Content

[Dasaratha requests Vasistha and Vamadeva to make preparations for installation of Rama-- Orders for procurement of necessary materials--Sumantra brings Rama to the assembly--Dasaratha counsels Rama.]

तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः।

प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः।।2.3.1।।

Translation

राजा king, सर्वशः in all ways, प्रगृहीतानि held out, तेषाम् their, अञ्जलिपद्मानि palms folded like lotuses, प्रतिगृह्य having received, तेभ्यः for them, प्रियहितम् pleasing and beneficial, वचः words, अब्रवीत् spoke.

The citizens held out their palms folded like lotuses in reverence and urged king Dasaratha in all possible ways (to coronate Rama). He reciprocated their respect with words preasing and beneficial to them:
Sanskrit Commentary by Govindaraja
तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वश: ।

प्रतिगृह्याब्रवीद्राजा तेभ्य: प्रियहितं वच: ।। 2.3.1 ।।

एवं निश्चिताभिषेकस्य सम्भारसम्भरणप्रवृत्तिस्तृतीये--तेषामिति । प्रगृहीतानि प्रकर्षेण गृहीतानि शिरसि बद्धानीत्यर्थ: । अञ्जलिरूपाणि पद्मानि अञ्जलिपद्मानि, जञ्जलीनां पद्ममुकुलाकारत्वादत्रत्यपद्मशब्द: पद्ममुकुलपर: । प्रतिगृह्य वीक्षणवचनप्रत्यञ्जलिभिर्यथायोगमञ्जलीनां प्रतिग्रह: ।। 2.3.1 ।।



अहोस्मि परमप्रीत: प्रभावश्चातुलो मम ।

यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ।। 2.3.2 ।।

अहो इति । अहोस्मीति सन्धिरार्ष: ।। 2.3.2 ।।



इति प्रत्यर्च्य तान् राजा ब्राह्मणानिदमब्रवीत् ।

वसिष्ठं वामदेवं च तेषामेवोपश्रृण्वताम् ।। 2.3.3 ।।

इतीति । राजा दशरथ: । इति पूर्वोक्तरीया । तान् प्रार्थनापरान् ब्राह्मणान् । अभ्यर्च्य मधुरवचनै: सम्मान्य । तेषामेवोपश्रृण्वतां तेषु उपश्रृण्वत्सु सत्स्वेव वसिष्ठं वामदेवं चेदमब्रवीत् ।। 2.3.3 ।।



चैत्र: श्रीमानयं मास: पुण्य: पुष्पितकानन: ।

यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ।। 2.3.4 ।।

अभिषेकविषयनिरतिशयादरेण तदुचितकालं प्रशंसति--चैत्र इति । चैत्र: यथेतरेभ्य: प्रधानभूतो राम: तथा मासान्तरेभ्यो ऽयं मास: । श्रीमान् यथा सर्वसुखावहत्वाद्राम: सर्वेषां राजा तथा सर्वसुखकरत्वादसौ सर्वमासानां राजा । अयं मास: अभिषेकमनोरथसमय एव सन्निहित: । अयं मास: अवतारहेतुरेवाभिषेकहेतु: । पुण्य: रमणीय: पुण्यवर्द्धनो वा । पुष्पितकानन: अस्मत्प्रयत्नालंकृतनगरवैलक्षण्येन स्वयमेवालंकृतवन: । यद्वा रामस्य कनककिरीटधारणसमये स्वयं कुसुममुकुटधारी वनप्रदेशो जात: ।। 2.3.4 ।।



राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ।

शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिप: ।

वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ।। 2.3.5 ।।

राज्ञ इति । वसिष्ठशब्दो वामदेवस्याप्युपलक्षणपर:, वसिष्ठं वामदेवमिति द्वयो: प्रस्तुतत्वात् 'एवं व्यादिश्य विप्रौ तौ' इत्युपरिवक्ष्यमाणत्वाच्च प्राधान्याद्वसिष्ठस्योपादानम् । जनघोष: चिरप्रार्थितरामाभिषेकविषयोस्मन्मनोरथ: फलित इत्येवंरूप: ।। 2.3.5 ।।



अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ।

तदद्य भगवन् सर्वमाज्ञापयितुमर्हसि ।। 2.3.6 ।।

अभिषेकायेति । सपरिच्छदं सोपकरणम् ।। 2.3.6 ।।



तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तम: ।

आदिदेशाग्रतो राज्ञ: स्थितान् युक्तान् कृताञ्जलीन् ।। 2.3.7 ।।

तदिति । युक्तान् राजकार्यनियुक्तान् सुमन्त्रादीन् । अधिकारिण इति यावत् ।। 2.3.7 ।।



सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ।

शुक्लमाल्यांश्च लाजांश्च पृथक् च मधुसर्पिषी ।। 2.3.8 ।।

अहतानि च वासांसि रथं सर्वायुधान्यपि ।

चतुरङ्गबलं चैव गजं च शुभलक्षणम् ।। 2.3.9 ।।

चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डरम् ।

शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् ।। 2.3.10 ।।

हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ।

उपस्थापयत प्रातरग्न्यागारं महीपते: ।। 2.3.11 ।।

यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ।। 2.3.12 ।।

सुवर्णादीनीति । बलीन् उपहारान् । "करोपहारयो: पुंसि बलि:" इत्यमर: । ओषधय: व्रीहिमुद्गादय: । शुक्लमाल्यांश्चेति लिङ्गव्यत्यय आर्ष: । पृथक्पृथक् पात्रगृहीते मधुसर्पिषी क्षौद्र घृते । अहतानि "ईषद्धौतं नवं श्वेतं सदृशं यन्नधारितम् । अहतं तद्विजानीयाद्दैवे पित्र्ये च कर्मणि ।।" इत्युक्तजलप्रक्षालनादिगुणयुक्तानि। चामरव्यजने चामररूपव्यजने। शातकुम्भानां सौवर्णानाम्। हिरण्यश्रृङ्गं हिरण्यालंकृतश्रृङ्गम्। समग्रं सम्पूर्णावयवम्। उपस्थापयत प्रापयत। अग्न्यगारं अग्निहोत्रगृहम्। अन्यत् गन्धपुष्पादिकम्। एष्टव्यं अपेक्षणीयम् ।। 2.3.812 ।।



अन्त:पुरस्य द्वाराणि सर्वस्य नगरस्य च ।

चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभि: ।। 2.3.13 ।।

अन्त:पुरेति । अन्त: पुरस्य राजगृहस्य सर्वस्य नगरस्य द्वाराणि सर्वाणि नगरद्वाराणीत्यर्थ: । घ्राणहारिभि: घ्राणद्वारा पुरुषाकर्षकै: ।। 2.3.13 ।।



प्रशस्तमन्नं गुणवद्दधिक्षीरोपसेचनम् ।

द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत् ।। 2.3.14 ।।

प्रशस्तमिति । सहस्रमेव साहस्रम् । शतसाहस्रशब्दोपरिमितवचन: । विषयसप्तमी । अलं पर्य्याप्तं "अलं भूषणपर्याप्तिशक्तिवारणवाचकम्" इत्यमर: । शतसाहस्रविषये प्रकामं अत्यर्थं, पर्याप्तं प्राशस्त्यादिगुणविशिष्टं यदन्नं भवेत्तत्सम्पाद्यतामित्यर्थ: ।। 2.3.14 ।।



सत्कृत्य द्विजमुख्यानां श्व: प्रभाते प्रदीयताम् ।

घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कला: ।। 2.3.15 ।।

सत्कृत्येति । द्विजमुख्यानां द्विजमुख्येभ्य: सत्कृत्य दीयताम्, तदन्नमिति शेष: । पुष्कला: सम्पूर्णा: ।। 2.3.15 ।।



सूर्ये ऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् ।

ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ।

आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ।। 2.3.16 ।।

सूर्य इत्यादि । सूर्ये अभ्युदितमात्रे सूर्योदयानन्तरमेव श्व: परेद्यु: । स्वस्ितवाचनं भविता तदर्थं ब्राह्मणाश्च निमन्त्र्यन्ताम् आहूयन्ताम् । आसनानि, तेषामिति शेष: । आबध्यन्तां प्रतिगृहमिति शेष: ।। 2.3.16 ।।



सर्वे च तालावचरा गणिकाश्च स्वलंकृता: ।

कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मन: ।। 2.3.17 ।।

सर्व इति । तालैरवचरन्ति जीवन्तीति तालावचरा: नर्तकादय: । कक्ष्यां द्वितीयामिति अन्त:कक्ष्यायामभिषेकप्रवृत्तेस्तत्र च ब्राह्मणैर्वस्तव्यत्वादिति भाव: ।। 2.3.17 ।।



देवायतनचैत्येषु सान्नभक्षा: सदक्षिणा: ।

उपस्थापयितव्या: स्युर्माल्ययोग्या: पृथक्पृथक् ।। 2.3.18 ।।

देवायतनचैत्येषु देवगृहेषु चतुष्पथेषु चेत्यर्थ: । अन्नभक्षै: सह वर्तन्त इति सान्नभक्षा: । अन्नमोदकहस्ता इति यावत् । माल्यप्रदानयोग्या: माल्ययोग्या: । मध्यमपदलोपिसमास: । माल्यार्थसाधनानि पृथक्पृथगिति, देवायतनचैत्ययोरिति शेष: । ब्राह्मणैर्देवता: पूजनीया इत्यर्थ: ।। 2.3.18 ।।



दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवासस: ।

महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम् ।। 2.3.19 ।।

दीर्घासिबद्धा इति । दीर्घासिबद्धा: बद्धदीर्घासय: । "प्रहरणार्थेभ्य: परे निष्ठासप्तम्यौ भवत:" इति निष्ठाया:

परनिपात: । महानुदयो रामाभिषेकरूपाभ्युदयो यस्मिन् तं महोदयम् ।। 2.3.19 ।।



एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ ।

चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ।। 2.3.20 ।।

एवमिति । विप्रौ वसिष्ठवामदेवौ । क्रिया: पुरोहितकर्त्तव्या: । तत्र राजगृहे । व्यादिश्य आज्ञाप्य । यच्छेषं दासीपरिजनाद्यानयनं तदपि पार्थिवाय राज्ञे निवेद्य चक्रतु: ।। 2.3.20 ।।



कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् ।

यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ।। 2.3.21 ।।

कृतमिति । अथ जगत्पतिं राजानमभिगम्य । यथोक्तवचनम् उक्तवचनमनतिक्रम्य कृतमिति प्रीतौ हर्षयुक्तौ । प्रीतिर्मनोगतो हर्ष:, मानसप्रीतिजन्यरोमाञ्चादिशरीरविकारो हर्ष: तद्युक्तौ । पूर्वश्लोके निवेद्येत्यनेन शेष सम्पादनविषयनिवेदनमुक्तम् । अब्रूतामिति पूर्वोक्तसकलसिद्धिविषयमिति न पुनरुक्ति: ।। 2.3.21 ।।



तत: सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत् ।

राम: कृतात्मा भवता शीघ्रमानीयतामिति ।। 2.3.22 ।।

स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ।

रामं तत्रानयाञ्चक्रे रथेन रथिनां वरम् ।। 2.3.23 ।।

तत इति । कृतात्मा सुशिक्षितबुद्धि: । शीघ्रागमनहेतुरयम् । "आत्मा जीवे धृतौ बुद्धौ" इत्यमर: ।। 2.3.2223 ।।



अथ तत्र समासीनास्तदा दशरथं नृपम् ।

प्राच्योदीच्या: प्रतीच्याश्च दाक्षिणात्याश्च भूमिपा: ।। 2.3.24 ।।

म्लेच्छाचार्याश्च ये चान्ये वनशैलान्तवासिन: ।

उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम् ।। 2.3.25 ।।

तेषां मध्ये स राजर्षिर्मरुतामिव वासव: ।

प्रासादस्थो रथगतं ददर्शायान्तमात्मजम् ।। 2.3.26 ।।

अथेति । अथ सुमन्त्रनिर्गमनानन्तरम् । तत्र प्रासादे । समासीना: सम्यगुपविष्टा: । प्राच्या इत्यादौ "द्युप्राग्--" इत्यादिना यदादय: शौषिका भवार्था: । म्लेच्छाचार्या: म्लेच्छप्रभव: । अन्तशब्द: प्रदेशवाची । प्राच्येत्यादिना शैलान्तवासिन इत्यन्तेन मूलभृत्यश्रेणिसुहृद्द्विषदाटविकमिति षड्विधबलोपास्यत्वं सार्वभौमचिह्नमुक्तम् ।। 2.3.2426 ।।



गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ।

दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् ।। 2.3.27 ।।

चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ।

रूपौदार्यगुणै: पुंसां दृष्टिचित्तापहारिणम् ।। 2.3.28 ।।

धर्माभितप्ता: पर्जन्यं ह्लादयन्तमिव प्रजा:

न ततर्प समायान्तं पश्यमानो नराधिप: ।। 2.3.29 ।।

गन्धर्वराजेत्यादि । गन्धर्वराजप्रतिमं भोगस्रोत:प्रावण्यवेषसौन्दर्येषु गन्धर्वराजौपम्यम् । न केवलं भोगधारारसिकत्वेन वीररसानभिज्ञत्वमित्याह लोके विख्यातपौरुषम् । पौरुषोपयुक्त संहननवत्त्वमाह दीर्घबाहुमिति । न केवलं शिरीषपुष्पसुकुमारबाहुत्वेनान्त:सारराहित्यमित्याह महासत्त्वमिति । तदनुगुणगतिविशेषमाह मत्तमातङ्गगामिनमिति । सगर्वसलीलगमनं मदालसगमनं वा विवक्षितम् । चन्द्रकान्ताननं चन्द्राननमित्युक्तेप्याह्लादकत्वादिसिद्धेर्निरतिशयाह्लादकत्वं द्योतयितुं कान्तशब्द: । चन्द्रात्कान्ताननमिति विग्रह: । अनेनावयवशोभावत्त्वमुक्तम् । रामं विग्रहगुणै: स्वरूपगुणैश्च रमयन्तम् । समुदायशोभावत्त्वमाह अतीवप्रियदर्शनमिति । निरन्तरदर्शनेपि प्रतिक्षणं नवनवीभूतदर्शनम् । रूपौदार्यगुणै: रूपं विग्रह:, औदार्यं अनुभवितृभ्योनुभवदानम् । "य आत्मदा बलदा" इतिश्रुते: । गुण्यते सदानुसन्धीयत इति गुण: । "गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु" इति निघण्टु: । तेन सदानुसन्धीयमानं सौशील्यमुच्यते । अहो महानयमस्मादृशेषु क्षुद्रेष्वप्यतिसंश्लेषेण वर्तत इति सर्वदानुसन्धीयमानत्वात् । पुंसामिति कठिनचित्तानामपि किमुत स्त्रीणामिति भाव: । यद्वा पुंशब्देन स्त्रीपुंससाधारणमात्ममात्रमुच्यते "पुमानेको व्यवस्थित:" इति श्रीविष्णुपुराणे प्रयोगात् । तेन सुरनरतिर्यगादिभेदभिन्नानां स्त्रीपुन्नपुंसकभेदभिन्नानां सर्वेषां दृष्टिचित्तापहार उक्त: । वक्ष्यति रामविरहे स्थावरजङ्गमवस्तुमात्रं परिम्लानमिति । यद्वा पुंसामपि रामं पश्यतां स्त्रीभूत्वाहममुमनुभवेयमित्यभिलाषो भवति । यथाहु:-- "पाञ्चाल्या: पद्मपत्राक्ष्या: स्त्रायन्त्या जघनं घनम् । या: स्त्रियो दृष्टवत्यस्ता: पुम्भावं मनसा ययु: ।।" इति। पश्यमान इति निर्निमेषदर्शनमुक्तम्। न ततर्पेति प्रतिक्षणमनुभवेपि नवनवप्रेमास्पदतया न तृप्तिरभूदित्यर्थ: ।। 2.3.2729 ।।



अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् ।

पितु: समीपं गच्छन्तं प्राञ्जलि: पृष्ठतो ऽन्वगात् ।। 2.3.30 ।।

स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गव: ।

आरुरोह नृपं द्रष्टुं सह सूतेन राघव: ।। 2.3.31 ।।

अवतार्येति । अवतारणं हस्तप्रदानादिना ।। 2.3.3031 ।।



स प्राञ्जलिरभिप्रेत्य प्रणत: पितुरन्तिके ।

नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितु: ।। 2.3.32 ।।

स प्राञ्जलिरिति । अभिप्रेत्य प्राप्य । प्रणत: "दण्डवत् प्रणमेद्भूमावुपेत्य गुरुमन्वहम्" इत्युक्तप्रक्रियया दण्डवत्प्रणत इत्यर्थ: । स्वं नाम श्रावयन् "शर्मेति ब्राह्मणस्योक्तं वर्मेति क्षत्रियस्य च" इतिवचनाद्रामवर्मा ऽहमस्मि भो इति श्रावयन्नित्यर्थ: ।। 2.3.32 ।।



तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृप: ।

गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ।। 2.3.33 ।।

अञ्जलौ गृह्य अञ्जलिं प्रगृह्य "सक्थिनि कर्णे वा गृहीत्वा" इति महाभाष्यकारवचनात् । अञ्जलाविति कर्मणि सप्तमी ।। 2.3.33 ।।



तस्मै चाभ्युदितं सम्यङ्मणिकाञ्चनभूषितम् ।

दिदेश राजा रुचिरं रामाय परमासनम् ।। 2.3.34 ।।

तस्मै इति । अभ्युदितम् उन्नतम् ।। 2.3.34 ।।



तदासनवरं प्राप्य व्यदीपयत राघव: ।

स्वयैव प्रभया मेरुमुदये विमलो रवि: ।। 2.3.35 ।।

तदिति । आसनवरं प्राप्य तदासनं स्वयैव प्रभया व्यदीपयत् । विमलो रविरुदये मेरुं प्राप्येव । सूर्यस्य प्रधानमेरुप्राप्ते: साक्षादभावात् अत्र मेरुशब्देनास्ताद्रिसमीपवर्ती सावर्णिमेरुरुच्यते । उदयश्चोत्तरवर्षस्थितसिद्धपुरवासिजनापेक्षया । इयमुदयास्तमयव्यवस्था सूर्यसिद्धान्ते आर्यभट्टे च प्रसिद्धा-- "भूवृत्तपादे पूर्वस्यां यवकोटीति विश्रुता । भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा ।। याम्यायां भारते वर्षे लङ्का तद्वन्महापुरी । पश्चिमे केतुमालाख्ये रोमकेति च कीर्त्तिता । उदक्सिद्धपुरी नाम कुरुवर्षे प्रतिष्ठिता ।। उदयो यो लङ्कायां सो ऽस्तमय: सवितुरेव सिद्धपुरे । मध्याह्ने यवकोट्यां रोमकविषये अर्धरात्रं स्यात् ।। भारतादिषु वर्षेषु तद्वदेव परिभ्रमन् । मध्योदयार्द्धरात्रांस्तु कालान् कुर्यात्प्रदक्षिणम् ।।" इति ।। 2.3.35 ।।



तेन विभ्राजता तत्र सा सभाभिव्यरोचत ।

विमलग्रहनक्षत्र शारदी द्यौरिवेन्दुना ।। 2.3.36 ।।

तेनेति । विभ्राजता प्रकाशमानेन । विमलग्रहनक्षत्रेति दृष्टान्तबलेन दशरथवसिष्ठादिभिरीषत्प्रकाशितत्वमवगम्यते ।। 2.3.36 ।।



तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् ।

अलंकृतमिवात्मानमादर्शतलसंस्थितम् ।। 2.3.37 ।।

तमिति । पश्यमान: पश्यन् । आदर्शतलसंस्थितमित्यनेन रामस्य मुखनासिकाचरणादिसर्वावयवेन पितृसरूपत्वमावेदितम् ।। 2.3.37 ।।



स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वर: ।

उवाचेदं वचो राजा देवेन्द्रमिव काश्यप: ।। 2.3.38 ।।

स इति । सस्मितमिति क्रियाविशेषणम् । आभाष्य रामेति सम्बोध्य ।। 2.3.38 ।।



जेष्ठायामसि मे पत्न्यां सदृश्यां सदृश: सुत: ।

उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मज: प्रिय: ।। 2.3.39 ।।

रामस्यैव राज्याभिषेकार्हतामभिव्यञ्जयन्नाहज्येष्ठायामिति । आत्मजस्सुत औरसस्सुत: ।। 2.3.39 ।।



यतस्त्वया प्रजाश्चेमा: स्वगुणैरनुरञ्जिता: ।

तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ।। 2.3.40 ।।

यत इति । पुष्ययोगेनेति "प्रकृत्यादिभ्य उपसङ्ख्यानम्" इति तृतीया । पुष्येण चन्द्रमसो योग: पुष्ययोग: । तदुपलक्षितकाल इत्यर्थ: । पुष्यनक्षत्रयुक्ते दिवस इत्यर्थ: ।। 2.3.40 ।।



कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ।

गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ।। 2.3.41 ।।

कामत इति । कामत: प्रकामं गुणवति, त्वयीति शेष: । यद्यपि भवान् सर्वगुणसम्पन्नस्तथापि पुत्रस्रेहाद्रवते किञ्चिदुपदिशामीत्यर्थ: ।। 2.3.41 ।।



भूयो विनयमास्थाय भव नित्यं जितेन्द्रिय: ।

कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ।। 2.3.42 ।।

भूय इति । भूयो नियमं सातिशयविनयम् । कामक्रोधसमुत्थानि व्यसनानि "स्त्री द्यूतमृगयामद्यवाक्पारुष्योग्रदण्डता: । अर्थसन्दूषणं चेति राज्ञां व्यसनसप्तकम् ।।" इत्युक्तानि व्यसनानि। अर्थसन्दूषणं पित्रादिसञ्चितार्थस्य नाशनम्। यद्वा "मृगयाक्षो दिवास्वाप: परिवाद: स्त्रियो मद:। तौर्यत्रिकं वृथाध्वा च कामजो दशको गुण: ।।" इत्येतानि कामजानि "पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाक्दण्डयोश्च पारुष्यं क्रोधजोपि गुणो ऽष्टक: ।।" इत्युक्तानि क्रोधजानि च व्यसनानि ।। 2.3.42 ।।



परोक्षया वर्त्तमानो वृत्त्या प्रत्यक्षया तथा ।

अमात्य प्रभृती: सर्वा: प्रकृतीश्चानुरञ्जय ।। 2.3.43 ।।

परोक्षयेति । अप्रत्यक्षया वृत्त्या तक्षप्रभृतिकर्मान्तिकानां परोक्षो भूत्वाधिकृतमुखेन यत्कार्याणि संविधत्ते सा परोक्षवृत्ति: । अव्यवधानेनामात्यादीन् यया वृत्त्यानुगृह्णाति सा प्रत्यक्षवृत्ति:, ताभ्यां वर्तमान: सन् अमात्यप्रभृती: सर्वा: प्रकृतीश्चानुरञ्जयेतिसम्बन्ध: । यद्वा परोक्षया चारमुखत: परोक्षानुभवसिद्धया वृत्त्या स्वपरराष्ट्रवृत्तान्तविचारेण सह वर्तमानो भव, तथा प्रत्यक्षया नित्यं यथाकालमास्थानमास्थाय स्वानुभवसिद्धयथोक्तवृत्तान्तविचारो भव, अमात्यप्रभृती: सर्वा: प्रकृती: अमात्यसेनानीपुररक्षिण: पौरजानपदा: सर्वप्रजाश्चानुरञ्जय ।। 2.3.43 ।।



कोष्ठागारायुधागारै: कृत्वा सन्निचयान् बहून् ।

तुष्टानुरक्तप्रकृतिर्य: पालयति मेदिनीम् ।। 2.3.44 ।।

तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामरा: ।

तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ।। 2.3.45 ।।

कोष्ठागारेत्यादिश्लोकद्वयमेकान्वयम् । कोष्ठागाराणि अयुतनियुतादिसङ्ख्यधान्यराशिग्राहीणि कोष्ठरूपतया निर्मितान्यगाराणि । आयुधागाराणि समग्रनिजबलापेक्षिताष्टादशविधायुधप्रतिष्ठागाराणि । तै: सह सन्निचयान् निचीयन्ते एष्विति निचया: । नवरत्नहेमरजतवस्त्राभरणादिसम्पूर्णास्तत्तत्कोशा: तान् । तुष्टानुरक्तप्रकृतिरिति उक्तनिचयबलादिति शेषः: । मित्राणि सामन्ता: । आत्मानं मन: ।। 2.3.4445 ।।



तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिण: ।

त्वरिता: शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ।। 2.3.46 ।।

तदिति । तत् रामाभिषेकप्रस्तावनम् ।। 2.3.46 ।।



सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ।

व्यादिदेश प्रियाख्येभ्य: कौसल्या प्रमदोत्तमा ।। 2.3.47 ।।

सेति । प्रियाख्येभ्य: प्रियं रामाभिषेकमाचक्षत इति प्रियाख्या: । "चक्षिङ: ख्याञ्" इति ख्याञादेश: ।। 2.3.47 ।।



अथाभिवाद्य राजानं रथमारुह्य राघव: ।

ययौ स्वं द्युतिमद्वेश्म जनौधै: प्रतिपूजित: ।। 2.3.48 ।।

अथेति ।। 2.3.48 ।।



ते चापि पौरा नृपतेर्वचस्तच्छ्रुत्वा तदालाभमिवेष्टमाशु ।

नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान् समानर्चुरभिप्रहृष्टा: ।। 2.3.49 ।।

त इति । आनर्चु: रामाभिषेकविघ्नवारणाय ।। 2.3.49 ।।

इत्यार्षे0 श्रीरामायणे श्रीमदयोध्याकाण्डे तृतीय: सर्ग: ।। 3 ।।