Content

[Dasaratha commends to the assembly of elders and counsellors for installation of Rama as Prince Regent-- Assembly approves the proposal of Dasaratha with delight describing the virtues of Rama in support of their approval.]

ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः।

हितमुद्धर्षणं चैवमुवाच प्रथितं वचः।।2.2.1।।

Translation

तत: thereafter, वसुधाधिप: lord of the earth (king Dasaratha), सर्वाम् entire, परिषदम् assembly, आमन्त्र्य having invited, हितम् aimed at their welfare, उर्द्धर्षणम् thrilling, प्रथितम् pleasing, वच: words, एवं in this manner, उवाच spoke.

Thereafter, the lord of the earth (king Dasaratha) addressed the entire assembly of invitees. He spoke these pleasing words aimed at their welfare which thrilled and delighted the hearts (of the assembled kings):
Sanskrit Commentary by Govindaraja
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।

हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ।। 2.2.1 ।।

अथ रामाभिषेकस्य सर्वसम्मतत्वं दर्शयति द्वितीये-- तत इत्यादि । ततः राजादिनिवेशानन्तरम् । परिषदं पौरजानपदसमूहम् । आमन्त्र्य अभिमुखीकृत्य । हितं श्रेयस्करम् । उद्धर्षणं उत्कूलहर्षजनकम् । प्रथितं प्रकटार्थम् । एवं वक्ष्यमाणरीत्या ।। 2.2.1 ।।



दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना ।

स्वरेण महता राजा जीमूत इव नादयन् ।। 2.2.2 ।।

राजलक्षणयुक्तेन कान्तेनानुपमेन च ।

उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ।। 2.2.3 ।।

प्रथितमुवाचेत्युक्तं विशदयति----दुन्दुभिस्वनकल्पेनेति । दुन्दुभिस्वनकल्पेन भेरीस्वनसदृशेन । ईषदसमाप्तौ कल्पप्प्रत्ययः । गम्भीरेण गम्भीरार्थेन । अनुनादिना दिशः प्रतिध्वनयता । स्वरेण महता-- महता स्वरेण नादयन् जीमूत इव मेघ इव स्थितः राजा उवाच । पुनः स्वरः कीदृशः ? राजलक्षणयुक्तेन प्रभावानुरूपेण कान्तेन मृदुना रसयुक्तेन माधुर्यवता ।। 2.2.2,3 ।।



विदितं भवतामेतद्यथा मे राज्यमुत्तमम् ।

पूर्वकैर्मम राजेन्द्रैः सुतवत्परिपालितम् ।। 2.2.4 ।।

स्वकृतराज्यपरिपालनस्य पूर्वकृतपालनादविशेषं सूचयन्नाह-- विदितमिति । अन्ते इतिकरणं द्रष्टव्यम् । उत्तमं विपुलं मे एतद्राज्यं मम पूर्वकैः पूर्वैः राजेन्द्रैः रघुप्रभृतिभिः सुतवत्परिपालितम् । अतिप्रेम्णा सुरक्षितमित्येतद्भवतां विदितं "क्तस्य च वर्त्तमाने " इति षष्ठी । भवद्भिर्विदितमित्यर्थः ।। 2.2.4 ।।



सो ऽहमिक्ष्वाकुभिः पूर्वैर्नरेन्द्रैः परिपालितम् ।

श्रेयसा योक्तुकामो ऽस्मि सुखार्हमखिलं जगत् ।। 2.2.5 ।।

अस्तु, ततः किमित्यत्राह-- सो ऽहमिति । सः तद्वंश्यो ऽहम् । इक्ष्वाकुभिः इक्ष्वाकुवंश्यैः । सर्वैः नरेन्द्रैः परिपालितम्, अत एव सुखार्हं अखिलं जगत् राज्यं श्रेयसा सुखेन अधुनापि योक्तुं कामयत इति योक्तुकामः अस्मि । "तुं काममनसोरपि " इति मकारलोपः । योक्तुमिच्छामीत्यर्थः ।। 2.2.5 ।।



मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता ।

प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ।। 2.2.6 ।।

ननु भवत्कृतं पालनमेवास्माकं श्रेय इत्यत्राह-- मयापीति । पूर्वैः राजभिः आचरितं क्षुण्णं पन्थानं मर्यादाम् अनुगच्छता अनुसरता । नित्यं अनिद्रेण जागरूकेण मयापि प्रजाः यथाशक्त्यभिरक्षिताः । यथा शक्तीति विनयोक्तिः ।। 2.2.6 ।।



इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।

पाण्डरस्यातपत्रस्य च्छायायां जरितं मया ।। 2.2.7 ।।

तर्हीदानीमपि तथैव रक्ष्यतामित्यत्राह-- इदमिति । कृत्स्नस्य लोकस्य जनस्य हितं चरता कुर्वता मया इदं शरीरं भवतां प्रत्यक्षं हीति भावः । पाण्डरस्यातपत्रस्य श्वेतस्य छत्रस्य । छायायां जरितं सञ्जातजरं कृतम्, जरापर्यन्तमेकच्छत्रतया पराक्रमनिधिर्भूत्वा मया नियमेन लोकहितमाचरितमित्यर्थः ।। 2.2.7 ।।



प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः ।

जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ।। 2.2.8 ।।

तर्हि सम्प्रति किं कर्त्तव्यमित्यत्राह-- प्राप्य वर्षसहस्राणीति । बहूनि वर्षसहस्राणि षष्टिवर्षसहस्रपरिमितान्यायूंषि प्राप्य जीवतः क्रमेण जीर्णस्यास्य शरीरस्य । विश्रान्तिं राज्यभाराद्विरतिम् । अभिरोचये इच्छामि । एतेन ययातिवद्विषयचापलेन न राज्याद्विरम्यत इति दर्शितम् ।। 2.2.8 ।।



राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः ।

पिरश्रान्तो ऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ।। 2.2.9 ।।

इतःपरं राज्यवहनाशक्तौ । निमित्तमाह-- राजेति । राजप्रभावैः शौर्यादिभिः जुष्टां सेवितुमर्हाम् । अजितेन्द्रियैः विषयपरैः । दुर्वहां तादशृप्रभावरहितैर्वोढुमशक्याम् । गुर्वीं बहुसाधननिर्वाह्याम् । लोकस्य धर्मधुरं धर्मस्थापनरूपभारं वहन्नहं परिश्रान्तो ऽस्मि ।। 2.2.9 ।।



सो ऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।

सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् ।। 2.2.10 ।।

विवक्षितमर्थं दर्शयति-- स इति । सः एवं श्रान्तो ऽहं प्रजाहिते प्रजारक्षणविषये । पुत्रं कृत्वा नियम्य । सन्निकृष्टान् अन्तरङ्गभूतान् इमान् सर्वान् द्विजर्षभान् ब्राह्मणश्रेष्ठान् । अनुमान्य कृतानुमतिकान् कृत्वा । मानयतेर्ण्यन्ताल्ल्यप् । विश्रमं श्रान्तिनिवृत्तिमिच्छामि ।। 2.2.10 ।।



अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।

पुरन्दरसमो वीर्ये रामः परपुऱञ्जयः ।। 2.2.11 ।।

कस्ते पुत्रो यौवराज्ये नियोज्योभिमतस्तत्राह-- अनुजात इति । वीर्य्ये विषये पुरन्दरसमः इन्द्रतुल्यः । तौल्यमेवाह परेषां शत्रूणां पुराणि जयति स्वाधीनीकरोतीति परपुरञ्जयः । असंज्ञायामपि जेः खजार्षः । रामः रामनामकः पुरन्दरसमः आत्मजः । सर्वैर्गुणैः शौर्यादिभिः मामनुजातः "अनुर्लक्षणे " इत्यनुः कर्मप्रवचनीयः । तद्योगान्मामिति द्वीतीया । मद्गुणान् सर्वाननुप्राप्य जात इत्यर्थः । ननु मत्तश्च गुणवत्तरः । अपरिमेयैश्च लोके लोकोत्तरैर्गुणैः' इति पूर्वमुक्तम्, कथमिदानीमनुजातो हि मां सर्वैर्गुणैरित्युच्यते पुरन्दरसम इति च । उच्यते-- " "अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया" इतिन्यायेन पौरमुखेन रामस्य सर्वाभ्यधिकगुणतां वक्तुमेवमुक्तमिति ध्येयम् । अत अव वक्ष्यति-- " वहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते" इति ।। 2.2.11 ।।



तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।

यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ।। 2.2.12 ।।

तमिति । तं स्वगुणतुल्यगुणम् । धर्मभृतां धार्मिकाणां वरं पुरुषपुङ्गवम् । पुष्येण नक्षत्रेण युक्तं चन्द्रमिव स्थितं तद्वदत्युज्ज्वलम् । यद्वा पुष्यनक्षत्रे ऽभिषेककरणात् पुष्येण चन्द्रमिवेत्युक्तम् । यौवराज्ये नियोक्तास्मि । यद्वा चन्द्रमिव स्थितं तं श्वः पुष्येण यौवराज्ये नियोक्तास्मीत्यर्थः ।। 2.2.12 ।।



अनुरूपः स वै नाथो लक्ष्मीवाल्लँक्ष्मणाग्रजः ।

त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ।। 2.2.13 ।।

दशरथवचनं वाल्मीकिस्तत्त्वज्ञतया श्लाघते-- अनुरूप इति । स रामः अनुरूपः अनुगुणः नाथः, लोकस्येति शेषः । अनुरूपत्वे हेतुः लक्ष्मीवानिति । अपरिच्छिन्नतेजस्क इत्यर्थः । तत्रापि हेतुर्लक्ष्मणाग्रज इति । "लक्ष्मणो लक्ष्मिवर्द्धनः" इत्युक्तम् । यद्वा अनुरूपत्वे हेतुर्लक्ष्मणाग्रज इति । लक्ष्मण इव सर्वत्र स्वाश्रिते प्रेमशालीत्यर्थः । अथवा अनुरूप इत्यादि नित्यानपायिन्या लक्ष्म्या विशिष्टः परिजनपर्यन्तो रामः सर्वस्य निरुपाधिकः शेषी । दशरथस्तु राज्यपालनोपाधिकशेषी । वै इति श्रुत्यादिप्रसिद्धिं द्योतयति " दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः " इत्याद्युक्तेः । तस्य निरूपाधिकशेषित्वे निमित्तमाह त्रैलोक्यमिति । त्रयो लोका एव त्रैलोक्यम् । चतुर्वर्णादित्वात्स्वार्ते षञ् । त्रैलोक्यमपि येन नाथेन नाथवत्तरम् अतिशयेन नाथवत् । रामस्य रक्षकत्वावलोकने कियन्मात्रं त्रैलोक्यमिति भातीत्यर्थः । अथवा अनेन श्लोकेन रामस्य परत्वमुच्यते-- सः रामः अनुरूपो नाथः सहजशेषी जगतः, अन्ये तु कर्मानुगुणतयौपाधिकाः । अनुकूलं रूपं यस्य सो ऽनुरूपः । "समः समविभक्ताङ्गः । चन्द्रकान्ताननम् " इत्याद्युक्त निरुपमसौन्दर्य्यशालिदिव्यमङ्गलविग्रह इत्यर्थः । अनुकूलं स्वरूपं यस्यासावनुरूपः । शतगुणितोत्तरक्रमेण निरतिशयदशाशिरस्कतया ऽभ्यस्यमानानन्दरूप इत्यर्थः । " आनन्दो ब्रह्म" इति ह्युक्तम् । अनुगतं रूपं यस्यासावनुरूपः, सर्वव्यापीत्यर्थः । अनुरूपः अनुप्रविष्टचराचरादिकशरीरः, सर्वशरीरीत्यर्थः । अनुरूपः अनुस्यूतरूपः । परव्यूहविभवान्तर्याम्यर्चावताररूपेण नानावतारशालीत्यर्थः । अनुरूपः ओः रुद्रस्य रूपं शरीरं तद्विलक्षणशरीरः । "वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु" इत्याद्युक्तरूपविलक्षणरूपः पुण्डरीकाक्षत्वादियुक्तः । उस्वरूपभिन्न इति त्रिमूर्तिसाम्यं च निरस्यते । वीनां पक्षिणां नाथो विनाथः हंसः तत्सम्बन्धी वैनाथः । अण्यादिवृद्धिः । हंसवाहनः चतुर्मुखः तत्सहितः सवैनाथः नाभिपद्मस्थलस्थितचतुर्मुख इत्यर्थः । वैनाथो गरुडवाहनो वा । नाथत्वे हेतुर्लक्ष्मीवानिति । नित्योगे मतुप् । "हीश्च ते लक्ष्मीश्च पत्न्यौ " अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा " "वेदान्तास्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिह्नैस्तरन्ति " इति । पत्नीविशिष्टत्ववत् परिजनविशिष्टत्वमाह लक्ष्मणाग्रज इति । लक्ष्मणशब्दः कैङ्कर्यपरमात्रोपलक्षणार्थः । अग्रज इति तन्निरूप्यत्वोक्त्या आश्रितपारतन्त्र्यमुक्तम् । ननु कथमयमनुरूपो नाथः ? ब्रह्मरुद्रादयोपि हि सन्ति नाथा इत्यत्राह त्रैलोक्यमपीति । कृतकमकृतकं कृतकाकृतकमित्युक्तं समस्तंज गदित्यर्थः । येन नाथेन नाथवदित्यनेनेन्द्रादिव्यावृत्तिः । तरपा ब्रह्मरुद्रादिव्यावृत्तिः । तन्नाथत्वस्यैतन्मूलत्वात् "युगकोटिसहस्राणि विष्णुमाराध्य पद्मभूः । पुनस्त्रैलोक्यधातृत्वं प्राप्तवानिति शुश्रुम ।। महादेवः सर्वमेधे महात्मा हुत्वात्मानं देवदेवो बभूव" इत्यादि स्मृतयः तत्र मानम् । त्रैलोक्यं नाथवत्तरं रक्ष्यापेक्षया रक्षकत्वराधिकेत्यर्थः ।। 2.2.13 ।।



अनेन श्रेयसा सद्यः संयोज्यैवमिमां महीम् ।

गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ।। 2.2.14 ।।

अनेनेति । इमां मया चिरकालधृतां महीं तस्मिन् ज्येष्ठे सुते निवेश्य, महीपालनभारं निक्षिप्येत्यर्थः । अनेन तन्निवेशरूपेण श्रेयसा च महीमेवं सद्यः संयोज्य गतक्लेशः गतराज्यभरणक्लेशो भविष्यामि । रामाभिषेकस्य द्वे फले, मह्याः श्रेयो मम विश्रान्तिश्चेति भावः ।। 2.2.14 ।।



यदीदं मे ऽनुरूपार्थं मया साधु सुमन्त्रितम् ।

भवन्तो मे ऽनुमन्यन्तां कथं वा करवाण्यहम् ।। 2.2.15 ।।

यदीति । इदं रामाभिषेकरूपं कार्यं मे राज्यभरणश्रान्तस्य वृद्धस्य मे यद्यनुरूपार्थं उचितप्रयोजनकं चेत् मया वा साधु सुमन्त्रितं यदि सम्यक् विचार्यारब्धं चेदित्यर्थः । तदा भवन्तः मे मह्यम् । अनुमन्यन्तां अनुमतिं कुर्वन्तु । इदं मे अनुकूलार्थं चेत्कथं वान्यत्करवाणि ।। 2.2.15 ।।



यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् ।

अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ।। 2.2.16 ।।

यत्ते प्रियं तत् क्रियतामित्यत्राह-- यद्यपीति । एषा रामाभिषेकविषया प्रीतिर्यद्यप्यस्ति तथाप्यन्यद्धितमस्ति चेच्चिन्त्यताम् । ननु कस्त्वत्तोधिकदर्शीत्यत्राह अन्येति । मध्यस्थानां रागद्वेषरहितानां चिन्ताविचारः अन्या अन्यादृशी स्वमात्रचिन्तातो विलक्षणा । तदेव वैलक्षण्यमाह विमर्दाभ्यधिकोदयेति । विमर्देन पूर्वापरपक्षसङ्घर्षणेन हेतुना अभ्यधिकोदया अधिकार्थप्रादुर्भावा हि ।। 2.2.16 ।।



इति ब्रूवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम् ।

वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः ।। 2.2.17 ।।

इतीति । इति पूर्वोक्तप्रकारेण । ब्रुवन्तं नृपं दशरथम् । नृपाः परिषद्गता राजानः । वृष्टिमन्तं वर्षुकं महामेघं नर्दन्तः केकाङ्कुर्वन्तः बर्हिण इव मयूरा इव । मुदिताः सन्तः प्रत्यनन्दन् प्राशंसन् ।। 2.2.17 ।।



स्निग्धोनुनादी सञ्जज्ञे तत्र हर्षसमीरितः ।

जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव ।। 2.2.18 ।।

स्निग्ध इति । तत्र सभायाम् । स्निग्धः स्नेहाभिव्यञ्जकः । अनुनादी प्रतिध्ननिकारी । जनौघोद्दुष्टः जनसमूहोत्पादितः सन्नादः समीचीनशब्दः । विमानं तदास्थानमण्डपविमानं कम्पयन्निव सञ्जज्ञे, न केवलं राजान एव सर्वे ऽपि जनाः तच्छ्रुत्वा सन्तुष्टा इत्यर्थः ।। 2.2.18 ।।



तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः ।

ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ।। 2.2.19 ।।

समेत्य मन्त्रयित्वा तु समतांगतबुद्ध्यः ।

ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् ।। 2.2.20 ।।

तस्येत्यादि श्लोकद्वयमेकान्वयम् । ब्राह्मणाः वसिष्ठाद्याः जनमुख्याः राजानश्च पौरैर्नागरिकैः जानपदैश्च । समेत्य संयुज्य । मन्त्रयित्वा युक्तायुक्तं विचार्य । धर्मार्थविदुषः स्वस्य वार्द्धके युवराजस्थापनं धर्मः प्रजानामर्थसाधनं चेति जानतः तस्य दशरथस्य । भावं वचनमूलतात्पर्यम् । सर्वशः सर्वप्रकारेण, देशकालेङ्गितादिभिः । आज्ञाय आ समन्तात् ज्ञात्वा । समतां साम्यं बुद्धयो येषां ते तथोक्ताः । ऐकमत्यं प्राप्ताः सन्तः मनसा च ज्ञात्वा प्रत्येकं स्वस्वहृदयेन निश्चित्य वृद्धं नृपं वक्ष्यमाणवचनार्हं दशरथमूचुः ।। 2.2.19,20 ।।



अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव ।

स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ।। 2.2.21 ।।

वृद्धं नृपमिति कविना सूचितमर्थं दर्शयति-- अनेकेति । हे पार्थिव त्वं अनेकवर्षसाहस्रः सहस्राण्येव साहस्राणि । स्वार्थे अण् । अनेकानि वर्षसाहस्राणि यस्य स तथा । वृद्धो ऽसीति विशेषणमहिम्ना अतिवृद्धोसीति गम्यते । सः तादृशवृद्धस्त्वं पार्थिवं पृथिवीशासनार्हं युवराजानं युवराजम् । समासान्तस्यानित्यत्वान्न "राजाहःसखि--" इत्यादिना टच् । अभिषिञ्चस्व यता रामो युवराजो भवति तथाभिषञ्चेत्यर्थः ।। 2.2.21 ।।



इच्छामो हि महाबाहुं रघुवीरं महाबलम् ।

गजेन महतायान्तं रामं छत्रावृताननम् ।। 2.2.22 ।।

ननु रक्षके मयि विद्यमाने किमर्थं रामाभिषेको ऽपेक्ष्यत इत्याशङ्कायां न हि वयं रक्षणार्थं तमपेक्षामहे किन्तु सौन्दर्यविशेषानुभवार्थमित्याहुः---- इच्छाम इति । इच्छाम इति बहुवचनेन सर्वेषामिच्छावैषम्याभाव उक्तः । महाबाहुमिति "आयताश्च सुवृत्ताश्च" इत्युक्तरीत्या सहजबाहुसौन्दर्यं तत्कालाङ्कुशाकर्षणादिव्यापारविशेषश्चोच्यते । (इच्छाम इत्यादि) इच्छामः अभिषेकपट्टबन्धादियुक्ततया स्थितं द्रष्टुमिच्छामः । इच्छामात्रमस्माकम्, कार्यनिर्वहणं भवदधीनम् । इच्छामः अस्माकमिच्छा वर्त्तते श्रेयांसि बहुविघ्नानि" इत्येवंविधश्रेयो ऽस्माभिर्लभ्यते किम् । इच्छामः अभिषेकः सिद्ध्यतु वा न वा, इच्छा निष्प्रतिबन्धा । सुन्दरवस्तुदर्शने इच्छा प्रवर्त्तते खलु । इच्छामः सर्वप्रकारेण रक्षकत्वाद्वाचा प्रार्थयितुमशक्ता मनसा इच्छामः । भवदभिप्रायज्ञानेन इदानीमिच्छाम इति वदामः । केषाञ्चिदस्ति न केषांचिदिति न, किन्तु सर्वे इच्छामः । हि सर्वलोकप्रसिद्धं खलु । जनौघोद्दुष्टसन्नादो विमानं कम्पयन्निव' इति सर्वजनकोलाहलेन तव गृहं विश्लिष्टबन्धं खलु । अकामयत मेदिनी त्वयि निर्वाहके सत्येव भूमिः स्वयम्वरं कृतवती खलु । त्वयि करग्रहं कुर्वति रामकामना न युक्तेति ध्वन्यते । कामुकीनां न मर्यादा खलु । लोकपालोपमं विष्णुसदृशम् । अतएव वृतवती भूमिः । मेदिनी मधुकैटभवसाविस्रगन्धेनोपहता "सर्वगन्धः" इति रामसौगन्ध्येन वासयितुमकामयत कर्पूरचन्दनादिकमिव स्वशेषकोटौ कृतवती । नाथं सौगन्ध्यासौगन्ध्ययोः स्वस्यैव शेषिणो भोग्यतया तद्विप्रवासनानिवर्तनेन स्वशेषरक्षकम् । महाबाहुं बाहुबलस्यालक्ष्या खल्वियम् । शक्तस्त्रैलोक्यमप्येकः' इति । न केवलं कोसलराज्यं लङ्काराज्यमपि रक्षितुं शक्तिरस्ति । महाबाहुं "आयताश्चेति आजानुबाहुश्च" इति न महापुरुषलक्षणदर्शनेन न ज्ञायते किम् । विभूतिद्वयनिर्वाहकबाहुः खलु । महाबाहुं बाहुच्छायामवष्टभ्य' इति छायास्मद्रक्षणे न पर्य्याप्ता किम् । " ररक्ष धर्मेण बलेन चैव " इति धर्मबलमप्यस्तीत्याहुः रघुवीरम् । दीनान् दानेन राघवः' इति प्रसिद्धः खलु । आनृशंस्यं परो धर्मः' इति परेषामप्युपदेशपर्य्यन्तं खलु रक्षणम् । रघुवीरं रघ्वपेक्षयास्यैव धर्मिष्ठता ज्ञायते खलु । रघुं प्रति क्षुधार्तस्य मरणे तव पापं न भवतीत्युक्ते तूष्णीं स्थितवान् । अयन्तु "अप्यहं जीवितं जह्याम् " इति खलूक्तवान् । महाबलं मनोबलयुक्तम् " नहि प्रतिज्ञां संश्रुत्य । न त्यजेयं । एतद्व्रतं मम " इति वक्ष्यति । गजेन महातायान्तं गजेन त्वयादत्तकिरीटपट्टबन्धादियुक्तः शत्रुञ्जयेनागच्छति चेत्तदा ज्ञायते । गजेन न रथादिना, मत्तमातङ्गगामिनमिति तद्गमनोपमानगतिमता । महता अत्युन्नतेन सर्वशक्तिमता । आयान्तं महावीथीमध्ये प्रतिगृहाङ्गणमागतम् । आयान्तं "एकः स्वादु न भुञ्जीत " इति पुत्रकलत्रादिभिः सहानुभवरसरमास्वादयामः । रामं सौन्दर्यगुणैः सकलमनोरञ्जकम् । छत्रावृताननं दृष्टिदोषपरिहारायान्तरेण छत्रेणावृतमुखम् । दृश्यादृश्यैकदेशतया साकल्येन मुखदर्शनाभिलाषमुत्पादयन्तम् । अन्तरङ्गसुहृद्भिर्वातातपपरिम्लानताशङ्कया भूचक्रच्छत्रेणाच्छादितमुखपङ्कजम् । छत्रावृताननं "एकच्छत्रां महीं भुङ्क्ते " इति लक्षणशास्त्रकथितसमवृत्तविशालोत्तमाङ्गत्वव्यञ्जकेन निरङ्कुशप्रशासनवशीकृतनिखिलभूपालवलयतानिरूपकेण छत्रेण पाण्डरेण परभागभावमापन्नेन नितरां प्रकाशितेन्दीवरसदृशमुखं, विशदीकृतमुक्तम् । रघुवीरमिति गजस्कन्धावस्थानसूचितो वीर्यविशेष उच्यते । महाबलं मत्तमातङ्गमपि तृणीकृत्य गमनसमर्थम् । महागजेन शत्रुञ्जयेनायान्तं गच्छन्तमित्यनुभवसाक्षिकः सुषमाविशेषः सूच्यते । रामं स्वसौन्दर्येण गजमलङ्कुर्वाणमिव स्थितम् । छत्रावृताननं वदनप्रभामण्डलेनेव छत्रावरणेन जनितसौन्दर्यम् । एतैरभिषेकानन्तरभाविभिर्विशेषणैरभिषेकः कर्त्तव्य इति व्यञ्जनावृत्त्या प्रार्थ्यते ।। 2.2.22 ।।



इति तद्वचनं श्रुवा राजा तेषां मनः प्रियम् ।

अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ।। 2.2.23 ।।

इतीति । इति पूर्वोक्तप्रकारेण । तद्वचनं तेषां पौरादीनां वचनं श्रुत्वा तद्वचनभङ्ग्यैव तेषां मनः प्रियं मनः सन्तोषं जानन्नप्यजानन्निव । जिज्ञासुः तन्मुखेनैव ज्ञातुमिच्छुः । इदं वक्ष्यमाणं वचनमब्रवीत् ।। 2.2.23 ।।



श्रुत्वैव वनचं यन्मे राघवं पतिमिच्छथ ।

राजानः संशयो ऽयं मे किमिदं ब्रूत तत्त्वतः ।। 2.2.24 ।।

श्रुत्वेति । हे राजनः मे वचनं श्रुत्वैव न तु पूर्वापरं पर्यालोच्य राघवं रामं पतिं राजानं इच्छथेति यत्, अयं मे संशयः संशयहेतुः । विधेयापेक्षया पुल्लिङ्गता । संशयप्रकारमाह किमिदमिति । इदं राघवाभिषेकप्रार्थनं किम् किंनिमित्तकमिति तत्त्वतो ब्रूत, अत्र निमित्तं याथातथ्येन कथयतेत्यर्थः ।। 2.2.24 ।।



कथं नु मयि धर्मेण पृथिवीमनुशासति ।

भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ।। 2.2.25 ।।

पुनः संशयं विशिनष्टि--कथमिति । मयि धर्मेण पृथिवीमनुशासति भवन्तः ममात्मजम् अतिमुग्धं युवराजं द्रष्टुं कथमिच्छन्ति ? मयि चिरं स्वसुखनिरभिलाषतया राज्यपरिपालनजागरूके तिष्ठति ममापत्यं पतिमभिलषथ, को वा मे ऽपराध इति भावः ।। 2.2.25 ।।



ते तमूचुर्महात्मानं पौरजानपदैः सह ।

बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ।। 2.2.26 ।।

न ते कश्चिदपराधः किन्तु तव पुत्रस्य गुणानामपराध इत्याहुः त इति । ते राजानः । पौरजानपदैः सह पण्डितपामराविशेषेण सर्वे ऐकमत्यं प्राप्येत्यर्थः । महात्मानं महाबुद्धिं तं गुणग्राहिणं दशरथं ऊचुः । हे नृपेतिसम्बोधनेन तारतम्यज्ञतोक्ता । ते पुत्रस्य बहवः कल्याणा गुणास्सन्ति । तव तु नृपरिपालनमेको गुण इति भावः । रामप्रशंसया तस्यासूया माभूदिति ते पुत्रस्येत्युक्तम् । तदतिशयस्सर्वोपि त्वत्सम्बन्धकृत इति भावः । गुणा इति बहुवचनेन बहुत्वे सिद्धेपि बहव इत्युक्त्या असङ्ख्येयगुणत्वमुक्तम् । पुत्रस्य गुणा इत्यनेन जन्मसिद्धत्वोक्त्या गुणानां स्वाभाविकत्वमुक्तम् । कल्याणाः अखिलहेयप्रत्यनीकाः । आश्रयसम्बन्धेन शुभीभूता वा "गुणाः सत्यज्ञानप्रभृतय उत त्वद्गततया शुभीभूयं याताः " इत्यभियुक्तोक्तः । अत्र "स्वाभाविकानवधिकातिशयासङ्ख्येयकल्याणगुणगणः" इति (वाक्यमिदं भगवद्रामानुजमुनिविरचिते गद्यत्रयेपि विद्यते । स्वाभाविकानवधिकातिशयेशितृत्वम्' इति च यामुनाचार्यवचनं प्रतिभाति) यामुनाचार्यवचनमनुसन्धेयम् ।। 2.2.26 ।।



गुणान् गुणवतो देव देवकल्पस्य धीमतः ।

प्रियानानन्दनान् कृत्स्नान् प्रवक्षामो ऽद्य तान् श्रृणु ।। 2.2.27 ।।

के ते गुणा इत्याकांक्षायां तान् वक्तुं प्रतिजानीते--गुणानिति । हे देव हे राजन् । गुणवतः प्रशस्तबहुगुणकस्य देवकल्पस्य देवतुल्यस्य । धीमतः रामस्य प्रियान् इष्टान् । आनन्दनान् प्रीतिजनकान् । तान् प्रसिद्धान् । कृत्स्नान् गुणान् । अद्य प्राप्तकाले श्रृणु प्रवक्ष्यामः । गुणवतो गुणानित्यनेन गुणानामनारोपितत्वेन स्वाभाविकत्वमुक्तम् । देवकल्पस्येत्यनेन गुणानां सम्भावितत्वम् । धीमत इत्यनेन गुणानां मध्ये ज्ञानस्य प्राधान्यमुक्तम्, ब्राह्मणा आगता वसिष्ठोप्यागत इत्यत्र वसिष्ठस्येव । प्रियानित्यनेन कल्याणत्वम्, आनन्दनानित्यनेन निरतिशयत्वम्, कृत्स्नानित्यनेनासंख्येयत्वं च विवक्षितम् । एतावत्पर्यन्तं किमर्थं नोक्तमित्यपेक्षायां भवत्प्रश्नकाल एवास्मदुक्तेरवसर इत्यद्येत्यनेन सूचयन्ति प्रवक्ष्याम इति । प्रवचनोक्त्या भगवद्गुणोपदेशे ऽधिकारितारतम्यं नास्ति । अजानता जानद्भिः श्रोतव्यमित्येवेति सूचितम् । श्रृण्वित्यनेन रामगुणश्रवणे निरतिशयानन्दमग्नो भविष्यसि । कथञ्चिन्मनः संस्तभ्य श्रोतव्यमित्युक्तम् ।। 2.2.27 ।।



दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः ।

इक्ष्वाकुभ्यो ऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ।। 2.2.28 ।।

दिव्यैरिति । दिव्यैः अमानुषैः । गुणैः शौर्यवीर्यादिभिः । शक्रसमः इन्द्रसमः । सत्यपराक्रमः अमोघविक्रमः ।

इक्ष्वाकुभ्यः इक्ष्वाकुवंश्येभ्यः । सर्वेभ्योतिरिक्तः समधिकः " अतिरिक्तः समधिकः " इत्यमरः । शौर्यादिभिरिति शेषः । राज्ञो मनःप्रीणनाय सम्बोधयन्ति विशांपत इति । विशां प्रजानां पते ।। 2.2.28 ।।



रामः सत्पुरुषो लोके सत्यधर्मपरायणः ।

साक्षाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ।। 2.2.29 ।।

राम इति । लोके राम एव सत्पुरुषः, रिपूणामपि वत्सल इत्यर्थः । सत्यधर्मावेव परायणं परमा गतिर्यस्य सः सत्यधर्मपरायणः । सत्यधर्मैकनिरत इत्यर्थः । किञ्च धर्मः श्रिया तत्फलभूतया संपदा सह रामात्साक्षादव्यवधानेन विनिर्वृत्तः निष्पन्न, धर्मार्थयोरितरनिरुपेक्षतया निर्वाहक इत्यर्थः ।। 2.2.29 ।।



प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः ।

बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ।। 2.2.30 ।।

रामनिष्ठगुणसमुदायस्यैकत्रासम्भवादेकैकगुणयोगेन चन्द्रादीन् दृष्टान्तयन्ति-- प्रजेति । प्रजासुखत्वे प्रजानां सुखकरत्वे चन्द्रस्य तुल्यः । क्षमागुणविषये वसुधायाः भूमेः तुल्यः । बुद्ध्या बुद्ध्यसाधारणधर्मैण बृहस्पतेस्तुल्यः । वीर्ये विषये शचीपतेः साक्षात्तुल्यः । "साक्षात्प्रत्यक्षतुल्ययोः " इत्यमरः ।। 2.2 30 ।।ऀ



धर्मज्ञ: सत्यसन्धश्च शीलवाननसूयक: ।

क्षान्त: सान्त्वयिता श्लक्ष्ण: कृतज्ञो विजितेन्द्रिय: ।। 2.2.31 ।।

धर्मज्ञ इति । धर्मं सामान्यविशेषरूपमशेषं जानातीति धर्मज्ञ: । सत्या अमोघा सन्धा प्रतिज्ञा यस्यासौ सत्यसन्ध: । "सन्धा प्रतिज्ञा मर्यादा" इत्यमर: । शीलवान् शीलं हि नाम महतो मन्दै: सह नैरन्ध्र्येण संश्लेष: तद्वान् । अनसूयक: गुणेषु दोषाविष्करणमसूया तद्रहित: । बहुव्रीहौ कप् । क्षान्त: क्षमावान् । क्षमा अत्राश्रितापराधसहिष्णुत्वम् । क्षमेरूदित्वात् पक्षे नेट् । न केवलं सहिष्णु: अपराधिषु, सान्त्वयिता कुपितान् दु:खितांश्च प्रति सान्त्ववादी । श्लक्ष्ण: प्रियंवद: । "समौ श्लक्ष्णप्रियंवदौ" इत्यमर: । कृतज्ञ: स्वल्पमपि सकृत्कृतमुपकारं बहुतया जानन्नित्यर्थ: । विजितेन्द्रिय: विषयचापलरहित: ।। 2.2.31 ।।



मुदुश्च स्थिरचित्तश्च सदा भव्यो ऽनसूयक: ।। 2.2.32 ।।

मृदुरिति । मृदुत्वं समाश्रितजनविश्लेषभीरुत्वम् । चित्तस्थैर्यं नाम अतिसङ्कटेप्यङ्गीकृतविषयपरित्यागराहित्यम् । सदा भव्य: कुशल: आश्रिताधीनो वा ।। 2.2.32 ।।



प्रियवादी च भूतानां सत्यवादी च राघव: ।

बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ।। 2.2.33 ।।

प्रियवादी "सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम्" इत्युक्तरीत्या प्रियवादित्वेपि सत्यवादीत्यर्थ: । प्रियवादी च, चकारो ऽवधारणार्थ: । प्रियवाद्येव न तु सत्यमप्यप्रियं वदतीत्यर्थ: । 'न ब्रूयात् सत्यमप्रियम्' इति स्मरणात् । भूतानां भवनमात्रोपाधिकानां सर्वेषां जनानां सत्यवादी । सत्यं ब्रूयादिति विहितसत्यवचन: । चकारेण प्रियमप्यसत्यं न वदतीत्यवधार्यते । यद्वा सत्यमिति परलोकहितमुच्यते । "सत्येन लोकान् जयति" इति प्रयोगानुसारात् । प्रियवचनस्य निषिद्धसाधारणत्वाददृष्टविरोधिप्रियं न वदतीत्यर्थ: । राघव: रघुराक्षससंवादादिषु प्रियसत्यवचनं प्रसिद्धमिति कुलागतो धर्म इत्यर्थ: । एतादृशज्ञानवत्त्वं पुस्तकनिरीक्षणादिना पण्डितंमन्यतया वा न भवतीत्याह बहुश्रुतानामिति । बहुभ्य आचार्येभ्यो बहुभि: शास्त्रै: बहुधा बहुप्रकारेण श्रुतमेषामस्तीति तेषाम् । वृद्धानां शीलवयोवृद्धानाम् । ब्राह्मणानां उक्तलक्षणेषु क्षत्रियेषु सत्स्वपि ब्राह्मणानेव ज्ञानार्थमुपास्त इत्यर्थ: । प्रियवादीत्यादि । प्रियवादी ग्रीष्मधर्मसन्तप्तस्थले प्रवर्षी बलाहक इव सुशीतलं वचनं वक्तीत्यर्थ: । किमीदृशवचनं दिव्यान्त:पुरस्य मातापित्रादीनां वसिष्ठादीनां वा ? नेत्याहभूतानां सत्तायोगिसकलपदार्थानां च प्रियवादी । किं सर्वत्र प्रियमेव वदति ? नेत्याहसत्यवादी भूतहितादृष्टार्थवचन इत्यर्थ: । प्रियहितवादीति भाव: । किमिदं विरुद्धंद्वयमघटितघटनासामर्थ्यादित्यपेक्षायां न तथा किन्तु कुलप्रभावादित्याहराघव इति । एवंविधगुण: किं सगर्वो वर्तते ? नेत्याहबह्विति । सम्भावितगुणैरतृप्तस्सन् पुनरप्यति शयाय ज्ञानिनां प्राङ्गणं गत्वा तिष्ठतीत्यर्थ: । यत्किंचिच्छ्रवणमात्रेण तृप्तानां ज्ञानादिवृद्धानां "सर्वत: सारमादद्यात्पुष्येभ्य इव षट्पद:" इत्युक्तरीत्या बहुभ्य: सारग्रहणं कृतवानित्यर्थ: । ब्राह्मणानां "सा विद्या या विमुक्तये" इत्युक्तब्रह्मविद्यानिष्ठानां न तु "विद्या ऽन्या शिल्पनैपुणम्" इत्युक्तान्यविद्यानिष्ठानाम् । उपासिता तद्गृहं गत्वानुवर्तयिता न तु स्वगृहे तानानीय श्रोता ।। 2.2.33 ।।



तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्द्धते ।

देवासुरमनुष्याणां सर्वास्त्रेषु विशारद: ।। 2.2.34 ।।

वृद्धोपासनसिद्धान् गुणानाह--तेनेति । तेन समृद्धोपासनेन । कीर्ति: औदार्यादिगुणनिमित्ता प्रथा, यश: पराक्रमादिनिबन्धना प्रथा । यद्वा कीर्ति: प्रथा । यशस्तत्कारणबलादानादिकम्, तेज: पराभिभवनसामर्थ्यम् ।। 2.2.34 ।।



सम्यग्विद्याव्रतस्नातो यथावत् साङ्गवेदवित् ।। 2.2.35 ।।

सम्यगिति । विद्याव्रतस्नात: । "वेदमधीत्य स्नायात्" इति स्मृतिप्रक्रियया निखिलवेदाध्ययनव्रतावरणानन्तरभाविस्नानकर्मयुक्त: । सम्यक् गुरुकुलवासाद्यङ्गसहिततया साङ्गवेदवित् । "शिक्षा व्याकरणं छन्दो निरुक्तं ज्यौतिषं तथा । कल्पश्चेति व्याहृतानि वदाङ्गानि मनीषिभि: ।।" इत्युक्ताङ्गसहितवेदार्थज्ञ:। यथावत् यथासम्प्रदायम् ।। 2. 2. 35 ।।

गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रज: ।

कल्याणाभिजन: साधुरदीनात्मा महामति: ।। 2.2.36 ।।

गान्धर्वे च सङ्गीतशास्त्रे ऽपि । सामगानोपयुक्तत्वादितिभाव: । कल्याणाभिजन: परिशुद्धोभयवंश: । साधु: स्वयं परिशुद्ध: । अदीनात्मा क्षोभहेतुष्वप्यक्षोभ्यान्त:करण: ।। 2.2.36 ।।



द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणै: ।। 2.2.37 ।।

द्विजैरिति । धर्मार्थनैपुणै: धर्मार्थप्रतिपादनकुशलै: । स्वार्थे अण्प्रत्यय: । श्रेष्ठै: अभिजनविद्यावृत्तयुक्तै: । अभिविनीत: सर्वत: सुशिक्षित: ।। 2. 2. 37 ।।



यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा ।

गत्वा सौमित्रिसहितो नाविजित्य निवर्त्तते ।। 2.2.38 ।।

यदेति । ग्रामार्थ इत्यत्र ग्रामेत्यविभक्तिकनिर्देश: । ग्रामस्य नगरस्य वार्थे प्रयोजने निमित्ते नाविजित्य निवर्तते इत्यभिधानात् रामस्य सुबाहुमारीचविषये जेतृत्ववदन्यत्रापि शत्रुविषये जेतृत्वमभूदित्यवगम्यते ।। 2.2.38 ।।



सङ्ग्रामात्पुनरागम्य कुञ्जरेण रथेन वा ।

पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति ।। 2.2.39 ।।

संग्रामादिति । स्फुटम् ।। 2.2.39 ।।



पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ।

निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ।। 2.2.40 ।।

कुशलप्रश्नप्रकारमाह--पुत्रेष्विति । प्रेष्य: भृत्य: । निखिलेन कार्त्स्न्येन । आनुपूर्व्यात् प्रधानक्रमेण पृच्छतीत्यनुषज्यते ।। 2.2.40 ।।



शुश्रूषन्ते च व: शिष्या: कच्चित् कर्मसु दंशिता: ।

इति न: पुरुषव्याघ्र: सदा रामो ऽभिभाषते ।। 2.2.41 ।।

शुश्रूषन्त इति । दंशिता: सन्नद्धा: "सन्नद्धो वर्मित: सज्जो दंशित:" इत्यमर: ।। 2.2.41 ।।



व्यसनेषु मनुष्याणां भृशं भवति दु:खित: ।

उत्सवेषु च सर्वेषु पितेव परितुष्यति ।। 2.2.42 ।।

सत्पुरुषसम्भावितगुणानभिधाय रामस्य साधारणगुणानाह--व्यसनेष्विति । मनुष्याणां

दिव्यान्तःपुरस्थितमातृप्रभृतीनां न भवति किन्तु मनुष्याणाम् आढ्यदरिद्रद्विजादितारतम्यानादरेण मनुष्यजात्याक्रान्तानाम् । व्यसनेषु अल्पानल्पविचारमन्तरेण व्यसनपदार्थेषु । भृशं व्यसनवतो यादृशं न किन्तु पङ्कमग्नगज इव स्वमाहात्म्यानुगुणं यावत्सत्ताकं च दु:खितो भवति न तु दिनक्रमेण विस्मरति, इदं दु:खं मत्परिपालनवैगुण्येन खल्वागतमिति नितरां दु:खितो भवति । "ह्रीरेषा तु ममातुला" इति वक्ष्यति । उत्सवेषु पुत्रजननादिषु सर्वेषु पुत्रीजननाद्यनादरविरहेण द्वारि चूतकिसलयमालाबन्धनमुपधीकृत्य प्रवृत्तेष्वित्यर्थ: । पितेव पुत्रादीनां पुत्राद्युत्सवेषु य: पितु: परितोषो जायते स द्विविध: । पामराणामर्थलाभलौकिकसहायनिमित्त:, पण्डितानां स्वोत्तारकत्वनिमित्तश्च । एवमुभयविधपरितोषो रामस्याप्यस्ति "प्रनृत्यन्ति पितामहा: । यद्येको ऽपि गयां व्रजेत्" इतिवत् । "मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । बहुजन्मसहस्रान्ते दिष्ट्या यस्तु प्रपद्यते ।।" इति प्रत्याशासम्भवात्। अत्र परिशब्दो वीप्सायां वर्तते। अत्रापि भृशमित्यनुवर्तते।। 2.2.42 ।।



सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रिय: ।

स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रित: ।। 2.2.43 ।।

सत्यवादीति । अतिसङ्कटावस्थायामपि सत्यवचनशील: । सर्वात्मना धर्मं श्रित: अतिदुर्घटदशायामपि धर्मं न त्यजतीत्यर्थ: ।। 2.2.43 ।।



सम्यग्योक्ता श्रेयसां च न विगृह्यकथारुचि: ।

उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ।। 2.2.44 ।।

सम्यगिति । श्रेयसां सम्यग्योक्ता सम्पादक: । न विगृह्यकथारुचि: "न विगृह्यकथां कुर्यात्" इति निषिद्धयोर्जल्पवितण्डयोर्निवृत्तराग: । निवृत्तरागत्वं किमवक्तृत्वात् ? नेत्याह उत्तरेति ।। 2.2.44 ।।



सुभ्रूरायतताम्राक्ष: साक्षाद्विष्णुरिव स्वयम् ।

रामो लोकाभिरामो ऽयं शौर्यवीर्यपराक्रमै: ।। 2.2.45 ।।

उक्तकल्याणगुणानुरूपाकारसौभाग्यमाह--सुभ्रूरिति । शूरस्य भाव: शौर्यम्, तच्च मरणनिर्भयत्वम् । "शूरो मरणनिर्भयात्" इतिवचनात् । वीर्यं स्वयमविकृतस्सन् परान् विविधमीरयति विद्रावयतीति वीर:, तस्य भावो वीर्यम् । दुष्प्रवेशचक्रव्यूहादिविशिष्टसैन्ययुक्तान् देवासुरानपि येनोत्साहेनाक्रमति स पराक्रम: ।। 2.2.45 ।।



प्रजापालनतत्त्वज्ञो न रागोपहतेन्द्रिय: ।

शक्तस्त्रैलोक्यमप्येको भोक्तुं किन्नु महीमिमाम् ।। 2.2.46 ।।

प्रजेति । "रामो राज्यमुपासित्वा" इत्युक्तरीत्या प्रजापालनतत्वज्ञ: । न रागोपहतेन्द्रिय: इन्द्रियचापलरहित इति न समास: । भोक्तुं पालयितुम् ।। 2.2.46 ।।



नास्य क्रोध: प्रसादश्च निरर्थो ऽस्ति कदाचन ।

हन्त्येव नियमाद्वध्यान्न वध्ये न च कुप्यति ।। 2.2.47 ।।

नेति । नियमात् नियमेन वध्यान् शास्त्रतो वध्यान् हन्त्येव । अवध्ये शास्त्रत: अवध्ये विषये ।। 2.2.47 ।।



युनक्त्यर्थै: प्रहृष्टश्च तमसौ यत्र तुष्यति ।। 2.2.48 ।।

युनक्तीति । यत्र यस्मिन् पुरुषे तुष्यति तं तुष्टो ऽसौ अर्थैरभिलषितपदार्थै: युनक्ति योजयति ।। 2.2.48 ।।



शान्तै: सर्वप्रजाकान्तै: प्रीतिसञ्जननैर्नृणाम् ।

गुणैर्विरुरुचे रामो दीप्त: सूर्य इवांशुभि: ।। 2.2.49 ।।

शान्तैरिति । शान्तै: शमप्रधानै: सर्वप्रजानां कान्तै: काम्यमानै: । सर्वजनभोग्यैरित्यर्थ: । अत एव प्रीतिसञ्जननै: । दान्त इति पाठे--यमनियमादिरूपतप:क्लेशसह: । "तप: क्लेशसहो दान्त:" इत्यमर: । दीप्त: ग्रीष्मादिकालिक: ।। 2.2.49 ।।



तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम् ।

लोकपालोपमं नाथमकामयत मेदिनी ।। 2.2.50 ।।

तमिति । मेदिनी मेदिनीस्थ जनता ।। 2.2.50 ।।



वत्स: श्रेयसि जातस्ते दिष्ट्यासौ तव राघव ।

दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यप: ।। 2.2.51 ।।

वत्स इति । तव दिष्ट्या भाग्येन । श्रेयसि श्रेयोनिमित्तम् । वत्स: पुत्रो जात: । पुत्रगुणैर्युक्त: 'पुन्नाम्नो नरकात्त्रायते' इति व्युत्पत्तिसिद्धपितृतारकगुणैर्युक्त: । मारीच: मरीचे: पुत्र: । काश्यप: कश्यपगोत्र: ।। 2.2.51 ।।



बलमारोग्यमायुश्च रामस्य विदितात्मन: ।

देवासुरमनुष्येषु सगन्धर्वोरगेषु च ।। 2.2.52 ।।

आशंसते जन: सर्वो राष्ट्रे पुरवरे तथा ।

आभ्यन्तरश्च बाह्यश्च पौरजानपदो जन: ।। 2.2.53 ।।

बलमिति श्लोकद्वयमेकान्वयम् । देवासुरमनुष्येषु सर्वो जन: राष्ट्रे इतरराष्ट्रे पुरवरे इतरपुरवरे च वर्त्तमानो जन: । आभ्यन्तर: अन्त:पुरचारी जन: । पौरजानपद: स्वपुरस्वजनपदस्थो जनश्च । विदितात्मन: प्रसिद्धशीलस्य रामस्य बलादिकमाशंसते प्रार्थयते । मनुष्यशब्दो ऽत्र देवादिसाहचर्यादृषिवचन: ।। 2.2.5253 ।।



स्त्रियो वृद्धास्तरुण्यश्च सायंप्रात: समाहिता: ।

सर्वान् देवान्नमस्यन्ति रामस्यार्थे यशस्विन: ।। 2.2.54 ।।

स्त्रिय इति । स्त्रिय: अतिगम्भीरतया स्वहृदयं व्यक्तमनाविष्कुर्वन्त्य: । वृद्धा: करणपाटवरहिता:, अत्यलसतया सर्वत्रानादरं कुर्वन्त्य: । तरुण्य: यौवनमदान्धतया विवेकशून्या: । सायंप्रातरित्युपलक्षणम्, त्रिसन्ध्यमित्यर्थ: । तेन मङ्गलाशासनकालनियमोक्ति: । समाहिता: सावधाना: । अनेन रामगुणगृहीततया स्वारसिकप्रेमकत्वेन समनस्कत्वमुक्तम् । सर्वान् देवानिति प्रेमकलुषिततया न्यूनाधिकविभागमन्तरेण लौकिकवैदिकविभागमन्तरेण च नमस्यन्तीति रामरक्ष्यानेव देवान् रामरक्षकान् मन्यन्त इति प्रेमान्ध्यकाष्ठा दर्शिता । रामस्यार्थे रामस्य बलारोग्यादिप्रयोजनसिद्ध्यैव स्वप्रयोजनं नान्तरीयकमिति तस्यैव प्रयोजनमुद्दिश्य । यशस्विन: देवतान्तरनमस्कारस्य रामप्रयोजनपर्यवसितत्वात् रामप्रेमपारवश्येन कृतत्वाच्च स्वरूपविरुद्धदेवतान्तरभजनरूपमयशो नास्तीत्यर्थ: ।। 2.2.54 ।।



तेषामायाचितं देव त्वत्प्रसादात्समृद्ध्यताम् ।। 2.2.55 ।।

तेषामिति । आयाचितं रामाभिषेकरूपाभिमतार्थप्रार्थनम् । समृद्ध्यतां सफलं भवतु ।। 2.2.55 ।।



राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् ।

पश्यामो यौव राज्यस्थं तव राजोत्तमात्मजम् ।। 2.2.56 ।।

राममिति । इन्दीवरश्याममिति समुदायशोभोक्ता । सर्वशत्रुनिबर्हणमिति स्वसौन्दर्यातिशयदर्शनमग्नचित्तत्वरूपकामादिशत्रुनिबर्हणमित्यर्थ: । पश्याम: द्रक्ष्याम: । "वर्तमानसामीप्ये वर्तमानवद्वा" इति भविष्यदर्थे लट् ।। 2.2.56 ।।



तं देवदेवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम् ।

हिताय न: क्षिप्रमुदारजुष्टं मुदाभिषेक्तुं वरद त्वमर्हसि ।। 2.2.57 ।।

तमिति । देवेति सम्बुद्धि: । देवदेव: विष्णु: तत्सदृशमिति वा । निविष्टं दत्तावधानमित्यर्थ: । उदारजुष्टं औदार्ययुक्तम् । भावप्रधानो निर्देश: । उदारैर्जुष्टं सेवितमिति वा ।। 2.2.57 ।।



इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वितीय: सर्ग: ।। 2 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्वितीय: सर्ग: ।। 2 ।।