Content

[Sumantra describes the shadow of sorrow over Ayodhya -- withering plants and flowers, driedup ponds, immobile animals -- Dasaratha pines for Rama.]

इति ब्रुवन्तं तं सूतं सुमन्त्रं मन्त्रिसत्तमम्।

ब्रूहि शेषं पुनरिति राजा वचनमब्रवीत्।।2.59.1।।

Translation

राजा king, इति thus, ब्रुवन्तम् while speaking, सूतम् charioteer, मन्त्रिसत्तमम् best of ministers, तं सुमन्त्रम् that Sumantra, शेषम् the rest, पुनः again, ब्रूहि tell, इति thus, वचनम् words, अब्रवीत् said.

Listening to the charioteer, the best of ministers (Sumantra), the king asked him to tell the rest.
Sanskrit Commentary by Mahesvara Tirtha
मम त्वश्वा इति । मम मया नियमिते मार्गे अश्वा न प्रावर्तन्त न न्यवर्तन्त । अयं भावः शतधृतिभवशतमखमुखविबुधदुर्लभा श्रीरामसेवा अस्माभिर्भाग्यवशाल्लब्धा, सा निर्दयेन दैवेन विघटिता इतःपरं किं करिष्यामः ? अस्माकं व्यर्थं जीवनं किमर्थमित्यन्तदुःखेनाश्रु विमुञ्चन्तः । मयि अतिकठिनहृदये प्रतिनिवृत्तेप्यश्वा न न्यवर्तन्त । तथापि मया कथञ्चिन्निवर्तिता इति ।। 2.59.1 ।।



उभाभ्यामिति । तद्दुःखं तादृशं दुःखम् ।। 2.59.2 ।।



गुहेनेति । पुनःशब्दापयेत् आह्वापयेदिति शङ्कया गुहेन सार्धं बहून् दिवसान् स्थितो ऽस्मीतिसम्बन्धः । अयमर्थःसीतारामक्ष्मणेः सह गङ्गां प्राप्य गुहेन सह स्थितदिवसस्त्वेकः,रामस्य गङोत्तरणानन्तरं वटमूलावस्तानदिवसस्त्वेकः, रामस्य भरद्वाजश्रमप्राप्तिदिवसे भरद्वाजाश्रमाद्यावत्स्वप्रेषितचारागमनं तावद्दिवसस्त्वेकः, एवमाहत्य त्रिदिवसाः । अतो बहुत्वस्थ त्रित्वे पर्यवसानात् स्थितो ऽस्मि दिवसान् बहूनित्यस्याविरोधः । किञ्च रामस्य भरद्वाजाश्रमप्राप्तिदिवसे भरद्वाजाश्रमाच्चारागमनानन्तरं तस्मिन्नेव दिवसे श्रृङ्गिबेरपुरान्निर्गत्य तृतीयदिवससायङ्काले सुमन्त्रस्यायोध्याप्रवेशसम्भवात् "ततः सायाह्नसमये " इति पूर्वसर्गोक्तस्याप्यविरोध इति सर्वं समञ्जसम् ।। 2.59.3 ।।



कैकीयीनिमित्तं रामविवासनं सर्वक्षोभकरमभूदित्याहविषय इति । विषये देशे । सपुष्पाङ्कुरकोरकाः पुष्पाण्यभिनवधिकसितानि, अङ्कुराः शाखासु नवपल्लवोद्भेदाः, कोरकाः पुष्पभुकुलानि तैः सहिता वृक्षा अपि परिम्लानाः । अयं भावःरामस्य जगदुपादानकारणत्वेन सर्वात्मकत्वाद्रामैकजीविनः कुसुमकिसलयकोरकसहिता वृक्षादयः छेदनानन्तरं प्ररोहणशीला अपि रामादर्शनव्यसनकर्शिताः छेदनं विनापि परिम्लानाः सद्य एव शुष्कप्राया बभूवुः, किम्पुनर्मनुष्पादय इति ।। 2.59.4 ।।



उपतप्तेति । पल्वलानि सरांसि च तप्तोदकानि, अनेनाल्पाधिकभागमन्तरेण परितप्तत्वं द्योत्यते । वनानि सन्ततजलसेकमन्तरेण प्रवृद्धानि कठिनाकाराणि, उपवनानि चलसेकप्रवृद्धान्यतिकोमलानि । परिशुष्कपलाशानि एकरूपेण परिशुष्कपत्राणि ।। 2.59.5 ।।



न चेति । व्यालाः हिंस्राः पशवः न प्रचरन्ति आहारार्थमपि न सञ्चरन्तीत्यर्थः । वनं निष्कूजम्, वनपक्षिणोपि न कूजन्तीर्थः ।। 2.59.6 ।।



लीनेति । लीनपुष्करपत्राः सङ्कुचितपद्मपत्राः पद्मिन्यः सरस्यः ।। 2.59.7 ।।



जलजानीति । माल्यानि पुष्पाणि यथापुरं यथापुर्वम् ।। 2.59.8 ।।



अत्रेति । उद्यानानि आक्रीडान् आरामान् कृत्रिमवनानि ।। 2.59.9,10 ।।



देवेति । देवराजेत्यत्र देवेति सम्बुद्धिः । अश्रुमुखः अभूदिति शेषः ।। 2.59.11 ।।



हर्म्यैरिति । हर्मयादिभिरवेक्ष्येति तेषु स्थित्वावेक्ष्येत्यर्थः । हाहाकारकृताः कृतहाहाकाराः, बभूवुरिति शेषः ।। 2.59.12 ।।



आयतैरिति । अव्यक्तमिति छेदः ।। 2.59.13 ।।



नेति । आर्ततया रामप्रवासजनितार्थत्वेन हेतुना । अमित्राणामन्योन्यशत्रूणां विशेषं नोपलक्षये । मित्राणामन्योन्यमित्राणां च विशेषं नोपलक्षये, अत एवोदासीनजनस्य च विशेषं नोपलक्षय इति सम्बन्धः । अनयोः शत्रुत्वमनयोर्मित्रत्वमयमुदासीन इति बोधो न ज्ञायते । उपकारापकारतदुभयनिवृत्तिभिर्हि तेषां भेदज्ञानमिति भावः ।। 2.59.14 ।।



अप्रहृष्टेति । विनिश्वसितनिस्वना दीर्घनिश्वासस्वनयुक्ता ।। 2.59.1517 ।।



सुमन्त्रः पृष्टस्योत्तरमभिधाय ममाकृत्यकरणद्योतनार्थं ततो ऽधिकं कथयतीति बुद्ध्वा अङ्गीकारेणोत्तरमाहकैकेय्येति । विनियुक्तेन, रामं प्रव्राजयेति शेषः । पापाभिजनभावया पापानां जन्मभूम्यभिप्रायया "कुलेष्वभिजनो जन्मभूमौ" इत्यमरः ।। 2.59.18 ।।



नेति । नैगमैः वेदशास्त्रविद्भिः ।। 2.59.1921 ।।



यदीति । निवर्तयतु, भवानिति शेषः ।। 2.59.22,23 ।।



वृत्तेति । वृत्तदंष्ट्रः कुन्दकुङ्मलाकारदंष्ट्रः । लक्ष्मणपूर्वजः क्व असावयं मुमूर्षुः क्वेत्यनुकर्षः । मुमूर्षोर्मम रामस्य दर्शनं दुर्लभमित्यार्थः । यदि पश्येयं तदा जीवामि,जीवेयमित्यर्थः ।। 2.59.24,25 ।।



अत इति । न पश्यमीति यत् अतो दुःखतरं किन्नु ।। 2.59.26,27 ।।



स इति । अवगाढः प्रविष्टः ।। 2.59.28 ।।



रामेत्यादि । सीताविरहपारगः सीताविरहरूपं पारं गच्छतीति तथा ।। 2.59.29,30 ।।



वरवेलः वर एव वेला यस्य सः ।। 2.59.3134 ।।



इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकोनषष्टितमः सर्गः ।। 2.59 ।।





Sanskrit Commentary by Nagesa Bhatta
एवं रामवृत्तान्तमुक्त्वा प्रत्यागतिसमयानुभूतस्वदेशपुरवृत्तान्तमाह-- मम त्विति । ममाश्वा मन्नियम्यास्वा न प्रावर्तन्त यथापूर्वं रथवहनोन्मुखा नाभूवन्नित्यर्थः । जात्याश्वस्वभाववर्णनेन स्वभावोक्तिरत्रालङ्कारः ।। 2.59.1 ।।



तद्दुःखं तद्वियोगदुःखम् ।। 2.59.2 ।।



बहून्रामस्य गङ्गोत्तरणदिनादिदिनत्रयम् यद्यपि भरद्वाजाश्रमाच्चारप्रतिनिवृत्तिमत्तृतीयदिवस एव सुमन्त्रप्रस्थानम्, तथापि तद्दिने ऽल्पावशिष्टदिनपर्यन्तं स्थित्या बहूनित्युक्तम् । किमर्थं तत्र स्थितिस्तत्राह शब्दापयोदिति । तत्समीपचरद्रुहमनुष्यमुखेनाकारयेदित्यर्थः ।। 2.59.3 ।।



कैकेयीनिमित्तं रामविवासनं सर्वक्षोभकरमभूदित्याह-- विषये ते इति । तव देशे पुष्पमपि न विकसितम् अङ्कुरः शाखासु पल्लवोद्भेदः, कोरकाः पुष्पमुकुलानि, तैः सहिता वृक्षाः अत्र सर्वत्र हेत्वंशे चोत्प्रेक्षा बोध्या ।। 2.59.4 ।।



उपतप्तोदकाः शुष्कोदकाः पलाशः पर्णम् ।। 2.59.5 ।।



सत्त्वानि प्राणिनो न सर्पन्ति न प्रसरन्तीत्यादावाहारार्थमपीति शेषः । यतस्तत्प्राणिजातं रामशोकाभिभूतं तद्वनं मार्गस्थमत्यन्तं पक्षिशब्दवन्निष्कूजमिव पक्षिशब्दरहितम् ।। 2.59.6 ।।



लीनं सङ्कुचितं पुष्करपत्रं नलिनीदलं यासु ताः सन्तप्तपद्माः शुष्कपद्मा पद्मिन्यः सरांसि विहङ्गमा अत्र जलपक्षिणः ।। 2.59.7 ।।



स्थलजानि माल्यानि पुष्पाणि यथापुरं यथापूर्वम् ।। 2.59.8 ।।



उद्यानानि पुष्पवाटिकाः आरामान्कृत्रिमवनानि अनेन मनुष्याणां सर्वशो ऽत्यन्तदुःखवत्त्वं कैसुतिकन्यायेनैव प्रतिपादितं बोध्यम् ।। 2.59.9 ।।



तदेवाह प्रविशन्तमिति ।। 2.59.10 ।।



देवेति संबुद्धिः राजरथं राज्ञस्तव रथम् अश्रुमुखः अभूदिति शेषः ।। 2.59.11,12 ।।



अव्यक्तमिति छेदः रामप्रवासजनितपीडयार्ताः परस्परं सम्यङ् नेक्षन्त इत्यर्थः ।। 2.59.13 ।।



अन्योन्यं शत्रूणां तथा मित्राणामुदासीनजनस्य चार्ततयार्तत्वगुणसाम्येन विशेषं नोपलक्षये इत्यन्वयः । यद्यपि रामस्य स्वतो ऽमित्रासंभवः, कैकेयीकुब्जयोस्तत्त्वस्य दैववशात्संभवे ऽपि तयोरार्तत्वभावः,(?) तथाप्यनयोः शत्रुत्वमनयोर्मित्रत्वमयमुदासीन इति भेदो न ज्ञायत इति तात्पर्यम् ।। 2.59.14 ।।



आर्तस्वरपरिम्लानविनिःश्वसितनिःस्वना दीर्घशब्दवन्निःश्वासयुक्तेति यावत् ।। 2.59.15 ।।



पुत्रहीना पुत्रवियुक्ता कौसल्येव अनेन सर्वेषां रामे पुत्रवत्प्रेम ध्वनितम् ।। 2.59.16,17 ।।



राजा सर्वथा त्वया महदकार्यं कृतमिति सुमन्त्राभिप्रायं तदीयात्युक्तिवचनैर्निर्णीयाङ्गीकारेणोत्तरमाह कैकेय्येति । पापाभिजनभावया पापकुलजया पापदेशजया पापाभिप्रायया च "कुले ऽप्यभिजनो जन्मभूम्याम्" इत्यमरः । विनियुक्तेन रामप्रव्राजने इति शेषः । न समर्थितं न विचारितम् ।। 2.59.18 ।।



नञो ऽनेकधा प्रयोगः शोकेन चित्तवैक्लव्याप्त् सहसा झटित्यविचारेणैव ।। 2.59.19 ।।



भवितव्यतयावश्यप्रापकदुरदृष्टवशात् वा इति वैशब्दसमानार्थम् । यदृच्छया दैवेच्छया ।। 2.59.20 ।।



यदि यदि वा अथवेति यावत् । सुकृतं प्रियम् । सन्त्वरयन्ति निष्कमितुमिच्छन्तीति यावत् ।। 2.59.21 ।।



मदाज्ञया भवान्गत्वा राघवं निवर्तयतु । ननु भरताय त्वया राज्यस्य दत्तत्वात्त्वदाज्ञया मया कथं गन्तव्यं तत्राह अद्यापि ममैवाज्ञा यावद्भरतागमनमिति भावः । निवृत्तौ हेतुः नेत्यादि ।। 2.59.22 ।।



पुनरपि रामनिवर्तनस्याशक्यत्वात्स्वनयनमेवाह अथवापीति ।। 2.59.23 ।।



वृत्तदंष्ट्रः कुन्दकुड्मलाकारदंष्ट्रः । यदि जीवामीति तत्समीपगमनपर्यन्तमपि जीवने सन्देह इति भावः ।। 2.59.24 ।।



अतो न्वित्यतःशब्दार्थमाह इमामिति । एवमत्यन्तसंनिहितमरणकाले उत्तमलोकदस्वस्मरणाभ्याससंपादनाय भगवतात्मवियोगः पितुः संपादित इति तत्त्वम् ।। 2.59.25,26 ।।



अर्पितचेतनो गतचेतनः सुदुष्पारं शोकसागरमवगाढः प्रविष्टः अब्रवीत् । शोकं सागरत्वेनावर्णयदित्यर्थः ।। 2.59.27 ।।



तदाह रामेत्यादि । रामशोकरूपो महानावेगो वैपुल्यं यस्य सीताविरहरूपपारगतस्तत्पारसंबन्धः श्वसितरूप ऊर्मियुक्तो महावर्तो यस्य सः बाष्पवेगरूपनदीजलैराविलः ।। 2.59.28 ।।



शोचितृ़णां प्रकीर्णकेशा एव शैवालं यत्र कैकेय्येव वडवामुखं यत्र ।। 2.59.29।।



अश्रुवेगप्रभवः षष्ठीतत्पुरुषः अश्रुवेगोत्पादक इत्यर्थः । नृशंसायाः कैकेय्याः वर एव वेला मर्यादा यस्य यतो रामप्रव्राजना समुद्रात्कालकूटमिव जातेति कतकः । अन्ये तु रामप्रव्राजनमेवायतं विस्तारो यस्य स रामप्रव्राजनायत इत्यर्थमाहुः ।। 2.59.30,31 ।।



दिदृक्षमाणो यद्राघवं द्रष्टुं न लभे तदशोभनं मम महत्पापम् पापजन्यं तददर्शनमिति यावत् ।। 2.59.32 ।।



रामहेतोरिति विलपति पार्थिवे प्रनष्टे मूर्छिते सति तस्य करुणतरं वचनं निशम्य देवी द्विगुणं भयमुपागमत् भर्तृवियोगदुःखस्यापारस्य संभावनया ।। 2.59.33 ।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे एकोनषष्टितमः सर्गः ।। 2.59 ।।





Sanskrit Commentary by Sivasahaya
रामादीनां वृत्तमुक्त्वा स्ववृत्तमाह-- ममेति । रामे वनं संप्रस्थिते सति निवृत्तस्य मम नियम्या अश्वा: अश्रु विमुञ्चन्त: सन्त: वर्त्मनि मार्गे न प्रावर्तन्त पूर्ववन्न चेलु: ।। 2.59.1 ।।



उभाभ्यामिति । तद्दु:खं वियोगजनितखेदं धारयन् सहमानो ऽहं प्रस्थित: ।। 2.59.2 ।।



गुहेनेति । यदि कदाचिद्राम: मां पुन: शब्दापयेत् आह्वयेत् इति आशया बहून् त्रीन् दिवसान् गुहेन सार्धं तत्रैव स्थितो ऽस्मि वर्तमानसामीप्य इति भूते लट् ।। 2.59.3 ।।



स्ववृत्तमुक्त्वा देशवृत्तमाह-- विषय इति । ते विषये देशे सपुष्पाङ्कुरकोरका: वृक्षा अपि महाव्यसनेनातिदु:खेन कर्षिता: पीडिता: अत एव परिम्लाना: तत्राङ्कुरा: शाखासु नवीनपल्लवोद्गमा: कोरका: कुसुममुकुलानि ।। 2.59.4 ।।



उपेति । पल्वलानि अल्पसरांसि उपतप्तोदका इत्यस्य लिङ्गविपरिणामेनान्यत्राप्यन्वय: परिशुष्काणि पलाशानि पत्राणि येषां तानि ।।

2.59.5 ।।

न चेति । सत्त्वानि वनवासिजना: न सर्पन्ति व्याला: सर्पादयश्च न प्रसरन्ति । तत्र हेतु: तत्प्राणिजातं रामशोकेन अभिभूतं पराभूतमत एव तद्वनं नि:कूजं शब्दरहितमिव अभवदिति शेष: ।। 2.59.6 ।।



लीनेति । लीनपुष्करपत्रा: गलितनलिनीदलविशिष्टा: कलुषाणि मलिनानि उदकानि यासां ता: नद्य आसन्निति शेष: । पद्मिन्य: सरांसि सन्तप्तपद्मा: शुष्कपद्मविशिष्टा: अत एव लीना विध्वस्ता: मीनविहङ्गमा: यासु ता: आसन्निति शेष: ।। 2.59.7 ।।



जलजानि जलोत्पन्नानि पुष्पाणि स्थलजानि माल्यानि पुष्पाणि नातिभान्ति । तत्र हेतु: अल्पगन्धीनि परिभ्रष्टबहुगन्धवन्ति फलानि च यथापुरं यथापूर्वं न भान्ति "माल्यं पुष्पे पुष्पदाम्नि" इति वैजयन्ती ।। 2.59.8 ।।



अत्रेति । प्रलीनविहगानि परिध्वस्तपक्षीणि अत एव शून्यानि अत्र अयोध्यायामुद्यानानि पुष्पवाटिका: सन्तीति शेष: । आरामान् कृत्रिमवनानि अभिरामान्न पश्यामि "आराम: स्यादुपवनं कृत्रिमं वनमेव यत्" इत्यमर: ।। 2.59.9 ।।



प्रविशन्तमिति । अयोध्यायां प्रविशन्तं मां कश्चिज्जनो नाभिनन्दति । तत्र हेतु: राममपश्यन्तो नरा: मुहुर्मुहु: निश्वसन्ति ।। 2.59.10 ।।



तदेव भङ्ग्यन्तरेणाह-- देवेति । देव हे राजन् रामं विना इहागतं राजरथं दूराद्दृष्ट्वा सर्वो जन: अश्रुमुख आसेति शेष: ।। 2.59.11 ।।



हर्म्यैरिति । हर्म्यादिभिरुपलक्षिता: नार्य: आगतं रथमवेक्ष्य रामस्य अदर्शनेन कर्षिता: प्राप्तखेदा: सत्य: हाहाकारकृता आसन् ।। 2.59.12 ।।



आयतैरिति । आर्ततरा: स्त्रिय: अश्रुवेगपरिप्लुतै: अत्यश्रुव्याप्तै: अत एव विमलै: कज्जलादिरहितै: आयतैर्विशालैर्नेत्रै: अन्योन्यं व्यक्तं यथा स्यात्तथा ऽभिवीक्षन्ते । अयं श्लोक: पूर्वमपि पठित: ।। 2.59.13 ।।



नेति । अमित्राणां शत्रूणां मित्राणां च उदासीनजनस्य शत्रुत्वमित्रत्वानाक्रान्तस्य च आर्ततया हेतुना कञ्चिद्विशेषं परस्परं भेदं नोपलक्षये नकारत्रयेण क्रियाप्यावर्तते तेनोपलक्षणे स्वप्रमादाभाव: सूचित: ।। 2.59.14 ।।



अप्रहृष्टेति । न प्रहृष्टा: मनुष्या यस्यां सा दीना: क्षीणा: नागाः गजा: तुरङ्गमा: अश्वा यस्यां सा आर्तस्वरै: दीनतासूचकशब्दै: परिम्लाना विनि:श्वसितामत्युच्छ्वासानां नि:स्वन: शब्दो यस्यां सा

अत एव निरानन्दा आनन्दरहिता, तत्र हेतु: रामप्रव्राजनातुरा अयोध्या पुत्रहीना कौशल्येव प्रतिभाति । श्लोकद्वयमेकान्वयि ।। 2.59.15,16 ।।



सूतस्येति । परमदीनया बाष्पोपहतया बाष्पै: उपहतया स्खलितया वाचा सूतमिदं वचनमब्रवीत् ।। 2.59.17 ।।



तद्वचनमेवाह-- कैकेय्येति । पापाभिजनभावया पापा: क्रूरकर्मविषयकसम्मतिदानजनितपापविशिष्टा ये अभिजना: अभित: समीपे विद्यमाना: जना: मन्थरादयस्तै: सहभावो नित्यं स्थितिर्यस्यास्तया कैकेय्या विनियुक्तेन प्रार्थितेन मया यद्यपि मन्त्रकुशलैर्वृद्धै: सुहृद्भि: सनैगमै: शास्त्रसम्पन्नैरमात्यैश्च सह मन्त्रयित्वा न समर्थितं कृतं रामप्रव्राजनमिति शेष: । तथापि अयं रामप्रवाजनरूपो ऽर्थ: सम्मोहादविवेकात्स्त्रीहेतो: सहसा न कृत: न कृत: नञ्द्वयोपादानं दार्ढ्यबोधनाय विवेकादेव कृत इत्यर्थ: । वा शब्दो यद्यपीत्यर्थे । श्लोकद्वयमेकान्वयि ।। 2.59.18,19 ।।



विवेककरणे हेतुं वदन्नाह-- भवितव्यतयेति । यद्यस्माद्राक्षसकुलादस्य मद्बुद्धिस्थस्य ऋषिसमूहस्य महद्व्यसनं दु:खं तस्य कुलस्य विनाशायं भवितव्यतया उपलक्षितया कृच्छ्रया वनगत्या इदं दु:खं प्राप्तम् ।।

59.20 ।।

दु:खशान्त्यर्थं यत्नमाह-- सूतेति । हे सूत यदि ते तुभ्यं किञ्चित्सुकृतमुपकार: मया कृतमस्ति तर्हि आशु शीघ्रं मां रामं रामसमीपं प्रापय तत्र हेतु: प्राणा: इन्द्रियाणि मां संत्वरयन्ति रामसन्दर्शनार्थमिति शेष: ।। 2.59.21 ।।



प्रापणप्रकारं वदन्नाह-- यदीति । यदि अद्यापि ममैवाज्ञा वर्तते इति शेष: । तर्हि राघवं रामं निवर्तयतु निवर्त्य मत्समीपे आनयत्वित्यर्थ: कश्चिदिति शेष: । ननु किमर्थमेवं त्वरेत्यत आह-- रामं विना मुहूर्तमपि जीवितुं स्थातुं न शक्ष्यामि ।। 2.59.22 ।।



पक्षान्तरमाह-- अथवेति । अथवा निवर्तनयोग्यजनाभावे अपि यदि महाबाहु: राम: दूरं गतो भविष्यति तदा रामाय रामं प्रापयितुं मामेव रथमारोप्य शीघ्रं दर्शय ।। 2.59.23 ।।



वृत्तेति । वृत्तदंष्ट्र: कुन्दकुड्मलसदृशदन्तवानसौ राम: क्वास्ति यदि सीतया सह एनं रामं पश्येयं तर्हि साधु यथा स्यात्तथा जीवामि जीवितास्मि वर्तमानसामीप्ये इति भविष्यति लट् ।। 2.59.24 ।।



लोहिताक्षमिति । लोहिताक्षमरुणनयनम् आमुक्तानि परित्यक्तानि मणिकुण्डलानि येन तं रामं यदि न पश्यामि तर्हि यमक्षयं यमस्य कालस्य क्षय: अभावो यस्मिंस्तं साकेतलोकं गमिष्यामि ।। 2.59.25 ।।



अत इति । इमामवस्थामापन्न: प्राप्तो यो ऽहमिक्ष्वाकुनन्दनं न पश्यामि तस्य मे अत: अस्माद्दर्शनाभावात्किं दु:खतरं न किमपीत्यर्थ: ।। 2.59.26 ।।



हेति । अनाथवद्रक्षकरहितवत् दु:खेन म्रियमाणं मां भवान्न जानीत हा अतिदु:खमेतत् ।। 2.59.27 ।।



स इति । तेन रामवियोगजनितेन दु:खेन अर्पितचेतन: निविष्टचित्त: अत एव सुदुष्पारं शोकसागरमवगाढो निमग्नो राजा अब्रवीत् वचनान्तरमुच्चारयामास । "अर्दितचेतन:" इति भूषणपाठ: ।। 2.59.28 ।।



वचनान्तरस्वरूपमाह-- रामेति । रामशोकमहावेग:

रामनिष्ठपित्रादिवियोगहेतुकशोकस्मरणजनित: रामकर्मको वा शोक एव महावेगो यस्मिन् स: सीताविरहपारग: सीताविरह: सीतावियोगजनितशोक: स एव पार: परसमुद्रस्तं गच्छतीति स: सीतावियोगजनितशोकसागरेण सङ्गत इत्यर्थ: । श्वसितोर्मिमहावर्त: श्वसितौ ऊर्ध्वाधश्चलितमहाश्वासौ उर्मिमहावर्तौ यस्मिन् स: बाष्पवेगजलाविल: बाष्पवेगा: अतिवेगवत्कौशल्याद्यश्रूणि तान्येव जलानि तै: आविल: परिपूर्ण: ।। 2.59.29 ।।



बाहुविक्षेपा एव मीना यस्मिन् स: विक्रन्दितानि नानाविधजनरुदितानि महास्वना: यस्मिन्स: प्रकीर्णकेशा एव शैवाला यस्मिन्स: कैकेय्येव वडवामुख: बोधकवचनेनापारजलशोषणप्रवृत्तवडवाग्निर्यस्मिन्स: ।। 2.59.30 ।।



ममाश्रुवेगात्प्रभवति उत्पद्यते स: कुब्जाया मन्थराया: वाक्यमेव महाग्रह: महाग्रहसदृशग्राहको मकरो यस्मिन्स: या नृशंसा मन्थरा सैव वरा उत्तमा वेला मर्यादा यस्मिन् स: रामप्रव्राजनेन आयत: विस्तृत: ।। 2.59.31 ।।



यस्मिन्नहं निमग्न: सो ऽयं शोकसागर: राघवं विना जीवता मया दुस्तर: । श्लोकचतुष्टयमेकान्वयि ।। 2.59.32 ।।



अशोभनमिति । राघवं दिदृक्षमाणो यो ऽहं न लभे तस्य मे अशोभनमेतत् इति प्रलपन्सन् सुम्मूर्च्छितो राजा शयनं शय्यायां पपात ।। 2.59.33 ।।



इतीति । प्रनष्टे परिणतत्वेन प्रतीयमाने पार्थिवे इत्यनेन प्रकारेण करुणतरं रामहेतो: विलपति सति तस्य विलपतो राज्ञ: वचनमनुनिशम्य द्विगुणं राजानवधानताभयापेक्षयाधिकं भयं देवी कौशल्या ऽगमत् ।। 2.59.34 ।।



इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकोनषष्टितम: सर्ग: ।। 2.59 ।।