच्चिदिति प्रश्ने । किञ्चिदशुभं न कच्चिदितिसम्बन्ध: ।। 2.18.1415 ।।



यतोमूलं नर: पश्येत् प्रादुर्भावमिहात्मन: ।

कथं तस्मिन्न वर्त्तेत प्रत्यक्षे सति दैवते ।। 2.18.16 ।।

यत इति । इह जगति । नरः आत्मनो देहस्य । प्रादुर्भावम् उत्पत्तिम् । यतोमूलं यत्कारणकं पश्येत् प्रत्यक्षे दैवते सति सिद्धे तस्मिन् पितरि कथं न वर्त्तेत, तद्वशे एव वर्त्तेतेत्यर्थ: ।। 2.18.16 ।।



कच्चित्ते परुषं किञ्चिदभिमानात् पिता मम ।

उक्तो भवत्या कोपेन यत्रास्य लुलितं मन: ।। 2.18.17 ।।

कच्चित्त इति । ते अभिमानात् तव वाल्लभ्यात् । कोपेन वा मम पिता भवत्या किञ्चित्परुषमुक्त: कच्चित् । यत्र येनास्य मन: लुलितं कलुषितम् ।। 2.18.17 ।।



एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छत: ।

किंनिमित्तमपूर्वो ऽयं विकारो मनुजाधिपे ।। 2.18.18 ।।

एतदिति । किंनिमित्तमित्याद्याचक्ष्वेति पूर्वोक्तस्य सर्वस्य संग्रह: ।। 2.18.18 ।।



एवमुक्ता तु कैकेयी राघवेण महात्मना ।

उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वच: ।। 2.18.19 ।।

एवमिति । एवम् इति । धृष्टं प्रत्यक्षते रामानिष्टवचनविषयवैक्लव्यरहितम् ।। 2.18.19 ।।



न राजा कृपितो राम व्यसनं नास्य किञ्चन ।

किञ्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ।। 2.18.20 ।।

न राजेति ।। 2.18.20 ।।



प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते ।

तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम ।। 2.18.21 ।।

त्वद्भयादित्यस्य विवरणम्--प्रियमिति । आश्रुतं प्रतिज्ञातम् ।। 2.18.21 ।।



एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च ।

स पश्चात्तप्यते राजा यथान्य: प्राकृतस्तथा ।। 2.18.22 ।।

तत्किमित्यपेक्षायां सामान्यतो दर्शयति--एष इत्यादिना ।। 2.18.22 ।।



अतिसृज्य ददानीति वरं मम विशांपति: ।

स निरर्थं गतजले सेतुं बन्धितुमिच्छति ।। 2.18.23 ।।

अतिसृज्येति । अतिसृज्य प्रतिज्ञाय । गतजले सेतुं बन्धितुमिच्छतीति दानस्य पूर्वमेव कृतत्वात् इदानीं तत्परिहारव्यापारो व्यर्थ इति भाव: ।। 2.18.23 ।।



धर्ममूलमिदं राम विदितं च सतामपि ।

तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ।। 2.18.24 ।।

धर्ममूलमिति । इदं जगद्धर्ममूलम् । इदं च सतां विदितं सद्भिर्विदितम् । "क्तस्य च वर्त्तमाने" इति षष्ठी । तत्तस्मात्सत्यं सत्यरूपधर्मम् । राजा त्वत्कृते त्वत्प्रयोजनाय । मयि कुपित: सन् यथा न त्यजेत् तथा कुर्वित्यर्थ: ।। 2.18.24 ।।



यदि तद्वक्ष्यते राजा शुभं वा यदि वाशुभम् ।

करिष्यसि तत: सर्वमाख्यास्यामि पुनस्त्वहम् ।। 2.18.25 ।।

तर्हि तद्विशेषतो वक्तव्यमित्यत्राह--यदीति । शुभमशुभं वा तत्प्रतिज्ञातं राजा यद्वक्ष्यति तत् त्वं करिष्यसि यदि तदा राज्ञो विवक्षितमहमेवाख्यास्यामीत्यर्थ: ।। 2.18.25 ।।



यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते ।

ततो ऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ।। 2.18.26 ।।

राजैव कुतो न वदतीत्यत्राह--यदीति । न विपत्स्यते यदि विफलं न भविष्यति चेदित्यर्थ: ।। 2.28.26 ।।



एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् ।

उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ ।। 2.18.27 ।।

एतदिति । व्यथित: गुरुवचनं करिष्यति नवेति सन्देहस्य विषयो ऽस्मीति सन्तप्त इत्यर्थ: ।। 2.28.27 ।।



अहो धिङ्नार्हसे देवि वक्तुं मामीदृशं वच: ।

अहं हि वचनाद्राज्ञ: पतेयमपि पावके ।

भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे ।। 2.18.28 ।।

व्यथामेवाह--अहो इत्यादिना ।। 2.18.28 ।।



नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ।। 2.18.29 ।।

नियुक्त इति । गुरुत्वपितृत्वनृपत्वहितपरत्वानि वचनकरणहेतव: । करिष्ये तदित्यनुकर्ष: ।। 2.18.29 ।।



तद्ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम् ।

करिष्ये प्रतिजाने च रामोद्विर्नाभिभाषते ।। 2.18.30 ।।

तमार्जवसमायुक्तमनार्या सत्यवादिनम् ।

उवाच रामं कैकेयी वचनं भृशदारुणम् ।। 2.18.31 ।।

पुरा दैवासुरे युद्धे पित्रा ते मम राघव ।

रक्षितेन वरौ दत्तौ सशल्येन महारणे ।। 2.18.32 ।।

तदिति । यत्कार्यमभिकांक्षितं तद्वचनं तद्विषयवचनं ब्रूहि । तत्कार्यं करिष्ये, प्रतिजाने च प्रतिज्ञां करोमि च । रामो द्विर्नाभिभाषते विना प्रतिज्ञया रामो द्विरुक्तिं न करोतीत्यर्थ: ।। 2.18.3032 ।।



तत्र मे याचितो राजा भरतस्याभिषेचनम् ।

गमनं दण्डकारण्ये तव चाद्यैव राघव ।। 2.18.33 ।।

यदि सत्यप्रतिज्ञां त्वं पितरं कर्तुमिच्छसि ।

आत्मानं नरश्रेष्ठ मम वाक्यमिदं शृणु ।। 2.18.34 ।।

तत्रेति । तत्र वरप्रदाननिमित्तम् ।। 2.18.3334 ।।



सन्निदेशे पितुस्तिष्ठ यथा ऽनेन प्रतिश्रुतम् ।

त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ।। 2.18.35 ।।

सन्निदेश इति । सन्निदेशे नियमने ।। 2.18.35 ।।



भरतस्त्वभिषिच्येत यदेतदभिषेचनम् ।

त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ।। 2.18.36 ।।

सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रित: ।

अभिषेकमिमं त्यक्त्वा जटाजिनधरो वस ।। 2.18.37 ।।

भरत: कोसलपुरे प्रशास्तु वसुधामिमाम् ।

नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम् ।। 2.18.38 ।।

भरत इति । यदेतदभिषेचनम् अभिषेकसाधनम् । त्वदर्थे विहितं तेन सर्वेण राज्ञा भरतो ऽभिषिच्येतेति योजना ।। 2.18.3638 ।।



एतेन त्वां नरेन्द्रो ऽयं कारुण्येन समाप्लुत: ।

शोकसंक्लिष्टवदनो न शक्नोति निरीक्षितुम् ।। 2.18.39 ।।

एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन ।

सत्येन महता राम तारयस्व नरेश्वरम् ।। 2.18.40 ।।

एतेनेति । एतेन वरद्वयप्रदाननिमित्तेन ।। 2.18.3940 ।।



इतीव तस्यां परुषं वदन्त्यां न चैव राम: प्रविवेश शोकम् ।

प्रविव्यथे चापि महानुभावो राजा तु पुत्रव्यसनाभितप्त: ।। 2.18.41 ।।

इतीति । इवशब्देन अन्यान्यपि परुषाणि बहून्युक्तनीति गम्यते । शोकं मुखवैवर्ण्यादिबाह्यविकारम् । प्रविव्यथे चापि रामविकारादर्शनेनाप्यधिकं विव्यथ इत्यर्थ: ।। 2.18.41 ।।



इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादश: सर्ग: ।। 18 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बरख्याने अयोध्याकाण्डव्याख्याने अष्टादश: सर्ग: ।। 18 ।।