Content

[Kausalya condemns Dasaratha's action -- Dasaratha loses his senses out of intense grief.]

वनं गते धर्मपरे रामे रमयतां वरे।

कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत्।।2.61.1।।

Translation

धर्मपरे dutiful, रमयताम् pleasing others, वरे greatest, रामे Rama, वनम् forest, गते had gone, कौशल्या Kausalya, स्वार्ता in bitter anguish, रुदती sobbing, भर्तारम् to her husband, इदम् these words, अब्रवीत् said.

When Rama, the greatest among those who please the people, he who was conscious of his duty left for the forest. Kausalya, sobbing in bitter anguish, said to her husband:
Sanskrit Commentary by Mahesvara Tirtha
वनमिति । स्वार्ता सुतरामार्ता ।। 2.61.1 ।।



यद्यपीति । राघवो दशरथः । सानुक्रोशः सदयः । वदान्यः बहुप्रदः । प्रियवादी चेति ते महद्यशः त्रिषु लोकेषु प्रथितं प्रसिद्धं यद्यपि तथापि ततोप्यतिशयितापयशस्करं कृत्यं कृतमिति वाक्यशेषः । इत्यब्रवीदिति पूर्वेण सम्बन्धः ।। 2.61.2,3 ।।



सेति । तरुणी अतिक्रान्तकौमारावस्था । श्यामा यौवनमध्यस्था, एतत्पदद्वयोपादानेन किञ्चिन्न्यूनयौवनमध्यं प्राप्तेत्यवगम्यते ।। 2.61.4 ।।



भुक्त्वेति । सूपदंशान्वितं शोभनव्यञ्जनसमेतम् । नैवारं नीवारसम्बन्धिनम् ।। 2.61.57 ।।



मद्मवर्णं पझदलवर्णम् । पद्मनिश्वासं पद्मगन्धिनिश्वासम् ।। 2.61.8,9 ।।



यत्त्वयेति । मम बान्धवाः रामादयः । व्यपोह्य राज्याद्भ्रंशयित्वा अनादृत्य वा त्वया निरस्ताः वने परिधावन्तीति यत् तदकरुणं कर्म शोचनीयं कर्मेत्यर्थः । करुणाराहित्येन त्वया कृतमिति भावः ।। 2.61.10 ।।



भरतः राज्यं कोशं च जह्यादिति नोपलक्ष्यत इति सम्बन्धः ।। 2.61.11 ।।



भरतो राज्यं जह्याच्चेदपि रामस्तु न प्रतिगृह्णीयादिति सदृष्टान्तमाहभोजयन्तीत्यादिश्लोकत्रयेण । केचित् श्राद्धकर्तारो ब्राह्मणाः । द्विजर्षभान् द्विजश्रेष्ठान् निमन्त्र्य, तान् त्यक्त्वा अनिमन्त्रितान् स्वान् बान्धवानेव पूर्वं भोजयन्ति, ततः कृतकार्याः श्राद्धकर्तारः तान् निमिन्त्रितान् द्विजर्षभान् पश्चाद्भोक्तुं समीक्षन्ते भोजयितुं विचारयन्ति किल, ये निमन्त्रिताः सुरोपमाः गुणवन्तः विद्वांसः द्विजातयः ते तत्र श्राद्धे सुधामपि सुधासदृशमपि पश्चादनिमन्त्रितबन्धुभोजनान्तरं, नाभिमन्यन्ते भोक्तुं नेच्छन्ति । ब्राह्मणेषु बान्धवब्राह्मणेषु तृप्तेष्वपि प्राज्ञा निमन्त्रिता द्विजर्षभाः वृषभाः स्वश्रृङ्गच्छेदमिव पश्ताद्भोक्तुमभ्युपेतुं च । नालं न समर्थाः । अनिमन्त्रितबन्धुभोजनानन्तरं निमंत्रिता द्विजर्षभाः भोजनं न करिष्यन्तीति भावः । स्वधामपीति पाठेस्वधां श्राद्धम् ।। 2.61.1214 ।।



एवमिति । एवं पूर्वोक्तद्विजर्षभवत् । किमर्थं नावमंस्यते, सर्वात्मना तिरस्करिष्यत्येवेत्यर्थः ।। 2.61.15 ।।



नेति । परेण वृकादिना, आशितं भक्षितशेषत्वेन स्थापितं परलीढं परेण आस्वादितम्, परभुक्तमिति यावत् ।। 2.61.16 ।।



हविरिति । हविः चरुप्रमुखम् । खादिरा इत्येतत् पालाशादीनामप्युपलक्षणम् । यातयामानि परिभुक्तानि, यागे विनियुक्तानीति यावत् । "जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्" इत्यमरः । अध्वरे यागान्तरे । पुनर्न कुर्वन्ति न विनियुञ्जते ।। 2.61.17 ।।



तथेति । आत्तम् उपभुक्तपूर्वम् । हृतसारां गृहीतसाराम् । अभिमन्तुम् अभिलषितुम् ।। 2.61.18 ।।



नैवमिति । वालधेः पुच्छस्य । अभिमर्शनम् अवमत्यस्पर्शनम् ।। 2.61.19 ।।



नैतस्येति । सहिताः सङ्घीभूय वर्तमानाः, लोकाः चतुर्दशभुवनस्थसुरासुरादयः । भयं न कुर्युः भयं कर्तुं न शक्नुयुः । तर्ह्येतादृशो रामः किमर्थमाक्रम्य राज्यं न स्वीकृतवानित्याशङ्क्य परिहरतिअधर्मं त्विति । अधर्मम् अधर्ममार्गस्थम् लोकं धर्मेण योजयेत्, धर्मप्रवर्तको रामः राज्यापहरणरूपमधर्मं कथं कुर्यादिति भावः ।। 2.61.20 ।।



रामे अशक्तिशङ्का न कार्येत्याहनन्वित्यादि श्लोकद्वयेन । युगान्तः युगान्तकालाग्निरिव । भूतानि पञ्चमहाभूतानि । सागरानपि निर्दहेत् ।। 2.61.21 ।।



स इति । जलजेन मत्स्येन ।। 2.61.22 ।।



द्विजातीति । धर्मनिरते पुत्रे त्वया विवासिते सति शास्त्रदृष्टः द्विजातिचरितः सनातनो धर्मः ते तव यदि स्यात् तद्विवासनयुक्तः सो ऽपि धर्मो न दृश्यत इति भावः । यद्वा नकारो ऽत्राध्याहर्तव्यः । तेधर्मनिरत इत्यत्र अधर्मनिरत इति छेदः । शास्त्रदृष्टो द्विजातिचरितो राजर्षिभिराचरितस्सनातनो धर्मस्ते पुत्रे यदि न स्यात् तर्ह्यधर्मनिरते तस्मिन् त्वया विवासिते तद्युक्तं भवेत् न चैवमिति भावः ।। 2.61.23,24 ।।



तत्रेति । तत्र गतित्वे परिगणितेषु त्वं मे नास्ति ।। 2.61.25,26 ।।



इमामिति । स्वदुष्कृतम् अस्मरत् एतादृशदुःखस्य निदानभूतं किं दुष्कृतं पुर्वं कृतमिति सस्मारेत्यर्थः ।। 2.61.27 ।।



इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकषष्टितमः सर्गः ।। 2.61 ।।





Sanskrit Commentary by Nagesa Bhatta
परमपतिव्रतापि कौसल्या दुःखातिशयात्पूर्वं जानत्यपि त्रेताश्रयव्यवहारवल्लोकाश्रयेण राजानमुपालभते वनमिति । आर्ता खिन्ना । "स्वार्ता" इति पाठे सुतरामार्ता "रुदतीव" इति पाठे इव एवार्थे, यद्वा उक्तार्थध्वननायेवशब्दः ।। 2.61.1 ।।



अनुक्रोशादिविशिष्टो राघव इति ते महद्यशः प्रथितमिति योजना ।। 2.61.2 ।।



अथापि हे नरवरश्रेष्ठ सीतया सह तौ पुत्रौ कथं त्यक्तवानिति शेषः । अथ ताञ्शोचति-- दुःखितावित्यादि । दुःखं प्राप्तावित्यर्थः ।। 2.61.3 ।।



तरुण्यतिक्रान्तकौमारा श्यामा प्राप्तयोवना ।। 2.61.4 ।।



सूपदंशान्वितं शोभनव्यञ्जनसहितं नैवारं नीवारसंबन्धिनम् ।। 2.61.5,6 ।।



महेन्द्रध्वजसङ्काशस्तद्वत्सर्वलोकस्योत्सवदः ।। 2.61.7 ।।



पद्मवर्णं पद्मदलवर्णं पद्मनिःश्वासं पद्मपत्रगन्धिनिःश्वासम् ।। 2.61.8 ।।



यद्यतस्तमपश्यन्त्या इदं सहस्रधा न फलति न विशीर्यते ऽतस्तद्वज्रसारं वज्रवत्कठिनं नूनमित्युत्प्रेक्षा ।। 2.61.9 ।।



त्वया व्यपोह्य वृद्धैरविचार्य यत्करुणं शोचनीयं कर्मानुचितवरदानरूपं कृतं तेन हेतुना मम बान्धवाः कैकेय्या निरस्ताः सुखार्हा अपि कृपणाः सन्तो वने धावन्ति, यद्वा व्यपोह्य अनादृत्य राज्यात्प्रभश्य वा त्वया निरस्ता वने परिधावन्तीति यत्तदकरुणं क्रूरं कर्म त्वया कृतमित्यर्थः ।। 2.61.10 ।।



ननु चतुर्दशवर्षानन्तरं तव पुत्रस्यैव राज्यं भविष्यति तत्राह-- यदीति । तावत्पर्यन्तं वने जिवनमेव न संभाव्यते तथापि यदि जीवन्पुनरेष्यति तथापि भरतो राज्यं जह्यादिति नोपलक्ष्यते न संभाव्यत इत्यर्थः ।। 2.61.11 ।।



अथापि कदाचिद्भरतो जह्यात्तथापि रामस्तन्नाङ्गीकरिष्यतीति सदृष्टान्तमाह-- भोजयन्तीत्यादिना । केचिच्छ्राद्धकर्तारो वयोगुणैरधिकान्विप्राञ्श्राद्धे निमन्त्र्य वयोगुणहीनानपि स्वान्बान्धवाञ्श्राद्धे भोजयन्ति ततः कृतकार्याः सन्तो निमन्त्रितान्द्विजर्षभान्पश्चादिष्टपङ्क्तौ भोजयितुं समीक्षन्ते विचारयन्ति ।। 2.61.12।।



तत्र निमन्त्रितेषु ये गुणवन्तः श्राद्धापेक्षितगुणवन्तस्ते सुरोपमाः पश्चात्पङ्क्तौ सुधासदृशं स्वाद्वन्नमपि नानुमन्यन्ते ।। 2.61.13 ।।



ननु कुतो नानुमन्यन्ते ब्राह्मणशेषभोजने शूद्रशेषभोजनवद्दोषाभावादत आह-- ब्रह्मणेष्वपीति । ब्राह्मणेषु वृत्तेषु भुक्तवत्सु तद्भुक्तशेषमपि यतो द्विजोत्तमाः प्राज्ञाश्चातस्तद्भोजनमभ्युपेतुमङ्गीकर्तुं नालम् अवमाननात् ऋषभाः स्वशृङ्गच्छेदमिव शृङ्गस्थानीयो हि सतां मानः ।। 2.61.14 ।।



दार्ष्टान्तिके योजयति-- एवमिति । कनीयोभुक्तत्वात्स्वयं ज्येष्ठो वयसा गुणैश्च वरिष्ठः संस्तेन त्यक्तमपि राज्यं किमर्थं नावमंस्यते सर्वथा तिरस्करिष्यत्येवेत्यर्थः । मद्दर्शनानुरोधेनागतो मज्जीवनपर्यन्तमेव स्थास्यति तूष्णीं न पुना राज्यं करिष्यतीत्यर्थः ।। 2.61.15 ।।



परेणाहृतं कोष्ट्वादिखादितशेषम् । परलीढं परास्वादितं न मन्यते न मंस्यते ।। 2.61.16 ।।



एतानि हविरादीन्येकत्राध्वरे विनियोगाद्यातयामानि पुनरध्वरे ऽध्वरान्तरे विनियुक्तानि न कुर्वन्ति । "जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्" इत्यमरः । यद्यपि मन्त्राः कृष्णाजिनं दर्भा इति स्मृत्या कुशानां यातयामत्वदोषो नेत्युक्तं तथापि तज्जीर्णत्वरूपयातयामत्वदोषाभावपरं न तु विनियुक्तविनियोगपरम् "ब्रह्मयज्ञेषु ये दर्भा विनियुक्ता न ते ऽन्यतः" इत्यनेन विनियुक्तविनियोगनिषेधस्य न्यायेन सर्वत्र लाभादित्याहुः ।। 2.61.17 ।।



तथैवान्येनात्तमुपभुक्तपूर्वमिदं राज्यं रामो ऽभिमन्तुमङ्गीकर्तुं नालम् । नष्टसोमं भुक्तसोममध्वरं तत्स्थं सोमरूपं हविः ।। 2.61.18 ।।



वालधेः पुच्छस्य ।। 2.61.19 ।।



शार्दूलवद्बलवत्त्वमेव दर्शयति-- नैतस्येति । सहिताः सुरासुरैः सहिताः लोकाः प्रतियोधाः किमर्थं तर्हि मामाक्रम्य राज्यं न कृतवांस्तत्राह-- अधर्मं त्विति । अधर्मं तु मत्वा न तथा कृतवानिति भावः । नन्वेवं तस्य धर्मनिष्ठता कथमत आह-- इहेति । यो धर्मात्मा इह मनुष्यलोके लोकं धर्मेण योजयेत् एवं धर्मप्रवर्तकस्य तस्य धर्मनिष्ठता अनुक्तिसिद्धैवेति भावः । यद्वातुरप्यर्थे अधर्ममधर्मप्रवृत्तमपि लोकं दण्डादिना यो धर्मेण योजयेत्स कथं स्वयमधर्मं कुर्यादित्यर्थः ।। 2.61.20 ।।

रामे ऽशक्तिशङ्कापि नेत्यह-- नन्विति । काञ्चनैः काञ्चनभूषितपुङ्खैर्युगान्ते युगान्तकाले ईश्वर इव भूतानि समुद्रांश्च निर्दहेन्नाशयेच्छोषयेच्च ।। 2.61.21 ।।



पित्रा त्वया स्वयमेव स्वपुत्रो हतो भ्रष्टराज्यः कृतः । जलजेन मत्स्येन स यथात्मजानेव भक्षयति तद्वदित्यर्थः ।। 2.61.22 ।।



एवं चाहमेव हतेत्याह श्लोकत्रयेण द्विजातीत्यादि । सनातनैर्ऋ़षिभिः शास्त्रे वेदे दृष्टस्त्रैवर्णिकैर्द्विजातिभिश्चरितो धर्मो यदि ते सत्यः स्यात्तर्हि पुत्रो न विवासितः स्यादिति शेषः । एवं धर्ममुपेक्ष्य धर्मनिरते पुत्रे त्वया विवासिते सति ।। 2.61.23 ।।



शास्त्रेणोच्यमानाः स्त्रियास्तिस्रो गतयः । तत्र तासु प्रथमगतिभूतस्त्वं मम नास्येव सपत्नीवशत्वात् । "नास्ति" इति पाठ आर्षत्वं बोध्यम् । द्वितीयगतिभूतो रामश्च वनमाहितो वनं प्रहितस्त्वया । न च तत्प्राप्तये वनं गन्तुमिच्छामि सपतिकात्वात् । तृतीया ज्ञातयस्त्वसंनिहितास्तस्मात्सर्वथा हता त्वया ।। 2.61.24,25 ।।



सुतश्च भार्या च भरतकैकेय्यौ प्रहृष्टौ ।। 2.61.26 ।।



दारुणशब्दसंहितां दारुणशब्दयुक्ताम् स्वदुष्कृतं वक्ष्यमाणम् ।। 2.61.27 ।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे एकषष्टितमः सर्गः ।। 2.61 ।।





Sanskrit Commentary by Sivasahaya
राजानं प्रति कौशल्योक्तिं वर्णयितुमाह-- वनमिति । रमयतां वरे रामे वनं गते सति रुदती कौशल्या भर्तारमब्रवीत् ।। 2.61.1 ।।



तद्वचनाकारमाह-- यद्यपीति । सानुक्रोशो ऽतिदयावान् वदान्यो ऽतिवक्ता प्रियवादी प्रीत्युत्पादकवचनवान् राघवो दशरथो ऽस्तीति ते महद्यश: यद्यपि त्रिषु लोकेषु विदितं तथापि सीतया सह तौ पुत्रौ कथमत्यज इति शेष: । अनुचितं कृतमिति तात्पर्यम् । त्यागे दोषमाह-- सुखसंवृद्धौ रामलक्ष्मणौ दु:खितौ प्राप्तपित्रादिवियोगजनितदु:खविशिष्टौ सन्तौ दु:खं वनवासजनितखेदं कथं सहिष्यत: । एतेनायं त्यागस्तव यशोदूषक इव प्रतिभातीति ध्वनितम् । श्लोकद्वयमेकान्वयि ।। 2.61.2,3 ।।



सेति । श्यामाषोडशवर्षपरिमितात्वेन प्रतीयमाना मैथिली उष्णादिकं कथं विसहिष्यते ।। 2.61.4 ।।



भुक्त्वेति । सूपदंशं शोभनव्यञ्जनयुक्तमशनं भोज्यपदार्थं भुक्त्वा नैवारं नीवारसम्बन्धि वन्यमाहारं कथमुपभोक्ष्यते ।। 2.61.5 ।।



गीतेति । गीतादिकं श्रुत्वा क्रव्यादसिंहानां मांसमात्रभक्षककेसरिणामशोभनं शब्दं कथं श्रोष्यति ।। 2.61.6 ।।



महेन्द्रेति । महेन्द्रध्वजसङ्काश: सर्वोत्सवदातृत्वेन महेन्द्रध्वजसदृश: महाभुजो राम: परिघसकाशं भुजमुपधाय उपबर्हणत्वेन निधाय क्व शेते ।। 2.61.7 ।।



पद्मेति । पद्मवर्णं पद्मवद्वर्ण्यते कविभिर्गीयते यत् सुकेशान्तं सुकेशपर्यन्तं पद्मनि:श्वासं पद्मसुगन्धसदृशसुगन्धविशिष्टनि:श्वासविशिष्टं पुष्करेक्षणं कमलसदृशनेत्रविशिष्टं रामस्य वदनं मुखं कदा द्रक्ष्यामि ।। 2.61.8 ।।



वज्रसारेति । तं तादृशवदनवन्तं रामं अपश्यन्त्या मम यद्धृदयं सहस्रधा न फलति भिद्यते तद्धृदयं वज्रसारमयमुत्तमवज्रकाठिन्यसदृशकाठिन्यविशिष्टमस्तीति शेष: ।। 2.61.9 ।।



यदिति । यद्यस्मात्करुणं सदयं कर्म प्रव्राजनाभावसम्पादकं व्यापारं व्यपोह्य सन्त्यज्य सुखार्हा मम बान्धवा: अतिप्रीतिविषयीभूता रामादय: निरस्ता: प्रव्राजितास्तस्माद्धेतो: कृपणा: सन्तो वने परिधावन्ति ।। 2.61.10 ।।



यदीति । पञ्चदशे वर्षे च चतुर्दशवर्षान्ते इत्यर्थ: । यदि राघव: पुनर्नैष्यति आयाता तर्हि भरतोपि राज्यं कोशं च जह्यात्त्यक्तेत्यर्थ इत्युपलक्ष्यते अनुमीयते ।। 2.61.11 ।।



चतुर्दशवर्षान्ते आगतो ऽपि राम: चतुर्दशवर्षपर्यन्तं भरतस्य राज्यस्वामित्वाभिमानित्वे पश्चात्त्यक्तमपि राज्यं न ग्रहीष्यतीति बोधयन्ती आह-- भोजयन्तीति । ये केचित्पुरुषा: श्राद्धे स्वान् स्वकीयान् बान्धवाञ्जामात्रादीनेव अधिकदक्षिणादानादिहेतुना पूर्वं भोजयन्ति तत: पश्चात्कृतकार्या: निष्पादितश्राद्धप्रयोजना: सन्तो ऽपि द्विजोत्तमान्निमन्त्रितब्राह्मणान्समीक्षन्ते भोजनार्थं प्रतीक्षन्ते तत्र तात्कालिकप्रतीक्षणसमये ये गुणवन्तो विद्वांस: अत एव सुरोपमा देवतुल्या: द्विजातय: ते पश्चाद्भोज्यं सुधामपि अमृतवत्स्वाद्वपि पायसादिकं नाभिमन्यन्ते स्वीकुर्वन्ति श्लोकद्वयमेकान्वयि ।। 2.61.12,13 ।।



ननु शूद्रशेषभोजनस्य निषिध्यत्वेपि ब्राह्मणशेषभोजनस्य निषेधाभावात्कुतो न स्वीकुर्वन्तीत्यत आह-- ब्राह्मणेष्विति । ब्राह्मणेष्वपि वृत्तेषु पूर्वं भुक्तेषु सत्सु द्विजोत्तमा: भुक्तशेषमन्नमभ्युपेतुं स्वीकर्तुं नालं समर्था: । एतेन निष्कारणकपश्चाद्भोजने अत्याज्यमानभङ्ग: स्यादिति हेतु: सूचित: । मानस्यात्याज्यत्वे दृष्टान्त: ऋषभा: आत्मान: श्रृङ्गच्छेदमिव श्रृङ्गच्छेदे हि तेषां मानभङ्ग: इति

प्रसिद्धं यद्वा भुक्तशेषं भुक्तशेषभोजनं श्रृङ्गच्छेदमिव मानध्वंसकत्वेन प्रभुत्वविघातकमेव इति हेतो: ऋषभा: जात्यादिना श्रेष्ठा: प्राज्ञा: द्विजोत्तमा: अभ्युपेतुमङ्गीकर्तुन्नालं न समर्था: श्रृङ्गं प्रभुत्वे शिखरे चित्रे क्रीडाम्बुयन्त्रके इति मेदिनी ।। 2.61.14 ।।



दृष्टान्तमुक्त्वा दार्ष्टान्तिके नियोजयन्ति-- एवमिति । एवमनेन प्रकारेण कनीयसा कनिष्ठेन भुक्तं राज्यं ज्येष्ठो वरिष्ठो राम: किमर्थं कुत: नावमन्यते तिरस्करिष्यति तिरस्करिष्यत्येवेत्यर्थ: ।। 2.61.15 ।।



पुन: सदृष्टान्तं तदेवाह-- न परेणेति । परेणस्वातिरिक्तेनाहृतं स्वीकृतं भक्ष्यं व्याघ्र: खादितुं नेच्छति । एवं नरव्याघ्र: रामो ऽपि परालीढं स्वकीयत्वेन भरतस्वीकृतं न मन्यते मन्ता ।। 2.61.16 ।।



हविरिति । यातयामानि अध्वरान्तरविनियुक्तत्वेन परिभुक्तानि एतानि हविरादीनि अध्वरे प्रकृतयागे न कुर्वन्ति नियोजयन्ति तत्र खादिरा: खदिरादिनिर्मिता यूपा यागस्तम्भा: "जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्" इत्यमर: । न च मन्त्रा: कृष्णाजिना दर्भा इत्यादिस्मृत्या कुशानां यातयामत्वदोषास्पर्शित्वादत्र कुशोक्तिर्विरुद्धेति वाच्यं स्मृतेर्जीर्णत्वरूपयातयामत्वदोषाभावपरत्वादत एव "ब्रह्मयज्ञेषु ये दर्भा विनियुक्ता न ते ऽन्यत:" इति स्मृत्यन्तरं सङ्गच्छते ।। 2.61.17 ।।



तथेति । तथा तेन प्रकारणे आत्तं भरतेनोपभुक्तमिदं राज्यं हृतसारां हृत: सारांशो यस्यास्तां सुरामिव आध्वरमध्वरसम्बन्धि नष्टसोममुपभुक्तसोममिव अभिमन्तुं स्वीकर्तुं रामो नालम् ।। 2.61.18 ।।



नैवमिति । एवंविधमसत्कारं भवत्कर्तृकसत्काराभावं राधवो न मर्षयिष्यति असत्कारेण दत्तं राज्यं न स्वीकरिष्यतीत्यर्थ: । मर्षणाभावे दृष्टान्त: बालधे: पुच्छस्य अभिमर्शनं स्पर्शं बलवाञ्छार्दूल इव ।। 2.61.19 ।।



एतद्राज्यस्वीकाराभावे ऽपि तस्य न काचित्क्षतिरिति बोधयन्ती आह-- नैतस्येति । सहिता: हिता: पालकास्तै: सहिता: लोका: सर्वभुवनवर्तिसुरासुरा: मृधे सङ्ग्रामे एतस्य रामस्य भयं न कुर्यु: अत एव इहात्त्मिन्काले ऽपि धर्मात्मा राम: अधर्मं लोकं जनं धर्मेण योजयेत् योजयिष्यति । एतेन सर्वनियमनसमर्थस्य साक्षाद्राज्यशासने न किञ्चित्प्रयोजनमिति ध्वनितम् ।। 2.61.20 ।।



तत्सामर्थ्यमेव भङ्ग्यन्तरेणाह-- नन्विति । नन्विच्छायां सत्यां महावीर्यो ऽसौ राम: काञ्चनै: काञ्चनभूषितपुङ्खविशिष्टै: बाणै: युगान्ते प्रलयकाले इव भूतानि सागरानपि निर्दहेत् ।। 2.61.21 ।।



स इति । तादृश: अतिप्रभावविशिष्ट: स: राम: पित्रा त्वया स्वयमेव हत: ऐश्वर्यशोभायास्त्याजित: । तत्र दृष्टान्त: जलजेन कमलेन आत्मज: आत्मन: स्वस्य जो जनिर्यस्मात्सजलपदार्थो यथा यथा स्वशोभासम्पादकजलशोभां स्वातिप्रसृत्या जलजं निवारयति तथा स्वस्वातन्त्र्येण स्वशोभाजनकीभूतपुत्रशोभां भवान्निवारितवानित्यर्थ: । "जो ना मृत्युञ्जये जन्ये" इति मेदिनी । ममैवाधिक: खेद इति बोधयन्ती आह द्विजातीति । यद्य: सनातनै: ऋषिभि: शास्त्रस्मृत्यादौ धर्म: द्विजातिचरित: त्रिवर्णाधिकृत: दृष्टो बोधितस्तेन धर्मेणोपलक्षिताहं धर्मनिरते पुत्रे त्वया विवासिते सति त्वया हता धर्मरहिता कृता अत: वनं गन्तुमिच्छामि धर्मरहितत्वे हेतु: पतिरेव नार्या एका गति: धर्मरक्षक: द्वितीया गतिरात्मज: तृतीया ज्ञातयस्तत्र तेषु मध्ये त्वं मदग्रे नैवासि मूर्छितो ऽसीत्यर्थ: । राम: वनमाहित: प्राप्त: अतो न सोपी ऽह नास्ति चकारेणात एव ज्ञातयो विनष्टा: । एतेन मम धर्मनिर्वाहक: कश्चिन्नास्तीति सूचितम् । श्लोकद्वयमेकान्वयि । इतिर्हेत्वर्थे ऽव्ययं यदिति सामान्ये नपुंसकम् ।। 2.61.2225 ।।



उपसंहरन्ती आह--हतमिति । सराज्यं अन्तरङ्गराज्यसहितं राष्ट्रं बहिरङ्गराज्यं त्वया हतं विनाशितमत एव मन्त्रिभि: सह सर्वा: प्रजा हता: अत एव सपुत्राहं हतास्मि अत एव पौरा हता: । ननु सर्वेषां विद्यमानत्वात्कथमिदमुच्यते इत्यत आह तव प्रहृष्टौ त्वन्निष्ठहर्षे एव सुतो रामादिरस्ति भार्या अस्मदादिरप्यस्ति चकारेण राष्ट्रादयो ऽपि सन्ति अन्यथा सर्वेषां विनाश इत्यर्थ: ।। 2.61.26 ।।



इममिति । दारुणशब्दसंहितां प्रातिभासिककठिनत्वविशिष्टशब्दविशिष्टामिमां कौशल्योक्तां गिरं निशम्य मामेति कृत्वा मुमोह ततो मोहानन्तरं दु:खित: पार्थिव: स्वदुष्कृतं स्वकीयाया दुष्कृतमकालिकवरयाचनं स्मरन्सन् शोकं प्रविवेश ।। 2.61.27 ।।



इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकषष्टितम: सर्ग: ।। 2.61 ।।