Content

[Sumantra conveys the message of Rama to the wailing king and Kausalya.]

प्रत्याश्वस्तो यदा राजा मोहात्प्रत्यागतं पुनः।

अथाऽजुहाव तं सूतं रामवृत्तान्तकारणात्।।2.58.1।।

Translation

अथ thereafter, राजा king, यदा when, प्रत्याश्वस्तः consoled, मोहात् from loss of
consciousness, पुनः again, प्रत्यागतम् having regained his senses, रामवृत्तान्त कारणात् due to the news about Rama, तं सूतम् that charioteer, आजुहाव called for him.

When the king regained his consciousness and was consoled, he summoned the charioteer to hear news about Rama.
Sanskrit Commentary by Mahesvara Tirtha
प्रत्याश्वस्त इति । मोहात् मूर्च्छायाः । प्रत्याश्वस्तः उपचारैरुद्बोधितः राजा । यो रामसकाशात्प्रत्यागतः । तं सूतम् । रामवृत्तान्तकारणात् रामवृत्तान्तं प्रष्टुम् ।। 2.58.1 ।।



अथेत्यादिश्लोकद्वयमेकं वाक्यम् । नवग्रहं नवो नूतनो ग्रहो ग्रहणं यस्य तम् । अस्वस्थं व्याधिग्रस्तम् । महाराजमुपस्थितः समीपे तस्थाविति योजना ।। 2.58.2,3 ।।



राजेति । रजसा ध्वस्ताङ्गं धूलिपरीताङ्गम् । परमार्तवत् परमदीनस्सन् ।। 2.58.4 ।।



क्वन्विति । वत्स्यति वसति । अशिष्यति अश्नाति ।। 2.58.5 ।।



दुःखस्येति दुःखं यथा तथा ।। 2.58.6,7 ।।



व्यालैरिति । व्यालैरजगरैः । मृगैः व्याघ्रादिभिः । उपस्थितौ उपश्रितौ ।। 2.58.811 ।।



आसितमिति । आसितादयो भावे निष्ठाः । एतेन रामसम्बन्ध्यासनादिव्यापारश्रवणेन । ययातिरिव साधुष्विति स्वर्गात्पतन् ययातिः 'मुनिसाधुषु पातय' इतीन्द्रं प्रार्थयित्वा यथा साधुषु पतितः एवं स्वर्गतुल्यराज्यान्निर्गत्य साधूनामाश्रमेषु स्थितस्य रामस्य भोजनादि कीर्तय, तेन जीविष्यामीति योजना ।। 2.58.12 ।।



इतीति । सः सूतः सज्जमानया स्खलन्त्या बाष्पपरिब्धया कण्ठगतबाष्पनिरुद्धया ।। 2.58.13 ।।



अब्रवीदित्यादिश्लोकद्वयमेकं वाक्यम् । हे महाराज राघवो धर्ममेवानुपालयन् भूत्वा मामब्रवीत् । वक्ष्यमाणं वच इति शेषः ।। 2.58.14 ।।



किमिति ? हे सूत शिरसा वन्दनीयस्य मे तातस्य मद्वचनात् मत्प्रतिनिधित्वेन अञ्जलिं कृत्वा शिरसाभिप्रणम्य पादौ च वन्द्याविति योजना ।। 2.58.15 ।।



किञ्च सर्वमिति । मद्वचनात् सर्वमन्तःपुरमारोग्यमभिवादनं च वाच्यमिति ।। 2.58.16 ।।



मातेति । किञ्च मम माता कौसल्यापि वक्तव्या, इति च एनां कौसल्यां ब्रूयाः ।। 2.58.17 ।।



किमिति ? धर्मनित्येत्यादि । अभिमानो गर्वः स्वगुणोत्कर्षबुद्धिः, मानः परस्याननुवृत्तिः । अनु राजानं राज्ञः पश्चात् कैकेयीमार्यां श्लाध्यां कारय ।। 2.58.18,19 ।।



कुमार इति । भरते राजवद्वृत्तिः वर्तितव्या सम्पादनीया । कथमुभयमित्यत आह अर्थज्येष्ठा इति । हि यस्मात् अर्थज्येष्ठाः सन्तो राजानः भवन्ति अतः भरतस्य राजदत्तार्थज्येष्टत्वात्तस्य वैमुख्यनिवृत्तये राजधर्ममनुस्मरेति च ।। 2.58.20 ।।



भरत इति । किञ्च भरतो मद्वचनेन कुशलं वाच्यः । सर्वास्वपि मातृषु यथान्यायम् वृत्तिं वर्तस्वेति च वाच्य इति योजना ।। 2.58.21 ।।



वक्तव्य इत्यादिश्लोकद्वयमेकं वाक्यम् । राज्यस्थं प्रधानराज्यस्थम् ।। 2.58.22 ।।



अतिक्रान्तेति । एनं दशरथं मा व्यवरोरुधः । कुमारराज्ये यौवराज्ये । तेनैवाज्ञाप्रवर्तनात् जीव, इति वक्तव्य इति पूर्वेण सम्बन्धः ।। 2.58.23 ।।



अब्रवीदिति । पुत्रागर्द्धिनी पुत्राभिकाङ्क्षिणी । हे भरत मम माता ते तव मातेव द्रष्टव्या ।। 2.58.24 ।।



उपसंहरतिइतीति । इत्येवंप्रकारेण मां ब्रुवन्नेव । अश्रूण्यवर्तत इति पाठः व्यसृजत् ।। 2.58.25 ।।



लक्ष्मणस्त्विति वाक्यमब्रवीत् । तदेवाहकेनायमपारधेन इत्यारभ्य सार्धसप्तश्लोकैः । राज्ञा त्विति । येन रामविवासनेन वयमभिपीडिताः तद्विवासनम् अकार्यं तु अकार्यमेव ।। 2.58.26 ।।



राज्ञा तु कैकेय्याः लघु तुच्छं शासनमाश्रित्य कार्यं वा कार्यमिव कृतं खल्विति योजना ।। 2.58.27 ।।



यदिति । रामः प्रव्राजितो यदि प्रव्राजित इति यत् एतत्प्रव्राजनं लोभकारणकारितं वा, अन्यायेन परद्रव्यापहरणेच्छा लोभः । स एव कारणं हेतुः तेन कारितं लोभहेतुना कैकेयी राज्ञा अकारयद्वा वरदाननिमित्तं वा कैकेय्यै प्रतिश्रुतवरदाननिमित्तं वा भवतु, सर्वथा पक्षद्वयेपि दुष्कृतं कृतम् । वरदानसमये वरद्वयस्य भरताभिषेकरामविवासनरूपेण विनियोगाभावाद्दुष्कृतत्वोक्तिः । दैवप्रेरणया युष्मत्त्यागादृशरथो नोपालब्धव्य इत्याशङ्क्य दैवप्रेरितेनापि दोषसद्भावे त्यागः कार्यः ।। 2.58.28 ।।



स च दोषो ऽस्मिन् रामे न दृश्यत इत्याहइदमिति । इदं तावन्मत्पीडनमीश्वरस्य कृतौ दैवप्रेरणायां सत्यां यथाकामं यथेच्छकृतं भवतु तथाप्येतावता अनपराधिनो रामस्य परित्यागे हेतुभूतमपराधं नोपलक्षये, दैवप्रैरितोपि केनचिद्दोषेण हेतुना परित्यजति स दोषो ऽस्मिन्नास्तीत्यर्थः ।। 2.58.29 ।।



असमीक्ष्येति । बुद्धिलाघवात् अविवेकात् असमीक्ष्य उचितानुचितमनवेक्ष्य समारब्धं विरुद्धं सर्वलोकविरुद्धम् । विवासनं रामविनासनं कर्तु राघवस्य दशरथस्य संक्रोशं निन्दां जनयिष्यति ।। 2.58.30 ।।



"गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ।। " इति वचनार्थं हृदि निधायाहअहं तावदिति । भर्ता तावदिति । भर्ता स्वामी ।। 2.58.31 ।।



अन्यदप्याहसर्वलोकेत्यादि । सर्वलोकप्रियं त्यक्त्वा स्थितं त्वां अनेन क्रूरकर्मणा सर्वलोकः कथमनुरज्येत ।। 2.58.32 ।।



सर्वेति । कथं राजा भविष्यसीत्येवं राजानं ब्रूहीति शेषः ।। 2.58.33 ।।



जानकीति । विस्मृता विस्मृतसर्वप्रयोजना । अस्मितास्मितरहिता विष्ठिता स्थिता ।। 2.58.3436 ।।



तथैवेति । लक्ष्मणबाहुपालितः लक्ष्मणेन शुश्रूषमाणः ।। 2.58.37 ।।



इति । श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायाम् अष्टपञ्चाशः सर्गः ।। 2.58 ।।





Sanskrit Commentary by Nagesa Bhatta
प्रत्याश्वस्त इति । प्रत्याश्वस्तः कृतोपचारः मोहान्मोहं परित्यज्य प्रत्यागतस्मृतिः प्रत्यागतसंज्ञः । "प्रत्यागतः पुनः" इति पाठे ऽप्ययमेवार्थः । रामवृत्तान्तकारणादाजुहाव रामवृत्तान्तं प्रष्टुम् ।। 2.58.1,2 ।।



नवग्रहं नवो नूतनो ग्रहो ग्रहणं यस्य तं द्विपमिव विनिःश्वसन्तमस्वस्थं स्वीयमध्येन स्थितं कुञ्जरमिव ध्यायन्तम् ।। 2.58.3 ।।



रजसा मार्गरजसा परमार्तवत्परमार्तार्हं वच उवाच ।। 2.58.4 ।।



वत्स्यति वनवासकालस्य बहुदीर्घत्वाद्भविष्यत्प्रयोगः ।। 2.58.5 ।।



दुःखस्यानुचितो ऽपि दुःखं प्राप्तः शयनमुत्तमम् ।। 2.58.6,7 ।।



व्यालैरजगरैः मृगैर्व्याघ्रादिभिः ।। 2.58.8 ।।



रथादवरुह्य कथं पादैर्गतौ ।। 2.58.9 ।।



अश्विनाविव मन्दरम् मन्दरस्य कार्ष्ण्यमात्राद्वनसादृश्यम् ।। 2.58.10,11 ।।



आसितादयो भावे निष्ठान्ताः एतेनासनादिव्यापारश्रवणेन ययातिरिव साधुषु स्वर्गात्पतन्ययातिर्मा साधुषु पातयेतीन्द्रं प्रार्थयित्वा यथा साधुषु पतितस्तद्वार्तया सुखजीवनो जातः, एवं स्वर्गतुल्यात्पुत्रसंयोगाद्भ्रष्टस्य भवल्लक्षणसाधुसमागमात्पुत्रवार्ताश्रवणेन जीविष्यामीति भावः ।। 2.58.12 ।।



सज्जमानया स्खलन्त्या बाष्पपरिबद्धया कण्ठगतबाष्पनिरुद्धया ।। 2.58.13 ।।



हे महाराज राघवो धर्ममेवानुपालयंस्त्वत्पालनाद्धेतोरब्रवीद्वक्ष्यमाणं वचः । तदाह हे सूत मत्प्रतिनिधित्वेन राज्ञे ऽञ्जलिं कृत्वा तथैव शिरसा नत्वा विदितात्मनो लोके धर्मिष्ठत्वेन प्रसिद्धस्य शिरसा वन्दनयोग्यस्य राज्ञः पादौ मद्वचनाद्रामो ऽभिवादयत इत्युक्त्वा मत्प्रनिधित्वेन वन्द्यौ ।।

2.58.14,15 ।।

ततः सर्वमन्तःपुरं त्वया मद्वचनाद्रामो वः सर्वा अविशेषेणारोग्यं पृच्छतीति वाच्यं यथार्हं यथायोग्यं तासां मदभिवादनं च वाच्यम् ।। 2.58.16 ।।



ततो मम माता कौसल्या मद्वचनात्कुशलं प्रणामं धर्मे ऽप्रमादं च वक्तव्या किं चैनामिदं वक्ष्यमाणं विशिष्य ब्रूयाः । किं तदित्याह धर्मेत्यादि ।। 2.58.17,18 ।।



अभिमानः प्रधानमहिषीत्वप्रयुक्ता ऽहङ्कारः मानस्तत्प्रयुक्त इतरतिरस्कारकश्चित्तविकारः मातृष्वित्यस्य मदीयास्विति शेषः । अनुगतो राजा यस्यास्तां कैकेयीं हे अम्ब आर्यां श्लाध्यां कारय

। "धारय" इति पाठे ऽप्ययमेवार्थः । तया सह गा विरौत्सीरित्यर्थः ।। 2.58.19 ।।



भरते च राजवद्वृत्तिः कार्या तत्र हेतुः-- अज्येष्ठा अपि राजानो हि निश्चयेन पूज्या इति यावत् राजधर्ममनुस्मर । "अर्थज्येष्ठा हि" इति पाठे ऽर्थेन राज्यरूपार्थेन ज्येष्ठा हि यतो ऽतः पूज्या इति शेषः इति राजधर्ममनुस्मरेति । कतकस्तु राजानमनुराज्ञः पश्चात् आर्यां कैकेयीमभिवादयेत्यर्थः । "कैकेयीमभिवादय" इति पाठः । कुमारे चेत्यादि प्राग्वत् । कैकेय्या वरबलेनाधिकत्वाद्भरतस्य च राजदत्तार्थवत्त्वेन ज्येष्ठत्वात्तयोरभिवादनमम्बाया युक्तम् । तद्वैमुख्यनिवृत्तये च राजधर्ममनुस्मरेत्याह ।। 2.58.20 ।।



भरतो मद्वचनेन कुशलं वाच्यः सर्वासु मातृषु न्यायमनतिक्रम्य वृत्तिं वर्तस्वेति वाच्यः ।। 2.58.21 ।।



वक्तव्यश्चेति । भरत इति शेषः । राज्यस्थं प्रधानराज्यस्थम् ।। 2.58.22 ।।



व्यपरोरुधः राज्याद्भ्रंशयेत्यर्थः । तस्यैवाज्ञाप्रवर्तनान्मदनुग्रहाय तस्यैवाज्ञां प्रवर्तयन्कुमारराज्ये जीवस्व तोषं कुरु ।। 2.58.23 ।।



अब्रवीदित्यादि वाक्यं भरतं प्रत्येव । अब्रवीदित्यादि श्लोकद्वयं प्रक्षिप्रमिति कतकः ।। 2.58.24,25 ।।



अथ लक्ष्मणवाक्यमाह लक्ष्मण इति । केनेत्यादिसार्धसप्तश्लोकास्तद्वचः ।। 2.58.26 ।।



येन विवासनेन वयं पीडितास्तद्विवासनं राज्ञा तु कार्यं वाकार्यमिवाकार्यं कृतम् कैकेय्या लघु शासनमाश्रुत्य प्रतिज्ञाय कृतम्, यद्वा तद्विवासनं कृतं कार्यं कर्तुं योग्यं वा भवतु, अकार्यमकर्तुं योग्यं वा भवतु, अस्माकं तु पीडा सर्वथैवेत्यर्थः ।। 2.58.27।।



उक्तमेवार्थं प्रकारान्तरेणाह यदीति । यदि यद्रामः प्रव्राजितस्तल्लोभरूपेण कारणेन कैकेय्या कारितम्, यद्वा कैकेय्यै प्रतिश्रुतवरदाननिमित्तकं वा भवतु सर्वथा दुष्कृतं कृतमनुचितं कृतम् एतद्व्यतिरिक्तं वरयेति सुवचत्वात् वरदानकाले विशिष्य नियोगाभावाच्च पतित्वेन भार्याशिक्षणे समग्राधिकाराच्च ।। 2.58.28 ।।



ननु दैवप्रेरणयेदं जातमिति न दोषो राज्ञ इत्याशङ्क्य निरपराधपुत्रत्यागे दोषस्त्ववश्यं राज्ञ इत्याह इदमिति । ईश्वरस्य कृत ईश्वरप्रेरणायां सत्यां यथाकाममीश्वरेच्छामनतिक्रम्येदं तावत्कृतं भवतु नाम, तथापि तु रामस्य परित्यागे हेतुभूतं दोषं न पश्यामि अतः केवलं बुद्धिलाघवादसमीक्ष्योचितानुचितमनवेक्ष्य विरुद्धं धर्मशास्त्रविरुद्धमारब्धं रामविवासनं सक्रोशमिह परत्र च दुःखं जनयिष्यत्येव निर्हेतुकपुत्रदारत्यागस्योपपातकेषु गणनादिति भावः ।। 2.58.29,30 ।।



"गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ।।" इति वचनार्थं हृदि निधायाह अहमिति । भर्ता स्वामी पिता चेति "ज्येष्ठो भ्राता पितुः समः" इत्युक्तेः । वस्तुतस्तु केवलमायिकत्वाल्लक्ष्मणादिशरीराणां तेषामेवमुक्तौ न दोष इति बोध्यम् ।।

2.58.31 ।।

सर्वलोकप्रियं रामं त्यक्त्वा स्थिते त्वयि प्राक्सर्वलोकहिते रते संप्रति सर्वलोकाहिते ऽरते वानेन क्रूरेण कर्मणा सर्वलोकः कथमनुरज्येत । "सर्वलोकहिते रतम्" इति पाठे रामविशेषणं सर्वलोकप्रियत्वे हेतुतयेति बोध्यम् ।। 2.58.32 ।।



कथं राजा भविष्यति पितेति शेषः । इत्येवं राजानं ब्रूहीति लक्ष्मणो ऽवोचदित्यर्थः ।। 2.58.33 ।।



विस्मृता विस्मृतसर्वप्रयोजने ऽवस्थिता आश्चर्यं मन्यमानेव विष्ठिता स्थिता ।। 2.58.3436 ।।



लक्ष्मणबाहुपालितो लक्ष्मणेन सेव्यमानः अब्रवीत् उक्तमिति शेषः । निरीक्षते राज्ञस्तव रथं मां

च ।। 2.58.37 ।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे ऽष्टपञ्चाशः सर्गः ।। 2.58 ।।





Sanskrit Commentary by Sivasahaya
राजवृत्तमाह-- प्रत्याश्वस्त इत्यादिभि: । यदा राजा मोहात् मूर्छात: प्रत्यागता प्राप्ता स्मृति: स्वपरिकरविषयकस्मरणं यस्य स: अत एव प्रत्याश्वस्त: स्थिरचित्तस्तदा रामवृत्तान्तकारणाद्रामवृत्तश्रवणहेतो: सूतमाजुहाव ।। 2.58.1 ।।



तदेति । तदा राजाह्वानसमये नवग्रहं वनात्सद्यो गृहीतमत एव कुञ्जरं स्वयूथगजं ध्यायन्तमत एव विनि:श्वसन्तं परमसन्तप्तमत एव अस्वस्थं द्विपं गजमिव दु:खशोकसमन्वितं महाराजं कृताञ्जलि: सूत: उपस्थित: प्राप्तः । श्लोकद्वयमेकान्वयि ।। 2.58.2,3 ।।



राजेति । रजसा ध्वस्ताङ्गं समुपस्थितं सूतं परमार्तवत्परमार्तत्वविशिष्टं वच उवाच ।। 2.58.4 ।।



तद्वचनप्रकारमाह-- क्वेति । स राघवो राम: किमशिष्यति भोक्ष्यते ।। 2.58.5 ।।



दु:खस्येति । हे सुमन्त्र दु:खस्य अनुचितो राम: दु:खं प्राप्त: शयनोचित: महाराजशय्यायोग्य: अनाथवन्नाथत्वाभाववानिव भूमौ कथं शेते ।। 2.58.6 ।।



यमिति । विजनं स्वजनरहितं वनं कथं वत्स्यति ।। 2.58.7 ।।



व्यालैरिति । व्यालैर्महासर्पै: मृगै: सिंहादिभि: आचरितं निषेवितं वने वैदेह्या सार्धं कुमारौ कथमुपाश्रितौ संश्रितौ ।। 2.58.8 ।।



सुकुमार्येति । सुकुमार्या अतिमृदुशरीरया तपस्विन्या धर्मान्वेषणशीलया सीतया सह राजपुत्रौ रथादवरुह्य पादै: कथं गतौ ।। 2.58.9 ।।



सिद्धार्थ इति । येन त्वया मन्दरं मन्दराचलं प्रविशन्तौ अश्विनाविव वनान्तं प्रविशन्तौ ममात्मजौ दृष्टौ स त्वं सिद्धार्थ: सिद्धनिखिलप्रयोजनको ऽसीति शेष: ।। 2.58.10 ।।



किमिति । वनमासाद्य प्राप्य रामादि: किमुवाच ।। 2.58.11 ।।



आसितमिति । रामस्य आसितं संस्थितिं शयितं शयनं भुक्तं भोजनं कीर्तय कथय । एतेन कथनेनाहं जीविष्यामि, तत्र दृष्टान्त: साधुषु साधुभिरित्यर्थ: । ययातिर्नहुषपुत्र इव । अत्रेयमाख्यायिका स्वर्गात्पतनसमये मां साधुषु पातयेतीन्द्रं सम्प्रार्थ्य साधुसङ्गं लब्ध्वा तेभ्यस्तत्त्वज्ञानं प्राप्येन्द्रलोकादपि परं लोकं प्राप्य सुखं प्राप्तो ययातिरिति । भावनिष्ठान्ता आसितादय: ।। 2.58.12 ।।



इतीति । सज्जमानया रामसंलग्नया बाष्पपरिरुद्धया बाष्पाणि परिरुद्धानि यया तया वाचा नरेन्द्रेण चोदित: स सूत: उवाच ।। 2.58.13 ।।



तद्वचनस्वरूपमाह-- अब्रवीदिति । हे महाराज अञ्जलिं प्रणयसूचकबद्धयुगलकरं कृत्वा धर्मं स्वकुलपरंपरारीतिमनुपालयन्राघवो राम: अब्रवीत् ।। 2.58.14 ।।



रामवचनस्वरूपं बोधयन्नाह-- सूतेति । हे सूत विदितात्मन: ज्ञातस्वस्वरूपस्य अत एव महात्मन: अत एव शिरसा वन्दनीयस्य तातस्य पादौ मद्वचनाद्रामेणातीव वन्दितावित्युक्त्या वन्द्यौ अभिवन्दनीयौ ।। 2.58.15 ।।



सर्वमिति । सर्वमन्त:पुरमविशेषेण अयोध्यात: किञ्चिद्विशेषाभावेन आरोग्यं रोगराहित्यं वाच्यं मद्वचनाद्यथार्हं यथायोग्यमभिवादनं च वाच्यम् । अप्रधानीभूतान्त:पुररूपकर्मणि ण्यत् ।। 2.58.16 ।।



मातेति । मम माता कौशल्या च कुशलादिकं वक्तव्या तत्राप्रमादं सावधानतामेनां कौशल्यामिदं वचश्च ब्रूया: ।। 2.58.17 ।।



रामवचनस्वरूपमाह-- धर्मेति । हे देवि धर्मनित्या नित्यं धर्मविशिष्टा त्वं यथाकालमग्न्यगारपरा यागशालारक्षिका भव देवस्य राज्ञ: पादौ देववत्परिपालय निषेवस्व ।। 2.58.18 ।।



अभिमानमिति । अनुराजानं राजसेवानन्तरमभिमानमहं सर्वश्रेष्ठेति गर्वं मानं तत्तत्कृतसत्कारं च त्यक्त्वा तत्रास्थामकृत्वेत्यर्थ: । मातृषु स्वसपत्नीषु वर्तस्व कैकेयीं च अवधारय सौहार्देन स्वीकुरु ।। 2.58.19 ।।



कुमार इति । कुमारे भरते राजवद्राजनीव वृत्ति: सत्कार इत्यर्थ: कर्तव्या । ननु राजभिन्ने कथमिदमित्यत आह अर्थज्येष्ठा अत्यैश्वर्यनियामका इत्यर्थ: । राजान: राजवन्मन्तव्या: इति इमं धर्ममनुस्मर । हिरिवार्थे ।। 2.58.20 ।।



भरत इति । मद्वचनेन भरत: कुशलं वाच्य: सर्वासु मातृषु यथान्यायं वृत्तिमनुवर्तनं सेवामित्यर्थ: । वर्तस्व कुरुष्व इति च वाच्य: ।। 2.58.21 ।।



वक्तव्य इति । यौवराज्यस्थ: युवराजसदृशस्त्वं राज्यस्थं पितरमनुपालय निषेवस्व इति च इक्ष्वाकुकुलनन्दनो भरतो वक्तव्य: ।। 2.58.22 ।।



तदेव भङ्ग्यन्तरेणाह-- अतीति । अतिक्रान्तवया: चिरकालप्रादुर्भूतिमान् यो राजा तं मा व्यपरोरुध: तन्मनोभङ्गं न कुर्वित्यर्थ: । तदुपायमाह-- तस्य राज्ञ: आज्ञाप्रवर्तनादेव यौवराज्ये ऽधिकृतस्त्वं जीवस्व निर्वाहं कुरु ।। 2.58.23 ।।



अब्रवीदिति । पुत्रगर्धिनी पुत्रविषयकातीच्छावती मम माता इव ते तव द्रष्टव्या इति भृशमश्रूणि वर्तयन्सन् मां भूयो बहुवारमब्रवीत् ।। 2.58.24 ।।



इतीति । इति ब्रुवन्महाबाहु: राम: भृशमश्रूणि अवर्तयदिव तच्छ्रवणमात्रेणैवाश्रुपूर्णे मम नेत्रे अभवतामित्यर्थ: ।। 2.58.25 ।।



रामोक्तिमुक्त्वा लक्ष्मणोक्तिमाह-- लक्ष्मण इति । अयं राजपुत्रो राम: केनापराधेन विवासित: अकारणकमेवैतत्कालिकं विवासनमित्यर्थ: ।। 2.58.26 ।।



वस्तुतस्त्वस्मिन्विषये राज्ञो नापराध इति बोधयन्नाह-- राज्ञेति । येन विवासनेन वयमभिपीडितास्तत्कार्यं विवासनं कैकेय्या: लघुशासनमाश्रुत्य अकार्यमिव कृतम् अभिष्ोकप्रतिबन्धकत्वाद्विरुद्धं प्रतिभतीत्यर्थ: । वाशब्द इवार्थे ।। 2.58.27 ।।



यदीति । यद्राज्ञा राम: प्रव्राजित: तल्लोभकारणकारितं लोभकारणेन राजातीव सत्यवक्ता पुत्रश्चैतस्यातीवाज्ञाकारीति यशोभिवाञ्छारूपहेतुना कारितं कृतं वरदाननिमित्तं वा कृतं सर्वथा इदानीं दुष्कृतं न कर्तव्यमित्यर्थ: । इतीदानीमर्थे । दशैते राजमातङ्गास्तस्यैवामी तुरङ्गमा इत्यादाविवाप्रधानीभूतमपि प्रव्राजनं यत्तच्छब्दाभ्यां परामृश्यते अत एव नपुंसकत्वम् ।। 2.58.28 ।।



ननु कर्तृत्वं करणत्वं च "स्वभावश्चेतना धृति:" इत्याद्युक्त्या सर्वस्य परमात्मायत्तत्त्वाद्राज्ञ: को ऽपराध इत्यत आह-- इदमिति । ईश्वरस्य परमात्मन: कृते इच्छया निष्पादिते एव कृतं राज्ञ: प्रयत्न: इदं यथाकामं यथेष्टं स्यादिति शेष: । परं तु परित्यागे हेतुं न उपलक्षये ईश्वरस्यापि कृताविति शेष: ।। 2.58.29 ।।



नन्वीश्वरस्य स्वतन्त्रत्वान्निर्हेतुकमपि कार्यं स्यादित्यत आह-- असमीक्ष्येति । बुद्धिलाघवाद्बुद्धौ विचारे लाघवादालस्यादिना विचारस्याल्पत्वादित्यर्थ: । असमीक्ष्य सम्यग्विचारमकृत्वा समारब्धं विरुद्धं राघवस्य विवासनं सङ्क्रोशं स्वकर्तुर्निन्दां जनयिष्यति ।। 2.58.30 ।।



ननु पित्रादिवियोगस्यासह्यत्वादयोध्यागमनेच्छया एवं ब्रूषे चेन्मया सार्धं त्वं मागच्छेत्यत आह अहमिति । पितृत्वं मत्कर्तृकसेव्यत्वं नोपलक्षये रामवियोगे सतीति शेष: । तत्र हेतु:-- मम भ्रात्रादि: राघव एव ।। 2.58.31 ।।



सर्वेति । सर्वलोकहिते रतमत एव सर्वलोकप्रियं रामं त्यक्त्वा विद्यमानेन मया अनेन रामत्यागरूपेण कर्मणा करणभूतेन सर्वलोक: कथमनुरज्येत ।। 2.58.32 ।।



रामं विना पितुरपि तत्र स्थितिर्दुर्लभेति बोधयन्नाह-- सर्वेति । सर्वलोकविरोधेन विरुद्धभाषणेनेत्यर्थ: । राजा दशरथ: कथं भविष्यति स्थास्यति न स्थास्यतीत्यर्थ: ।। 2.58.33 ।।



जानकीवृत्तमाह-- जानकीति । तपस्विनी अतिविचारशीला विस्मृता भवनादिविषयकविशेषस्मृतिरहिता भूतोपहितचित्ता अत एव विष्ठिता चेष्टारहितात्वेन स्थिता कान्तेव तेन भवदादिदु:खस्मरणेन नि:श्वसन्ती रुदती च सती स्थिता न दृष्टं पूर्वव्यसनं पौर्वकालिकदु:खं यया सा राजपुत्री जानकी तु मां किञ्चिन्न अब्रवीत् । श्लोकद्वयमेकान्वयि ।। 2.58.34,35 ।।



उद्वीक्षेति । मां प्रयान्तं प्रयाणाभिमुखमुदीक्ष्य अवलोक्य परिशुष्यता मुखेनोपलक्षिता भर्तारमुद्वीक्षमाणा सा सीता सहसा बाष्पं मुमोच ।। 2.58.36 ।।



तथैवेति । यो राम: तथा अब्रवीत्सन्देशमिति शेष: । स: अश्रुमुख: सन् राजरथं मां च निरीक्षते तथैव सीता च निरीक्षते ।। 2.58.37 ।।



इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामाणशिरोमणावयोध्याकाण्डे ऽष्टपञ्चाशत्तम: सर्ग: ।। 2.58 ।।